अथर्ववेदः/काण्डं १/सूक्तम् २९

विकिस्रोतः तः
← सूक्तं १.२८ अथर्ववेदः - काण्डं १
सूक्तं १.२९
वसिष्ठः।
सूक्तं १.३० →
दे. ब्रह्मणस्पतिः, अभीवर्तमणिः। अनुष्टुप्।

अभीवर्तेन मणिना येनेन्द्रो अभिवावृधे ।
तेनास्मान् ब्रह्मणस्पतेऽभि राष्ट्राय वर्धय ॥१॥
अभिवृत्य सपत्नान् अभि या नो अरातयः ।
अभि पृतन्यन्तं तिष्ठाभि यो नो दुरस्यति ॥२॥
अभि त्वा देवः सविताभि षोमो अवीवृधत्।
अभि त्वा विश्वा भूतान्यभीवर्तो यथाससि ॥३॥
अभीवर्तो अभिभवः सपत्नक्षयणो मणिः ।
राष्ट्राय मह्यं बध्यतां सपत्नेभ्यः पराभुवे ॥४॥
उदसौ सूर्यो अगादुदिदं मामकं वचः ।
यथाहं शत्रुहोऽसान्यसपत्नः सपत्नहा ॥५॥
सपत्नक्षयणो वृषाभिरष्ट्रो विषासहिः ।
यथाहमेषां वीराणां विराजानि जनस्य च ॥६॥

सायणभाष्यम्

षष्ठेऽनुवाके सप्त सूक्तानि । तत्र 'अभीवर्तेन' इति प्रथमं सूक्तम् । अस्य आद्याभिश्चतसृभिर्ऋग्भिः शत्रुमर्दितराष्ट्राभिवृद्धये रथचक्रनेमिमणिं सूत्रोक्तलक्षणं कृत्वा संपात्य अभिमन्त्र्य 'उदसौ सूर्यः' ( अ १,२९,५, ६ ) इति उत्तमाभ्यां बध्नीयात् । तथा च कौशिकः -“'अभीवर्तेन' इति रथनेमिमणिम् अयःसीसलोहरजतताम्रवेष्टितं हेमनाभिं वासितं बध्नाति सूत्रोतं बर्हिषि कृत्वा संपातवन्तं *[भृष्टीः] प्रत्यृचम् अभीवर्तोत्तमाभ्याम् आचृतति' (कौसू १६, २९) इति ।

'माहेन्द्रीं राज्यकामस्य अद्भुतोत्पत्तिविकारेषु च' (शाक १७,३) इति विहितायां माहेन्द्र्यां महाशान्तौ रथनेमिमणिबन्धने एतत् सूक्तम् । तथा च शान्तिकल्पे--“'अभीवर्तेन' इति रथनेमिमणिं माहेन्द्र्याम्” (शाक १७, ४) इति ।


