सामग्री पर जाएँ

ऋग्वेदः सूक्तं २.१३

विकिस्रोतः तः
(ऋग्वेद: सूक्तं २.१३ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं २.१२ ऋग्वेदः - मण्डल २
सूक्तं २.१३
गृत्समद (आङ्गिरसः शौनहोत्रः पश्चाद्) भार्गवः शौनकः
सूक्तं २.१४ →
दे. इन्द्रः। जगती, १३ त्रिष्टुप्


ऋतुर्जनित्री तस्या अपस्परि मक्षू जात आविशद्यासु वर्धते ।
तदाहना अभवत्पिप्युषी पयोऽंशोः पीयूषं प्रथमं तदुक्थ्यम् ॥१॥
सध्रीमा यन्ति परि बिभ्रतीः पयो विश्वप्स्न्याय प्र भरन्त भोजनम् ।
समानो अध्वा प्रवतामनुष्यदे यस्ताकृणोः प्रथमं सास्युक्थ्यः ॥२॥
अन्वेको वदति यद्ददाति तद्रूपा मिनन्तदपा एक ईयते ।
विश्वा एकस्य विनुदस्तितिक्षते यस्ताकृणोः प्रथमं सास्युक्थ्यः ॥३॥
प्रजाभ्यः पुष्टिं विभजन्त आसते रयिमिव पृष्ठं प्रभवन्तमायते ।
असिन्वन्दंष्ट्रैः पितुरत्ति भोजनं यस्ताकृणोः प्रथमं सास्युक्थ्यः ॥४॥
अधाकृणोः पृथिवीं संदृशे दिवे यो धौतीनामहिहन्नारिणक्पथः ।
तं त्वा स्तोमेभिरुदभिर्न वाजिनं देवं देवा अजनन्सास्युक्थ्यः ॥५॥
यो भोजनं च दयसे च वर्धनमार्द्रादा शुष्कं मधुमद्दुदोहिथ ।
स शेवधिं नि दधिषे विवस्वति विश्वस्यैक ईशिषे सास्युक्थ्यः ॥६॥
यः पुष्पिणीश्च प्रस्वश्च धर्मणाधि दाने व्यवनीरधारयः ।
यश्चासमा अजनो दिद्युतो दिव उरुरूर्वाँ अभितः सास्युक्थ्यः ॥७॥
यो नार्मरं सहवसुं निहन्तवे पृक्षाय च दासवेशाय चावहः ।
ऊर्जयन्त्या अपरिविष्टमास्यमुतैवाद्य पुरुकृत्सास्युक्थ्यः ॥८॥
शतं वा यस्य दश साकमाद्य एकस्य श्रुष्टौ यद्ध चोदमाविथ ।
अरज्जौ दस्यून्समुनब्दभीतये सुप्राव्यो अभवः सास्युक्थ्यः ॥९॥
विश्वेदनु रोधना अस्य पौंस्यं ददुरस्मै दधिरे कृत्नवे धनम् ।
षळस्तभ्ना विष्टिरः पञ्च संदृशः परि परो अभवः सास्युक्थ्यः ॥१०॥
सुप्रवाचनं तव वीर वीर्यं यदेकेन क्रतुना विन्दसे वसु ।
जातूष्ठिरस्य प्र वयः सहस्वतो या चकर्थ सेन्द्र विश्वास्युक्थ्यः ॥११॥
अरमयः सरपसस्तराय कं तुर्वीतये च वय्याय च स्रुतिम् ।
नीचा सन्तमुदनयः परावृजं प्रान्धं श्रोणं श्रवयन्सास्युक्थ्यः ॥१२॥
अस्मभ्यं तद्वसो दानाय राधः समर्थयस्व बहु ते वसव्यम् ।
इन्द्र यच्चित्रं श्रवस्या अनु द्यून्बृहद्वदेम विदथे सुवीराः ॥१३॥

