ऋग्वेदः सूक्तं ८.८९
← सूक्तं ८.८८ | ऋग्वेदः - मण्डल ८ सूक्तं ८.८९ नृमेध- पुरुमेधावाङ्गिरसौ। |
सूक्तं ८.९० → |
दे. इन्द्रः। १-४ प्रगाथः - विषमा बृहती, समा सतोबृहती, ५-६ अनुष्टुप्, ७ बृहती। |
बृहदिन्द्राय गायत मरुतो वृत्रहन्तमम् ।
येन ज्योतिरजनयन्नृतावृधो देवं देवाय जागृवि ॥१॥
अपाधमदभिशस्तीरशस्तिहाथेन्द्रो द्युम्न्याभवत् ।
देवास्त इन्द्र सख्याय येमिरे बृहद्भानो मरुद्गण ॥२॥
प्र व इन्द्राय बृहते मरुतो ब्रह्मार्चत ।
वृत्रं हनति वृत्रहा शतक्रतुर्वज्रेण शतपर्वणा ॥३॥
अभि प्र भर धृषता धृषन्मनः श्रवश्चित्ते असद्बृहत् ।
अर्षन्त्वापो जवसा वि मातरो हनो वृत्रं जया स्वः ॥४॥
यज्जायथा अपूर्व्य मघवन्वृत्रहत्याय ।
तत्पृथिवीमप्रथयस्तदस्तभ्ना उत द्याम् ॥५॥
तत्ते यज्ञो अजायत तदर्क उत हस्कृतिः ।
तद्विश्वमभिभूरसि यज्जातं यच्च जन्त्वम् ॥६॥
आमासु पक्वमैरय आ सूर्यं रोहयो दिवि ।
घर्मं न सामन्तपता सुवृक्तिभिर्जुष्टं गिर्वणसे बृहत् ॥७॥
सायणभाष्यम्
बृहदिन्द्राय' इति सप्तर्चं नवमं सूक्तम् । नृमेधपुरुमेधावृषी । तौ चानुक्तत्वादाङ्गिरसौ । आदितो द्वौ प्रगाथौ पञ्चमीषष्ठ्यावनुष्टुभौ सप्तमी बृहती । इन्द्रो देवता। तथा चानुक्रम्यते- बृहदिन्द्राय सप्त नृमेधपुरूमेधौ द्व्यनुष्टुब्बृहत्यन्तम्' इति । चातुर्विंशिकेऽहनि मरुत्वतीये प्राकृतान्मरुत्वतीयात्प्रगाथादूर्ध्वं द्वौ मरुत्वतीयौ प्रगाथौ शंसनीयौ। बृहदिन्द्राय गायत' इत्ययमाद्यः प्रगाथः । पृष्ठ्याभिप्लवषडहयोः द्वितीयेऽहन्ययं प्रगाथः । सूत्रितं च - बृहदिन्द्राय गायत नकिः सुदासो रथमिति मरुत्वतीया ऊर्ध्वं नित्यात्' (आश्व. श्रौ. ७. ३) इति ॥
बृ॒हदिन्द्रा॑य गायत॒ मरु॑तो वृत्र॒हन्त॑मम् ।
येन॒ ज्योति॒रज॑नयन्नृता॒वृधो॑ दे॒वं दे॒वाय॒ जागृ॑वि ॥१
बृ॒हत् । इन्द्रा॑य । गा॒य॒त॒ । मरु॑तः । वृ॒त्र॒हम्ऽत॑मम् ।
येन॑ । ज्योतिः॑ । अज॑नयन् । ऋ॒त॒ऽवृधः॑ । दे॒वम् । दे॒वाय॑ । जागृ॑वि ॥१
बृहत् । इन्द्राय । गायत । मरुतः । वृत्रहम्ऽतमम् ।
येन । ज्योतिः । अजनयन् । ऋतऽवृधः । देवम् । देवाय । जागृवि ॥१
हे "मरुतः । ‘रु शब्दे'। मितं रुवन्तीति मरुतः । हे मितभाषिणः स्तोतारः “वृत्रहंतमम् अतिशयेन पापविनाशनं "बृहत् साम “इन्द्राय इन्द्रार्थं “गायत अस्मदीययज्ञे गानं कुरुत । “ऋतावृधः सत्यस्य यज्ञस्य वा वर्धका विश्वे देवाः "देवाय द्योतमानायेन्द्राय "देवं देवनशीलं --- “जागृवि सर्वेषां जागरणशीलं "ज्योतिः सूर्यं “येन साम्ना “अजनयन् इन्द्रार्थमुदपादयन् तत्साम गायतेति ॥
