तैत्तिरीयब्राह्मणम् (विस्वरपाठः)/काण्डः २/प्रपाठकः ०८

विकिस्रोतः तः
Jump to navigation Jump to search

2.8.1.1 काम्यपशूनां याज्यानुवाक्याः

पीवोन्नाँ रयिवृधः सुमेधाः । श्वेतः सिषक्ति नियुतामभिश्रीः । ते वायवे समनसो वितस्थुः । विश्वेन्नरः स्वपत्यानि चक्रुः । रायेऽनु यं जज्ञतू रोदसी उभे । राये देवी धिषणा धाति देवम् । अधा वायुं नियुतः सश्चत स्वाः । उत श्वेतं वसुधितिं निरेके । आ वायो । प्र याभिः । प्र वायुमच्छा बृहती मनीषा १

बृहद्र यिं विश्ववाराँ रथप्राम् । द्युतद्यामा नियुतः पत्यमानः । कविः कविमियक्षसि प्रयज्यो । आ नो नियुद्भिः शतिनीभिरध्वरम् । सहस्रिणी-भिरुप याहि यज्ञम् । वायो अस्मिन्हविषि मादयस्व । यूयं पात स्वस्तिभिः सदा नः । प्रजापते न त्वदेतान्यन्यः । विश्वा जातानि परि ता बभूव । यत्कामास्ते जुहुमस्तन्नो अस्तु २

वयँ स्याम पतयो रयीणाम् । रयीणां पतिं यजतं बृहन्तम् । अस्मिन्भरे नृतमं वाजसातौ । प्रजापतिं प्रथमजामृतस्य । यजाम देवमधि नो ब्रवीतु । प्रजापते त्वं निधिपाः पुराणः । देवानां पिता जनिता प्रजानाम् । पतिर्विश्वस्य जगतः परस्पाः । हविर्नो देव विहवे जुषस्व । तवेमे लोकाः प्रदिशो दिशश्च ३
परावतो निवत उद्वतश्च । प्रजापते विश्वसृज्जीवधन्य इदं नो देव । प्रतिहर्य हव्यम् । प्रजापतिं प्रथमं यज्ञियानाम् । देवानामग्रे यजतं यजध्वम् । स नो ददातु द्र विणँ सुवीर्यम् । रायस्पोषं विष्यतु नाभिमस्मे । यो राय ईशे शतदाय उक्थ्यः । यः पशूनाँ रक्षिता विष्ठितानाम् । प्रजापतिः प्रथमजा ऋतस्य ४

सहस्रधामा जुषताँ हविर्नः । सोमापूषणेमौ देवौ । सोमापूषणा रजसो विमानम् । सप्तचक्रँ रथमविश्वमिन्वम् । विषूवृतं मनसा युज्यमानम् । तं जिन्वथो वृषणा पञ्चरश्मिम् । दिव्यन्यः सदनं चक्र उच्चा । पृथिव्यामन्यो अध्यन्तरिक्षे । तावस्मभ्यं पुरुवारं पुरुक्षुम् । रायस्पोषं विष्यतां नाभिमस्मे ५

धियं पूषा जिन्वतु विश्वमिन्वः । रयिँ सोमो रयिपतिर्दधातु । अवतु देव्यदितिरनर्वा । बृहद्वदेम विदथे सुवीराः । विश्वान्यन्यो भुवना जजान । विश्वमन्यो अभिचक्षाण एति । सोमापूषणाववतं धियं मे । युवभ्यां विश्वाः पृतना जयेम । उदुत्तमं वरुणास्तभ्नाद्द्याम् । यत्किं चेदं कितवासः । अव ते हेडस्तत्त्वा यामि । आदित्यानामवसा न दक्षिणा । धारयन्त आदित्यासस्तिस्रो भूमीर्धारयन् । यज्ञो देवानाँ शुचिरपः ६


2.8.2

ते शुक्रासः शुचयो रश्मिवन्तः । सीदन्नादित्या अधि बर्हिषि प्रिये । कामेन देवाः सरथं दिवो नः । आयान्तु यज्ञमुप नो जुषाणाः । ते सूनवो अदितेः पीवसामिषम् । घृतं पिन्वत्प्रतिहर्यन्नृतेजाः । प्र यज्ञिया यजमानाय येमुरे । आदित्याः कामं पितुमन्तमस्मे । आ नः पुत्रा अदितेर्यान्तु यज्ञम् । आदित्यासः पथिभिर्देवयानैः ७

अस्मे कामं दाशुषे सन्नमन्तः । पुरोडाशं घृतवन्तं जुषन्ताम् । स्कभायत निरृतिँ सेधतामतिम् । प्र रशिभिर्यतमाना अमृध्राः । आदित्याः काम प्रयतां वषट्कृतिम् । जुषध्वं नो हव्यदातिं यजत्राः । आदित्यान्काममवसे हुवेम । ये भूतानि जनयन्तो विचिख्युः । सीदन्तु पुत्रा अदितेरुपस्थम् । स्तीर्णं बर्हिर्हविरद्याय देवाः ८
स्तीर्णं बर्हिः सीदता यज्ञे अस्मिन् । ध्राजाः सेधन्तो अमतिं दुरेवाम् । अस्मभ्यं पुत्रा अदितेः प्रयँ सत । आदित्याः काम हविषो जुषाणाः । अग्ने नय सुपथा राये अस्मान् । विश्वानि देव वयुनानि विद्वान् । युयोध्यस्मज्जुहुराणमेनः । भूयिष्ठां ते नमौक्तिं विधेम । प्र वः शुक्राय भानवे भरध्वम् । हव्यं मतिं चाग्नये सुपूतम् ९

