योगवासिष्ठः/प्रकरणम् ४ (स्थितिप्रकरणम्)/सर्गः ४४

विकिस्रोतः तः
Jump to navigation Jump to search


चतुश्चत्वारिंशः सर्गः ४४

श्रीराम उवाच ।
क्रमेणानेन येनाप्ता जीवेन स्थितिरात्मनः ।
स कथं भगवन्देहं समाधत्तेऽस्थिपञ्जरम् ।। १
श्रीवसिष्ठ उवाच ।
पूर्वमेव मया प्रोक्तं राम किं नावबुध्यसे ।
पूवापरविचारार्हा शेमुषी क्व गता तव ।। २
यदिदं हि शरीरादि जगत्स्थावरजङ्गमम् ।
आभासमात्रमेवेतदसत्स्वप्नमिवोत्थितम् ।। ३
दीर्घस्वप्नो ह्ययं राम मिथ्यैवानघ दृश्यते ।
द्विचन्द्रविभ्रमाकारं भ्रमान्तर्भ्रान्तशैलवत् ।। ४
प्रशान्ताज्ञाननिद्रस्तु नूनं गलितभावनः ।
प्रबुद्धचेताः संसारस्वप्नं पश्यन्न पश्यति ।। ५
स्वभावकल्पितो राम जीवानां सर्वदैव हि ।
आमोक्षपदसंप्राप्ति संसारोऽस्त्यात्मनोऽन्तरे ।। ६
जीवस्य तरलः काय आवर्तः पयसो यथा ।
यथा बीजेऽङ्कुरः स्फारः पल्लवः स्वाङ्कुरे यथा ।। ७
पल्लवे च यथा पुष्पं पुष्पकोशे फलं यथा ।
यतः स कल्पनारूपो देहोऽस्ति मनसोऽन्तरे ।। ८
बहुरूपतया राम यतोऽस्त्येकतमः स्फुटः ।
स एव प्रतिभासोऽस्य मनसः किल जायते ।। ९
स एवाशु भवत्येतन्मृत्पिण्डो घटकोपमः ।
आदिसर्गे पुरा कायः प्रतिभासोऽस्य चोत्तमः ।। १०
यस्मादेष विभुर्ब्रह्मा पद्मकोशगृहस्थितः ।
तत्संकल्पक्रमेणैव ततः स्थितिमुपागता ।। ११
इयं सृष्टिरपर्यन्ता मायेव घनमायया ।
श्रीराम उवाच ।
जीवो मनःपदं प्राप्य वैरिञ्चं पदमागतः ।। १२
यथा ब्रह्मंस्तथा सर्वं विस्तरेण वदाशु मे ।
श्रीवसिष्ठ उवाच ।
ब्राह्मे श्रृणु महाबाहो शरीरग्रहणे क्रमम् ।। १३
निदर्शनेन तेनैव जागतीं ज्ञास्यसि स्थितिम् ।
दिक्कालाद्यनवच्छिन्नमात्मतत्त्वं स्वशक्तितः ।। १४
लीलयैव यदादत्ते दिक्कालकलितं वपुः ।
तदैव जीवपर्यायं वासनावेशतत्परम् ।। १५
मनः संपद्यते लोलं कलनाकलनोन्मुखम् ।
कलयन्ती मनःशक्तिरादौ भावयति क्षणात् ।। १६
आकाशभावनामच्छां शब्दबीजरसोन्मुखीम् ।
ततस्तां घनतां यातं घनस्पन्दक्रमान्मनः ।। १७
भावयत्यनिलस्पन्दं स्पर्शबीजरसोन्मुखम् ।
ताभ्यामाकाशवाताभ्यामदृष्टाभ्यां मनोदृशा ।। १८
शब्दस्पर्शस्वरूपाभ्यां संघाताज्जन्यतेऽनलः ।
मनस्तद्धनतां प्राप्य ततो भावयति क्षणात् ।। १९
प्राकाश्यममलालोकमालोकस्तेन वर्धते ।
मनस्तावद्गुणगतं रसतन्मात्रवेदनम् ।। २०
क्षणार्धेन त्वपां शैत्यं जलसंवित्ततो भवेत् ।
ततस्तादृग्गुणगतं मनो भावयति क्षणात् ।। २१
स्वरूपं गन्धवत्स्थूलं येनोदेष्यति मेदिनी ।
अथेत्थंभूततन्मात्रवेष्टितं तनुतां जहत् ।। २२
वपुर्वह्निकणाकारं स्फुरितं व्योम्नि पश्यति ।
अहंकारकलायुक्तं बुद्धिबीजसमन्वितम् ।। २३
तत्पुर्यष्टकमित्युक्तं भूतहृत्पद्मषट्पदम् ।
तस्मिंस्तु तीव्रसंवेगाद्भावयद्भास्वरं वपुः ।। २४
स्थूलतामेति पाकेन मनो बिल्वफलं यथा ।
मूषास्थद्रुतहेमाभं स्फुरितं विमलाम्बरे ।। २५
सन्निवेशमुपादत्ते तत्तेजः स्वस्वभावतः ।
तस्मिन्स्वसन्निवेशे च तेजःपुञ्जमये पुनः ।। २६
भजते भावनां स्फारां निश्चितामातताम्बराम् ।
ऊर्ध्वं शिरःपीठमयीमधःपादमयीं तथा ।। २७
पार्श्वयोर्हस्तसंस्थानां मध्ये चोदरधर्मिणीम् ।
प्रकटावयवो बालो ज्वालामालामलाकृतिः ।। २८
मनोरथवशोपात्तवपुस्तिष्ठत्यसावथ ।

