कौषीतकिब्राह्मणम्/अध्यायः २६

विकिस्रोतः तः
← अध्यायः २५ कौषीतकिब्राह्मणम्
अध्यायः २६
[[लेखकः :|]]
अध्यायः २७ →
सोमयागः(छन्दोमाः)


२६.१ गवामयनशस्त्रे अह्नां क्रमः
द्वात्रिंशी प्रथमो मासो द्वात्रिंश्य् उत्तमः । द्वात्रिंशद् अक्षर अनुष्टुप् । वाग् अनुष्टुप् । तद् वाचा प्रयन्ति । वाचम् अनूत्त्तिष्ठन्ति । अष्टाविंशिनाव् अभितो विषुवन्तम् मासौ । अष्टाविंशत्य् अक्षर उष्णिक् । औष्णिह्यो ग्रीवाः । अथ एतत् शिरो यज्ञस्य यद् विषुवान् । ग्रीवा एव तत् कल्पयित्वा तासु शिरः प्रतिदधति । तद् आहुः कतरेषाम् एषो अह्नाम् अवरेषाम् परेषाम् इति । न अवरेषाम् न परेषाम् इत्य् आहुः । उभयेषाम् वा एषो अह्नाम् । उभयानि वै तस्य एतान्य् अहानि । तद् आहुः कति षडहाः संवत्सर इति । षष्टिः षडहाः षडहशः । तद् एतद् अव्यवलम्बि संवत्सर अयणम् । तद् य एवम् संवत्सरस्य अहानि युञ्जन्ति । त एतान्त् सर्वान् कामान् ऋध्नुवन्ति ये संवत्सरे । अथ ये अतो अन्यथा संवत्सरस्य अहानि युञ्जन्ति । न ते तान्त् सर्वान् कामान् ऋध्नुवन्ति ये संवत्सरे । अथ ह एक ऊर्ध्वान् एव मासान् उपयन्त्य् ऊर्ध्वान्य् अहानि । ऊर्ध्वम् वा उ वयम् संवत्सरम् रोहाम इति वदन्तः । मासा एव आवर्तेरन् न अहानि इत्य् एके । य एव एष पृष्ठ्यः षडहः पुनः परस्तात् पर्येति तेन मासा आवृत्ता इति वदन्तः । तद् आहुर् विदूर रूपम् वा एतद् यत् त्रिवृच् च त्रयस् त्रिंशश् च स्तोमौ । तद् यथा गिरि शिखरात् कर्तम् अभि प्रस्कन्देद् एवम् तत् स्तोम कृन्तत्रम् । तस्माद् एव अहानि वर्तेरन् । नो मासा अस्तोम कृन्तत्रताया इति ।

२६.२ गौर्दिनमायुर्दिनं च
अथ अतो गो आयुषोर् मीमांसा । विहृते गो आयुषी उपेयुः । अहोरात्रे वै गो आयुषी । विहृते वा इमे अहोरात्रे अन्योन्यस्मिन् । अथो द्यावा पृथिवी वै गो आयुषी । विहृते वा इमे द्यावा पृथिवी अन्योन्यस्मिन् । अथो प्राण अपानौ वै गो आयुषी । विहृतौ वा इमौ प्राण अपानाव् अन्योन्यस्मिन् प्रतितिष्ठतः । ते ह एक ऊर्ध्वे उपयन्त्य् ऊर्ध्वे उपेतव्ये गो आयुषी इति । अन्वाभिप्लविकाः स्तोमा आवर्तत्न्ते दशरात्रम् अनुपृष्ठ्यस् स्तोमा इति वदन्तः । तद् यद् एव इदम् द्वितीयम् अहर् यच् च तृतीयम् एते वा उ गो आयुषी ।

२६.३ प्रायश्चित्तानि
अथ कश्चित् शस्त्रे वा अनुवचने वा प्रमत्त उपहन्याद् विचिकित्सा वा स्याद् उपहतम् अबुद्धम् अतिक्रान्तम् मन्यमानो मनसा वृत्त अन्तम् ईक्षमाणो विनिवृत्य उपहतम् अनुपहतम् कृत्वा आनन्तर्यात् प्रयोगः स्याद् वृत्त अन्ताद् इति मीमांसन्ते । अथ ह स्म आह पैङ्ग्यो न आनन्तर्यात् प्रयोगः स्याद् अतिरिक्तो वा एष मन्त्रः स्याद् यो अवचनाद् द्विर् उच्यते । तस्मान् न आन्तर्यात् प्रयोगः स्याद् इति ह स्म आह पैङ्ग्यः । अथ ह स्म आह कौषीतकिः परिमित फलानि वा एतानि कर्माणि येषु परिमितो मन्त्र गणः प्रयुज्यते । अथ अपरिमित फलानि येषु अपरिमितो मन्त्र गणः प्रयुज्यते । मनो वा एतद् यद् अपरिमितम् प्रजापतिर् वै मनो यज्ञ उ वै प्रजापतिः स्वयम् वै तद् यज्ञो यज्ञस्य जुषते यन् मनो मनसस् तस्माद् आनन्तर्यात् प्रयोगः स्याद् इति ह स्म आह कौषीतकिर् । मितम् ह वै मितेन जयत्य् अमितम् अमितेन अपरिमितस्य अवरुद्ध्या अनुल्बणम् एतद् इति ह स्म आह कौषीतकिर् । न आहुतिम् जुहुयात् तथा ह यजमानः स्वर्गांल् लोकान्त् सर्वान् कामान् सर्वा अष्टीः सर्वम् च अमृतत्वम् आप्नोति सर्वेषाम् च भूतानाम् श्रैष्ठ्यम् स्वाराज्यम् आधिपत्यम् पर्येति यस्य एवम् क्रियते ।

२६.४ प्रायश्चित्तानि
अथ यद्य् ऊर्ध्वम् परिधानात् प्रणव वषट् कारयोर् वा ऊर्ध्वम् याज्या पुरोनुवाक्ययोर् बुध्येत अतिक्रान्तम् उल्बणम् एतस्याम् वेलायाम् भवति इति ह स्म आह प्रागहिः । तस्मान् न एतस्याम् वेलायाम् अतिक्रान्तम् उल्बणम् सदस्यो बोधयेत इति ह स्म आह पैङ्ग्यः । स्थाणुम् वा ऋच्छति गर्ते वा पतति धीयते वा प्र वा मीयत इति ह स्म आह यद्य् अतिक्रान्तम् उल्बणम् सदस्यो बोधयेत । कृतस्य अनावृत्तिर् इति ह स्म आह आरुणिर् गुण लोप इति श्वेतकेतुस् तस्मान् न अतिक्रान्तम् उल्बणम् सदस्यो बोधयेत इति ह स्म आह पैङ्ग्यः । अंहो वा एतद् यज्ञस्य यद्य् अतिक्रान्तम् उल्बणम् सदस्यो बोधयेत इति तस्मान् न अतिक्रान्तम् उल्बणम् सदस्यो बोधयेत इति ह स्म आह पैङ्ग्यः ।

२६.५ प्रायश्चित्तानि
अथ ह स्म आह दैवोदासिः प्रतर्दनो नैमिषीयाणाम् सत्रम् उपगम्य उपास्यद् य विचिकित्साम् पप्रच्छ यद्य् अतिक्रान्तम् उल्बणम् सदस्यो बोधयेत ऋत्विजाम् वा अन्यतमो बुध्येत कथम् वो अनुल्बणम् स्यात् इति । त उ ह तूष्णीम् आसुस् तेषाम् अलीकयुर् वाचस्पतो ब्रह्मा आस स ह उवाच न अहम् एतद् वेद हन्त पूर्वेषाम् आचार्यम् स्थविरम् जातूकर्ण्यम् पृछानि इति । तम् ह पप्रच्छ यद्य् अतिक्रान्तम् उल्बणम् कर्ता वा स्वयम् बुध्येत अन्यो वा बोधयेत कथम् तद् उल्बणम् अनुल्बणम् भवेत् पुनर् वचनम् वा निगदम् वा याज्याम् वा यद् वा अन्यत् सर्वम् तत् पुनर् ब्रूयाद् इति यावन् मात्रम् उल्बणम् तावद् ब्रूयाद् ऋचम् वा अर्धर्चम् वा पादम् वा पदम् वा वर्णम् वा इति ह स्म आह जातूकर्ण्यः । अथ ह स्म आह कौषीतकिर् न मन्त्रम् पुनर् ब्रूयान् न आहुतिम् जुहुयाद् अनुल्बणम् एतद् इति ह स्म आह कौषीतकिः । यद्द् हि होतारो यज्ञस्य किंचिद् उल्बणम् अबुध्यमानाः कुर्वन्ति सर्वम् तद् अग्निर् दैवो होता अनुल्बणम् करोति तद् एतद् ऋचा अभ्युदितम् ।

२६.६ प्रायश्चित्तानि
यत् पाकत्रा मनसा दीन दक्षा न यज्ञस्य मन्वते मर्त्यासः अग्निष्टद्धोता क्रतुविद् विजानन् यजिष्ठो देवाँ ऋतुशो यजाति इति यच् च आह संस्थिते यज्ञे अयाड् ( अयाद् ) यज्ञम् जातवेदा इत्य् अयाक्षीद् इमम् यज्ञम् जातवेदा इति तद् आह अन्तरः पूर्वो अस्मिन् निषद्य इति यद् आह अग्निर् ह दैवो होता मानुषाद्द् होतुः पूर्वो निषद्य यजत इति तद् आह आशिषम् एव उत्तरेण अर्धर्चेन वदति पूर्वया वा ऋचा ।