यो दैव्यानि मानुषा जनूँ षि । अन्तर्विश्वानि विद्मना जिगाति । अच्छा गिरो मतयो देवयन्तीः । अग्निं यन्ति द्र विणं भिक्षमाणाः । सुसंदृशँ सुप्रतीकँ स्वञ्चम् । हव्यवाहमरतिं मानुषाणाम् । अग्ने त्वमस्मद्युयोध्यमीवाः । अनग्नित्रा अभ्यमन्त कृष्टीः । पुनरस्मभ्यँ सुविताय देव । क्षां विश्वेभिरजरेभिर्यजत्र १०

अग्ने त्वं पारया नव्यो अस्मान् । स्वस्तिभिरति दुर्गाणि विश्वा । पूश्च पृथ्वी बहुला न उर्वी ।भवा तोकाय तनयाय शं योः । प्र कारवो मनना वच्यमानाः । देवद्री चीं नयथ देवयन्तः । दक्षिणावाड्वाजिनी प्राच्येति । हविर्भरन्त्यग्नये घृताची ।इन्द्रं नरो । युजे रथम् । ।जगृभ्णा ते दक्षिणामिन्द्र हस्तम् ११

वसूयवो वसुपते वसूनाम् । विद्मा हि त्वा गोपतिँ शूर गोनाम् । अस्मभ्यं चित्रं वृषणँ रयिं दाः । तवेदं विश्वमभितः पशव्यम् । यत्पश्यसि चक्षसा सूर्यस्य । गवामसि गोपतिरेक इन्द्र । भक्षीमहि ते प्रयतस्य वस्वः । समिन्द्र णो मनसा नेषि गोभिः । सँ सूरिभिर्मघवन्त्सँ स्वस्त्या । सं ब्रह्मणा देवकृतं यदस्ति १२

सं देवानाँ सुमत्या यज्ञियानाम् । आराच्छत्रुमप बाधस्व दूरम् । उग्रो यः शम्बः पुरुहूत तेन । अस्मे धेहि यवमद्गोमदिन्द्र । कृधी धियं जरित्रे वाजरत्नाम् । आ वेधसँ । स हि शुचिः । बृहस्पतिः प्रथमं जायमानः । महो ज्योतिषः परमे व्योमन् । सप्तास्यस्तुविजातो रवेण । वि सप्तरश्मिरधमत्तमाँ सि १३

बृहस्पतिः समजयद्वसूनि । महो व्रजान्गोमतो देव एषः । अपः सिषासन्त्सुवरप्रतीत्तः । बृहस्पतिर्हन्त्यमित्रमर्कैः । बृहस्पते परि । एवा पित्रे । आ नो दिवः । पावीरवी । इमा जुह्वाना । यस्ते स्तनः । सरस्वत्यभि नो नेषि । इयँ शुष्मेभिर्बिसखा इवारुजत् । सानु गिरीणां तविषेभिरूर्मिभिः । पारावदघ्नीमवसे सुवृक्तिभिः । सरस्वतीमाविवासेम धीतिभिः १४


2.8.3

सोमो धेनुँ सोमो अर्वन्तमाशुम् । सोमो वीरं कर्मण्यं ददातु । सादन्यं विदथ्यँ सभेयम् । पितुःश्रवणं यो ददाशदस्मै । अषाढं युत्सु । त्वँ सोम क्रतुभिः । ।या ते धामानि हविषा यजन्ति । ।त्वमिमा ओषधीः सोम विश्वाः । त्वमपो अजनयस्त्वं गाः । त्वमाततन्थोर्वन्तरिक्षम् । त्वं ज्योतिषा वि तमो ववर्थ १५

या ते धामानि दिवि या पृथिव्याम् । या पर्वतेष्वोषधीष्वप्सु । तेभिर्नो विश्वैः सुमना अहेडन् । राजन्त्सोम प्रति हव्या गृभाय । विष्णोर्नु कं। तदस्य प्रियम् । प्र तद्विणुः । ।परो मात्रया तनुवा वृधान । न ते महित्वमन्व-श्नुवन्ति । उभे ते विद्म रजसी पृथिव्या विष्णो देव त्वम् । परमस्य वित्से १६

विचक्रमे । त्रिर्देवः । आ ते महो । यो जात एव । अभि गोत्राणि । आभिः स्पृधो मिथतीररिषण्यन् । अमित्रस्य व्यथया मन्युमिन्द्र आभिर्विश्वा अभियुजो विषूचीः । आर्याय विशोऽवतरीर्दासीः । अयँ शृण्वे अध जयन्नुत घ्नन् । अयमुत प्रकृणुते युधा गाः । यदा सत्यं कृणुते मन्युमिन्द्रः १७

विश्वं दृढं भयत एजदस्मात् । अनु स्वधामक्षरन्नापो अस्य । अवर्धत मध्य आ नाव्यानाम् । सध्रीचीनेन मनसा तमिन्द्र ओजिष्ठेन । हन्मनाहन्नभि द्यून् । मरुत्वन्तं वृषभं वावृधानम् । अकवारिं दिव्यँ शासमिन्द्र म् । विश्वा-साहमवसे नूतनाय । उग्रँ सहोदामिह तँ हुवेम । जनिष्ठा उग्रः सहसे तुराय १८

मन्द्र ओजिष्ठो बहुलाभिमानः । अवर्धन्निन्द्रं मरुतश्चिदत्र । माता यद्वीरं दधनद्धनिष्ठा । क्व स्या वो मरुतः स्वधासीत् । यन्मामेकँ समधत्ताहिहत्ये । अहँ ह्युग्रस्तविषस्तुविष्मान् । विश्वस्य शत्रोरनमं वधस्नैः । वृत्रस्य त्वा श्वसथादीषमाणाः । विश्वे देवा अजहुर्ये सखायः । मरुद्भिरिन्द्र सख्यं ते अस्तु १९

अथेमा विश्वाः पृतना जयासि । वधीं वृत्रं मरुत इन्द्रि येण । स्वेन भामेन तविषो बभूवान् । अहमेता मनवे विश्वश्चन्द्रा ः! । सुगा अपश्चकर वज्रबाहुः । स यो वृषा वृष्णियेभिः समोकाः । महो दिवः पृथिव्याश्च सम्राट् । सतीनसत्त्वा हव्यो भरेषु । मरुत्वान्नो भवत्विन्द्र ऊती । इन्द्रो वृत्रमतरद्वृत्रतूर्ये २०