अपा॑धमद॒भिश॑स्तीरशस्ति॒हाथेन्द्रो॑ द्यु॒म्न्याभ॑वत् ।
दे॒वास्त॑ इन्द्र स॒ख्याय॑ येमिरे॒ बृह॑द्भानो॒ मरु॑द्गण ॥२
अप॑ । अ॒ध॒म॒त् । अ॒भिऽश॑स्तीः । अ॒श॒स्ति॒ऽहा । अथ॑ । इन्द्रः॑ । द्यु॒म्नी । आ । अ॒भ॒व॒त् ।
दे॒वाः । ते॒ । इ॒न्द्र॒ । स॒ख्याय॑ । ये॒मि॒रे॒ । बृह॑द्भानो॒ इति॒ बृह॑त्ऽभानो । मरु॑त्ऽगण ॥२
अप । अधमत् । अभिऽशस्तीः । अशस्तिऽहा । अथ । इन्द्रः । द्युम्नी । आ । अभवत् ।
देवाः । ते । इन्द्र । सख्याय । येमिरे । बृहद्भानो इति बृहत्ऽभानो । मरुत्ऽगण ॥२
“अशस्तिहा स्तोत्रशंसनरहितानां शत्रूणां हन्ता इन्द्रः “अभिशस्तीः । ‘शसु हिंसायाम् । अभितो हिंसा येषां ते । तादृशान् । यद्वा । अभिशस्तीः शत्रुकृता हिंसाः । “अपाधमत् अपागमयत् । “अथ शत्रुहननानन्तरम् “इन्द्रः “द्युम्नी सर्वत्र द्योतमानयशोयुक्तः । यद्वा । तेषां धनापहरणेन धनादिमान् । “आभवत् सर्वतः प्रसिद्धोऽभवत् । अथोत्तरार्धः प्रत्यक्षकृतः । हे “बृहद्भानो बृंहणशीलतेजस्क महादीप्ते वा “मरुद्गण । मरुतां सप्त गणा यस्य सन्ति स तथोक्तः । तादृश हे “इन्द्र “देवाः द्योतमानाः सर्वे देवाः “सख्याय आत्मनः सखिभावाय “ते त्वां “येमिरे नियच्छन्ति ।
अग्निष्टोमे मरुत्वतीये ‘प्र व इन्द्राय' इत्ययं मरुत्वतीयः प्रगाथः । सूत्रितं च- प्र व इन्द्राय बृहत इति मरुत्वतीयः प्रगाथः' ( आश्व. श्रौ. ५. १४) इति ॥
प्र व॒ इन्द्रा॑य बृह॒ते मरु॑तो॒ ब्रह्मा॑र्चत ।
वृ॒त्रं ह॑नति वृत्र॒हा श॒तक्र॑तु॒र्वज्रे॑ण श॒तप॑र्वणा ॥३
प्र । वः॒ । इन्द्रा॑य । बृ॒ह॒ते । मरु॑तः । ब्रह्म॑ । अ॒र्च॒त॒ ।
वृ॒त्रम् । ह॒न॒ति॒ । वृ॒त्र॒ऽहा । श॒तऽक्र॑तुः । वज्रे॑ण । श॒तऽप॑र्वणा ॥३
प्र । वः । इन्द्राय । बृहते । मरुतः । ब्रह्म । अर्चत ।
वृत्रम् । हनति । वृत्रऽहा । शतऽक्रतुः । वज्रेण । शतऽपर्वणा ॥३
हे “मरुतः मितराविणः स्तोतारः “बृहते महते “वः स्तुत्यस्तोतृत्वलक्षणेन संबन्धेन युष्मदीयाय “इन्द्राय “ब्रह्म सामलक्षणं स्तोत्रं “प्र “अर्चत प्रोच्चारयत । ततः “वृत्रहा वृत्रस्य पापस्य वा हन्ता “शतक्रतुः शतविधकर्मा बहुविधप्रज्ञो वेन्द्रः “शतपर्वणा शतसंख्याकधारेण "वज्रेण एतन्नामकेनायुधेन "वृत्रम् अपामावरकं वृत्राख्यमसुरं “हनति युष्माभिरभिष्टुतः सन् हन्तु । हन्तेर्लेट्यडागमः ॥
अ॒भि प्र भ॑र धृष॒ता धृ॑षन्मन॒ः श्रव॑श्चित्ते असद्बृ॒हत् ।
अर्ष॒न्त्वापो॒ जव॑सा॒ वि मा॒तरो॒ हनो॑ वृ॒त्रं जया॒ स्व॑ः ॥४
