कौषीतकिब्राह्मणम्/अध्यायः २७

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २६ कौषीतकिब्राह्मणम्
अध्यायः २७
[[लेखकः :|]]
अध्यायः २८ →
सोमयागः(दशममहः)


२७.१ दशममहः
यद् दिव्य् उपरि तद् दशमम् अहर् इति ह स्म आह कौषीतकिः । तस्मात् तद् अविवाक्यम् भवति । न हि तद् अद्धा वेद कश्चन । न इद् अविद्वान् विब्रवाणि इति । मितम् एतद् देव कर्म यद् दशमम् अहर् अनुष्टुब् एव । स यो व्याह । सो अतिरेचयति । ईश्वरो विवक्तारम् भ्रेषो अव्नेतोः । तद् उ वा आहुर् व्य् एव ब्रूयात् । नन्दति ह वै यज्ञो विदुषा आगच्छता । यन् मे असमृद्धम् भविष्यत्य् अयम् मे तत् समर्धयिष्यति इति । यदि कश्चित् प्रमत्त उपहन्यात् । यस् तद् अधीयात् । यस् तम् तत्र ब्रूयात् । स तम् देशम् पार्श्वतः स्वाध्यायम् अधीयीत । अपि वा गृहपतिर् वा ऋत्विजाम् वा एकः पर्यवसर्पेत् । स तम् देशम् पार्श्वतः स्वाध्यायम् शंसेत् । यदि तथा न मन्येत । तम् प्रत्य् एव विब्रूयात् । उत्सृज्यते दशमे अहन्य् अनुष्टुप् । वाग् अनुष्टुप् । सा एषा वाग् व्रत दोहुषी क्रूर वहा इव भवति । तस्माद् उत्सृज्यते । न इद् वाचम् आसीदाम इति । अथ इतराणि छन्दांस्य् अनुष्टुभम् अभिसम्पादयति । तद् एतन्न् आह एव अभिमृशे शूद्राम् । नो एनाम् प्रसिसृक्षामि । नो त्व् एव अन्यत्र यामक पौंश्चल्वायनम् मे अस्ति इति । अनुष्टुब्ब् ह्य् एषा दशमे अहन् परिगीता । तद् आहुर् न अनुष्टुभ आयतनम् रिञ्च्यात् । विराजस् तत्र अनुब्रूयात् । समानम् वा एतच् छन्दो यद् विराट् च अनुष्टुप् च । न ह्य् एकेन अक्षरेण अन्यच् छन्दो भवति । नो द्वाभ्याम् इति । तयोर् वा एतयोस् तृचयोः षड् अक्षराण्य् अभ्युद्यन्ति । अग्निम् नरो दीधितिभिर् अरण्योर् अग्निष्टोम साम्नः स्तोत्रिय अनुरूपयोः षट् । तानि द्वादश अक्षराणि । होता प्रातर् अनुवाके सम्पादयेत् । न आद्रियेत अत्र एव सम्पन्नम् । उष्णिग् उदैति इति मेनिमहे । गायत्री वा । ताम् प्रातर् अनुवाके सम्पादयेत् । न आद्रियेत अत्र वै सम्पन्नम् ।