सायणभाष्यम्

' ऋतुर्जनित्री ' इति त्रयोदशर्चं द्वितीयं सूक्तं गार्त्समदम् । ' ऋतुः सप्तोनान्त्या त्रिष्टुप् ' इत्यनुक्रमणिका । ' अस्मभ्यं तद्वसो ' इति त्रयोदशी त्रिष्टुप् । शिष्टास्त्रिष्टुबन्तपरिभाषया जगत्यः । इन्द्रो देवता । उक्थ्ये तृतीयसवने अच्छावाकशस्त्रेऽस्य सूक्तस्य विनियोगः । सूत्रितं च-' ऋतुर्जनित्री नू मर्तो भवा मित्रः ' ( आश्व. श्रौ ६. १) इति । दशरात्रे षष्ठेऽहन्यपि तृतीयसवने अच्छावाकशस्त्रे एतत्सूक्तम् । ' ऋतुर्जनित्रीति नित्यान्यैकाहिकानि ' ( आश्व. श्रौ. ८. ४) इति सूत्रितम् ।।

ऋ॒तुर्जनि॑त्री॒ तस्या॑ अ॒पस्परि॑ म॒क्षू जा॒त आवि॑श॒द्यासु॒ वर्ध॑ते ।

तदा॑ह॒ना अ॑भवत्पि॒प्युषी॒ पयों॒ऽशोः पी॒यूषं॑ प्रथ॒मं तदु॒क्थ्य॑म् ॥१

ऋ॒तुः । जनि॑त्री । तस्याः॑ । अ॒पः । परि॑ । म॒क्षु । जा॒तः । आ । अ॒वि॒श॒त् । यासु॑ । वर्ध॑ते ।

तत् । आ॒ह॒नाः । अ॒भ॒व॒त् । पि॒प्युषी॑ । पयः॑ । अं॒शोः । पी॒युष॑म् । प्र॒थ॒मम् । तत् । उ॒क्थ्य॑म् ॥१

ऋतुः। जनित्री । तस्याः। अपः। परि। मक्षु। जातः। आ। अविशत्। यासु। वर्धते।

तत्। आहनाः। अभवत् । पिप्युषी। पयः । अंशोः। पीयूषं। प्रथमं तत्। उक्थ्यं ॥१॥


ऋतुर्वर्षाख्यः कालो जनित्री सोमस्य जनयित्री जननी भवति । तस्याः परि तस्या जनन्याः सकाशाज्जातः सोमोऽप उदकानि मधु शीघ्रमाविशत् । यास्वप्सु सोमो वर्धते ता अविशदित्यन्वयः । तस्मादप्सु प्रविष्टत्वात् सोम आहना आहंतव्योऽभिषोतव्यो भवति । आहना इति सकारांतमिदं पदं । तथा च मंत्रवर्णः । ये ते मदा आहनसो विहायसः ।९.७५. ५.। इति । या चांशुरूपा सोमलता पयः सारभूतं पिप्युषी वर्धयंत्यभवत् ॥ प्यायतेर्लिटि क्वसौ लिड्यङोश्चेति पीभावः । वसोः संप्रसारणं । उगितश्चेति ङीप्॥ अंशोस्तस्याः सोमलतायाः पीयूषं रसभूतं पय उक्थ्यं प्रशस्यं हविरिंद्रस्य भवति ॥


स॒ध्रीमा य॑न्ति॒ परि॒ बिभ्र॑ती॒ः पयो॑ वि॒श्वप्स्न्या॑य॒ प्र भ॑रन्त॒ भोज॑नम् ।

स॒मा॒नो अध्वा॑ प्र॒वता॑मनु॒ष्यदे॒ यस्ताकृ॑णोः प्रथ॒मं सास्यु॒क्थ्यः॑ ॥२

स॒ध्री । ई॒म् । आ । य॒न्ति॒ । परि॑ । बिभ्र॑तीः । पयः॑ । वि॒श्वऽप्स्न्या॑य । प्र । भ॒र॒न्त॒ । भोज॑नम् ।

स॒मा॒नः । अध्वा॑ । प्र॒ऽवता॑म् । अ॒नु॒ऽस्यदे॑ । यः । ता । अकृ॑णोः । प्र॒थ॒मम् । सः । अ॒सि॒ । उ॒क्थ्यः॑ ॥२

सध्री। ईं। आ। यंति। परि। बिभ्रतीः । पयः । विश्वऽप्स्न्याय। प्र। भरतं। भोजनं ।

समानः । अध्वा । प्रऽवतां । अनुऽस्यदे । यः। ता। अकृणोः। प्रथमं । सः। असि । उक्थ्यः ॥२॥

