सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/प्रपाठकः ०३ख/गौषूक्तम् (यदिन्द्राहं)

विकिस्रोतः तः
गौषूक्तं-आश्वसूक्तम्.
गौषूक्तं - आश्वसूक्तम्.

यदिन्द्राहं तथा त्वमीशीय वस्व एक इत् ।
स्तोता मे गोसखा स्यात् ॥१२२ ॥ ऋ. ८.१४.१


(१२२।१) ॥ गौषूक्तम् । गौषूक्तिर्गायत्रीन्द्रः ॥

यदिन्द्राहंयथौ । हौहोवाहाइ । तुवाम् ॥ ईशीयवस्वऔऽ२। हुवाइ । हुवाये । काईऽ२त् ॥ स्तोतामेगोसखौऽ२ । हुवाइ । हुवाये॥ सायाऽ२३त् । होऽ२वाऽ२३४औहोवा ।। अग्निराहुताऽ२३४५:॥

(जौ । १९८) (दी० १२ । प० १३ । मा० १० )१८


(१२२।२) ॥ आश्वसूक्तम् । आश्वसूक्तिर्गायत्रीन्द्रः॥

आऔहोवाहाइ । यदिन्द्राहाम् ॥ यथा । त्वम् । ऐहीयैहीऽ१ । आइशीयवस्वआइकइत् ॥ ऐहीयैहीऽ१॥ आऽ२इ । स्तोताऽ२माइऽगो२ ।। सखाऽ२३ । साऽ२याऽ२३४औहोवा ।। शुक्रआहुताऽ२३४५:॥

(छी । १९९) ( दी १२ । प० १२ । मा० १४) १९


[सम्पाद्यताम्]

टिप्पणी

अथ गौषूक्तं बहिर्निधनं बार्हतम्। तस्माद् बार्हते ऽहन् क्रियते। गौषूक्तिश् च वा आश्वसूक्तिश् चैषौ। तौ ह बहु प्रतिगृह्य गरगिराव् इव मेनाते। ताव् अकामयेताम् - अपेमं गरं गीर्णं हनीवहीति। ताव् एते सामनी अपश्यताम्। ताभ्याम् अस्तुवाताम्। तयोर् अन्यतरो ऽग्निर् आहुत इत्य् एवेमं लोकम् अभिनिराजुहोत्। अग्निं ह वा अस्मिन् लोके न किञ्चनातिरिच्यते। शुक्र आहुत इत्य् एवान्यतरो ऽमुं लोकम् अभिनिराजुहोत्। आदित्यम् उ ह वा अमुष्मिन् लोके न किञ्चनातिरिच्यते। ततो वै तौ तं गरं गीर्णम् अपाघ्नाताम्। तत एनयोर् यथा द्विदतः कुमारस्य सातं स्याद्, एवं सातम् आस। यो गरगीर् मन्येताप्रतिगृह्यस्य प्रतिगृह्यानाश्यान्नस्यान्नम् अशित्वा, स एताभ्यां स्तुवीत। अप हैव तं गरं गीर्णं हते। यद् एनेन किं च पापं कृतं भवति, तद् अपहते। ते उ पञ्चाक्षरणिधने भवतः - पञ्चपदा वै पंक्तिः पांक्ताः पशवः। पशवश् छन्दोमाः - पशूनाम् एवावरुद्धयै। यद् उ गौषूक्तिश् चाश्वसूक्तिश् चैषाव् अपश्यतां तस्माद् गौषूक्ताश्वसूक्ते इत्य् आख्यायते॥जैब्रा ३.२५१