२७.२ दशममहः शस्त्रम्
अग्ने तम् अद्य अश्वम् न स्तोमैर् इत्य् आज्यम् । तद् एतत् सृष्टम् दशमाय अह्ने न सम्पादयेत् । न आद्रियेत अत्र एव सम्पन्नम् । माधुच् छन्दसः प्रौगस् तस्य उक्तम् ब्राह्मणम् । त्रिकद्रुकेषु महिषो यवाशिरम् तुविशुष्म इत्य् अतिच्छन्दसा मरुत्वतीयम् प्रतिपद्यते । सा सम्पन्ना चतुः षष्ट्य् अक्षरा । ते द्वे अनुष्टुभौ सम्पद्येते । तत् सम्पन्नम् । पिन्वन्त्य् अपीयया द्वौ प्रगाथौ संशंसति बृहद् इन्द्राय गायत प्र व इन्द्राय बृहत इति । तत् सम्पन्नम् । ऐकाहिकम् मरुत्वतीयम् । प्रतिष्ठा वा एकाहः प्रतिष्ठित्या एव । कया नश् चित्र आ भुवत् कया त्वम् न ऊत्या इति वामदेव्यस्य योनौ रथन्तरम् ऊढम् भवत्य् आग्नेयम् साम ऐद्रीषु । तन् मिथुनम् प्रजात्यै रूपम् । यावन्तः प्रगाथास् तावन्त्य् औष्णिहानि तृचानि । धाय्याम् अन्या द्विपदा भजते । सप्तदशीम् अन्या सूक्तस्य । तत् सम्पन्नम् । ऐकाहिकम् निष्केवल्यम् । प्रतिष्ठा वा एकाहः प्रतिष्ठा दशमम् अहः । प्रतिष्ठानीयम् वै छन्दो द्विपदे प्रतिष्ठित्या एव । अभि त्यम् देवम् सवितारम् ओण्योः कवि क्रतुम् इत्य् अतिच्छन्दसा वैश्वदेवम् प्रतिपद्यते । सा सम्पन्ना चतुः षष्ट्य् अक्षरा । ते द्वे अनुष्टुभौ सम्पदेते । तत् सम्पन्नम् । अभिवान् अनुचरस् तस्य उक्तम् ब्राह्मणम् । अथ नित्यम् एव ऐकाहिकम् तृतीय सवनम् । प्रतिष्ठा वा एकाहः प्रतिष्ठित्या एव । तत्र पुरस्ताद् आनोभद्रीयस्य प्रशुक्रीयम् शंसति । प्रतिष्ठा वा एकाहः प्रतिष्ठा दशमम् अहः । प्रतिष्ठानीयम् वै छन्दो द्विपदाः प्रतिष्ठित्या एव । विराट्सु वामदेव्यम् अग्निष्टोम साम भवति । श्रीर् विराड् अन्नाद्यम् । श्रियो विराजो अन्न अद्यस्य उपाप्त्यै । अथो शान्तिर् वै भेषजम् वामदेव्यम् । शान्तिर् एव एषा भेषजम् अन्ततो यज्ञे क्रियते ।

२७.३ मन्त्राः
अथ यत् समूढस्य अतिरिक्त उक्थम् उपयन्ति । तेन ह अतिरिक्त उक्थम् आप्नुवन्ति । अथ एष दशमस्य अह्नो दोहः । यथा सहस्रम् च पञ्चदश च अनुष्टुभः स्युः । तथा एतद् अहः सम्पादयेत् । पञ्चदश उद्धृत्य शतस्य शतस्य चतस्रश् चतस्र उद्धरति । ताश् चत्वारिंशत् । पूर्वाः पञ्चदश । ताः पञ्च पञ्चाशद् उद्धृताः । अथ इतरे त्रिंशद् द्वात्रिंशद् वर्गाः । अथ एषा पद्या अनुष्टुप् । गायत्र्यै च उष्णिहश् च षट् पदानि विराजस् त्रीणि तानि नव । (डशमम् अहः) बृहत्यै चत्वारि तानि त्रयोदश । पङ्क्तेः पञ्च तान्य् अष्टादश । त्रिष्टुभश् चत्वारि तानि द्वाविंशतिः । जगत्यै च अतिच्छन्दसश् च अष्टौ तानि त्रिंशत् । द्विपदायै द्वे तानि द्वात्रिंशत् । इत्य् एषा पद्य अनुष्टुब् एकत्रिंशी भवति । अथ एषा देवत्या अनुष्टुप् । अष्टौ वसव एकादश रुद्रा द्वादश आदित्या इन्द्रो द्वात्रिंश इत्य् एषा देवत्या अनुष्टुप् द्वात्रिंशी भवति । अथ याः पञ्च पञ्चाशद् उद्धृताः । चतुश् चत्वारिंशत् ताः पङ्क्तयः । ततो याश् चत्वारिंशत् तद् ऊधः । अथ याश् चतस्रो अतियन्ति ते स्तनाः । सा एषा स्तोम अक्षर अनुष्टुब् एतेन ऊधसा एतैः स्तनैर् एतम् इन्द्रस्य आत्मानम् व्रत्यम् अहर् अभिक्षरति । सर्वेण अन्न अद्येन सर्वै रसैः सर्वैः कामैः सर्वेण अमृतत्वेन अभिक्षरति । एतस्या उ एव विक्षरेण छन्दोमाः स्तोमतश् च शस्त्रतश् च वर्धन्ते । यद् उ वै वेद तन्मयः सम्भवति । स य एवंविद् अस्य आयुषः परस्ताद् एतम् इन्द्रस्य आत्मानम् व्रत्यम् अहर् अभिसम्भवति । तम् एषा स्तोम अक्षर अनुष्टुब् एतेन ऊधसा एतैः स्तनैः सर्वेण अन्न अद्येन सर्वै रसैः सर्वैः कामैः सर्वेण अमृतत्वेन अभिक्षरति । य एवम् सम्पन्नम् दशमम् अहः शंसति । तस्माद् एवम् सम्पन्नम् दशमम् अहः शंसेद् इति ।