अनाधृष्यो मघवा शूर इन्द्रः । अन्वेनं विशो अमदन्त पूर्विः । अयँ राजा जगतश्चर्षणीनाम् । स एव वीरः स उ वीर्यावान् । स एकराजो जगतः परस्पाः । यदा वृत्रमतरच्छूर इन्द्रः । अथाभवद्दमिताभिक्रतूनाम् । इन्द्रो यज्ञं वर्धयन्विश्ववेदाः । पुरोडाशस्य जुषताँ हविर्नः । वृत्रं तीर्त्वा दानवं वज्रबाहुः २१

दिशोऽदृँ हद्दृँ हिता दृँ हणेन । इमं यज्ञं वर्धयन्विश्ववेदाः । पुरोडाशं प्रतिगृभ्णात्विन्द्रः । यदा वृत्रमतर्च्छूर इन्द्रः । अथैकराजो अभवज्जनानाम् । इन्द्रो देवाञ्शम्बरहत्य आवत् । इन्द्रो देवानामभवत्पुरोगाः । इन्द्रो यज्ञे हविषा वावृधानः । वृत्रतूर्णो अभयँ शर्म यँ सत् । यः सप्त सिन्धूँ रदधा-त्पृथिव्याम् । यः सप्त लोकानकृणोद्दिशश । इन्द्रो हविष्मान्त्सगणो मरुद्भिः । वृत्रतूर्णो यज्ञमिहोपयासत् २२


2.8.4

इन्द्र स्तरस्वानभिमातिहोग्रः । हिरण्यवाशीरिषिरः सुवर्षाः । तस्य वयँ सुमतौ यज्ञियस्य । अपि भद्रे सौमनसे स्याम । हिरण्यवर्णो अभयं कृणोतु । अभिमातिहेन्द्रः पृतनासु जिष्णुः । स नः शर्म त्रिवरूथं वियँ सत् । यूयं पात स्वस्तिभिः सदा नः । इन्द्र ँ! स्तुहि वज्रिणँ स्तोमपृष्ठम् । पुरोडाशस्य जुषताँ हविर्नः २३

हत्वाभिमातीः पृतनाः सहस्वान् । अथाभयं कृणुहि विश्वतो नः । स्तुहि शूरं वज्रिणमप्रतीतम् । अभिमातिहनं पुरुहूतमिन्द्र म् । य एक इच्छतपतिर्जनेषु । तस्मा इन्द्रा य हविराजुहोत । इन्द्रो देवानामधिपाः पुरोहितः । दिशां पतिरभवद्वाजिनीवान् । अभिमातिहा तविषस्तुविष्मान् । अस्मभ्यं चित्रं वृषणँ रयिं दात् २४

य इमे द्यावापृथिवी महित्वा । बलेनादृँ हदभिमातिहेन्द्रः । स नो हविः प्रतिगृभ्णातु रातये । देवानां देवो निधिपा नो अव्यात् । अनवस्ते रथं। वृष्णे यत्ते । इन्द्र स्य नु वीर्याण्य् । अहन्नहिम् । ।इन्द्रो यातोऽवसितस्य राजा । शमस्य च शृङ्गिणो वज्रबाहुः । सेदु राजा क्षेति चर्षणीनाम् । अरान्न नेमिः परि ता बभूव २५

अभि सिध्मो अजिगादस्य शत्रून् । वि तिग्मेन वृषभेणा पुरोऽभेत् । सं वज्रेणासृजद्वृत्रमिन्द्रः । प्र स्वां मतिमतिरच्छाशदानः । विष्णुं देवं वरुणमूतये भगम् । मेदसा देवा वपया यजध्वम् । ता नो यज्ञमागतं विश्वधेना । प्रजावदस्मे द्र विणेह धत्तम् । मेदसा देवा वपया यजध्वम् । विष्णुं च देवं वरुणं च रातिम् २६

ता नो अमीवा अपबाधमानौ । इमं यज्ञं जुषमाणावुपेतम् । विष्णूवरुणा युवमध्वराय नः । विशे जनाय महि शर्म यच्छतम् । दीर्घप्रयज्यू हविषा वृधाना । ज्योतिषारातीर्दहतं तमाँ सि । ययोरोजसा स्कभिता रजाँ सि । वीर्येभिर्वीरतमा शविष्ठा । या पत्येते अप्रतीता शहोभिः । विष्णू अगन्वरुणा पूर्वहूतौ २७

विष्णूवरुणावभिशस्तिपा वाम् । देवा यजन्त हविषा घृतेन । अपामीवाँ सेधतँ रक्षसश्च । अथा धत्तं यजमानाय शं योः । अँ होमुचा वृषभा सुप्रतूर्ती । देवानां देवतमा शविष्ठा । विष्णूवरुणा प्रतिहर्यतं नः । इदं नरा प्रयतमूतये हविः । मही नु द्यावापृथिवी इह ज्येष्ठे । रुचा भवताँ शुचयद्भिरर्कैः २८

यत्सीं वरिष्ठे बृहती विमिन्वन् । नृवद्भ्योऽक्षा पप्रथानेभिरेवैः । प्र पूर्वजे पितरा नव्यसीभिः । गीर्भिः कृणुध्वँ सदने ऋतस्य । आ नो द्यावापृथिवी दैव्येन । जनेन यातं महि वां वरूथम् । स इत्स्वपा भुवनेष्वास । य इमे द्यावापृथिवी जजान । उर्वी गभीरे रजसी सुमेके । अवँ शे धीरः शच्या समैरत् २९