२६.७ छन्दोमाः - सामान्यनिर्वचनम्
षष्ठे वा अहन् देवाः स्तोमांश् च मासांश् च आप्नुयुः । त आप्त्वा स्तोमान् एतान् एव पृष्ठ्य स्तोमान् द्वन्द्वम् समास्यन् । कुतो ह्य् अन्यम् स्तोमम् आहरिष्यन् । ताव् एतौ त्रिवृत् पञ्चदशौ स्तोमौ सप्तमम् अहर् वहतश् चतुर् विंश स्तोमो भूत्वा । अथ एतौ सप्तदश त्रिणवौ नवमम् अहर् वहतो अष्टा चत्वारिंश स्तोमो भूत्वा । अथ एताव् एकविंश त्रयस् त्रिंशौ स्तोमौ नवमम् अहर् वहतो अष्टा चत्वारिंश स्तोमो भूत्वा । तेषाम् गायत्र्या प्रथमो मितस् त्रिष्टुभा द्वितीयो जगत्या तृतीयः । तद् यच् छन्दोभिर् मिताः । तस्माच् छन्दोमाः । अथ याः षट् स्तोत्रिया अष्टा चत्वारिंशम् स्तोमम् अतियन्ति । तास् ता ऋतव इत्य् आहुः । षड्ड् ह्य् ऋतवः । ताभिर् दशमम् अहस् तायते ।

२६.८ प्रथमछन्दोमः
अन्तः षष्ठम् अहः । अथ पुनस् ततिर् एव सप्तमम् अहः । तस्मात् ततवन्ति सप्तमे अहन्त् सूक्तानि शस्यन्ते प्रायणीय रूपेण । पुनः प्रायणीयम् हि सप्तमम् अहः । प्र वः शक्राय भावने भरध्वम् इत्य् आज्य प्रवत् । प्रवद् वै प्रथमस्य अह्नो रूपम् । त्रैष्टुभः प्रउगः । प्र वीरया शुचयो दद्रिरे वाम् इति वायव्यम् प्रवत् । प्रवद् वै प्र्थमस्य अह्नो रूपम् । अत एव उत्तरम् तृचम् ऐन्द्रावायवम् ते सत्येन मनसा दीध्याना इति । स्वेन युक्तासः क्रतुना वहन्ति इति युक्तवत् । युक्तवद् वै प्रथमस्य अह्नो रूपम् । उद् वाम् चक्षुर् वरुण सुप्रतीकम् इति मैत्रावरुणम् । देवयोर् एति सूर्यस् ततन्वान् इति ततवत् । ततवद् वै सप्तमस्य अह्नो रूपम् । आ गोमता नासत्या रथेन आ नो देव शवसा याहि शुष्णिन् प्र वो यज्ञेषु देवयन्तो अर्चन्प्र क्षोदसा धायसा सस्र एष इति । एहि वा वै प्र इति वा प्रायणीय रूपम् । तस्माद् आवन्ति च प्रवन्ति च सप्तमे अहन्त् सूक्तानि शस्यन्ते प्रायणीय रूपेण । पुनः प्रायणीयम् हि सप्तमम् अहः । तद् आहुर् यत् किंच छन्दः प्रातः सवने युज्येत अर्धर्चश एव तस्य शस्त्रम् इति गायत्र्यै रूपेण अथो प्रातःसवन रूपेण इति । तद् उ ह स्म आह कौषीतकिः । न त्रिष्टुब् जगत्याव् एतत् स्थाने अर्धर्चशः शस्त्राय । यद्य् अपि प्रातः सवने युज्येताम् । पच्छ एव एनयोः शस्त्रम् इति सा स्थितिः । बृहत् पृष्ठम् राथन्तरम् शस्त्रम् । तन् मिथुनम् प्रजात्यै रूपम् ।

२६.९ प्रथमछन्दोमः
कया शुभा सवयसः सनीडा इति मरुत्वतीयम् । तद् एतत् संज्ञा श्रीः सूक्तम् । एतेन ह वा इन्द्रश् च मरुतश् च समजानत । अभिसंजानते ह वा अस्मै स्वा श्रैष्ठ्याय य एवम् वेद । कया मती कुत एतास एत इत्य् आवद् राथन्तरम् । त्यम् सु मेषम् महया स्वर्विदम् इति जागतम् । ऐन्द्रम् ववृत्याम् अवसे सुवृक्तिभिर् इत्य् आवद् राथन्तरम् । त्रैष्टुभ जागते जागतम् जगन् मध्यंदिनो ह्य् एष त्र्यहः । तद् आहुर् यद् रथन्तरम् पृष्ठम् सप्तमस्य अह्न आयतनेन अथ कस्माद् अन्वहम् बृहत् क्रियत इति । तानि वा एतान्य् अहानि महा स्तोमानि भवन्ति । तस्माद् अन्वहम् बृहत् क्रियते । एतेषाम् एव अह्नाम् सबलतायै । एतेषाम् छन्दोमानाम् असमवप्लुताया इति । बृहत आतानम् शस्त्वा रथन्तरस्य योनिम् शंसति । न आह एव नः पिता यो अन्य वादम् सा एव आसीद् इति ह स्म आह कौषीतकिः । यत्र तु क्वच एते सामनी समाने अहन्त् सन्निपतेताम् । अन्व् एव तत्र इतरस्य इतरस्य वा योनिम् अनुशंसेत् । यद्य् उ कण्व रथन्तरम् कुर्युः । न अस्य योनिम् अनुशंसेत् । न ह्य् अन्येषाम् पृष्ठानाम् योनिः शस्या भवति इति । तम् उ ष्टुहि यो अभिभूत्य् ओजा त्यम् मेषम् पुरु हूतम् ऋग्मियम् इत्य् उभे अभिवती । तद् राथन्तरम् रूपम् । त्रैष्टुभ जागते जागतम् जगन् मध्यंदिनो ह्य् एष त्र्यहः । द्वे द्वे सूक्ते निष्केवल्य मरुत्वतीययोः शस्येते प्रथमे छन्दोमे । द्विपाद् यजमानः । प्रतिष्ठित्यै । तानि चत्वारि सम्पद्यन्ते । पशवो वै छन्दोमाः । चतुष्टया वै पशवः । अथो चतुष्पादाः पशूनाम् एव आप्त्यै ।

२६.१० प्रथमछन्दोमः
तत् सवितुर् वरेण्यम् इति सावित्रम् । धियो यो नः प्रचोदयाद् इति प्रवत् । प्रवद् वै प्रथमस्य अह्नो रूपम् । प्रेताम् यज्ञस्य शम्भुवा इति द्यावा पृथिवीयम् प्रवत् । प्रवद् वै प्रथमस्य अह्नो रूपम् । अयम् देवाय जन्मन इत्य् आर्भवम् । स्तोमो विप्रेभिर् आसय इत्य् आवत् । आवद् वै प्रथमस्य अह्नो रूपम् । ऋजु नीती नो वरुण इति[१] वैश्वदेवम् नीतवत् । नीतवद् वै सप्तमस्य अह्नो रूपम् । आ अयाहि वनसा सह इति द्विपदा आवत् । आवद् वै प्रथमस्य अह्नो रूपम् । ओमासश् चर्षणी धृत इति वैश्वदेवम् । विश्वे देवास आ गत इत्य् आवत् । आवद् वै प्रथमस्य अह्नो रूपम् । गायत्रम् गायत्र तृतीय सवनो ह्य् एष त्र्यहः । वैश्वानरो न ऊतय इति वैश्वानरीयम् । आ प्र यातु परावत इत्य् आवत् । आवद् वै प्रथमस्य अह्नो रूपम् । प्र यद् वस् त्रिष्टुभम् इषम् इति मारुतम् प्रवत् । प्रवद् वै प्रथमस्य अह्नो रूपम् । अर्चन्तस् त्वा हवामह इति जातवेदसीयम् । त्वया यज्ञम् वि तन्वत इति ततवत् । ततवद् वै सप्तमस्य अह्नो रूपम् । गायत्रम् गायत्र तृतीय सवनो ह्य् एष त्र्यहः । इत्य् आग्निमारुत सूक्तानि । इत्य् एतस्य अह्नः सूक्तानि । तद् उक्थ्यम् संतिष्ठते । तस्य साप्तिर् या प्रथमस्य अह्नः ।