२७.४ सार्पराज्ञीमन्त्राः
अथ यद् व्यूह्ळस्यातिरिक्तोक्थं उपयन्ति । मन एव तत् प्रीणन्ति । तत् सर्व यज्ञैर् अनुशंसन्ति । एषा हि मनसो मात्रा । संस्थिते अहनि पुरा पत्नी सम्याजेभ्य एतस्मिन् काले संर्पसर्पन्ति । अयज्ञिया वै पत्न्यो बर्हिर् वेदि हि ता इति वदन्तः । संस्थितेषु पत्नी सम्याजेष्व् इति त्व् एव स्थितम् । अत्र अल्पको भ्रातृव्य लोकः परिशिष्टो भवति इति । ते संर्पसृप्य सार्पराज्ञ्या ऋक्षु स्तुवते । इयम् वै सार्पराज्ञी । इयम् हि सर्पतो राज्ञी । अथो वाग् वै सार्पराज्ञी । वाग्ग् हि सर्पतो राज्ञी । अथो गौर् वै सार्पराज्ञी । गौर् हि सर्पतो राज्ञीइ । आयम् गौः पृश्निर् अक्रमीद् इत्य् एतम् तृचम् न अन्तरियात् स्तोत्रियस्य आनन्तरित्यै । अस्मासु नृम्णम् धा इति । अन्नम् वै नृम्णम् । अन्नम् एव तद् यज्ञे च यजमानेषु च दधाति । आत्मानम् पूर्वम् आह । तथा अस्य आत्मा अनन्तरिता भवति । वातापेर् हवन श्रुत इति । इन्द्रो वै वातापिः । स ह वातम् आप्त्वा शरीराण्यर्हन् । प्रतिपरैत्य् अध्वर्युः । सो अनिरुक्ते गार्हपत्ये प्राजापत्ये द्वे आहुती जुहोति । प्रजापतिर् वै गार्हपत्यः । अनिरुक्त उ वै प्रजापतिः । आहुति संस्थे उ वै स्तुत शस्त्रे । समाप्तम् स्तोत्रम् समाप्तम् शस्त्रम् समाप्तम् ब्रह्म उद्यम् । अतो न्व् एव अपि काम यजेयुः । अथ भक्षयेयुः । अयम् वै वेनः प्रजापतेः प्रत्यक्षम् तन्वस् ता होता वदेत् ।
 
२७.५ प्रजापतेः शरीराणि
अन्नादी च अन्न पत्नी च । इयम् वा अन्न अद्यसाव् अन्न पत्नी । भद्रा च कल्याणी च । भद्रा तत् सोमः । कल्याणी तत् पशवः । अनिलया च अपभया च । अनिलया तद् वायुः । न ह्य् एष इलयति । अपभया तन् मृत्युः । न ह्य् एष बिभेति । अनाप्ता च अनाप्या च । इयम् वा ननाप्ता । असौ द्यौर् अनाप्या । अनाधृष्टा च अनाधृष्या च । अयम् वा अग्निर् अनाधृष्टा । अभ्रातृव्या तत् संवत्सरः । सो असाव् एव गृहपतिर् यो असौ तपति । एष हि गृहाणाम् पतिः । तस्य ऋतव एव गृहाः । एष पतिः । एष उ देवो अपहत पाप्मा । उदाद्रवत्य् अध्वर्युः । अपिदधति सदसो द्वारौ शालायाश् च ।