सध्री । अंचतेलुक् छांदसः । सहस्य सध्रिरिति सध्र्यादेशोंऽतोदात्तत्वेन निपातितः । सध्रीचीनाः पय उदकं परि परितो बिभ्रतीर्बिभ्राणा ईमेंता नद्य आयंति । सर्वतो गच्छंति। ता नद्यो विश्वप्स्न्याय विश्वासामपामाश्रयभूताय समुद्राय भोजनं ॥ भुज्यत इति भोजनं पयः ॥ प्रभरंत । प्रकर्षेण संपादयंति । कुत एतत् तदाह । प्रवतां प्रवणवतां निम्नगानां पयसामनुष्यदे ॥ कृत्यार्थे तवैकेन्केन्यत्वन इति केन्प्रत्ययः । अनुष्यंदनीयोऽध्वा मार्गः समान एको हि । यस्ता तानि सोमोत्पादननदीप्रवर्तनादीनि कर्माणि प्रथमं पूर्वमकृणोः। अकरोः। स तादृङ्महिमोपेतस्त्वमुक्थ्योऽसि । सर्वैः प्रशस्यो भवसि ॥


अन्वेको॑ वदति॒ यद्ददा॑ति॒ तद्रू॒पा मि॒नन्तद॑पा॒ एक॑ ईयते ।

विश्वा॒ एक॑स्य वि॒नुद॑स्तितिक्षते॒ यस्ताकृ॑णोः प्रथ॒मं सास्यु॒क्थ्यः॑ ॥३

अनु॑ । एकः॑ । व॒द॒ति॒ । यत् । ददा॑ति । तत् । रू॒पा । मि॒नन् । तत्ऽअ॑पाः । एकः॑ । ई॒य॒ते॒ ।

विश्वाः॑ । एक॑स्य । वि॒ऽनुदः॑ । ति॒ति॒क्ष॒ते॒ । यः । ता । अकृ॑णोः । प्र॒थ॒मम् । सः । अ॒सि॒ । उ॒क्थ्यः॑ ॥३

अनु । एकः। वदति। यत् । ददाति। तत्। रूपा। मिनन्। तत्ऽअपाः। एकः। ईयते ।

विश्वाः । एकस्य । विऽनुदः। तितिक्षते । यः । ता । अकृणोः। प्रथमं । सः । असि । उक्थ्यः ॥३॥

यजमानो यद्धविर्देवेभ्यो ददाति तदेको होतानुवदति । याज्यापुरोनुवाक्याभ्यां देवताः स्मारयति । एकोऽध्वर्यू रूपा पश्वादीनां रूपाणि मिनन् हिंसन् तदपास्तद्विशसनाख्यमपः कर्म यस्य तादृशः सन् ईयते । देवयजने सर्वत्र गच्छति । एकस्याध्वर्योर्विश्वा विनुदः सर्वाणि तत्कर्तृकाणि विक्षेपणरूपाणि कर्मवैगुण्यानि । तितिक्षते । तद्योग्यप्रायश्चित्तकरणेन ब्रह्मा सहते ॥ गुप्तिज्किद्भ्यः सन् क्षमायामिष्यते । तानि हविष्प्रदानादीनि कर्माणि यस्त्वमकृणोः । अकारयः सः त्वमुक्थ्योऽसि ॥

प्र॒जाभ्यः॑ पु॒ष्टिं वि॒भज॑न्त आसते र॒यिमि॑व पृ॒ष्ठं प्र॒भव॑न्तमाय॒ते ।

असि॑न्व॒न्दंष्ट्रैः॑ पि॒तुर॑त्ति॒ भोज॑नं॒ यस्ताकृ॑णोः प्रथ॒मं सास्यु॒क्थ्यः॑ ॥४

प्र॒ऽजाभ्यः॑ । पु॒ष्टिम् । वि॒ऽभज॑न्तः । आ॒स॒ते॒ । र॒यिम्ऽइ॑व । पृ॒ष्ठम् । प्र॒ऽभव॑न्तम् । आ॒ऽय॒ते ।

असि॑न्वन् । दंष्ट्रैः॑ । पि॒तुः । अ॒त्ति॒ । भोज॑नम् । यः । ता । अकृ॑णोः । प्र॒थ॒मम् । सः । अ॒सि॒ । उ॒क्थ्यः॑ ॥४