अभीवर्तेन मणिना येनेन्द्रो अभिवावृधे ।

तेनास्मान् ब्रह्मणस्पतेऽभि राष्ट्राय वर्धय ॥१॥

अभिऽवर्तेन । मणिना । येन । इन्द्रः । अभिऽववृधे ।

तेन । अस्मान् । ब्रह्मणः । पते। अभि। राष्ट्राय । वर्धय ॥१॥

येन समृद्धिसाधनत्वेन प्रसिद्धेन अभीवर्तेन । अभितो वर्तते चक्रम् अनेनेति अभीवर्तो नेमिः। वृतु वर्तने । अस्मात् 'अकर्तरि च कारके संज्ञायाम्' (पा ३,३,१९) इति करणे घञ् । 'उपसर्गस्य घञ्यमनुष्ये बहुलम्' (पा ६,३,१२२) इति दीर्घः। 'थाथघञ्क्ताजबित्रकाणाम्' (पा ६,२,१४४) इति उत्तरपदान्तोदात्तत्वम् । अत्र कार्ये कारणशब्दः। चक्रनेमिनिर्मितो मणिः । यद्वा अभितः सर्वतः परराष्ट्रादौ अप्रतिहतगतिर्वर्तते अनेन पुरुष इति अभीवर्तो मणिः । तेन मणिना धृतेन इन्द्रः देवानाम् अधिपतिर्देवः अभिवावृधे अभितः सर्वतः प्रवृद्धोऽभूत् । परमैश्वर्योपेतस्त्रिलोकीपतिर्बभूवेत्यर्थः । वृधु वृद्धौ । अस्मात् लिटि 'तुजादीनां दीर्घोभ्यासस्य' (पा ६,१,७) इत्यभ्यासस्य दीर्घः। प्रत्ययस्वरेण अन्तोदात्तत्वम् । 'यद्वृत्तान्नित्यम् (पा ८,१.६६) इति निघातप्रतिषेधः। हे ब्रह्मणस्पते वेदराशेरधिपते । 'षष्ठ्याः पतिपुत्र' (पा ८,३,५३) इति विसर्जनीयस्य सत्वम् । 'सुबामन्त्रिते पराङ्गवत् स्वरे' (पा २,१,२) इति षष्ठ्यन्तस्य पराङ्गवद्भावात् षष्ठ्यामन्त्रितसमुदायस्य 'आमन्त्रितस्य च' (पा ८,१,१९) इति आष्टमिकं सर्वानुदात्तत्वम् । एतत्संज्ञक देव तेन प्रागुदीरितमहिमोपेतेन मणिना अस्मान् शत्रुभिः पीडितान् राष्ट्राय । तादर्थ्ये चतुर्थी । स्वराष्ट्राभिवृद्ध्यर्थम् अभिवर्धय करितुरगधनादिभिः समृद्धान् कुरु । त्वत्प्रसादात् समृद्धैरस्माभी रक्षितं राष्ट्रं शत्रुभयरहितं यथा अभिवृद्धं भवति तथा कुरु इत्यर्थः।।


अभिवृत्य सपत्नान् अभि या नो अरातयः ।

अभि पृतन्यन्तं तिष्ठाभि यो नो दुरस्यति ॥२॥

अभिऽवृत्य । सऽपत्नान्। अभि । याः। नः। अरातयः।

अभि । पृत॒न्यन्तम् । तिष्ठ । अभि । यः । नः । दुरस्यति ॥२॥

हे अभीवर्त मणे त्वं सपत्नान् । सपत्नीव सपत्नाः सहजशत्रवः। अस्मदीयांस्तान् शत्रून् अभिवृत्य अभिमुखं पर्यावृत्य । तिष्ठेति वक्ष्यमाणक्रिया अत्रापि संबध्यते। त्वमेव प्रतिपक्षी भूत्वा तान् पराकुरु इत्यर्थः । तथा याः नः अस्माकम् अरातयः अदातारः अस्मदीयं राष्ट्रधनादिकम् अपहृत्य शात्रवं कुर्वाणा बाह्याः शत्रवः तानपि । अभि इत्युपसर्गश्रवणात् तिष्ठेति संबन्धः । अभिमुखं तिष्ठ । तथा पृतन्यन्तम् युद्धार्थं पृतनां सेनाम् आत्मन इच्छन्तम् । पृतनाशब्दात् 'सुप आत्मनः क्यच्' (पा ३,१,८) इति क्यच् । 'कव्यध्वरपृतनस्यर्चि लोपः' (पा ७,४,३९) इत्याकारलोपः। युद्धोन्मुखमपि शत्रुम् अभि तिष्ठ । तथा यः शत्रुः नः अस्माकं दुरस्यति दुष्टम् अभिचारादिरूपं क्षुद्रं कर्म कर्तुम् इच्छति । 'दुरस्युर्द्रविणस्युर्वृषण्यति रिषण्यति' (पा ७,४,३६) इति क्यचि दुष्टशब्दस्य दुरस्भावो निपात्यते । तथाविधमपि शत्रुम् अभितिष्ठ । शप्तिपोः पित्त्वाद् अनुदात्तत्वे क्यच्स्वरेण मध्योदात्तत्वम् । 'यद्वृत्तान्नित्यम्' (पा ८,१,६६) इति निघातप्रतिषेधः।।