२६.११ द्वितीयछन्दोमः
अयम् वै लोकः प्रथमश् छन्दोमः । अन्तरिक्ष लोको द्वितीयः । असौ लोकः उत्तमः । तस्मान् महद्वन्ति मध्यमे अहन्त् सूक्तानि शस्यन्ते । महद्द् हि इदम् अन्तरिक्षम् । अथो अभ्यारब्धवन्ति स्युः । परम् एव एतद् अहर् अभिवदति । परम् एव एतद् अहर् अभ्यारभ्य वसन्ति इति ह स्म आह कौषीतकिः । अग्निः वो देवम् अग्निभिः सजोषा इत्य् आज्यम् । यदा महः संवरणाद् व्यस्थाद् इति महद्वत् सद् अभ्यारब्धवत् । त्रैष्टुभः प्रउगः । कुविद् अङ्ग नमसा ये वृधास इति वायव्यम् वृद्धवत् । महद्वद्द् ह्य् एतद् अहः । अत एव उत्तरम् तृचम् ऐन्द्र वायवम् यावत् तरस् तन्वो यावद् ओज इति । यावन् नरश् चक्षसा दीध्याना इत्य् अभ्यारब्धवत् । प्रति वाम् सूर उदिते सूक्तैर् इति मैत्रावरुणम् । मित्रम् हुवे वरुणम् पूत दक्षम् इत्य् अभ्यारब्धवत् । अप स्वसुर् उषसो नग् जिहीत इत्य् आश्विनम् । अश्वा मघा गो मघा वाम् हुवेम इत्य् अभ्यारब्धवत् । अयम् सोम इन्द्र तुभ्यम् सुन्व इत्य् ऐन्द्रम् । ब्रह्मन् वीर ब्रह्म कृतिम् जुषाण इत्य् अभ्यारब्धवत् । प्र ब्रह्माणो अङ्गिरसो नक्षन्त इति वैश्वदेवम् । प्र क्रन्दनुर् नभन्यस्य वेत्व् इत्य् अभ्यारब्धवत् । उत स्या नः सरस्वती जुषाण इति सारस्वतम् । वर्ध शुभ्रे स्तुवते रासि वाजान् इति वृद्धवत् । महद्वद्द् ह्य् एतद् अहः । राथन्तरम् पृष्ठम् बार्हतम् शस्त्रम् । तन् मिथुनम् प्र्जात्यै रूपम् ।

२६.१२ द्वितीयछन्दोमः
महान् इन्द्रो नृवदा चर्षणिप्रा इति त्रैष्टुभानाम् प्रथमम् मरुत्वतीयानाम् । महद्वत् सद् अभ्यारब्धवत् । इमा उ त्वा पुरुतमस्य कारोर् इति द्वितीयम् । हव्यम् वीर हव्या हवन्त इत्य् अभ्यारब्धवत् । क्व स्य वीरः को अपश्यद् इन्द्रम् इति तृतीयम् । सुख रथम् ईयमानम् हरिभ्याम् इत्य् अभ्यारब्धवत् । महश्चित् त्वम् इन्द्र यत एतान् इति चतुर्थम् । महश्चिद् असि त्यजसो वरूत इति महद्वद् सद् अभ्यारब्धवत् । तम् अस्य द्यावा पृथिवी सचेतसा इति पञ्चमम् । यदा एतत् कृण्वानो महिमानम् इन्द्रियम् इति महद्वत् सद् अभ्यारब्धवत् । त्रैष्टुभ जागते जागतम् जगन् मध्यंदिनो ह्य् एष त्र्यहः । त्वम् महान् इन्द्र तुभ्यम् ह क्षा इति त्रैष्टुभानाम् प्रथमम् निष्केवल्यानाम् । महद्वत् सद् अभ्यारब्धवत् । त्वम् महान् इन्द्र यो ह शुष्मैर् इति द्वितीयम् महद्वत् । महद्वद्द् ह्य् एतद् अहः । अपूर्व्या पुरुतमान्य् अस्मा इति तृतीयम् । महे वीराय तवसे तुराय इति महद्वत् सद् अभ्यारब्धवत् । ताम् सु ते कीर्तिम् मघवन् महित्वा इति चतुर्थम् । महद्वत् सद् अभ्यारब्धवत् । इमाम् ते धियम् प्र भरे महो महीम् इति पञ्चमम् । महद्वद् सद् अभ्यारब्धवत् । त्रैष्टुभ जागते जागतम् जगन् मध्यंदिनो ह्य् एष त्र्यहः । पञ्च पञ्च सूक्तानि निष्केवल्य मरुत्वतीययोः शस्यन्ते मध्यमे छन्दोमे । पशवो वै छन्दोमाः । पाङ्क्ताः पशवः । पशूनाम् एव आप्त्यै । तानि दश सम्पद्यन्ते । दश दशिनी विराट् । श्रीर् विराड् अन्नाद्यम् । श्रियो विराजो अन्न अद्यस्य उपाप्त्यै ।

२६.१३ द्वितीयछन्दोमः
हिरण्य पाणिम् ऊतय इति सावित्रम् । अपाम् नपातम् अवस इति महद्वत् सद् अभ्यारब्धवत् । मही द्यौः पृथिवी च न इति द्यावा पृथिवीयम् महद्वत् । महद्वद्द् ह्य् एतद् अहः । युवाना पितरा पुनर् इत्य् आर्भवम् । इन्द्रेण च मरुत्वताद् इत्य् एभिश् च राजभिर् इत्य् अभ्यारब्धवत् । देवानाम् इद् अवो महद् इति वैश्वदेवम् । वामम् नो अस्त्व् अर्यमन् वामम् वरुण शंस्यम् इति महद्वत् सद् अभ्यारब्धवत् । इमा नु कम् भुवना सीषधाम इति द्विपदाः । इन्द्रश् च विश्वे च देवा इत्य् अभ्यारब्धवत् । विश्वे देवा ऋता वृध इति वैश्वदेवम् वृद्धवत् । महद्द् ह्य् एतद् अहः । गायत्रम् गायत्र तृतीय सवनो ह्य् एष त्र्यहः । वैश्वानरो अजीजनद् इति वैश्वानरीयम् । क्ष्मया वृधान ओजसा इति वृद्धवत् । महद्वत् सद् अभ्यारब्धवत् । [२]कद्द् ह नूनम् कध प्रिय इति मारुतम् अभ्यारब्धवत् । दूतम् वो विश्व वेदसम् इति जात वेदसीयम् । अग्ने मृड महान् असि इति वा । अष्टर्चम् अष्टमस्य अह्नः । पूर्वम् तु स्थितम् । महान् आरोधनम् दिव इति महद्वत् सद् अभ्यारब्धवत् । पूर्वम् तु स्थितम् । महान् आरोधनम् दिव इति महद्वत् सद् अभ्यारब्धवत् । गायत्रम् गायत्र तृतीय सवनो ह्य् एष त्र्यहः । इत्य् आग्नि मारुत सूक्तानि । इत्य् एतस्य अह्नः सूक्तानि । तद् उक्थ्यम् संतिष्ठते । तस्य सा आप्तिर् या द्वितीयस्य अह्नः ।

२६.१४ तृतीयछन्दोमः
अन्तो गतिर् नवमम् अहः । असौ द्यौर् असौ लोकः । तस्माद् गतवन्ति नवमे अहन्त् सूक्तानि शस्यन्ते । अगन्म महा नमसा यविष्ठम् सोमस्य मा तवसम् वक्ष्य् अग्न इत्य् एते उभे तद् आज्यम् । अगम्न इति गतवत् । तद् अन्त रूपम् । अन्तो नवमम् अहः । एति इव वा गन्तम् गत्वा । कद्र्यन् हि तत इयात् । अस्थुर् अत्र धेनवः पिन्वमाना इति स्थितवत् । तद् अन्त रूपम् । अन्तो नवमम् अहः । तिष्ठति इव वा अन्तम् गत्वा । कद्र्यन् हि तत इयात् । अगन्म महा नमसा यविष्ठम् इत्य् एतद् एव तृचम् आज्यम् स्याद् इति ह स्म आह पैङ्ग्यः । अगन्म इति गतवत् । तद् अन्त रूपम् । अन्तो नवमम् अहः । ऐति ( एति आ इति ?) इव वीत इति ह स्म ह कौषीतकिः । सोमस्य मा तवसम् वक्ष्य् अग्न इत्य् एतद् उपसंशंसेत् । तस्य तद् एव अन्त रूपम् यद् भूत अनुवादि प्राञ्चम् यज्ञम् चकृम दिवः शशासुर् इति । यद् एतद् भूतम् इव अभि । अत्र न्व् आ अपि स्तोमो न व्याप्तव्य इति ह स्म आह पैङ्ग्यः । यद्य् ऋग्भिर् एव स्तोमो व्याप्यत इति । अक्षरैर् ह ऋक् स्तोमम् व्यश्नुते । अक्षरैर् ह पदैर् वा निविद् वा पुरोरुग् वा ऋचम् । व्याप्तो ह वा उ तत्र स्तोमो भवति यत्र निविद् वा पुरोरुग् वा शस्यते । तस्माद् व्याप्यत एव । तृचम् आज्यम् स्याद् यद् अदः पैङ्ग्यस्य वचसा । उभे इति त्व् एव स्थितम् । एतेन ह वा अह्ना वसिष्ठश् च विश्वामित्रश् च समजानताम् । अभिसंजानते ह वा अस्मै स्वा श्रैष्ठ्याय य एवम् वेद । तस्माद् उभे एव स्याताम् । वासिष्ठम् पूर्वम् वैश्वामित्रम् उत्तरम् । त्रैष्टुभः प्रउगः ।