प्रऽजाभ्यः। पुष्टिं । विऽभजंतः । आसते । रयिंऽइव । पृष्ठं। प्रऽभवंतं । आऽयते ।

असिन्वन्। दंष्ट्रैः । पितुः । अत्ति। भोजनं। यः। ता। अकृणोः। प्रथमं । सः । असि । उक्थ्यः ॥४॥

हे इंद्र पुष्टिं त्वया दत्तं पोषकं धनं स्वकीयाभ्यः प्रजाभ्यो विभजंतोऽस्यैतावदस्यैतावदिति विभागं कुर्वंतो गृहमेधिन आसते । स्वस्वगृहेषु निवसंति । तत्र दृष्टांतः । आयते गृहं प्रत्यागच्छतेऽतिथये पृष्ठं धारकं प्रभवंतं बहुभरणसमर्थं रयिं धनं यथा विभज्य प्रयच्छंति तद्वत् । असिन्वन् सेतुबंधादिकं कर्म कुर्वन् लोकः पितुः। पालयित्र्या दिवः सकाशादागतं भोजनमुदकं तत्कार्या ओषधीर्दंष्ट्रैर्दतैरत्ति । भक्षयति । यदा असिन्वन् अव्याप्रियमाणोऽग्निः पितुः पालकस्य यजमानस्य संबंधि भोजनं हविर्लक्षणमन्नं दंष्ट्रैर्दंतरूपैर्ज्वालैरत्ति। यस्ताकृणोरित्यादि सिद्धं ॥

अधा॑कृणोः पृथि॒वीं सं॒दृशे॑ दि॒वे यो धौ॑ती॒नाम॑हिह॒न्नारि॑णक्प॒थः ।

तं त्वा॒ स्तोमे॑भिरु॒दभि॒र्न वा॒जिनं॑ दे॒वं दे॒वा अ॑जन॒न्सास्यु॒क्थ्यः॑ ॥५

अध॑ । अ॒कृ॒णोः॒ । पृ॒थि॒वीम् । स॒म्ऽदृशे॑ । दि॒वे । यः । धौ॒ती॒नाम् । अ॒हि॒ऽह॒न् । अरि॑णक् । प॒थः ।

तम् । त्वा॒ । स्तोमे॑भिः । उ॒दऽभिः॑ । न । वा॒जिन॑म् । दे॒वम् । दे॒वाः । अ॒ज॒न॒न् । सः । अ॒सि॒ । उ॒क्थ्यः॑ ॥५

अध। अकृणोः। पृथिवीं। संऽदृशे।दिवे। यः। धौतीनां। अहिऽहन्। अरिणक्। पथः।

तं। त्वा। स्तोमेभिः। उदऽभिः। न। वाजिनं । देवं । देवाः । अजनन् । सः । असि । उक्थ्यः ॥५॥

हे इंद्र अध अपि च त्वं दिवे द्योतमानाय सूर्याय पृथिवीं चलितां सतीं दृढीकृत्य संदृशे संदर्शनीयामकृणोः । अकरोः ॥ दृशे विख्ये चेति कन्प्रत्ययांतत्वेन निपातितः ॥ यश्च त्वं धौतीनां चलंतीनां नदीनां पथो मार्गानरिणक्। अरेचयः । गंतुं योग्यानकरोरित्यर्थः । रिचिर् विरेचने । लङि सिप् । तस्य हल्ड्यादिना लोपः ॥ अहिहन् अहेर्वृत्रस्य मेघस्य वा हंतर्हे इंद्र देवाः स्तोतारस्तं तादृशं देवं त्वां स्तोमेभिः स्तोत्रैरजनन् । तत्र दृष्टांतः । उदभिर्न वाजिनं । यथा वाजिनमश्वमुदभिरुदकैर्वर्धयंति तद्वत् ॥ पद्दन्नोमासित्यादिनोदकस्योदम्भावः । शेषं सिद्धं ॥ ॥ १० ॥