२७.६ वाग्विसर्जनम्
औदुम्बरीम् अन्वारभन्ते । ऊर्ग् वै अन्नाद्यम् उदुम्बरः । ऊर्जो अन्न अद्यस्य उपाप्त्यै । उत्तमौ पाणी होता कुर्वीत । उत्तमो असानि इति । उत्तमो ह एव भवति । ते वाचम् यमा आसत आ नक्षत्राणाम् दर्शनात् । वाचम् ह वा एतद् भूतान्य् आप्याययन्ति यद् वाचम् यमानि शेरते । आपीनाम् वाचम् अव्यासिक्ताम् अन्तत ऋध्नवाम इति । दृश्यमानेषु नक्षत्रेष्व् अदीक्षितो बहिस् तिष्ठन्न् आह दीक्षिता वेद इति । अपोर्णुवन्ति सदसो द्वारौ । एवम् शालायै । ते यथा प्रपन्नम् उपनिष्क्रम्य मार्जालीयन्य् अन्तेन नक्षत्रेषु चक्षुर् विसृजन्ते तच् चक्षुर् देव हितम् शुक्रम् उच्चरद् इति । ज्योतिर् वै नक्षत्राणि । ज्योतिर् एव तद् आत्मन् दधते । ते परया द्वारा हविर् धाने प्रपद्यन्ते । अथ अध्वर्युर् उत्तरस्य हविर्धानस्य कूबरीम् अभिपद्य आह सत्रस्य ऋधिम् गाय इति । गायति सत्रस्य ऋधिम् । तत् सत्रस्य ऋधिम् आप्नुवन्ति । सर्वे साम्नो निधनम् उपयन्ति । प्रतिष्ठा वै निधनम् प्रतिष्ठित्या एव । त उत्तरेण हविर् धाने गच्छन्त्य् अधोक्षम् वा उत्तरस्य ऐन्द्रीम् अतिच्छन्दसम् जपन्तः । अतिच्छन्दसा एव तद् अधोक्षम् पाप्मानम् अपघ्नते । ते न्व् आ उ वयम् उत्तरेण एव हविर् धाने परीम इति ह स्म आह कौषीतकिः । यज्ञस्य अनुसंचरम् सप्तऋषिभ्यो अनन्तर्हिता इति । ते अग्रेण हविर् धाने समुपविश्य काम ध्यायन्ति यम् यम् इच्छन्ति । स उ ह एभ्यः कामः समृध्यते । अथ य उ बहु कामा भवन्ति । भूर् भुवः स्वर् इत्य् एतास् ते व्याहृतीर् जपन्ति । ते पाअञ्च उदञ्च उत्क्रम्य वाचम् निह्वयन्ते । न इद् वाक् पराच्य् असद् इति । वाचम् एव तद् आत्मन् दधते । सुब्रह्मण्यया वाचम् विसृज्ञन्ते । ब्रह्म वै सुब्रह्मण्या । ब्रह्मणा एव तद् वाचम् विसृजन्ते । त आग्नीध्रे सह राजा संविशन्ते । तद् यथा राजानम् वा राज मात्रम् वा श्रान्तम् वेश्म प्रपाद्येयुः । एवम् एव एतत् सोमम् राजानम् अहर् अहर् हविर् धानाभ्याम् उपावहृत्य अग्नीध्रम् प्रपादयन्ति । त आग्नीध्रे सह राजा संविशन्ते ।

२७.७ दशरात्रछन्दांसि
अथ यत् समूढम् दशरात्रम् उपयन्ति । सर्वेषाम् एव कामानाम् आप्त्यै । अथ यद् व्यूढम् उपयन्ति । सर्वेषाम् एव छन्दसाम् आप्त्यै । अथ यद् व्यूढ समूढा उपयन्ति । दशरात्रस्य एव नानात्वम् । समूढ उ ह एव अग्र आस । तानि छन्दांस्य् अन्योन्यस्य स्थानम् अभिदध्युः । सर्वाणि प्रथमाणि स्याम सर्वाणि मध्यमानि सर्वाण्य् उत्तमानि इति । अथो सर्वाण्य् एव एतच् छन्दांसि सर्व सवन भाञ्जि कुर्वन्ति । गायत्र प्रातः सवनः प्रथमस् त्र्यहस् त्रिष्टुब् मध्यंदिनो जगत् तृतीय सवनः । जगत् प्रातः सवनो द्वितीयस् त्र्यहः गयत्र मध्यंदिनस् त्रिष्टुप् तृतीय सवनः । त्रिष्टुप् प्रातःसवनस् तृतीयस् त्र्यहो जगन् मध्यंदिनो गायत्र तृतीय सवनः । गायत्र् प्रातःसवनम् दशमम् अहः । तत् समानाच् छन्दस समानम् छन्द उपसंगच्छन्ते । अथ यद् दशमम् अहर् अनुष्टुभम् अभिसम्पादयति । वाग् वा एतद् अहः । वाग् अनुष्टुप् । वाच्य् एव तद् वाचम् प्रतिष्ठापयन्ति । ते अमृतत्वम् आप्नुवन्ति ये दशमम् अहर् उपयन्ति ये दशमम् अहर् उपयन्ति ।