२६.१५ तृतीयछन्दोमः
आ वायो भूष शुचिपा उप न इति वायव्यम् च ऐन्द्रावायवम् च । आगत इति गतवत् । तद् अन्त रूपम् । अन्तो नवमम् अहः । ऐति इव वा अन्तम् गत्वा । कद्र्यन् हि तत इयात् । प्र सोता जीरो अध्वरेष्व् अस्थाद् इति स्थितवत् । तद् अन्त रूपम् । अन्तो नवमम् अहः । तिष्ठति इव वा अन्तम् गत्वा । कद्र्यन् हि तत इयात् । दिवि क्षयन्ता रजसः पृथिव्याम् इति मैत्रावरुणम् । क्षयन्त इति क्षितिवत् । तद् अन्त रूपम् । अन्तो नवमम् अहः । क्षियति इव वा अन्तम् गत्वा । कद्र्यन् हि तत इयात् । आ विश्व वारा अश्विना गतम् न इत्य् आश्विनम् । प्र तत् स्थानम् अवाचि वाम् पृथिव्याम् इति स्थितवत् । तद् अन्त रूपम् । अन्तो नवमम् अहः । तिष्ठति इव वा अन्तम् गत्वा । कद्र्यन् हि तत इयात् । इन्द्रम् नरो नेमधिता हवन्त इत्य् ऐन्द्रम् । यत् पार्या युनजते धियस् ता इति पार्याः पर अर्ध्याः । तद् अन्त रूपम् । अन्तो नवमम् अहः । अन्ते अन्तम् दधाति । ऊर्ध्वो अग्निः सुमतिम् वस्वो अश्रेद् इति वैश्वदेवम् । अश्रेद् इति श्रितवत् । तद् अन्त रूपम् । अन्तो नवमम् अहः । श्रियति इव वा अन्तम् गत्वा । कद्र्यन् हि तत इयात् । प्र क्षोदसा धायसा सस्र एष इति सारस्वतम् । प्रबाबधान इति निनर्तिः । अन्तो नवमम् अहः । नीव वा अन्तम् गत्वा नृत्यति । कद्र्यङ् हि तत इयात् । एते वा उ त्रैष्टुभाः तृचक्लृप्ता वासिष्ठाः प्रउगाः । प्रजापतिर् वै वसिष्ठः । स तन्ता यज्ञस्य । स पुनस् तताव् अयातयामा भवति । प्रजापताव् एव तत् सर्वान् कामान् ऋध्नुवन्ति । बृहत् पृष्ठम् शस्त्रम् । तन् मिथुनम् प्रजात्यै रूपम् ।

२६.१६ तृतीयछन्दोमः
त्र्यर्यमा मनुषो देवताता इति त्रैष्टुभानाम् प्रथमम् मरुत्वतीयानाम् । त्रि इति तत् तृतीयस्य अह्नो रूपम् । इन्द्रो रथाय प्रवतम् कृणोति इति द्वितीयम् । यम् अध्यस्थान् मघवा वाजयन्तम् इत्य् अध्यस्थाद् इति स्थितवत् । तद् अन्त रूपम् । अन्तो नवमम् अहः । तिष्ठति इव वा अन्तम् गत्वा । कद्र्यन् हि तत इयात् । तिष्ठा हरी रथ आ युज्यमाना इति तृतीयम् । तिष्ठ इति स्थितवत् । तद् अन्त रूपम् । अन्तो नवमम् अहः । तिष्ठति इव वा अन्तम् गत्वा । कद्र्यन् हि तत इयात् । गायत् साम नभन्यम् यथा वेर् इति चतुर्थम् । साम इति तद् अमुष्य लोकस्य रूपम् । प्र मन्दिने पितुमदर्चता वच इति पञ्चमम् ( पितुमद् अर्चता ?) । तस्य तद् एव अन्त रूपम् यत् सोदर्कम् । त्रैष्टुभ जागते जागतम् जगन् मध्यंदिनो ह्य् एष त्र्यहः । आ सत्यो यातु मघवान् ऋजीषी इति त्रैष्टुभानाम् प्रथमम् निष्केवल्यानाम् । अव स्य शूर अध्वनो न अन्त इति । तद् अन्त रूपम् । अन्तो नवमम् अहः । अवस्यति इव वा अन्तम् गत्वा । कद्र्यन् हि तत इयात् । अस्मा इद् उ प्र तवसे तुराय इति द्वितीयम् । अस्मा अस्मा इति सप्रभृति । यथा वै सोदर्कम् एवम् सप्रभृत्य् अन्त रूपम् । द्यौर् न य इन्द्र अभि भूमार्य इति तृतीयम् । द्यौर् इति तद् अमुष्य लोकस्य रूपम् । तत् त इन्द्रियम् परमम् पराचैर् इति चतुर्थम् । पराम् पराचैर् इति निनर्तिः । अन्तो नवमम् अहः । नीव वा अन्तम् गत्वा नृत्यति । कद्र्यन् हि तत इयात् । अहम् भुवम् वसुनः प्र्रुव्यस् पतिर् विश्वजिते धन जिते स्वर् जित इति द्वे । अहम् अहम् इति सप्र्भृति । यथा वै सोदर्कम् एवम् सप्रभृत्य् अन्त रूपम् । जिते जित इति निनर्तिः । अन्तो नवमम् अहः । नीव वा अन्तम् गत्वा नृत्यति । कद्र्यन् हि तत इयात् । त्रैष्टुभ जागते जागतम् जगन् मध्यंदिनो ह्य् एष त्र्यहः । पञ्च सूक्तानि मरुत्वतीये शस्यन्ते उत्तमे छन्दोमे । पशवो वै छन्दोमाः । पाङ्क्ताः पशवः । पशूनाम् एव आप्त्यै । षड् अन्ततो निष्केवल्ये । षड् वा ऋतवः संवत्सरः । संवत्सरस्य एव आप्त्यै । तान्य् एकादश सम्पद्यन्ते । एकादश अक्षरा त्रिष्टुप् । त्रैष्टुभाः पशवः पशूनाम् एव आप्त्यै ।

२६.१७ तृतीयछन्दोमः
अभि त्वा देव सवितर् इति सावित्रम् । अभि इत्य् असौ लोकः । तद् अमुष्य लोकस्य रूपम् । प्र वाम् महि द्यवी अभि इति द्यावा पृथिवीयम् । महि द्यव्यी अभि इति तद् अमुष्य लोकस्य रूपम् । इन्द्र इषे ददातु न इत्य् एका ते नो रत्नानि धत्तन इति द्वे तत् तृचम् आर्भवम् । एकम् एकम् सुशस्तिभिर् इत्य् एकम् एकम् इति निनर्तिः । अन्तो नवमम् अहः । नीव वा अन्तम् गत्वा नृत्यति । कद्र्यन् हि तत इयात् । अथ वैश्वदेवम् मनुः । सर्व आयुर् वै मनुः । आयुर् एव तद् यज्ञे च यजमानेषु च दधाति । विश्वे देवास आ गत इति वैश्वदेवम् भारद्वाजम् । आ गत इति गतवत् । तद् अन्त रूपम् । अन्तो नवमम् अहः । ऐति इव वा अन्तम् गत्वा । कद्र्यन् हि तत इयात् । गायत्रम् गायत्र तृतीय सवनो ह्य् एष त्र्यहः । दिवि पृष्टो अरोचत इति वैश्वानरीयम् । दिवि इति तद् अमुष्य लोकस्य रूपम् । मरुतो यस्य हि क्षय इति मारुतम् । क्षय इति क्षितिवत् । तद् अन्त रूपम् । अन्तो नवमम् अहः । क्षियति इव वा अन्तम् गत्वा । कद्र्यन् हि तत इयात् । अग्निर् होता पुरोहित इति जात वेदसीयम् । क्षयम् पावक शोचिष इति क्षयम् इति क्षितिवत् । तद् अन्त रूपम् । अन्तो नवमम् अहः । क्षियति इव वा अन्तम् गत्वा । कद्र्यन् हि तत इयात् । गायत्रम् गायत्र तृतीय सवनो ह्य् एष त्र्यहः । इत्य् आग्निमारुत सूक्तानि । इत्य् एतस्य अह्नः सूक्तानि । तद् उक्थ्यम् संतिष्ठते । तस्य सा आप्तिर् या तृतीयस्य अह्नः । अन्व् अहम् द्विपदाः शस्यन्ते । पशवो वै छन्दोमाः । यजमानच् छन्दसम् द्विपदाः । अधिष्टायाम् एव तत् पशूनाम् यजमानान् दधाति । अधीव वै पशून् पुरुषस् तिष्ठत्य् अधि इव वै पशून् पुरुषस् तिष्ठति ।  