यो भोज॑नं च॒ दय॑से च॒ वर्ध॑नमा॒र्द्रादा शुष्कं॒ मधु॑मद्दु॒दोहि॑थ ।

स शे॑व॒धिं नि द॑धिषे वि॒वस्व॑ति॒ विश्व॒स्यैक॑ ईशिषे॒ सास्यु॒क्थ्यः॑ ॥६

यः । भोज॑नम् । च॒ । दय॑से । च॒ । वर्ध॑नम् । आ॒र्द्रात् । आ । शुष्क॑म् । मधु॑ऽमत् । दु॒दोहि॑थ ।

सः । शे॒व॒ऽधिम् । नि । द॒धि॒षे॒ । वि॒वस्व॑ति । विश्व॑स्य । एकः॑ । ई॒शि॒षे॒ । सः । अ॒सि॒ । उ॒क्थ्यः॑ ॥६

यः । भोजनं। च। दयसे। च। वर्धनं । आर्द्रात्। आ। शुष्कं । मधुऽमत्। दुदोहिथ।

सः । शेवऽधिं । नि। दधिषे । विवस्वति । विश्वस्य । एकः । ईशिषे । सः । असि । उक्थ्यः ॥६॥

हे इंद्र यस्त्वं भोजनं । भुज्यत इति भोजनमन्नादि । च दयसे । यजमानेभ्यः प्रयच्छसि ॥ दय दानगतिरक्षणहिंसाग्रहणेषु आत्मनेपदी ॥ किंच वर्धनं वृद्धिकरं धनं बलं वा दयसे । तथार्द्रात्कांडात् शुष्कमनार्द्रं व्रीह्यादिकं मधुमत् मधुररसोपेतं दुदोहिथ । दुग्धवानसि ॥ दुहेर्लिटि क्रादिनियमादिडागमः ॥ स तादृशस्त्वं विवस्वति ते परिचरणं कुर्वाणे यजमाने शेवधिं धनसदनं निदधिषे । निदधासि । किं बहुना । विश्वस्य सर्वस्य जगत एकोऽद्वितीय एव सन् ईशिषे । स्वामी भवसि ॥ ईश ऐश्वर्ये । ईशः स इतीडागमः ॥ स इत्यादि सिद्धं ।

यः पु॒ष्पिणी॑श्च प्र॒स्व॑श्च॒ धर्म॒णाधि॒ दाने॒ व्य१॒॑वनी॒रधा॑रयः ।

यश्चास॑मा॒ अज॑नो दि॒द्युतो॑ दि॒व उ॒रुरू॒र्वाँ अ॒भित॒ः सास्यु॒क्थ्यः॑ ॥७

यः । पु॒ष्पिणीः॑ । च॒ । प्र॒ऽस्वः॑ । च॒ । धर्म॑णा । अधि॑ । दाने॑ । वि । अ॒वनीः॑ । अधा॑रयः ।

यः । च॒ । अस॑माः । अज॑नः । दि॒द्युतः॑ । दि॒वः । उ॒रुः । ऊ॒र्वान् । अ॒भितः॑ । सः । अ॒सि॒ । उ॒क्थ्यः॑ ॥७

यः। पुष्पिणीः । च। प्रऽस्वः। च। धर्मणा।अधि। दाने।वि। अवनीः। अधारयः।

यः । च । असमाः । अजनः । दिद्युतः । दिवः । उरुः । ऊर्वान् । अभितः । सः । असि । उक्थ्यः ॥७॥

हे इंद्र यस्त्वं पुष्पिणीः पुष्पवतीश्च प्रस्वः प्रसूताः प्रसूयमाना वावनीरवित्रीरोषधीर्दानेऽधि ॥ उपलूयंते सस्यान्यत्रेति दानं क्षेत्रं । अधिकरणे ल्युट् । तस्मिन् क्षेत्रे धर्मणा सकललक्षणेन कर्मणा व्यधारयः । व्यदधाः । यश्च त्वं दिवो द्योतमानस्य सूर्यस्यासमा विषमा नानाप्रकारा दिद्युतो दीप्तीरजनः । अजनयः । यद्वा दिवो नक्षत्राणि । जनेर्लङि व्यत्ययेन शप्॥ यश्चोरुर्महांस्त्वमभितः सर्वत ऊर्वान् महतः प्राणिनिकायान् पर्वतान्वाजनयः । शिष्टं स्पष्टं ॥