एवं स्ववासनावेशात्कलिताङ्गो मनोमुनिः ।। २९
नयत्युपचयं देहं स्वस्वभावमृतुर्यथा ।
कालेन स्फुटतामेति भवत्यमलविग्रहः ।। ३०
बुद्धिसत्त्वबलोत्साहविज्ञानैश्वर्यसंस्थितः ।
स एव भगवान्ब्रह्मा सर्वलोकपितामहः ।। ३१
द्रवत्कनकसंकाशः परमाकाशसंभवः ।
यथासौ परमाकाशे तिष्ठत्यपररूपवान् ।। ३२
जनयत्यात्मनो मोहमात्मस्थं चित्तलीलया ।
कदाचित्केवलं व्योम परमं पारवर्जितम् ।। ३३
अनादिमध्यपर्यन्तं कदाचिदमलं पयः ।
कदाचित्कल्पकालाग्निज्वालाभास्वरमण्डकम् ।। ३४
कदाचित्काननं कार्ष्ण्यं कालं कमलकुड्मलम् ।
अन्यान्यन्यान्यनेकानि प्रतिजन्मावधिः प्रभुः ।। ३५
कल्पयन्पालयत्येष नानारूपाणि हेलया ।
तत्रेदंप्रथमत्वेन यदैष ब्रह्मणः पदात् ।। ३६
अवतीर्णस्तदाऽज्ञानात्तथैव सुखमस्मृतम् ।
गर्भनिद्राव्यपगमे वपुः पश्यति भास्वरम् ।। ३७
प्राणापानप्रवाहाढ्यं द्रव्यैरिव विनिर्मितम् ।
रोमकोटिभिराकीर्णं द्वात्रिंशद्दशनान्वितम् ।। ३८
त्रिस्थूणं पञ्चदैवत्यमधश्चरणलाञ्छितम् ।
पञ्चभागं नवद्वारं त्वग्लेपमसृणाङ्गकम् ।। ३९
युक्तमङ्गुलिविंशत्या नखविंशतिलाञ्छितम् ।
द्विबाहुं द्विस्तनं द्व्यक्षं बह्वक्षिभुजमेव च ।। ४०
नीडं चित्तविहङ्गस्य नीडं मन्मथभोगिनः ।
तृष्णापिशाच्या निलयं जीवकेसरिकन्दरम् ।। ४१
अभिमानगजालानं मानसाम्भोजशोभितम् ।
अथालोच्य वपुर्ब्रह्मा कान्तमात्मीयमुत्तमम् ।। ४२
चिन्तयामास भगवांस्त्रिकालामलदर्शनः ।
अस्मिन्नाकाशकुहरे तते मधुपलाञ्छिते ।। ४३
अदृष्टपारपर्यन्ते प्रथमं किमभूदिति ।
इतिचिन्तितवान्ब्रह्मासद्योजातोऽमलात्मदृक् ।। ४४
अपश्यत्सर्गवृन्दानि समतीतान्यनेकशः ।
अथ सस्मार सकलान्सर्वान्धर्मगणान्क्रमात् ।। ४५
वसन्तः कुसुमानीव वेदानादाय संस्तुतान् ।
लीलया कल्पयामास चित्रसंकल्पजाः प्रजाः ।। ४६
नानाचारसमाचारं गन्धर्वनगरे यथा ।
तासां स्वर्गापवर्गार्थं धर्मकामार्थसिद्धये ।। ४७
अनन्तानि विचित्राणि शास्त्राणि समकल्पयत् ।
दृष्टिरेवमियं राम सर्गेऽस्मिन्स्थितिमागता ।
विरिञ्चिरूपान्मनसः पुष्पलक्ष्मीर्मधोरिव ।। ४८
विविधविरचनैः क्रियाविलासैः
कमलजरूपधरेण चेतसैव ।
रघुसुत परिकल्पनेन नीता
स्थितिमतुलां जगतीह सर्गलक्ष्मीः ।। ४९
इत्यार्षे श्रीवासिष्ठमहारामायणे वा० मो० स्थितिप्रकरणे संसारावतरणप्रतिपादनोपदेशो नाम चतुश्चत्वारिंशः सर्गः ।। ४४ ।।