अ॒भि । प्र । भ॒र॒ । धृ॒ष॒ता । धृ॒ष॒त्ऽम॒नः॒ । श्रवः॑ । चि॒त् । ते॒ । अ॒स॒त् । बृ॒हत् ।
अर्ष॑न्तु । आपः॑ । जव॑सा । वि । मा॒तरः॑ । हनः॑ । वृ॒त्रम् । जय॑ । स्वः॑ ॥४
अभि । प्र । भर । धृषता । धृषत्ऽमनः । श्रवः । चित् । ते । असत् । बृहत् ।
अर्षन्तु । आपः । जवसा । वि । मातरः । हनः । वृत्रम् । जय । स्वः ॥४
हे “धृषन्मनः शत्रूणां धर्षणशीलमनस्केन्द्र “ते तवैव "बृहत् महत् अतिप्रभूतम् “श्रवः अन्नम् “असत् अस्ति । तदन्नं “धृषता धृष्टेन मनसा युक्तः सन् अस्मभ्यम् "अभि “प्र "भर आभिमुख्येन प्रकर्षेण संपादय । देहीत्यर्थः । हे इन्द्र "मातरः अस्माकमुत्पादनहेतुत्वान्मातृभूताः । कथमपां मातृत्वम् । ‘ अद्भ्यः पृथिवी पृथिव्या ओषधयः' (तै. उ. २. १) इत्यादिश्रुतेः । तादृश्यः “आपः "जवसा वेगेन “वि “अर्षन्तु विविधं भूमिं प्रति गच्छन्तु । कथमापो गच्छन्तीति चेत्तदाह । “वृत्रम् अपामावरितारं शत्रुं मेघं “हनः जहि ताडय । ततो मेघभेदनेनोदकानि विगच्छन्तु । पुनरपि “स्वः सर्वं भूतजातं "जय ।।
प्रथमे स्वरसाम्नि निष्केवल्ये यज्जायथा अपूर्व्य ' इति स्तोत्रियः । तथा च सूत्र्यते-- ‘ तेषां स्तोत्रिया यज्जायथा अपूर्व्य' ( आश्व. श्रौ. ८. ५) इति ॥
यज्जाय॑था अपूर्व्य॒ मघ॑वन्वृत्र॒हत्या॑य ।
तत्पृ॑थि॒वीम॑प्रथय॒स्तद॑स्तभ्ना उ॒त द्याम् ॥५
यत् । जाय॑थाः । अ॒पू॒र्व्य॒ । मघ॑ऽवन् । वृ॒त्र॒ऽहत्या॑य ।
तत् । पृ॒थि॒वीम् । अ॒प्र॒थ॒यः॒ । तत् । अ॒स्त॒भ्नाः॒ । उ॒त । द्याम् ॥५
यत् । जायथाः । अपूर्व्य । मघऽवन् । वृत्रऽहत्याय ।
तत् । पृथिवीम् । अप्रथयः । तत् । अस्तभ्नाः । उत । द्याम् ॥५
हे “अपूर्व्य त्वत्तो व्यतिरिक्तेन पूर्व्येण वर्जित हे “मघवन् मंहनीयधनवन्निन्द्र “वृत्रहत्याय वृत्रासुरहननाय “यत् यदा त्वं “जायथाः उत्पन्नः प्रादुर्भूतोऽसि “तत् तदानीमेव “पृथिवीं प्रथमानाम् “अप्रथयः प्रसिद्धां दृढामकरोः । “उत अपि च “तत् तदानीमेव “द्यां द्युलोकमन्तरिक्षेण “अस्तभ्नाः निरुद्धामकार्षीः । एतादृशं वीर्यं त्वदन्यस्य न संभवतीत्यर्थं द्योतयितुमपूर्व्येति पदम् ॥
तत्ते॑ य॒ज्ञो अ॑जायत॒ तद॒र्क उ॒त हस्कृ॑तिः ।
तद्विश्व॑मभि॒भूर॑सि॒ यज्जा॒तं यच्च॒ जन्त्व॑म् ॥६
तत् । ते॒ । य॒ज्ञः । अ॒जा॒य॒त॒ । तत् । अ॒र्कः । उ॒त । हस्कृ॑तिः ।
तत् । विश्व॑म् । अ॒भि॒ऽभूः । अ॒सि॒ । यत् । जा॒तम् । यत् । च॒ । जन्त्व॑म् ॥६
तत् । ते । यज्ञः । अजायत । तत् । अर्कः । उत । हस्कृतिः ।
तत् । विश्वम् । अभिऽभूः । असि । यत् । जातम् । यत् । च । जन्त्वम् ॥६