अभि त्वा देवः सविताभि षोमो अवीवृधत्।

अभि त्वा विश्वा भूतान्यभीवर्तो यथाससि ॥३॥

अभि। त्वा । देवः। सविता। अभि । सोमः । अवीवृधत् ।

अभि । त्वा । विश्वा । भूतानि । अभिऽवर्तः । यथा । अससि ॥३॥

हे मणे त्वा त्वां देवः द्योतनात्मकः सविता सर्वस्य प्राणिजातस्य प्रेरकः एतत्संज्ञको देवः । अभि इत्युपसर्गश्रवणाद् अवीवृधत् इति क्रिया अत्रापि संबध्यते । अभ्यवीवृधत् अभितः समृद्धम् अकार्षीत् । वृधु वृद्धौ । अस्मात् ण्यन्तात् लुङि चङि गुणे प्राप्ते 'नित्यं छन्दसि' (पा ७,४,८) इति उपधऋवर्णस्य ऋकारादेशः । तथा सोमो देवः अभ्यवीवृधत् । 'व्यवहिताश्च' (पा १,४,८२) इति उपसर्गस्य व्यवहितप्रयोगः। तथा हे मणे त्वा त्वां विश्वा विश्वानि निखिलानि । 'शेश्छन्दसि बहुलम्' (पा ६,१,७०) इति शेर्लोपः। भूतानि । *[भवन्ति सत्तां लभन्त इति भूतानि चराचरात्मकानि। 'क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः' (पा ३,४,७६ ) इति भवतेः कर्तरि क्तप्रत्ययः । उपसर्गश्रवणाद् अत्रापि प्रकृतक्रियासंबन्धः । अभ्यवीवृधन् । अभिवर्धनाविधिम् आह -- यथा येन प्रकारेण हे मणे त्वम् अभीवर्तः त्वद्धारयितुः पुरुषस्य अभितः स्वराष्ट्रपरराष्ट्रादौ वर्तनसाधनभूतः अससि भवसि तथा त्वाम् अवीवृधन् इति पूर्वेण संबन्धः। अस भुवि । 'बहुलं छन्दसि' (पा २,४,७३) इति शपो लुगभावः । ‘यावद्यथाभ्याम्' (पा ८,१,३६ ) इति निघातप्रतिषेधः ।


अभीवर्तो अभिभवः सपत्नक्षयणो मणिः ।

राष्ट्राय मह्यं बध्यतां सपत्नेभ्यः पराभुवे ॥४॥

अभिऽवर्तः । अभिऽभवः । सपत्नऽक्षयणः । मणिः ।

राष्ट्राय । मह्यम् । बध्यताम् । सऽपत्नेभ्यः । पराऽभुवे ॥ ४ ॥

अभीवर्तः अभिवर्तनसाधनभूतः। तत्र हेतुम् आह -- अभिभवः शत्रूणाम् अभिभविता। अभिभवनं विशिनष्टि--सपत्नक्षयणः सपत्नानां भ्रातृव्याणां क्षयकरः । यत एवम् अतः अभीवर्त इत्यर्थः। तादृशो मणिः मह्यम् । षष्ट्यर्थे चतुर्थी । 'ङयि च' (पा ६,१,२१२ ) इत्याद्युदात्तत्वम् । मम बध्यताम् । बन्ध बन्धने। कर्मणि लोट् । मणिबन्धनप्रयोजनम् आह - राष्ट्राय राष्ट्राभिवृद्धये। तथा सपत्नेभ्यः। पूर्ववत् षष्ट्यर्थे चतुर्थी । भ्रातृव्याणां पराभुवे पराभवनाय । परापूर्वाद् भवतेः संपदादिलक्षणो भावे क्विप् । बध्यमानोऽयं मणिः पूर्वं शत्रुभिः पीडितस्य स्वराष्ट्रस्य अभिवृद्धिं, बाधकानां शत्रूणां नाशनं च करोतु इत्यर्थः।