भूरिं द्वे अचरन्ती चरन्तम् । पद्वन्तं गर्भमपदी दधाते । नित्यं न सूनुं पित्रोरुपस्थे । तं पिपृतँ रोदसी सत्यवाचम् । इदं द्यावापृथिवी सत्यमस्तु । पितर्मातर्यदिहोपब्रुवे वाम् । भूतं देवानामवमे अवोभिः । विद्यामेषं वृजनं जीरदानुम् । उर्वी पृथ्वी बहुले दूरेऽन्ते । उपब्रुवे नमसा यज्ञे अस्मिन् । दधाते ये सुभगे सुप्रतूर्ती ।द्यावा रक्षतं पृथिवी नो अभ्वात् । या जाता ओषधयो । ऽति विश्वाः परिष्ठाः । ।या ओषधयः सोमराज्ञीर् । अश्वावतीँ सोमवतीम् । ओषधीरिति मातरो । अन्या वो अन्यामवतु ३०


2.8.5

शुचिं नु स्तोमँ । श्नथद्वृत्रम् । ।उभा वामिन्द्रा ग्नी। प्र चर्षणिभ्यः । ।आ वृत्रहणा । गीर्भिर्विप्रः । ।ब्रह्मणस्पते त्वमस्य यन्ता । सूक्तस्य बोधि तनयं च जिन्व । विश्वं तद्भद्रं यदवन्ति देवाः । बृहद्वदेम विदथे सुवीराः । स ईँ सत्येभिः सखिभिः शुचद्भिः । गोधायसं वि धनसैरतर्दत् । ब्रह्मणस्पतिर्वृषभिर्वराहैः ३१

घर्मस्वेदोभिर्द्र विणं व्यानट् । ब्रह्मणस्पतेरभवद्यथावशम् । सत्यो मन्युर्महि कर्मा करिष्यतः । यो गा उदाजत्स दिवे वि चाभजत् । महीव रीतिः शवसा सरत्पृथक् । इन्धानो अग्निं वनवद्वनुष्यतः । कृतब्रह्मा शूशुवद्रा तहव्य इत् । जातेन जातमति सृत्प्रसृँ सते । यंयं युजं कृणुते ब्रह्मणस्पतिः । ब्रह्मणस्पते सुयमस्य विश्वहा ३२

रायः स्याम रथ्यो विवस्वतः । वीरेषु वीराँ उपपृङ्ग्धि नस्त्वम् । यदीशानो ब्रह्मणा वेषि मे हवम् । स इज्जनेन स विशा स जन्मना । स पुत्रैर्वाजं भरते धना नृभिः । देवानां यः पितरमाविवासति । श्रद्धामना हविषा ब्रह्मणस्पतिम् । यस्ते पूषन्नावो अन्तः । शुक्रं ते अन्यत् । पूषेमा आशाः । प्रपथे पथामजनिष्ट पूषा ३३
प्रपथे दिवः प्रपथे पृथिव्याः । उभे अभि प्रियतमे सधस्थे । आ च परा च चरति प्रजानन् । पूषा सुबन्धुर्दिव आ पृथिव्याः । इडस्पतिर्मघवा दस्मवर्चाः । तं देवासो अददुः सूर्यायै । कामेन कृतं तवसँ स्वञ्चम् । अजाश्वः पशुपा वाजवस्त्यः । धियंजिन्वो विश्वे भुवने अर्पितः । अष्ट्रां पूषा शिथि-रामुद्वरीवृजत् ३४

संचक्षाणो भुवना देव ईयते । शुची वो हव्या मरुतः शुचीनाम् । शुचिँ हिनोम्यध्वरँ शुचिभ्यः । ऋतेन सत्यमृतसाप आयन् । शुचिजन्मानः शुचयः पावकाः । प्र चित्रमर्कं गृणते तुराय । मारुताय स्वतवसे भरध्वम् । ये सहाँ सि सहसा सहन्ते । रेजते अग्ने पृथिवी मखेभ्यः । अँ सेष्वा मरुतः खादयो वः ३५

वक्षःसु रुक्मा उपशिश्रियाणाः । वि विद्युतो न व्यृष्टिभी रुचानाः । अनु स्वधामायुधैर्यच्छमानाः । या वः शर्म शशमानाय सन्ति । त्रिधातूनि दाशुषे यच्छताधि । अस्मभ्यं तानि मरुतो वियन्त । रयिं नो धत्त वृषणः सुवीरम् । इमे तुरं मरुतो रामयन्ति । इमे सहः सहस आनमन्ति । इमे शँ सं वनुष्यतो निपान्ति ३६

गुरु द्वेषो अररुषे दधन्ति । अरा इवेदचरमा अहेव । प्र प्रजायन्ते अकवा महोभिः । पृश्नेः पुत्रा उपमासो रभिष्ठाः । स्वया मत्या मरुतः संमिमिक्षुः । अनु ते दायि मह इन्द्रि याय । सत्रा ते विश्वमनु वृत्रहत्ये । अनु क्षत्त्रमनु सहो यजत्र । इन्द्र देवेभिरनु ते नृषह्ये । य इन्द्र शुष्मो मघवन्ते अस्ति ३७

शिक्षा सखिभ्यः पुरुहूत नृभ्यः । त्वँ हि दृढा मघवन्विचेताः । अपावृधि परिवृतिं न राधः । इन्द्रो राजा जगतश्चर्षणीनाम् । अधि क्षमि विषुरूपं यदस्ति । ततो ददातु दाशुषे वसूनि । चोदद्रा ध उपस्तुतश्चिदर्वाक् । तमु ष्टुहि यो अभिभूत्योजाः । वन्वन्नवातः पुरुहूत इन्द्रः । अषाढमुग्रँ सहमान-माभिः ३८गीर्भिर्वर्ध वृषभं चर्षणीनाम् । स्थूरस्य रायो बृहतो य ईशे । तमु ष्टवाम विदथेष्विन्द्र म् । यो वायुना जयति गोमतीषु । प्र धृष्णुया नयति वस्यो अच्छ । आ ते शुष्मो वृषभ एतु पश्चात् । ओत्तरादधरागा पुरस्तात् । आ विश्वतो अभि समेत्वर्वाङ्।इन्द्र द्युम्नँ सुवर्वद्धेह्यस्मे ३९