यो ना॑र्म॒रं स॒हव॑सुं॒ निह॑न्तवे पृ॒क्षाय॑ च दा॒सवे॑शाय॒ चाव॑हः ।

ऊ॒र्जय॑न्त्या॒ अप॑रिविष्टमा॒स्य॑मु॒तैवाद्य पु॑रुकृ॒त्सास्यु॒क्थ्यः॑ ॥८

यः । ना॒र्म॒रम् । स॒हऽव॑सुम् । निऽह॑न्तवे । पृ॒क्षाय॑ । च॒ । दा॒सऽवे॑शाय । च॒ । अव॑हः ।

ऊ॒र्जय॑न्त्याः । अप॑रिऽविष्टम् । आ॒स्य॑म् । उ॒त । ए॒व । अ॒द्य । पु॒रु॒ऽकृ॒त् । सः । अ॒सि॒ । उ॒क्थ्यः॑ ॥८

यः । नार्मरं। सहऽवसु । निऽहंतवे। पृक्षाय । च। दासऽवेशय । च। अवहः ।

ऊर्जयंत्याः।अपरिऽविष्टं । आस्यं। उत्त।एव।अद्य। पुरुऽकृत्।सः।असि। उक्थ्यः ॥८॥

पुरुकृत् पुरूणां कर्मणां कर्ता हे इंद्र यस्त्वं नार्मरं। नॄन् मनुष्यान्मारयतीति नृमरः कश्चिदसुरः। तस्यापत्यं नार्मरः । तं सहवसुं । वसुना सह वर्तत इति सहवसुः । असुरनामैतत् । एतन्नामकमसुरं निहंतवे ॥ हंतेस्तुमर्थे तवेन्प्रत्ययः । तादौ च नितीति गतेः प्रकृतिस्वरत्वं ॥ निहंतुं ऊर्जयंत्या बलवत्या वज्रधाराया अपरिविष्टं मलादिभिरव्याप्तमास्यमद्यैवावहः । तमसुरं प्रापयः । यद्वा ऊर्जयंत्याः पिशाचिकाया आस्यं प्रापयः । किमर्थं । पृक्षाय । तव हविर्लक्षणान्नलाभाय। दासवेशाय। दासानां दस्यूनां वेशाय विनाशाय च। यद्वा अस्माकमन्नलाभाय दस्युविनाशाय च ॥

श॒तं वा॒ यस्य॒ दश॑ सा॒कमाद्य॒ एक॑स्य श्रु॒ष्टौ यद्ध॑ चो॒दमावि॑थ ।

अ॒र॒ज्जौ दस्यू॒न्समु॑नब्द॒भीत॑ये सुप्रा॒व्यो॑ अभव॒ः सास्यु॒क्थ्यः॑ ॥९

श॒तम् । वा॒ । यस्य॑ । दश॑ । सा॒कम् । आ । अद्यः॑ । एक॑स्य । श्रु॒ष्टौ । यत् । ह॒ । चो॒दम् । आवि॑थ ।

अ॒र॒ज्जौ । दस्यू॑न् । सम् । उ॒न॒प् । द॒भीत॑ये । सु॒प्र॒ऽअ॒व्यः॑ । अ॒भ॒वः॒ । सः । अ॒सि॒ । उ॒क्थ्यः॑ ॥९

शतं । वा। यस्य। दश। साकं । । अद्यः। एकस्य। श्रुष्टौ। यत्।ह। चोदं । आविथ।

अरज्जौ। दस्यून्।सं। उनप्।दभीतये।सुप्रऽअव्यः।अभवः। सः।असि। उक्थ्यः ॥९॥

हे इंद्र एकस्यैकाकिनः श्रेष्ठस्य वा यस्य ते श्रुष्टौ सुखनिमित्ते तदर्थं शतं दश दश शतानि हरयो वाहनार्थं भवंति । तथा च मंत्रवर्णः । इंद्रो मायाभिः पुरुरूप ईयते युक्ता ह्यस्य हरयः शता दश । ६.४७.१८.। इति । अपि च यश्च आ अद्यः सर्वेषां सर्वत उपजीव्यः। न तस्येशे यं नाद्याद्यद्वैनं नाद्युरिति हि श्रुतिः । यद्ध यश्च त्वं चोदं स्तोत्राणां प्रेरकं यजमानमाविथ । रक्षितवानसि । किंच यस्त्वमरज्जौ रज्जुवर्जिते बंधनागारे दस्यूनुपक्षपयितॄन् दभीतये । दभीतिर्नाम कश्चिदृषिः । तदर्थं समुनप्। हिंसितवानसि ॥ उभतेर्हिंसाकर्मणो लङि व्यत्ययेन श्नम्। हल्ड्यादिना सिपो लोपः । अडभावश्छांदसः ॥ किंच सुप्राव्यः सुखेन सर्वैरुपसर्पणीयोऽभवः । शिष्टं सिद्धं ।