हे इन्द्र यद्यदा त्वमजायथाः “तत् तदानीं “ते त्वदर्थं “यज्ञः अग्निष्टोमादिः “अजायत सोमपानार्थमभूत् । “उत अपि च तदानीं “हस्कृतिः । ‘ हसे हसने । हासकारी प्रीत्यर्थं क्रियमाणो हर्षस्य सूचकः “अर्कः अर्चनीयो मन्त्रोऽप्यजायत । किंच तदा “यज्जातं भूतजातं “यच्च “जन्त्वम् । कृत्यार्थे त्वन्प्रत्ययः । जनितव्यं यत् “विश्वम् अस्ति “तत् सर्वम् “अभिभूरसि स्वमहिम्नाभिभूतवानसि ।।
आ॒मासु॑ प॒क्वमैर॑य॒ आ सूर्यं॑ रोहयो दि॒वि ।
घ॒र्मं न साम॑न्तपता सुवृ॒क्तिभि॒र्जुष्टं॒ गिर्व॑णसे बृ॒हत् ॥७
आ॒मासु॑ । प॒क्वम् । ऐर॑यः । आ । सूर्य॑म् । रो॒ह॒यः॒ । दि॒वि ।
घ॒र्मम् । न । साम॑न् । त॒प॒त॒ । सु॒वृ॒क्तिऽभिः॑ । जुष्ट॑म् । गिर्व॑णसे । बृ॒हत् ॥७
आमासु । पक्वम् । ऐरयः । आ । सूर्यम् । रोहयः । दिवि ।
घर्मम् । न । सामन् । तपत । सुवृक्तिऽभिः । जुष्टम् । गिर्वणसे । बृहत् ॥७
हे इन्द्र “आमासु अपक्वासु गोषु “पक्वं पयः “ऐरयः प्रैरयश्च । तथा मन्त्रः - ‘ आमासु चिद्दधिषे पक्वमन्तः' (ऋ. सं. १. ६२. ९) इति । किंच “दिवि द्युलोके “सूर्यम् “आ “रोहयः च । पूर्वं पणयो नामासुरा अङ्गिरसां गा अपहृत्यान्धकारावृते कस्मिंश्चित्पर्वते ताः स्थापितवन्तः । ततोऽङ्गिरस इन्द्रं स्तुत्वा गाः पुनरस्मभ्यमाहरेति तैरुक्त इन्द्रो गवां स्थानं तमसावृतं दृष्ट्वा तत्र गोदर्शनाय द्युलोके सर्वप्रकाशकं सूर्यमारोहितवान् । स्थापितवानसि । 'चादिलोपे विभाषा' इति पूर्वस्यैरय इत्यस्य न निघातः । अथ परोक्षकृतोऽर्धर्चः । हे स्तोतारः “सुवृक्तिभिः शोभनाभिः स्तुतिभिः “तपत इन्द्रं तीक्ष्णीकुरुत । इन्द्रं स्तुतिभिः प्रवर्धयतेत्यर्थः । तत्र दृष्टान्तः । “घर्मं “न । यथा घर्मं दीपनशीलं प्रवर्ग्यं सामन् । 'सुपा सुलुक्°' इति तृतीयाया लुक् । सामभिर्यथा तपन्ति तद्वत् । ततः “गिर्वणसे गीर्भिर्वननीयायेन्द्राय “जुष्टं प्रीतिकरं पर्याप्तं वा “बृहत् साम गायत ॥ ॥ १२ ॥
टिप्पणी
दशरात्रः -- यद्वै नेति न प्रेति यत्स्थितं तद्द्वितीयस्याह्नो रूपं.......बृहदिन्द्राय गायतेति मरुत्वतीयः प्रगाथो - ऐ.ब्रा. ४.३१
यद्वै नेति न प्रेति यत्स्थितं तदष्टमस्याह्नो रूपं......बृहदिन्द्राय गायतेति द्वितीयेनाह्ना समान आतानोऽष्टमेऽहनि अष्टमस्याह्नो रूपम् - ऐब्रा. ५.१८
बृहदिन्द्राय इति द्वितीये अहनि माध्यन्दिनीये मरुत्वतीयम् - ऐ.आ. १.२.१.१२
८.८९.५ यज्जायथा इति
स्वरसामानि (आरण्यकगेयः)
मण्डल ८ | ||||||
---|---|---|---|---|---|---|