2.8.6

आ देवो यातु सविता सुरत्नः । अन्तरिक्षप्रा वहमानो अश्वैः । हस्ते दधानो नर्या पुरूणि । निवेशयन्च प्रसुवन्च भूम । अभीवृतं कृशनैर्विश्वरूपम् । हिरण्यशम्यं यजतो बृहन्तम् । आस्थाद्र थँ सविता चित्रभानुः । कृष्णा रजाँ सि तविषीं दधानः । स घा नो देवः सविता सवाय । आसाविषद्वसु-पतिर्वसूनि ४०

विश्रयमाणो अमतिमुरूचीम् । मर्तभोजनमध रासते न । वि जनाञ्श्यावाः शितिपादो अख्यन् । रथँ हिरण्यप्रौगं वहन्तः । शश्वद्दिशः सवितुर्दैव्यस्य । उपस्थे विश्वा भुवनानि तस्थुः । वि सुपर्णो अन्तरिक्षाण्यख्यत् । गभीरवेपा असुरः सुनीथः । क्वेदानीँ सूर्यः कश्चिकेत । कतमां द्याँ रश्मिरस्याततान ४१

भगं धियं वाजयन्तः पुरन्धिम् । नराशँ सो ग्नास्पतिर्नो अव्यात् । आऽये वामस्य संगथे रयीणाम् । प्रिया देवस्य सवितुः स्याम । आ नो विश्वे अस्क्रा गमन्तु देवाः । मित्रो अर्यमा वरुणः सजोषाः । भुवन्यथा नो विश्वे वृधासः । करन्त्सुषहा विथुरं न शवः । शं नो देवा विश्वदेवा भवन्तु । शँ सरस्वती सह धीभिरस्तु ४२

शमभिषाचः शमु रातिषाचः । शं नो दिव्याः पार्थिवाः शं नो अप्याः । ये सवितुः सत्यसवस्य विश्वे । मित्रस्य व्रते वरुणस्य देवाः । ते सौभगं वीरवद्गोमदप्नः । दधातन द्र विणं चित्रमस्मे । अग्ने याहि दूत्यं वारिषेण्यः । देवाँ अच्छा ब्रह्मकृता गणेन । सरस्वतीं मरुतो अश्विनापः । यक्षि देवान्रत्नधेयाय विश्वान् ४३

द्यौः पितः पृथिवि मातरध्रुक । अग्ने भ्रातर्वसवो मृडता नः । विश्व आदित्या आदिते सजोषाः । अस्मभ्यँ शर्म बहुलं वियन्त । विश्वे देवाः शृणुतेमँ हवं मे । ये अन्तरिक्षे य उप द्यवि ष्ठ । ये अग्निजिह्वा उत वा यजत्राः । आसद्यास्मिन्बर्हिषि मादयध्वम् । आ वां मित्रावरुणा हव्यजुष्टिम् । नमसा देवावववसा ववृत्याम् ४४

अस्माकं ब्रह्म पृतनासु सह्या अस्माकम् । वृष्टिर्दिव्या सुपारा । युवं वस्त्राणि पीवसा वसाथे । युवोरच्छिद्रा मन्तवो ह सर्गाः । अवातिरतमनृतानि विश्वा । ऋतेन मित्रावरुणा सचेथे । तत्सु वां मित्रावरुणा महित्वम् । ईर्मा तस्थु-षीरहभिर्दुदुह्रे । विश्वाः पिन्वथ स्वसरस्य धेनाः अनु वामेकः पविराववर्ति ४५

यद्बँ हिष्ठं नातिविदे सुदानू ।अच्छिद्र ँ! शर्म भुवनस्य गोपा । ततो नो मित्रा-वरुणाववीष्टम् । सिषासन्तो जीगिवाँ सः स्याम । आ नो मित्रावरुणा हव्यदातिम् । घृतैर्गव्यूतिमुक्षतमिडाभिः । प्रति वामत्र वरमा जनाय । पृणीतमुद्गो दिव्यस्यं चारोः । प्र बाहवा सिसृतं जीवसे नः । आ नो गव्यूतिमुक्षतं घृतेन ४६

आ नो जने श्रवयतं युवाना । श्रुतं मे मित्रावरुणा हवेमा । इमा रुद्रा य स्थिरधन्वने गिरः । क्षिप्रेषवे देवाय स्वधाम्ने । अषाढाय सहमानाय मीढुषे । तिग्मायुधाय भरता शृणोतन । त्वा दत्तेभी रुद्र शंतमेभिः । शतँ हिमा अशीय भेषजेभिः । व्यस्मद्द्वेषो वितरं व्यँ हः । व्यमीवाँ श्चातयस्वा विषूचीः ४७

अर्हन्बिभर्षि । मा नस्तोके । ।आ ते पितर्मरुताँ सुम्नमेतु । मा नः सूर्यस्य संदृशो युयोथाः । अभि नो वीरो अर्वति क्षमेत । प्रजायेमहि रुद्र प्रजाभिः । एवा बभ्रो वृषभ चेकितान । यथा देव न हृणीषे न हँ सि । हावनश्रूर्नो रुद्रे ह बोधि । बृहद्वदेम विदथे सुवीराः । परि णो रुद्रस्य हेतिः । स्तुहि श्रुतम् ।मीढुष्टमार्हन्बिभर्षि । त्वमग्ने रुद्र । आ वो राजानम् ४८