२६.१ गवामयनशस्त्रे अह्नां क्रमः
द्वात्रिंशी प्रथमो मासो द्वात्रिंश्य् उत्तमः ।
द्वात्रिंशद् अक्षर अनुष्टुप् ।
वाग् अनुष्टुप् ।
तद् वाचा प्रयन्ति ।
वाचम् अनूत्त्तिष्ठन्ति ।
अष्टाविंशिनाव् अभितो विषुवन्तम् मासौ ।
अष्टाविंशत्य् अक्षर उष्णिक् ।
औष्णिह्यो ग्रीवाः ।
अथ एतत् शिरो यज्ञस्य यद् विषुवान् ।
ग्रीवा एव तत् कल्पयित्वा तासु शिरः प्रतिदधति ।
तद् आहुः कतरेषाम् एषो अह्नाम् अवरेषाम् परेषाम् इति ।
न अवरेषाम् न परेषाम् इत्य् आहुः ।
उभयेषाम् वा एषो अह्नाम् ।
उभयानि वै तस्य एतान्य् अहानि ।
तद् आहुः कति षडहाः संवत्सर इति ।
षष्टिः षडहाः षडहशः ।
तद् एतद् अव्यवलम्बि संवत्सर अयणम् ।
तद् य एवम् संवत्सरस्य अहानि युञ्जन्ति ।
त एतान्त् सर्वान् कामान् ऋध्नुवन्ति ये संवत्सरे ।
अथ ये अतो अन्यथा संवत्सरस्य अहानि युञ्जन्ति ।
न ते तान्त् सर्वान् कामान् ऋध्नुवन्ति ये संवत्सरे ।
अथ ह एक ऊर्ध्वान् एव मासान् उपयन्त्य् ऊर्ध्वान्य् अहानि ।
ऊर्ध्वम् वा उ वयम् संवत्सरम् रोहाम इति वदन्तः ।
मासा एव आवर्तेरन् न अहानि इत्य् एके ।
य एव एष पृष्ठ्यः षडहः पुनः परस्तात् पर्येति तेन मासा आवृत्ता इति वदन्तः ।
तद् आहुर् विदूर रूपम् वा एतद् यत् त्रिवृच् च त्रयस् त्रिंशश् च स्तोमौ ।
तद् यथा गिरि शिखरात् कर्तम् अभि प्रस्कन्देद् एवम् तत् स्तोम कृन्तत्रम् ।
तस्माद् एव अहानि वर्तेरन् ।
नो मासा अस्तोम कृन्तत्रताया इति ।

२६.२ गौर्दिनमायुर्दिनं च
अथ अतो गो आयुषोर् मीमांसा ।
विहृते गो आयुषी उपेयुः ।
अहोरात्रे वै गो आयुषी ।
विहृते वा इमे अहोरात्रे अन्योन्यस्मिन् ।
अथो द्यावा पृथिवी वै गो आयुषी ।
विहृते वा इमे द्यावा पृथिवी अन्योन्यस्मिन् ।
अथो प्राण अपानौ वै गो आयुषी ।
विहृतौ वा इमौ प्राण अपानाव् अन्योन्यस्मिन् प्रतितिष्ठतः ।
ते ह एक ऊर्ध्वे उपयन्त्य् ऊर्ध्वे उपेतव्ये गो आयुषी इति ।
अन्वाभिप्लविकाः स्तोमा आवर्तत्न्ते दशरात्रम् अनुपृष्ठ्यस् स्तोमा इति वदन्तः ।
तद् यद् एव इदम् द्वितीयम् अहर् यच् च तृतीयम् एते वा उ गो आयुषी ।

२६.३ प्रायश्चित्तानि
अथ कश्चित् शस्त्रे वा अनुवचने वा प्रमत्त उपहन्याद् विचिकित्सा वा स्याद् उपहतम् अबुद्धम् अतिक्रान्तम् मन्यमानो मनसा वृत्त अन्तम् ईक्षमाणो विनिवृत्य उपहतम् अनुपहतम् कृत्वा आनन्तर्यात् प्रयोगः स्याद् वृत्त अन्ताद् इति मीमांसन्ते ।
अथ ह स्म आह पैङ्ग्यो न आनन्तर्यात् प्रयोगः स्याद् अतिरिक्तो वा एष मन्त्रः स्याद् यो अवचनाद् द्विर् उच्यते ।
तस्मान् न आन्तर्यात् प्रयोगः स्याद् इति ह स्म आह पैङ्ग्यः ।
अथ ह स्म आह कौषीतकिः परिमित फलानि वा एतानि कर्माणि येषु परिमितो मन्त्र गणः प्रयुज्यते ।
अथ अपरिमित फलानि येषु अपरिमितो मन्त्र गणः प्रयुज्यते ।
मनो वा एतद् यद् अपरिमितम् प्रजापतिर् वै मनो यज्ञ उ वै प्रजापतिः स्वयम् वै तद् यज्ञो यज्ञस्य जुषते यन् मनो मनसस् तस्माद् आनन्तर्यात् प्रयोगः स्याद् इति ह स्म आह कौषीतकिर् ।
मितम् ह वै मितेन जयत्य् अमितम् अमितेन अपरिमितस्य अवरुद्ध्या अनुल्बणम् एतद् इति ह स्म आह कौषीतकिर् ।
न आहुतिम् जुहुयात् तथा ह यजमानः स्वर्गांल् लोकान्त् सर्वान् कामान् सर्वा अष्टीः सर्वम् च अमृतत्वम् आप्नोति सर्वेषाम् च भूतानाम् श्रैष्ठ्यम् स्वाराज्यम् आधिपत्यम् पर्येति यस्य एवम् क्रियते ।

२६.४ प्रायश्चित्तानि
अथ यद्य् ऊर्ध्वम् परिधानात् प्रणव वषट् कारयोर् वा ऊर्ध्वम् याज्या पुरोनुवाक्ययोर् बुध्येत अतिक्रान्तम् उल्बणम् एतस्याम् वेलायाम् भवति इति ह स्म आह प्रागहिः ।
तस्मान् न एतस्याम् वेलायाम् अतिक्रान्तम् उल्बणम् सदस्यो बोधयेत इति ह स्म आह पैङ्ग्यः ।
स्थाणुम् वा ऋच्छति गर्ते वा पतति धीयते वा प्र वा मीयत इति ह स्म आह यद्य् अतिक्रान्तम् उल्बणम् सदस्यो बोधयेत ।
कृतस्य अनावृत्तिर् इति ह स्म आह आरुणिर् गुण लोप इति श्वेतकेतुस् तस्मान् न अतिक्रान्तम् उल्बणम् सदस्यो बोधयेत इति ह स्म आह पैङ्ग्यः ।
अंहो वा एतद् यज्ञस्य यद्य् अतिक्रान्तम् उल्बणम् सदस्यो बोधयेत इति तस्मान् न अतिक्रान्तम् उल्बणम् सदस्यो बोधयेत इति ह स्म आह पैङ्ग्यः ।

२६.५ प्रायश्चित्तानि
अथ ह स्म आह दैवोदासिः प्रतर्दनो नैमिषीयाणाम् सत्रम् उपगम्य उपास्यद् य विचिकित्साम् पप्रच्छ यद्य् अतिक्रान्तम् उल्बणम् सदस्यो बोधयेत ऋत्विजाम् वा अन्यतमो बुध्येत कथम् वो अनुल्बणम् स्यात् इति ।
त उ ह तूष्णीम् आसुस् तेषाम् अलीकयुर् वाचस्पतो ब्रह्मा आस स ह उवाच न अहम् एतद् वेद हन्त पूर्वेषाम् आचार्यम् स्थविरम् जातूकर्ण्यम् पृछानि इति ।
तम् ह पप्रच्छ यद्य् अतिक्रान्तम् उल्बणम् कर्ता वा स्वयम् बुध्येत अन्यो वा बोधयेत कथम् तद् उल्बणम् अनुल्बणम् भवेत् पुनर् वचनम् वा निगदम् वा याज्याम् वा यद् वा अन्यत् सर्वम् तत् पुनर् ब्रूयाद् इति यावन् मात्रम् उल्बणम् तावद् ब्रूयाद् ऋचम् वा अर्धर्चम् वा पादम् वा पदम् वा वर्णम् वा इति ह स्म आह जातूकर्ण्यः ।
अथ ह स्म आह कौषीतकिर् न मन्त्रम् पुनर् ब्रूयान् न आहुतिम् जुहुयाद् अनुल्बणम् एतद् इति ह स्म आह कौषीतकिः ।
यद्द् हि होतारो यज्ञस्य किंचिद् उल्बणम् अबुध्यमानाः कुर्वन्ति सर्वम् तद् अग्निर् दैवो होता अनुल्बणम् करोति तद् एतद् ऋचा अभ्युदितम् ।

२६.६ प्रायश्चित्तानि
यत् पाकत्रा मनसा दीन दक्षा न यज्ञस्य मन्वते मर्त्यासः अग्निष्टद्धोता क्रतुविद् विजानन् यजिष्ठो देवाँ ऋतुशो यजाति इति यच् च आह संस्थिते यज्ञे अयाड् ( अयाद् ) यज्ञम् जातवेदा इत्य् अयाक्षीद् इमम् यज्ञम् जातवेदा इति तद् आह अन्तरः पूर्वो अस्मिन् निषद्य इति यद् आह अग्निर् ह दैवो होता मानुषाद्द् होतुः पूर्वो निषद्य यजत इति तद् आह आशिषम् एव उत्तरेण अर्धर्चेन वदति पूर्वया वा ऋचा ।