२७.१ दशममहः
यद् दिव्य् उपरि तद् दशमम् अहर् इति ह स्म आह कौषीतकिः ।
तस्मात् तद् अविवाक्यम् भवति ।
न हि तद् अद्धा वेद कश्चन ।
न इद् अविद्वान् विब्रवाणि इति ।
मितम् एतद् देव कर्म यद् दशमम् अहर् अनुष्टुब् एव ।
स यो व्याह ।
सो अतिरेचयति ।
ईश्वरो विवक्तारम् भ्रेषो अव्नेतोः ।
तद् उ वा आहुर् व्य् एव ब्रूयात् ।
नन्दति ह वै यज्ञो विदुषा आगच्छता ।
यन् मे असमृद्धम् भविष्यत्य् अयम् मे तत् समर्धयिष्यति इति ।
यदि कश्चित् प्रमत्त उपहन्यात् ।
यस् तद् अधीयात् ।
यस् तम् तत्र ब्रूयात् ।
स तम् देशम् पार्श्वतः स्वाध्यायम् अधीयीत ।
अपि वा गृहपतिर् वा ऋत्विजाम् वा एकः पर्यवसर्पेत् ।
स तम् देशम् पार्श्वतः स्वाध्यायम् शंसेत् ।
यदि तथा न मन्येत ।
तम् प्रत्य् एव विब्रूयात् ।
उत्सृज्यते दशमे अहन्य् अनुष्टुप् ।
वाग् अनुष्टुप् ।
सा एषा वाग् व्रत दोहुषी क्रूर वहा इव भवति ।
तस्माद् उत्सृज्यते ।
न इद् वाचम् आसीदाम इति ।
अथ इतराणि छन्दांस्य् अनुष्टुभम् अभिसम्पादयति ।
तद् एतन्न् आह एव अभिमृशे शूद्राम् ।
नो एनाम् प्रसिसृक्षामि ।
नो त्व् एव अन्यत्र यामक पौंश्चल्वायनम् मे अस्ति इति ।
अनुष्टुब्ब् ह्य् एषा दशमे अहन् परिगीता ।
तद् आहुर् न अनुष्टुभ आयतनम् रिञ्च्यात् ।
विराजस् तत्र अनुब्रूयात् ।
समानम् वा एतच् छन्दो यद् विराट् च अनुष्टुप् च ।
न ह्य् एकेन अक्षरेण अन्यच् छन्दो भवति ।
नो द्वाभ्याम् इति ।
तयोर् वा एतयोस् तृचयोः षड् अक्षराण्य् अभ्युद्यन्ति ।
अग्निम् नरो दीधितिभिर् अरण्योर् अग्निष्टोम साम्नः स्तोत्रिय अनुरूपयोः षट् ।
तानि द्वादश अक्षराणि ।
होता प्रातर् अनुवाके सम्पादयेत् ।
न आद्रियेत अत्र एव सम्पन्नम् ।
उष्णिग् उदैति इति मेनिमहे ।
गायत्री वा ।
ताम् प्रातर् अनुवाके सम्पादयेत् ।
न आद्रियेत अत्र वै सम्पन्नम् ।

२७.२ दशममहः शस्त्रम्
अग्ने तम् अद्य अश्वम् न स्तोमैर् इत्य् आज्यम् ।
तद् एतत् सृष्टम् दशमाय अह्ने न सम्पादयेत् ।
न आद्रियेत अत्र एव सम्पन्नम् ।
माधुच् छन्दसः प्रौगस् तस्य उक्तम् ब्राह्मणम् ।
त्रिकद्रुकेषु महिषो यवाशिरम् तुविशुष्म इत्य् अतिच्छन्दसा मरुत्वतीयम् प्रतिपद्यते ।
सा सम्पन्ना चतुः षष्ट्य् अक्षरा ।
ते द्वे अनुष्टुभौ सम्पद्येते ।
तत् सम्पन्नम् ।
पिन्वन्त्य् अपीयया द्वौ प्रगाथौ संशंसति बृहद् इन्द्राय गायत प्र व इन्द्राय बृहत इति ।
तत् सम्पन्नम् ।
ऐकाहिकम् मरुत्वतीयम् ।
प्रतिष्ठा वा एकाहः प्रतिष्ठित्या एव ।
कया नश् चित्र आ भुवत् कया त्वम् न ऊत्या इति वामदेव्यस्य योनौ रथन्तरम् ऊढम् भवत्य् आग्नेयम् साम ऐद्रीषु ।
तन् मिथुनम् प्रजात्यै रूपम् ।
यावन्तः प्रगाथास् तावन्त्य् औष्णिहानि तृचानि ।
धाय्याम् अन्या द्विपदा भजते ।
सप्तदशीम् अन्या सूक्तस्य ।
तत् सम्पन्नम् ।
ऐकाहिकम् निष्केवल्यम् ।
प्रतिष्ठा वा एकाहः प्रतिष्ठा दशमम् अहः ।
प्रतिष्ठानीयम् वै छन्दो द्विपदे प्रतिष्ठित्या एव ।
अभि त्यम् देवम् सवितारम् ओण्योः कवि क्रतुम् इत्य् अतिच्छन्दसा वैश्वदेवम् प्रतिपद्यते ।
सा सम्पन्ना चतुः षष्ट्य् अक्षरा ।
ते द्वे अनुष्टुभौ सम्पदेते ।
तत् सम्पन्नम् ।
अभिवान् अनुचरस् तस्य उक्तम् ब्राह्मणम् ।
अथ नित्यम् एव ऐकाहिकम् तृतीय सवनम् ।
प्रतिष्ठा वा एकाहः प्रतिष्ठित्या एव ।
तत्र पुरस्ताद् आनोभद्रीयस्य प्रशुक्रीयम् शंसति ।
प्रतिष्ठा वा एकाहः प्रतिष्ठा दशमम् अहः ।
प्रतिष्ठानीयम् वै छन्दो द्विपदाः प्रतिष्ठित्या एव ।
विराट्सु वामदेव्यम् अग्निष्टोम साम भवति ।
श्रीर् विराड् अन्नाद्यम् ।
श्रियो विराजो अन्न अद्यस्य उपाप्त्यै ।
अथो शान्तिर् वै भेषजम् वामदेव्यम् ।
शान्तिर् एव एषा भेषजम् अन्ततो यज्ञे क्रियते ।