2.8.7

सूर्यो देवीमुषसँ रोचमाना मर्यः । न योषामभ्येति पश्चात् । यत्रा नरो देवयन्तो युगानि । वितन्वते प्रति भद्रा य भद्र म् । भद्रा अश्वा हरितः सूर्यस्य । चित्रा एदग्वा अनुमाद्यासः । नमस्यन्तो दिव आ पृष्ठमस्थुः । परि द्यावापृथिवी यन्ति सद्यः । तत्सूर्यस्य देवत्वं तन्महित्वम् । मध्या कर्तोर्विततँ संजभार ४९

यदेदयुक्त हरितः सधस्थात् । आद्रा त्री वासस्तनुते सिमस्मै । तन्मित्रस्य वरुणस्याभिचक्षे । सूर्यो रूपं कृणुते द्योरुपस्थे । अनन्तमन्यद्द्रुशदस्य पाजः । कृष्णमन्यद्धरितः संभरन्ति । अद्या देवा उदिता सूर्यस्य । निरँ हसः पिपृतान्निरवद्यात् । तन्नो मित्रो वरुणो मामहन्ताम् । अदितिः सिन्धुः पृथिवी उत द्यौः ५०

दिवो रुक्म उरुचक्षा उदेति । दूर अर्थस्तरणिर्भ्राजमानः । नूनं जनाः सूर्येण प्रसूताः । आयन्नर्थानि कृणवन्नपाँ सि । शं नो भव चक्षसा शं नो अह्ना । शं भानुना शँ हिमा शं घृणेन । यथा शमस्मै शमसद्दुरोणे । तत्सूर्य द्र विणं धेहि चित्रम् । चित्रं देवानामुदगादनीकम् । चक्षुर्मित्रस्य वरुणस्याग्नेः ५१

आप्रा द्यावापृथिवी अन्तरिक्षम् । सूर्य आत्मा जगतस्तस्थुषश्च । त्वष्टा दधत् । तन्नस्तुरीपम् । ।त्वष्टा वीरं। पिशङ्गरूपः । ।दशेमं त्वष्टुर्जनयन्त गर्भम् । अतन्द्रा सो युवतयो बिभर्त्रम् । तिग्मानीकँ स्वयशसं जनेषु । विरोचमानं परि षीं नयन्ति । आविष्ट्यो वर्धते चारुरासु । जिह्मानामूर्ध्वः स्वयशा उपस्थे ५२

उभे त्वष्टुर्बिभ्यतुर्जायमानात् । प्रतीची सिँ हं प्रतिजोषयेते । मित्रो जनान् । प्र स मित्र । ।अयं मित्रो नमस्यः सुशेवः । राजा सुक्षत्रो अजनिष्ट वेधाः । तस्य वयँ सुमतौ यज्ञियस्य अपि भद्रे सौमनसे स्याम । अनमीवासं इडया मदन्तः । मितज्मवो वरिमन्ना पृथिव्याः । आदित्यस्य व्रतमुपक्ष्यन्तः ५३

वयं मित्रस्य सुमतौ स्याम । मित्रं न ईँ शिम्या गोषु गव्यवत् । स्वाधियो विदथे अप्स्वजीजनन् । अरेजयताँ रोदसी पाजसा गिरा । प्रति प्रियं यजतं जनुषामवः । महाँ आदित्यो नमसोपसद्यः । यातयज्जनो गृणते सुशेवः । तस्मा एतत्पन्यतमाय जुष्टम् । अग्नौ मित्राय हविराजुहोत । आ वाँ रथो रोदसी बद्बधानः ५४
हिरण्ययो वृषभिर्यात्वश्वैः । घृतवर्तनिः पविभी रुचानः । इषां वोढा नृपतिर्वाजिनीवान् । स पप्रथानो अभि पञ्च भूम । त्रिवन्धुरो मनसायातु युक्तः । विशो येन गच्छथो देवयन्तीः । कुत्राचिद्याममश्विना दधाना । स्वश्वा यशसायातमर्वाक् । दस्रा निधिं मधुमन्तं पिबाथः । वि वाँ रथो वध्वा यादमानः ५५

अन्तान्दिवो बाधते वर्तनिभ्याम् । युवोः श्रियं परि योषा वृणीत । सूरो दुहिता परितक्मियायाम् । यद्देवयन्तमवथः शचीभिः । परिघ्रँ स वां मना वां वयो गाम् । यो ह स्य वाँ रथिरा वस्त उस्राः । रथो युजानः परियाति वर्तिः । तेन नः शं योरुषसो व्युष्टौ । न्यश्विना वहतं यज्ञे अस्मिन् । युवं भुज्युमवविद्धँ समुद्रे ५६

उदूहथुरर्णसो अस्रिधानैः । पतत्रिभिरश्रमैरव्यथिभिः । दँ सनाभिरश्विना पारयन्ताम् । अग्नीषोमा यो अद्य वाम् । इदं वचः सपर्यति । तस्मै धत्तँ सुवीर्यम् । गवां पोषँ स्वश्वियं ।यो अग्नीषोमा हविषा सपर्यात् । देवद्री चा मनसा यो घृतेन । तस्य व्रतँ रक्षतं पातमँ हसः ५७

विशे जनाय महि शर्म यच्छतम् । अग्नीषोमा य आहुतिम् । यो वां दाशाद्धविष्कृतिम् । स प्रजया सुवीर्यम् । विश्वमायुर्व्यश्नवत् । अग्नीषोमा चेति तद्वीर्यं वाम् । यदमुष्णीतमवसं पणिं गोः । अवातिरतं प्रथयस्य शेषः अविन्दतंज्योतिरेकं बहुभ्यः । अग्नीषोमाविमँ सु मे । ऽग्नीषोमा हविषः प्रस्थितस्य ५८


2.8.8

अहमस्मि प्रथमजा ऋतस्य । पूर्वं देवेभ्यो अमृतस्य नाभिः । यो मा ददाति स इदेव मावाः । अहमन्नमन्नमदन्तमद्मि । पूर्वमग्नेरपि दहत्यन्नम् । यत्तौ हासाते अहमुत्तरेषु । व्यात्तमस्य पशवः सुजम्भम् । पश्यन्ति धीराः प्रचरन्ति पाकाः । जहाम्यन्यं न जहाम्यन्यम् । अहमन्नं वशमिच्चरामि ५९