२६.७ छन्दोमाः - सामान्यनिर्वचनम्
षष्ठे वा अहन् देवाः स्तोमांश् च मासांश् च आप्नुयुः ।
त आप्त्वा स्तोमान् एतान् एव पृष्ठ्य स्तोमान् द्वन्द्वम् समास्यन् ।
कुतो ह्य् अन्यम् स्तोमम् आहरिष्यन् ।
ताव् एतौ त्रिवृत् पञ्चदशौ स्तोमौ सप्तमम् अहर् वहतश् चतुर् विंश स्तोमो भूत्वा ।
अथ एतौ सप्तदश त्रिणवौ नवमम् अहर् वहतो अष्टा चत्वारिंश स्तोमो भूत्वा ।
अथ एताव् एकविंश त्रयस् त्रिंशौ स्तोमौ नवमम् अहर् वहतो अष्टा चत्वारिंश स्तोमो भूत्वा ।
तेषाम् गायत्र्या प्रथमो मितस् त्रिष्टुभा द्वितीयो जगत्या तृतीयः ।
तद् यच् छन्दोभिर् मिताः ।
तस्माच् छन्दोमाः ।
अथ याः षट् स्तोत्रिया अष्टा चत्वारिंशम् स्तोमम् अतियन्ति ।
तास् ता ऋतव इत्य् आहुः ।
षड्ड् ह्य् ऋतवः ।
ताभिर् दशमम् अहस् तायते ।

२६.८ प्रथमछन्दोमः
अन्तः षष्ठम् अहः ।
अथ पुनस् ततिर् एव सप्तमम् अहः ।
तस्मात् ततवन्ति सप्तमे अहन्त् सूक्तानि शस्यन्ते प्रायणीय रूपेण ।
पुनः प्रायणीयम् हि सप्तमम् अहः ।
प्र वः शक्राय भावने भरध्वम् इत्य् आज्य प्रवत् ।
प्रवद् वै प्रथमस्य अह्नो रूपम् ।
त्रैष्टुभः प्रउगः ।
प्र वीरया शुचयो दद्रिरे वाम् इति वायव्यम् प्रवत् ।
प्रवद् वै प्र्थमस्य अह्नो रूपम् ।
अत एव उत्तरम् तृचम् ऐन्द्रावायवम् ते सत्येन मनसा दीध्याना इति ।
स्वेन युक्तासः क्रतुना वहन्ति इति युक्तवत् ।
युक्तवद् वै प्रथमस्य अह्नो रूपम् ।
उद् वाम् चक्षुर् वरुण सुप्रतीकम् इति मैत्रावरुणम् ।
देवयोर् एति सूर्यस् ततन्वान् इति ततवत् ।
ततवद् वै सप्तमस्य अह्नो रूपम् ।
आ गोमता नासत्या रथेन आ नो देव शवसा याहि शुष्णिन् प्र वो यज्ञेषु देवयन्तो अर्चन्प्र क्षोदसा धायसा सस्र एष इति ।
एहि वा वै प्र इति वा प्रायणीय रूपम् ।
तस्माद् आवन्ति च प्रवन्ति च सप्तमे अहन्त् सूक्तानि शस्यन्ते प्रायणीय रूपेण ।
पुनः प्रायणीयम् हि सप्तमम् अहः ।
तद् आहुर् यत् किंच छन्दः प्रातः सवने युज्येत अर्धर्चश एव तस्य शस्त्रम् इति गायत्र्यै रूपेण अथो प्रातःसवन रूपेण इति ।
तद् उ ह स्म आह कौषीतकिः ।
न त्रिष्टुब् जगत्याव् एतत् स्थाने अर्धर्चशः शस्त्राय ।
यद्य् अपि प्रातः सवने युज्येताम् ।
पच्छ एव एनयोः शस्त्रम् इति सा स्थितिः ।
बृहत् पृष्ठम् राथन्तरम् शस्त्रम् ।
तन् मिथुनम् प्रजात्यै रूपम् ।

२६.९ प्रथमछन्दोमः
कय शुभा सवयसः सनीडा इति मरुत्वतीयम् ।
तद् एतत् संज्ञा श्रीः सूक्तम् ।
एतेन ह वा इन्द्रश् च मरुतश् च समजानत ।
अभिसंजानते ह वा अस्मै स्वा श्रैष्ठ्याय य एवम् वेद ।
कया मती कुत एतास एत इत्य् आवद् राथन्तरम् ।
त्यम् सु मेषम् महया स्वर्विदम् इति जागतम् ।
ऐन्द्रम् ववृत्याम् अवसे सुवृक्तिभिर् इत्य् आवद् राथन्तरम् ।
त्रैष्टुभ जागते जागतम् जगन् मध्यंदिनो ह्य् एष त्र्यहः ।
तद् आहुर् यद् रथन्तरम् पृष्ठम् सप्तमस्य अह्न आयतनेन अथ कस्माद् अन्वहम् बृहत् क्रियत इति ।
तानि वा एतान्य् अहानि महा स्तोमानि भवन्ति ।
तस्माद् अन्वहम् बृहत् क्रियते ।
एतेषाम् एव अह्नाम् सबलतायै ।
एतेषाम् छन्दोमानाम् असमवप्लुताया इति ।
बृहत आतानम् शस्त्वा रथन्तरस्य योनिम् शंसति ।
न आह एव नः पिता यो अन्य वादम् सा एव आसीद् इति ह स्म आह कौषीतकिः ।
यत्र तु क्वच एते सामनी समाने अहन्त् सन्निपतेताम् ।
अन्व् एव तत्र इतरस्य इतरस्य वा योनिम् अनुशंसेत् ।
यद्य् उ कण्व रथन्तरम् कुर्युः ।
न अस्य योनिम् अनुशंसेत् ।
न ह्य् अन्येषाम् पृष्ठानाम् योनिः शस्या भवति इति ।
तम् उ ष्टुहि यो अभिभूत्य् ओजा त्यम् मेषम् पुरु हूतम् ऋग्मियम् इत्य् उभे अभिवती ।
तद् राथन्तरम् रूपम् ।
त्रैष्टुभ जागते जागतम् जगन् मध्यंदिनो ह्य् एष त्र्यहः ।
द्वे द्वे सूक्ते निष्केवल्य मरुत्वतीययोः शस्येते प्रथमे छन्दोमे ।
द्विपाद् यजमानः ।
प्रतिष्ठित्यै ।
तानि चत्वारि सम्पद्यन्ते ।
पशवो वै छन्दोमाः ।
चतुष्टया वै पशवः ।
अथो चतुष्पादाः पशूनाम् एव आप्त्यै ।

२६.१० प्रथमछन्दोमः
तत् सवितुर् वरेण्यम् इति सावित्रम् ।
धियो यो नः प्रचोदयाद् इति प्रवत् ।
प्रवद् वै प्रथमस्य अह्नो रूपम् ।
प्रेताम् यज्ञस्य शम्भुवा इति द्यावा पृथिवीयम् प्रवत् ।
प्रवद् वै प्रथमस्य अह्नो रूपम् ।
अयम् देवाय जन्मन इत्य् आर्भवम् ।
स्तोमो विप्रेभिर् आसय इत्य् आवत् ।
आवद् वै प्रथमस्य अह्नो रूपम् ।
ऋजु नीती नो वरुण इति वैश्वदेवम् नीतवत् ।
नीतवद् वै सप्तमस्य अह्नो रूपम् ।
आ अयाहि वनसा सह इति द्विपदा आवत् ।
आवद् वै प्रथमस्य अह्नो रूपम् ।
ओमासश् चर्षणी धृत इति वैश्वदेवम् ।
विश्वे देवास आ गत इत्य् आवत् ।
आवद् वै प्रथमस्य अह्नो रूपम् ।
गायत्रम् गायत्र तृतीय सवनो ह्य् एष त्र्यहः ।
वैश्वानरो न ऊतय इति वैश्वानरीयम् ।
आ प्र यातु परावत इत्य् आवत् ।
आवद् वै प्रथमस्य अह्नो रूपम् ।
प्र यद् वस् त्रिष्टुभम् इषम् इति मारुतम् प्रवत् ।
प्रवद् वै प्रथमस्य अह्नो रूपम् ।
अर्चन्तस् त्वा हवामह इति जातवेदसीयम् ।
त्वया यज्ञम् वि तन्वत इति ततवत् ।
ततवद् वै सप्तमस्य अह्नो रूपम् ।
गायत्रम् गायत्र तृतीय सवनो ह्य् एष त्र्यहः ।
इत्य् आग्निमारुत सूक्तानि ।
इत्य् एतस्य अह्नः सूक्तानि ।
तद् उक्थ्यम् संतिष्ठते ।
तस्य साप्तिर् या प्रथमस्य अह्नः ।