२७.३ मन्त्राः
अथ यत् समूढस्य अतिरिक्त उक्थम् उपयन्ति ।
तेन ह अतिरिक्त उक्थम् आप्नुवन्ति ।
अथ एष दशमस्य अह्नो दोहः ।
यथा सहस्रम् च पञ्चदश च अनुष्टुभः स्युः ।
तथा एतद् अहः सम्पादयेत् ।
पञ्चदश उद्धृत्य शतस्य शतस्य चतस्रश् चतस्र उद्धरति ।
ताश् चत्वारिंशत् ।
पूर्वाः पञ्चदश ।
ताः पञ्च पञ्चाशद् उद्धृताः ।
अथ इतरे त्रिंशद् द्वात्रिंशद् वर्गाः ।
अथ एषा पद्या अनुष्टुप् ।
गायत्र्यै च उष्णिहश् च षट् पदानि विराजस् त्रीणि तानि नव । (डशमम् अहः)
बृहत्यै चत्वारि तानि त्रयोदश ।
पङ्क्तेः पञ्च तान्य् अष्टादश ।
त्रिष्टुभश् चत्वारि तानि द्वाविंशतिः ।
जगत्यै च अतिच्छन्दसश् च अष्टौ तानि त्रिंशत् ।
द्विपदायै द्वे तानि द्वात्रिंशत् ।
इत्य् एषा पद्य अनुष्टुब् एकत्रिंशी भवति ।
अथ एषा देवत्या अनुष्टुप् ।
अष्टौ वसव एकादश रुद्रा द्वादश आदित्या इन्द्रो द्वात्रिंश इत्य् एषा देवत्या अनुष्टुप् द्वात्रिंशी भवति ।
अथ याः पञ्च पञ्चाशद् उद्धृताः ।
चतुश् चत्वारिंशत् ताः पङ्क्तयः ।
ततो याश् चत्वारिंशत् तद् ऊधः ।
अथ याश् चतस्रो अतियन्ति ते स्तनाः ।
सा एषा स्तोम अक्षर अनुष्टुब् एतेन ऊधसा एतैः स्तनैर् एतम् इन्द्रस्य आत्मानम् व्रत्यम् अहर् अभिक्षरति ।
सर्वेण अन्न अद्येन सर्वै रसैः सर्वैः कामैः सर्वेण अमृतत्वेन अभिक्षरति ।
एतस्या उ एव विक्षरेण छन्दोमाः स्तोमतश् च शस्त्रतश् च वर्धन्ते ।
यद् उ वै वेद तन्मयः सम्भवति ।
स य एवंविद् अस्य आयुषः परस्ताद् एतम् इन्द्रस्य आत्मानम् व्रत्यम् अहर् अभिसम्भवति ।
तम् एषा स्तोम अक्षर अनुष्टुब् एतेन ऊधसा एतैः स्तनैः सर्वेण अन्न अद्येन सर्वै रसैः सर्वैः कामैः सर्वेण अमृतत्वेन अभिक्षरति ।
य एवम् सम्पन्नम् दशमम् अहः शंसति ।
तस्माद् एवम् सम्पन्नम् दशमम् अहः शंसेद् इति ।