उदसौ सूर्यो अगादुदिदं मामकं वचः ।

यथाहं शत्रुहोऽसान्यसपत्नः सपत्नहा ॥५॥

उत् । असौ । सूर्यः । अगात् । उत् । इदम् । मामकम् । वचः ।

यथा । अहम् । शत्रुऽहः । असानि । असपत्नः । सपत्नऽहा ॥ ५ ॥

असौ नभोमण्डले परिदृश्यमानः सूर्यः सर्वस्य प्राणिजातस्य प्रेरको देवः। 'राजसूयसूर्यं' (पा ३,१,११४ ) इत्यादिना क्यपि निपात्यते । उदगात् उदितवान् । इण् गतौ । 'इणो गा लुङि' (पा २,४,४५) इति गादेशः। 'गातिस्था' (पा २,४,७७ ) इति सिचो लुक् । किंच मामकम् मदीयम् इदम् अधुनोच्चार्यमाणं वचः आत्मनो जयाशंसात्मकं शत्रूणाम् अभिभवप्रतिपादकं च वाक्यम् । यद्वा जयोद्देशेन प्रयुज्य मानं मन्त्रात्मकं वाक्यम् । उत् इति उपसर्गश्रवणात् प्रकृतक्रियासंबन्धः। उदगात् । मामकम् इति । अस्मच्छब्दात् 'तस्येदम्' (पा ४,३,१२० ) इत्यण् । 'तवकममकावेकवचने' (पा ४,३,३) इत्यस्मदो ममकादेशः। सूर्योदयस्य वाग्व्यवहारस्य च प्रतिदिनं सत्त्वेऽपि विशेषतस्तत्कथनस्य प्रयोजनम् आह -- अहम् अभीवर्तमणिधारकः यथा येन प्रकारेण शत्रुहः शत्रूणां हन्ता असानि भवानि। हन हिंसागत्योः। 'आशिषि हनः' (पा ३,२,४९) इति डप्रत्ययः । अस्तेर्लोटि 'आडुत्तमस्य पिच्च' (पा ३,४,९२) इति आडागमः । 'यावद्यथाभ्याम् ' (पा ८,१,३६) इति निघातप्रतिषेधः। मिपि पित्त्वाद् अनुदात्तत्वे 'आगमा अनुदात्ताः' (पाम ३,१,३) इति आटोपि अनुदात्तत्वे धातुस्वरेण आद्युदात्तत्वम् । यथाहम् एवं भवानि तथा उदगाद् इति पूर्वेण संबन्धः। मणिप्रभावात् अद्यतनसूर्योदयः अधुनाप्रयुज्यमानवचश्च शत्रुहननानुकूलम् अभूद् इत्यर्थः। यत एवम् अतः अहम् असपत्नः शत्रुरहित एव । यदि च सपत्ना भवेयुस्तर्हि सपत्नहा सपत्नानां शत्रूणां हन्ता अस्मि । हन्तेः 'क्विप् च' (पा ३,२,७६ ) इति क्विप् ।


सपत्नक्षयणो वृषाभिरष्ट्रो विषासहिः ।

यथाहमेषां वीराणां विराजानि जनस्य च ॥६॥

सपत्नऽक्षयणः । वृषा । अभिऽराष्ट्रः । विऽससहिः ।

यथा । अहम् । एषाम् । वीराणाम् । विऽराजानि । जनस्य । च ॥ ६ ॥

उत्तरवाक्ये यथेति श्रवणात् पूर्ववाक्येऽपि अर्थात् तथेत्यध्याह्रियते। सपत्नक्षयणः सपत्नानां शत्रूणां नाशकः। क्षि क्षये । 'नन्दिग्रहिपचादिभ्यः” ( पा ३,१,१३४ ) इति कर्तरि ल्युप्रत्ययः । अतः वृषा प्रजानाम् इष्टफलस्य वर्षकः । वृष सेचने । 'कनिन् युवृषि ( पाउ १,१५६ ) इत्यादिना कनिन्प्रत्ययः । अत एव अभिराष्ट्रः स्वराष्ट्रं परराष्ट्रं च अभिगतः अधिपतित्वेन प्राप्तः । 'अत्यादयः क्रान्ताद्यर्थे द्वितीयया' (पावा २,२,१८) इति प्रादिसमासः । अतो विषासहिः विविधं पुनःपुनः परेषां सोढा अभिभविता । षह अभिभवे । अस्माद् यङन्तात् 'सहिवहिचलिपतिभ्यो यङन्तेभ्यः किकिनौ वक्तव्यौ' ( पावा ३,२ १७१ ) इति किप्रत्ययः । अतोलोपयलोपौ । मणिप्रभावाद् एवंगुणविशिष्टः तथा भूयासम् । कथम् इत्यत आह -- अहम् मणिधारकः यथा येन प्रकारेण एषाम् शत्रुसंबन्धिनां पूर्वम् आत्मनो बाधकानां वीराणाम् शत्रुभटानां जनस्य स्वकीयस्य परकीयस्य प्राणिजातस्य च विराजानि । राजतिरैश्वर्यकर्मा । नियन्ता भवानि । तथेति पूर्वेण संबन्धः । उदीरितगुणोपेतः सन् मणिप्रभावात् शत्रुप्रभृतीनां सर्वेषां शासिता भवामीति भावः । यद्वा उक्तगुणोपेतः सन् अहं वीराणां जनस्य च यथा विराजानि हे मणे त्वत्प्रभावात् तथा । भूयासम् इति शेषः। इति षष्ठेऽनुवाके प्रथमं सूक्तम् ।