२६.११ द्वितीयछन्दोमः
अयम् वै लोकः प्रथमश् छन्दोमः ।
अन्तरिक्ष लोको द्वितीयः ।
असौ लोकः उत्तमः ।
तस्मान् महद्वन्ति मध्यमे अहन्त् सूक्तानि शस्यन्ते ।
महद्द् हि इदम् अन्तरिक्षम् ।
अथो अभ्यारब्धवन्ति स्युः ।
परम् एव एतद् अहर् अभिवदति ।
परम् एव एतद् अहर् अभ्यारभ्य वसन्ति इति ह स्म आह कौषीतकिः ।
अग्निः वो देवम् अग्निभिः सजोषा इत्य् आज्यम् ।
यदा महः संवरणाद् व्यस्थाद् इति महद्वत् सद् अभ्यारब्धवत् ।
त्रैष्टुभः प्रउगः ।
कुविद् अङ्ग नमसा ये वृधास इति वायव्यम् वृद्धवत् ।
महद्वद्द् ह्य् एतद् अहः ।
अत एव उत्तरम् तृचम् ऐन्द्र वायवम् यावत् तरस् तन्वो यावद् ओज इति ।
यावन् नरश् चक्षसा दीध्याना इत्य् अभ्यारब्धवत् ।
प्रति वाम् सूर उदिते सूक्तैर् इति मैत्रावरुणम् ।
मित्रम् हुवे वरुणम् पूत दक्षम् इत्य् अभ्यारब्धवत् ।
अप स्वसुर् उषसो नग् जिहीत इत्य् आश्विनम् ।
अश्वा मघा गो मघा वाम् हुवेम इत्य् अभ्यारब्धवत् ।
अयम् सोम इन्द्र तुभ्यम् सुन्व इत्य् ऐन्द्रम् ।
ब्रह्मन् वीर ब्रह्म कृतिम् जुषाण इत्य् अभ्यारब्धवत् ।
प्र ब्रह्माणो अङ्गिरसो नक्षन्त इति वैश्वदेवम् ।
प्र क्रन्दनुर् नभन्यस्य वेत्व् इत्य् अभ्यारब्धवत् ।
उत स्या नः सरस्वती जुषाण इति सारस्वतम् ।
वर्ध शुभ्रे स्तुवते रासि वाजान् इति वृद्धवत् ।
महद्वद्द् ह्य् एतद् अहः ।
राथन्तरम् पृष्ठम् बार्हतम् शस्त्रम् ।
तन् मिथुनम् प्र्जात्यै रूपम् ।

२६.१२ द्वितीयछन्दोमः
महान् इन्द्रो नृवदा चर्षणिप्रा इति त्रैष्टुभानाम् प्रथमम् मरुत्वतीयानाम् ।
महद्वत् सद् अभ्यारब्धवत् ।
इमा उ त्वा पुरुतमस्य कारोर् इति द्वितीयम् ।
हव्यम् वीर हव्या हवन्त इत्य् अभ्यारब्धवत् ।
क्व स्य वीरः को अपश्यद् इन्द्रम् इति तृतीयम् ।
सुख रथम् ईयमानम् हरिभ्याम् इत्य् अभ्यारब्धवत् ।
महश्चित् त्वम् इन्द्र यत एतान् इति चतुर्थम् ।
महश्चिद् असि त्यजसो वरूत इति महद्वद् सद् अभ्यारब्धवत् ।
तम् अस्य द्यावा पृथिवी सचेतसा इति पञ्चमम् ।
यदा एतत् कृण्वानो महिमानम् इन्द्रियम् इति महद्वत् सद् अभ्यारब्धवत् ।
त्रैष्टुभ जागते जागतम् जगन् मध्यंदिनो ह्य् एष त्र्यहः ।
त्वम् महान् इन्द्र तुभ्यम् ह क्षा इति त्रैष्टुभानाम् प्रथमम् निष्केवल्यानाम् ।
महद्वत् सद् अभ्यारब्धवत् ।
त्वम् महान् इन्द्र यो ह शुष्मैर् इति द्वितीयम् महद्वत् ।
महद्वद्द् ह्य् एतद् अहः ।
अपूर्व्या पुरुतमान्य् अस्मा इति तृतीयम् ।
महे वीराय तवसे तुराय इति महद्वत् सद् अभ्यारब्धवत् ।
ताम् सु ते कीर्तिम् मघवन् महित्वा इति चतुर्थम् ।
महद्वत् सद् अभ्यारब्धवत् ।
इमाम् ते धियम् प्र भरे महो महीम् इति पञ्चमम् ।
महद्वद् सद् अभ्यारब्धवत् ।
त्रैष्टुभ जागते जागतम् जगन् मध्यंदिनो ह्य् एष त्र्यहः ।
पञ्च पञ्च सूक्तानि निष्केवल्य मरुत्वतीययोः शस्यन्ते मध्यमे छन्दोमे ।
पशवो वै छन्दोमाः ।
पाङ्क्ताः पशवः ।
पशूनाम् एव आप्त्यै ।
तानि दश सम्पद्यन्ते ।
दश दशिनी विराट् ।
श्रीर् विराड् अन्नाद्यम् ।
श्रियो विराजो अन्न अद्यस्य उपाप्त्यै ।

२६.१३ द्वितीयछन्दोमः
हिरण्य पाणिम् ऊतय इति सावित्रम् ।
अपाम् नपातम् अवस इति महद्वत् सद् अभ्यारब्धवत् ।
मही द्यौः पृथिवी च न इति द्यावा पृथिवीयम् महद्वत् ।
महद्वद्द् ह्य् एतद् अहः ।
युवाना पितरा पुनर् इत्य् आर्भवम् ।
इन्द्रेण च मरुत्वताद् इत्य् एभिश् च राजभिर् इत्य् अभ्यारब्धवत् ।
देवानाम् इद् अवो महद् इति वैश्वदेवम् ।
वामम् नो अस्त्व् अर्यमन् वामम् वरुण शंस्यम् इति महद्वत् सद् अभ्यारब्धवत् ।
इमा नु कम् भुवना सीषधाम इति द्विपदाः ।
इन्द्रश् च विश्वे च देवा इत्य् अभ्यारब्धवत् ।
विश्वे देवा ऋता वृध इति वैश्वदेवम् वृद्धवत् ।
महद्द् ह्य् एतद् अहः ।
गायत्रम् गायत्र तृतीय सवनो ह्य् एष त्र्यहः ।
वैश्वानरो अजीजनद् इति वैश्वानरीयम् ।
क्ष्मया वृधान ओजसा इति वृद्धवत् ।
महद्वत् सद् अभ्यारब्धवत् ।
कद्द् ह नूनम् कध प्रिय इति मारुतम् अभ्यारब्धवत् ।
दूतम् वो विश्व वेदसम् इति जात वेदसीयम् ।
अग्ने मृड महान् असि इति वा ।
अष्टर्चम् अष्टमस्य अह्नः ।
पूर्वम् तु स्थितम् ।
महान् आरोधनम् दिव इति महद्वत् सद् अभ्यारब्धवत् ।
पूर्वम् तु स्थितम् ।
महान् आरोधनम् दिव इति महद्वत् सद् अभ्यारब्धवत् ।
गायत्रम् गायत्र तृतीय सवनो ह्य् एष त्र्यहः ।
इत्य् आग्नि मारुत सूक्तानि ।
इत्य् एतस्य अह्नः सूक्तानि ।
तद् उक्थ्यम् संतिष्ठते ।
तस्य सा आप्तिर् या द्वितीयस्य अह्नः ।

२६.१४ तृतीयछन्दोमः
अन्तो गतिर् नवमम् अहः ।
असौ द्यौर् असौ लोकः ।
तस्माद् गतवन्ति नवमे अहन्त् सूक्तानि शस्यन्ते ।
अगन्म महा नमसा यविष्ठम् सोमस्य मा तवसम् वक्ष्य् अग्न इत्य् एते उभे तद् आज्यम् ।
अगम्न इति गतवत् ।
तद् अन्त रूपम् ।
अन्तो नवमम् अहः ।
एति इव वा गन्तम् गत्वा ।
कद्र्यन् हि तत इयात् ।
अस्थुर् अत्र धेनवः पिन्वमाना इति स्थितवत् ।
तद् अन्त रूपम् ।
अन्तो नवमम् अहः ।
तिष्ठति इव वा अन्तम् गत्वा ।
कद्र्यन् हि तत इयात् ।
अगन्म महा नमसा यविष्ठम् इत्य् एतद् एव तृचम् आज्यम् स्याद् इति ह स्म आह पैङ्ग्यः ।
अगन्म इति गतवत् ।
तद् अन्त रूपम् ।
अन्तो नवमम् अहः ।
ऐति ( एति आ इति ?) इव वीत इति ह स्म ह कौषीतकिः ।
सोमस्य मा तवसम् वक्ष्य् अग्न इत्य् एतद् उपसंशंसेत् ।
तस्य तद् एव अन्त रूपम् यद् भूत अनुवादि प्राञ्चम् यज्ञम् चकृम दिवः शशासुर् इति ।
यद् एतद् भूतम् इव अभि ।
अत्र न्व् आ अपि स्तोमो न व्याप्तव्य इति ह स्म आह पैङ्ग्यः ।
यद्य् ऋग्भिर् एव स्तोमो व्याप्यत इति ।
अक्षरैर् ह ऋक् स्तोमम् व्यश्नुते ।
अक्षरैर् ह पदैर् वा निविद् वा पुरोरुग् वा ऋचम् ।
व्याप्तो ह वा उ तत्र स्तोमो भवति यत्र निविद् वा पुरोरुग् वा शस्यते ।
तस्माद् व्याप्यत एव ।
तृचम् आज्यम् स्याद् यद् अदः पैङ्ग्यस्य वचसा ।
उभे इति त्व् एव स्थितम् ।
एतेन ह वा अह्ना वसिष्ठश् च विश्वामित्रश् च समजानताम् ।
अभिसंजानते ह वा अस्मै स्वा श्रैष्ठ्याय य एवम् वेद ।
तस्माद् उभे एव स्याताम् ।
वासिष्ठम् पूर्वम् वैश्वामित्रम् उत्तरम् ।
त्रैष्टुभः प्रउगः ।