समानमर्थं पर्येमि भुञ्जत् । को मामन्नं मनुष्यो दयेत । पराके अन्नं निहितं लोक एतत् । विश्वैर्देवैः पितृभिर्गुप्तमन्नम् । यदद्यते लुप्यते यत्परोप्यते । शततमी सा तनूर्मे बभूव । महान्तौ चरू सकृद्दुग्धेन पप्रौ । दिवं च पृश्नि पृथिवीं च साकम् । तत्संपिबन्तो न मिनन्ति वेधसः । नैतद्भूयो भवति नो कनीयः ६०

अन्नं प्राणमन्नमपानमाहुः । अन्नं मृत्युं तमु जीवातुमाहुः । अन्नं ब्रह्माणो जरसं वदन्ति । अन्नमाहुः प्रजननं प्रजानाम् । मोघमन्नं विन्दते अप्रचेताः । सत्यं ब्रवीमि वध इत्स तस्य । नार्यमणं पुष्यति नो सखायम् । केवलाघो भवति केवलादी ।अहं मेघः स्तनयन्वर्षन्नस्मि । मामदन्त्यहमद्म्यन्यान् ६१

अहँ सदमृतो भवामि । मदादित्या अधि सर्वे तपन्ति । देवीं वाचमजनयन्त । यद्वाग्वदन्ति । अनन्तामन्तादधि निर्मितां महीम् । यस्यां देवा अद-धुर्भोजनानि । एकाक्षरां द्विपदाँ षट्पदां च । वाचं देवा उपजीवन्ति विश्वे । वाचं देवा उपजीवन्ति विश्वे । वाचं गन्धर्वाः पशवो मनुष्याः । वाचीमा विश्वा भुवनान्यर्पिता ६२

सा नो हवं जुषतामिन्द्र पत्नी ।वागक्षरं प्रथमजा ऋतस्य । वेदानां मातामृतस्य नाभिः । सा नो जुषाणोऽपयज्ञमागात् । अवन्ती देवी सुहवा मे अस्तु । यामृषयो मन्त्रकृतो मनीषिणः । अन्वैच्छन्देवास्तपसा श्रमेण । तां देवीं वाचँ हविषा यजामहे । सा नो दधातु सुकृतस्य लोके । चत्वारि वाक्परि-मिता पदानि ६३

तानि विदुर्ब्राह्मणा ये मनीषिणः । गुहा त्रीणि निहिता नेङ्गयन्ति । तुरीयं वाचो मनुष्या वदन्ति । श्रद्धयाग्निः समिध्यते । श्रद्धया विन्दते हविः । श्रद्धां भगस्य मूर्धनि । वचसावेदयामसि । प्रियँ श्रद्धे ददतः । प्रियँ श्रद्धे दिदासतः । प्रियं भोजेषु यज्वसु ६४

इदं म उदितं कृधि । यथा देवा असुरेषु । श्रद्धामुग्रेषु चक्रिरे । एवं भोजेषु यज्वसु । अस्माकमुदितं कृधि । श्रद्धां देवा यजमानाः । वायुगोपा उपासते । श्रद्धाँ हृदय्ययाकूत्या । श्रद्धया हूयते हविः । श्रद्धां प्रातर्हवामहे ६५
श्रद्धां मध्यंदिनं परि । श्रद्धाँ सूर्यस्य निम्रुचि । श्रद्धे श्रद्धापयेह मा । श्रद्धा देवानधिवस्ते । श्रद्धा विश्वमिदं जगत् । श्रद्धां कामस्य मातरम् । हविषा वर्धयामसि । ब्रह्म जज्ञानं प्रथमं पुरस्तात् । वि सीमतः सुरुचो वेन आवः । स बुध्निया उपमा अस्य विष्ठाः ६६

सतश्च योनिमसतश्च विवः । पिता विराजामृषभो रयीणाम् । अन्तरिक्षं विश्वरूप आविवेश । तमर्कैरभ्यर्चन्ति वह्सम् । ब्रह्म सन्तं ब्रह्मणा वर्धयन्तः । ब्रह्म देवानजनयत् । ब्रह्म विश्वमिदं जगत् । ब्रह्मणः क्षत्रं निर्मितम् । ब्रह्म ब्राह्मण आत्मना । अन्तरस्मिन्निमे लोकाः ६७

अन्तर्विश्वमिदं जगत् । ब्रह्मैव भूतानां ज्येष्ठम् । तेन कोऽर्हति स्पर्धितुम् । ब्रह्मन्देवास्त्रयस्त्रिँ शत् । ब्रह्मन्निन्द्र प्रजापती ।ब्रह्मन्ह विश्वा भूतानि । नावीवान्तः समाहिता । चतस्र आशाः प्रचरन्त्वग्नयः । इमं नो यज्ञं नयतु प्रजानन् । घृतं पिन्वन्नजरं सुवीरम् ६८

ब्रह्म समिद्भवत्याहुतीनाम् । आ गावो अग्मन्नुत भद्र मक्रन् । सीदन्तु गोष्ठे रणयन्त्वस्मे । प्रजावतीः पुरुरूपा इह स्युः । इन्द्रा य पूर्वीरुषसो दुहानाः । इन्द्रो यज्वने पृणते च शिक्षति । उपेद्ददाति न स्वं मुषायति । भूयोभूयो रयिमिदस्य वर्धयन् । अभिन्ने खिल्ले निदधाति देवयुम् । न ता नशन्ति । न ता अर्वा ६९