२७.४ सार्पराज्ञीमन्त्राः
अथ यद् व्यूह्ळस्यातिरिक्तोक्थं उपयन्ति ।
मन एव तत् प्रीणन्ति ।
तत् सर्व यज्ञैर् अनुशंसन्ति ।
एषा हि मनसो मात्रा ।
संस्थिते अहनि पुरा पत्नी सम्याजेभ्य एतस्मिन् काले संर्पसर्पन्ति ।
अयज्ञिया वै पत्न्यो बर्हिर् वेदि हि ता इति वदन्तः ।
संस्थितेषु पत्नी सम्याजेष्व् इति त्व् एव स्थितम् ।
अत्र अल्पको भ्रातृव्य लोकः परिशिष्टो भवति इति ।
ते संर्पसृप्य सार्पराज्ञ्या ऋक्षु स्तुवते ।
इयम् वै सार्पराज्ञी ।
इयम् हि सर्पतो राज्ञी ।
अथो वाग् वै सार्पराज्ञी ।
वाग्ग् हि सर्पतो राज्ञी ।
अथो गौर् वै सार्पराज्ञी ।
गौर् हि सर्पतो राज्ञीइ ।
आयम् गौः पृश्निर् अक्रमीद् इत्य् एतम् तृचम् न अन्तरियात् स्तोत्रियस्य आनन्तरित्यै ।
अस्मासु नृम्णम् धा इति ।
अन्नम् वै नृम्णम् ।
अन्नम् एव तद् यज्ञे च यजमानेषु च दधाति ।
आत्मानम् पूर्वम् आह ।
तथा अस्य आत्मा अनन्तरिता भवति ।
वातापेर् हवन श्रुत इति ।
इन्द्रो वै वातापिः ।
स ह वातम् आप्त्वा शरीराण्यर्हन् ।
प्रतिपरैत्य् अध्वर्युः ।
सो अनिरुक्ते गार्हपत्ये प्राजापत्ये द्वे आहुती जुहोति ।
प्रजापतिर् वै गार्हपत्यः ।
अनिरुक्त उ वै प्रजापतिः ।
आहुति संस्थे उ वै स्तुत शस्त्रे ।
समाप्तम् स्तोत्रम् समाप्तम् शस्त्रम् समाप्तम् ब्रह्म उद्यम् ।
अतो न्व् एव अपि काम यजेयुः ।
अथ भक्षयेयुः ।
अयम् वै वेनः प्रजापतेः प्रत्यक्षम् तन्वस् ता होता वदेत् ।

२७.५ प्रजापतेः शरीराणि
अन्नादी च अन्न पत्नी च ।
इयम् वा अन्न अद्यसाव् अन्न पत्नी ।
भद्रा च कल्याणी च ।
भद्रा तत् सोमः ।
कल्याणी तत् पशवः ।
अनिलया च अपभया च ।
अनिलया तद् वायुः ।
न ह्य् एष इलयति ।
अपभया तन् मृत्युः ।
न ह्य् एष बिभेति ।
अनाप्ता च अनाप्या च ।
इयम् वा ननाप्ता ।
असौ द्यौर् अनाप्या ।
अनाधृष्टा च अनाधृष्या च ।
अयम् वा अग्निर् अनाधृष्टा ।
अभ्रातृव्या तत् संवत्सरः ।
सो असाव् एव गृहपतिर् यो असौ तपति ।
एष हि गृहाणाम् पतिः ।
तस्य ऋतव एव गृहाः ।
एष पतिः ।
एष उ देवो अपहत पाप्मा ।
उदाद्रवत्य् अध्वर्युः ।
अपिदधति सदसो द्वारौ शालायाश् च ।