२६.१५ तृतीयछन्दोमः
आ वायो भूष शुचिपा उप न इति वायव्यम् च ऐन्द्रावायवम् च ।
आगत इति गतवत् ।
तद् अन्त रूपम् ।
अन्तो नवमम् अहः ।
ऐति इव वा अन्तम् गत्वा ।
कद्र्यन् हि तत इयात् ।
प्र सोता जीरो अध्वरेष्व् अस्थाद् इति स्थितवत् ।
तद् अन्त रूपम् ।
अन्तो नवमम् अहः ।
तिष्ठति इव वा अन्तम् गत्वा ।
कद्र्यन् हि तत इयात् ।
दिवि क्षयन्ता रजसः पृथिव्याम् इति मैत्रावरुणम् ।
क्षयन्त इति क्षितिवत् ।
तद् अन्त रूपम् ।
अन्तो नवमम् अहः ।
क्षियति इव वा अन्तम् गत्वा ।
कद्र्यन् हि तत इयात् ।
आ विश्व वारा अश्विना गतम् न इत्य् आश्विनम् ।
प्र तत् स्थानम् अवाचि वाम् पृथिव्याम् इति स्थितवत् ।
तद् अन्त रूपम् ।
अन्तो नवमम् अहः ।
तिष्ठति इव वा अन्तम् गत्वा ।
कद्र्यन् हि तत इयात् ।
इन्द्रम् नरो नेमधिता हवन्त इत्य् ऐन्द्रम् ।
यत् पार्या युनजते धियस् ता इति पार्याः पर अर्ध्याः ।
तद् अन्त रूपम् ।
अन्तो नवमम् अहः ।
अन्ते अन्तम् दधाति ।
ऊर्ध्वो अग्निः सुमतिम् वस्वो अश्रेद् इति वैश्वदेवम् ।
अश्रेद् इति श्रितवत् ।
तद् अन्त रूपम् ।
अन्तो नवमम् अहः ।
श्रियति इव वा अन्तम् गत्वा ।
कद्र्यन् हि तत इयात् ।
प्र क्षोदसा धायसा सस्र एष इति सारस्वतम् ।
प्रबाबधान इति निनर्तिः ।
अन्तो नवमम् अहः ।
नीव वा अन्तम् गत्वा नृत्यति ।
कद्र्यङ् हि तत इयात् ।
एते वा उ त्रैष्टुभाः तृचक्लृप्ता वासिष्ठाः प्रउगाः ।
प्रजापतिर् वै वसिष्ठः ।
स तन्ता यज्ञस्य ।
स पुनस् तताव् अयातयामा भवति ।
प्रजापताव् एव तत् सर्वान् कामान् ऋध्नुवन्ति ।
बृहत् पृष्ठम् शस्त्रम् ।
तन् मिथुनम् प्रजात्यै रूपम् ।

२६.१६ तृतीयछन्दोमः
त्र्यर्यमा मनुषो देवताता इति त्रैष्टुभानाम् प्रथमम् मरुत्वतीयानाम् ।
त्रि इति तत् तृतीयस्य अह्नो रूपम् ।
इन्द्रो रथाय प्रवतम् कृणोति इति द्वितीयम् ।
यम् अध्यस्थान् मघवा वाजयन्तम् इत्य् अध्यस्थाद् इति स्थितवत् ।
तद् अन्त रूपम् ।
अन्तो नवमम् अहः ।
तिष्ठति इव वा अन्तम् गत्वा ।
कद्र्यन् हि तत इयात् ।
तिष्ठा हरी रथ आ युज्यमाना इति तृतीयम् ।
तिष्ठ इति स्थितवत् ।
तद् अन्त रूपम् ।
अन्तो नवमम् अहः ।
तिष्ठति इव वा अन्तम् गत्वा ।
कद्र्यन् हि तत इयात् ।
गायत् साम नभन्यम् यथा वेर् इति चतुर्थम् ।
साम इति तद् अमुष्य लोकस्य रूपम् ।
प्र मन्दिने पितुमदर्चता वच इति पञ्चमम् ( पितुमद् अर्चता ?) ।
तस्य तद् एव अन्त रूपम् यत् सोदर्कम् ।
त्रैष्टुभ जागते जागतम् जगन् मध्यंदिनो ह्य् एष त्र्यहः ।
आ सत्यो यातु मघवान् ऋजीषी इति त्रैष्टुभानाम् प्रथमम् निष्केवल्यानाम् ।
अव स्य शूर अध्वनो न अन्त इति ।
तद् अन्त रूपम् ।
अन्तो नवमम् अहः ।
अवस्यति इव वा अन्तम् गत्वा ।
कद्र्यन् हि तत इयात् ।
अस्मा इद् उ प्र तवसे तुराय इति द्वितीयम् ।
अस्मा अस्मा इति सप्रभृति ।
यथा वै सोदर्कम् एवम् सप्रभृत्य् अन्त रूपम् ।
द्यौर् न य इन्द्र अभि भूमार्य इति तृतीयम् ।
द्यौर् इति तद् अमुष्य लोकस्य रूपम् ।
तत् त इन्द्रियम् परमम् पराचैर् इति चतुर्थम् ।
पराम् पराचैर् इति निनर्तिः ।
अन्तो नवमम् अहः ।
नीव वा अन्तम् गत्वा नृत्यति ।
कद्र्यन् हि तत इयात् ।
अहम् भुवम् वसुनः प्र्रुव्यस् पतिर् विश्वजिते धन जिते स्वर् जित इति द्वे ।
अहम् अहम् इति सप्र्भृति ।
यथा वै सोदर्कम् एवम् सप्रभृत्य् अन्त रूपम् ।
जिते जित इति निनर्तिः ।
अन्तो नवमम् अहः ।
नीव वा अन्तम् गत्वा नृत्यति ।
कद्र्यन् हि तत इयात् ।
त्रैष्टुभ जागते जागतम् जगन् मध्यंदिनो ह्य् एष त्र्यहः ।
पञ्च सूक्तानि मरुत्वतीये शस्यन्ते उत्तमे छन्दोमे ।
पशवो वै छन्दोमाः ।
पाङ्क्ताः पशवः ।
पशूनाम् एव आप्त्यै ।
षड् अन्ततो निष्केवल्ये ।
षड् वा ऋतवः संवत्सरः ।
संवत्सरस्य एव आप्त्यै ।
तान्य् एकादश सम्पद्यन्ते ।
एकादश अक्षरा त्रिष्टुप् ।
त्रैष्टुभाः पशवः पशूनाम् एव आप्त्यै ।

२६.१७ तृतीयछन्दोमः
अभि त्वा देव सवितर् इति सावित्रम् ।
अभि इत्य् असौ लोकः ।
तद् अमुष्य लोकस्य रूपम् ।
प्र वाम् महि द्यवी अभि इति द्यावा पृथिवीयम् ।
महि द्यव्यी अभि इति तद् अमुष्य लोकस्य रूपम् ।
इन्द्र इषे ददातु न इत्य् एका ते नो रत्नानि धत्तन इति द्वे तत् तृचम् आर्भवम् ।
एकम् एकम् सुशस्तिभिर् इत्य् एकम् एकम् इति निनर्तिः ।
अन्तो नवमम् अहः ।
नीव वा अन्तम् गत्वा नृत्यति ।
कद्र्यन् हि तत इयात् ।
अथ वैश्वदेवम् मनुः ।
सर्व आयुर् वै मनुः ।
आयुर् एव तद् यज्ञे च यजमानेषु च दधाति ।
विश्वे देवास आ गत इति वैश्वदेवम् भारद्वाजम् ।
आ गत इति गतवत् ।
तद् अन्त रूपम् ।
अन्तो नवमम् अहः ।
ऐति इव वा अन्तम् गत्वा ।
कद्र्यन् हि तत इयात् ।
गायत्रम् गायत्र तृतीय सवनो ह्य् एष त्र्यहः ।
दिवि पृष्टो अरोचत इति वैश्वानरीयम् ।
दिवि इति तद् अमुष्य लोकस्य रूपम् ।
मरुतो यस्य हि क्षय इति मारुतम् ।
क्षय इति क्षितिवत् ।
तद् अन्त रूपम् ।
अन्तो नवमम् अहः ।
क्षियति इव वा अन्तम् गत्वा ।
कद्र्यन् हि तत इयात् ।
अग्निर् होता पुरोहित इति जात वेदसीयम् ।
क्षयम् पावक शोचिष इति क्षयम् इति क्षितिवत् ।
तद् अन्त रूपम् ।
अन्तो नवमम् अहः ।
क्षियति इव वा अन्तम् गत्वा ।
कद्र्यन् हि तत इयात् ।
गायत्रम् गायत्र तृतीय सवनो ह्य् एष त्र्यहः ।
इत्य् आग्निमारुत सूक्तानि ।
इत्य् एतस्य अह्नः सूक्तानि ।
तद् उक्थ्यम् संतिष्ठते ।
तस्य सा आप्तिर् या तृतीयस्य अह्नः ।
अन्व् अहम् द्विपदाः शस्यन्ते ।
पशवो वै छन्दोमाः ।
यजमानच् छन्दसम् द्विपदाः ।
अधिष्टायाम् एव तत् पशूनाम् यजमानान् दधाति ।
अधीव वै पशून् पुरुषस् तिष्ठत्य् अधि इव वै पशून् पुरुषस् तिष्ठति ।

  1. ऋ. १.९०.१
  2. १.३८.१