गावो भगो गाव इन्द्रो मे अच्छात् । गावः सोमस्य प्रथमस्य भक्षः । इमा या गावः स जनास इन्द्रः । इच्छामीद्धृदा मनसा चिदिन्द्र म् । यूयं गावो मेदयथा कृशं चित् । अश्लीलं चित्कृणुथा सुप्रतीकम् । भद्रं गृहं कृणुथ भद्र वाचः । बृहद्वो वय उच्यते सभासु । प्रजावतीः सूयवसँ रिशन्तीः । शुद्धा अप सुप्रपाणे पिबन्तीः । मा वः स्तेन ईशत माघशँ सः । परि वो हेती रुद्र स्य वृञ्ज्यात् । उपेदमुपपर्चनम् । आसु गोषूपपृच्यताम् । उपर्षभस्य रेतसि । उपेन्द्र तव वीर्ये ७०


2.8.9 काम्यपशूनां याज्यानुवाक्याः

ता सूर्याचन्द्र मसा विश्वभृत्तमा महत् । तेजो वसुमद्रा जतो दिवि । सामात्माना चरतः सामचारिणा । ययोर्व्रतं न ममे जातु देवयोः । उभावन्तौ परियात अर्म्या । दिवो न रश्मीँ स्तनुतो व्यर्णवे । उभा भुवन्ती भुवना कविक्रतू ।सूर्या न चन्द्रा चरतो हतामती ।पती द्युमद्विश्वविदा उभा दिवः । सूर्या उभा चन्द्र मसा विचक्षणा ७१

विश्ववारा विरिवोभा वरेण्या । ता नोऽवतं मतिमन्ता महिव्रता । विश्ववपरी प्रतरणा तरन्ता । सुवर्विदा दृशये भूरिरश्मी ।सूर्या हि चन्द्रा वसु त्वेष दर्शता । मनस्विनोभानुचरतो नु सं दिवम् । अस्य श्रवो नद्यः सप्त बिभ्रति । द्यावाक्षामा पृथिवी दर्शतं वपुः । अस्मे सूर्याचन्द्र मसाभिचक्षे । श्रद्धे कमिन्द्र चरतो विचर्तुरम् ७२

पूर्वापरं चरतो माययैतौ । शिशू क्रीडन्तौ परियातो अध्वरम् । विश्वान्यन्यो भुवनाभिचष्टे । ऋतूनन्यो विदधज्जायते पुनः । हिरण्यवर्णाः शुचयः पावका । यासाँ राजा । ।यासां देवाः । शिवेन मा चक्षुषा पश्यत । ।आपो भद्रा । आदित्पश्यामि । ।नासदासीन्नो सदासीत्तदानीम् । नासीद्र जो नो व्योमापरो यत् । किमावरीवः कुह कस्य शर्मन् ७३

अम्भः किमासीद्गहनं गभीरम् । न मृत्युरमृतं तर्हि न रात्रिया अह्न आसीत्प्रकेतः । आनीदवातँ स्वधया तदेकम् । तस्माद्धान्यं न परः किं चनास । तम आसीत्तमसा गूढमग्रे प्रकेतम् । सलिलँ सर्वमा इदम् । तुच्छेनाभ्वपिहितं यदासीत् । तमसस्तन्महिनाजायतैकम् । कामस्तदग्रे समवर्तताधि ७४

मनसो रेतः प्रथमं यदासीत् । सतो बन्धुमसति निरविन्दन् । हृदि प्रतीष्या कवयो मनीषा । तिरश्चीनो विततो रश्मिरेषाम् । अधः स्विदासी३दुपरि स्विदासी३त् । रेतोधा आसन्महिमान आसन् । स्वधा अवस्तात्प्रयतिः परस्तात् । को अद्धा वेद क इह प्रवोचत् । कुत आजाता कुत इयं विसृष्टिः । अर्वाग्देवा अस्य विसर्जनाय ७५

अथा को वेद यत आबभूव । इयं विसृष्टिर्यत आबभूव । यदि वा दधे यदि वा न । यो अस्याध्यक्षः परमे व्योमन् । सो अङ्ग वेद यदि वा न वेद । किँ स्विद्वनं क उ स वृक्ष आसीत् । यतो द्यावापृथिवी निष्टतक्षुः । मनीषिणो मनसा पृच्छतेदु तत् । यदध्यतिष्ठद्भुवनानि धारयन् । ब्रह्म वनं ब्रह्म स वृक्ष आसीत् ७६

यतो द्यावापृथिवी निष्टतक्षुः । मनीषिणो मनसा विब्रवीमि वः । ब्रह्माध्य-तिष्ठद्भुवनानि धारयन् । प्रातरग्निं प्रातरिन्द्र ँ! हवामहे । प्रातर्मित्रावरुणा प्रातरश्विना । प्रातर्भगं पूषणं ब्रह्मणस्पतिम् । प्रातः सोममुत रुद्र ँ! हुवेम । प्रातर्जितं भगमुग्रँ हुवेम । वयं पुत्रमदितेर्यो विधर्ता । आध्रश्चिद्यं मन्यमानस्तुरश्चित् ७७

राजा चिद्यं भगं भक्षीत्याह । भग प्रणेतर्भग सत्यराधः । भगेमां धियमुदव ददन्नः । भग प्र णो जनय गोभिरश्वैः । भग प्र नृभिर्नृवन्तः स्याम । उतेदानीं भगवन्तः स्याम । उत प्रपित्व उत मध्ये अह्नाम् । उतोदिता मघवन्त्सूर्यस्य । वयं देवानाँ सुमतौ स्याम । भग एव भगवाँ अस्तु देवाः ७८

तेन वयं भगवन्तः स्याम । तं त्वा भग सर्व इज्जोहवीमि । स नो भग पुर एता भवेह । समध्वरायोषसो नमन्त । दधिक्रावेव शुचये पदाय । अर्वाचीनं वसुविदं भगं नः । रथमिवाश्वा वाजिन आवहन्तु । अश्वावतीर्गोमतीर्न उषासः । वीरवतीः सदमुच्छन्तु भद्रा ः! । घृतं दुहाना विश्वतः प्रपीनाः । यूयं पात स्वस्तिभिः सदा नः ७९ ८