२७.६ वाग्विसर्जनम्
औदुम्बरीम् अन्वारभन्ते ।
ऊर्ग् वै अन्नाद्यम् उदुम्बरः ।
ऊर्जो अन्न अद्यस्य उपाप्त्यै ।
उत्तमौ पाणी होता कुर्वीत ।
उत्तमो असानि इति ।
उत्तमो ह एव भवति ।
ते वाचम् यमा आसत आ नक्षत्राणाम् दर्शनात् ।
वाचम् ह वा एतद् भूतान्य् आप्याययन्ति यद् वाचम् यमानि शेरते ।
आपीनाम् वाचम् अव्यासिक्ताम् अन्तत ऋध्नवाम इति ।
दृश्यमानेषु नक्षत्रेष्व् अदीक्षितो बहिस् तिष्ठन्न् आह दीक्षिता वेद इति ।
अपोर्णुवन्ति सदसो द्वारौ ।
एवम् शालायै ।
ते यथा प्रपन्नम् उपनिष्क्रम्य मार्जालीयन्य् अन्तेन नक्षत्रेषु चक्षुर् विसृजन्ते तच् चक्षुर् देव हितम् शुक्रम् उच्चरद् इति ।
ज्योतिर् वै नक्षत्राणि ।
ज्योतिर् एव तद् आत्मन् दधते ।
ते परया द्वारा हविर् धाने प्रपद्यन्ते ।
अथ अध्वर्युर् उत्तरस्य हविर्धानस्य कूबरीम् अभिपद्य आह सत्रस्य ऋधिम् गाय इति ।
गायति सत्रस्य ऋधिम् ।
तत् सत्रस्य ऋधिम् आप्नुवन्ति ।
सर्वे साम्नो निधनम् उपयन्ति ।
प्रतिष्ठा वै निधनम् प्रतिष्ठित्या एव ।
त उत्तरेण हविर् धाने गच्छन्त्य् अधोक्षम् वा उत्तरस्य ऐन्द्रीम् अतिच्छन्दसम् जपन्तः ।
अतिच्छन्दसा एव तद् अधोक्षम् पाप्मानम् अपघ्नते ।
ते न्व् आ उ वयम् उत्तरेण एव हविर् धाने परीम इति ह स्म आह कौषीतकिः ।
यज्ञस्य अनुसंचरम् सप्तऋषिभ्यो अनन्तर्हिता इति ।
ते अग्रेण हविर् धाने समुपविश्य काम ध्यायन्ति यम् यम् इच्छन्ति ।
स उ ह एभ्यः कामः समृध्यते ।
अथ य उ बहु कामा भवन्ति ।
भूर् भुवः स्वर् इत्य् एतास् ते व्याहृतीर् जपन्ति ।
ते पाअञ्च उदञ्च उत्क्रम्य वाचम् निह्वयन्ते ।
न इद् वाक् पराच्य् असद् इति ।
वाचम् एव तद् आत्मन् दधते ।
सुब्रह्मण्यया वाचम् विसृज्ञन्ते ।
ब्रह्म वै सुब्रह्मण्या ।
ब्रह्मणा एव तद् वाचम् विसृजन्ते ।
त आग्नीध्रे सह राजा संविशन्ते ।
तद् यथा राजानम् वा राज मात्रम् वा श्रान्तम् वेश्म प्रपाद्येयुः ।
एवम् एव एतत् सोमम् राजानम् अहर् अहर् हविर् धानाभ्याम् उपावहृत्य अग्नीध्रम् प्रपादयन्ति ।
त आग्नीध्रे सह राजा संविशन्ते ।

२७.७ दशरात्रछन्दांसि
अथ यत् समूढम् दशरात्रम् उपयन्ति ।
सर्वेषाम् एव कामानाम् आप्त्यै ।
अथ यद् व्यूढम् उपयन्ति ।
सर्वेषाम् एव छन्दसाम् आप्त्यै ।
अथ यद् व्यूढ समूढा उपयन्ति ।
दशरात्रस्य एव नानात्वम् ।
समूढ उ ह एव अग्र आस ।
तानि छन्दांस्य् अन्योन्यस्य स्थानम् अभिदध्युः ।
सर्वाणि प्रथमाणि स्याम सर्वाणि मध्यमानि सर्वाण्य् उत्तमानि इति ।
अथो सर्वाण्य् एव एतच् छन्दांसि सर्व सवन भाञ्जि कुर्वन्ति ।
गायत्र प्रातः सवनः प्रथमस् त्र्यहस् त्रिष्टुब् मध्यंदिनो जगत् तृतीय सवनः ।
जगत् प्रातः सवनो द्वितीयस् त्र्यहः गयत्र मध्यंदिनस् त्रिष्टुप् तृतीय सवनः ।
त्रिष्टुप् प्रातःसवनस् तृतीयस् त्र्यहो जगन् मध्यंदिनो गायत्र तृतीय सवनः ।
गायत्र् प्रातःसवनम् दशमम् अहः ।
तत् समानाच् छन्दस समानम् छन्द उपसंगच्छन्ते ।
अथ यद् दशमम् अहर् अनुष्टुभम् अभिसम्पादयति ।
वाग् वा एतद् अहः ।
वाग् अनुष्टुप् ।
वाच्य् एव तद् वाचम् प्रतिष्ठापयन्ति ।
ते अमृतत्वम् आप्नुवन्ति ये दशमम् अहर् उपयन्ति ये दशमम् अहर् उपयन्ति ।