विश्वेदनु॑ रोध॒ना अ॑स्य॒ पौंस्यं॑ द॒दुर॑स्मै दधि॒रे कृ॒त्नवे॒ धन॑म् ।

षळ॑स्तभ्ना वि॒ष्टिर॒ः पञ्च॑ सं॒दृश॒ः परि॑ प॒रो अ॑भव॒ः सास्यु॒क्थ्यः॑ ॥१०

विश्वा॑ । इत् । अनु॑ । रो॒ध॒नाः । अ॒स्य॒ । पौंस्य॑म् । द॒दुः । अ॒स्मै॒ । द॒धि॒रे । कृ॒त्नवे॑ । धन॑म् ।

षट् । अ॒स्त॒भ्नाः॒ । वि॒ऽस्तिरः॑ । पञ्च॑ । स॒म्ऽदृशः॑ । परि॑ । प॒रः । अ॒भ॒वः॒ । सः । अ॒सि॒ । उ॒क्थ्यः॑ ॥१०

विश्वा। इत्। अनु। रोधनाः । अस्य । पौंस्यं। ददुः । अस्मै। दधिरे। कृत्नवे। धनं।

षट्। अस्तभ्नाः । विऽस्तिरः। पंच। संऽदृशः । परि। परः । अभवः । सः । असि । उक्थ्यः ॥१०॥

विश्वेत् ॥ सुपां सुलुगिति जस आकारः ॥ सर्वा एव रोधना रोधस्वत्यो नद्योऽस्येंद्रस्य पौंस्यं । पुंसो भावः। पौंस्यं । वीर्यमिति यावत् । अनु तद्वीर्यमनु वर्तंते । अस्मा इंद्राय ददुः । हविर्लक्षणमन्नं यजमानाः प्रयच्छंति। किंच कृत्नवे कर्मणां कर्त्र इंद्राय धनं दधिरे। सर्वे जना धारयंति । तथा च मंत्रः । इंद्राय द्याव ओषधीरुतापो रयिं रक्षंति जीरयो वनानि । ३.५१.५.। इति। विष्टिरो विस्तीर्णाः षट् षट्संख्याका उर्वीः । ताश्च द्यौश्च पृथिवी चाहश्च रात्रिश्चापश्चौषधय इत्येवंरूपाः । ता अस्तभ्नाः । नियमितवानसि । संदृशः । सम्यक् पश्यंतीति संदृशो जनाः । पंच संदृशः पंच जनान् परि सर्वतः परः पारयिता पालयिता वाभवः । भवसि । गतमन्यत् ॥ ॥ १० ॥

सु॒प्र॒वा॒च॒नं तव॑ वीर वी॒र्यं१॒॑ यदेके॑न॒ क्रतु॑ना वि॒न्दसे॒ वसु॑ ।

जा॒तूष्ठि॑रस्य॒ प्र वय॒ः सह॑स्वतो॒ या च॒कर्थ॒ सेन्द्र॒ विश्वा॑स्यु॒क्थ्यः॑ ॥११

सु॒ऽप्र॒वा॒च॒नम् । तव॑ । वी॒र॒ । वी॒र्य॑म् । यत् । एके॑न । क्रतु॑ना । वि॒न्दसे॑ । वसु॑ ।

जा॒तूऽस्थि॑रस्य । प्र । वयः॑ । सह॑स्वतः । या । च॒कर्थ॑ । सः । इ॒न्द्र॒ । विश्वा॑ । अ॒सि॒ । उ॒क्थ्यः॑ ॥११

सुऽप्रवाचनं। तव । वीर। वीर्यं । यत्। एकेन । क्रतुना। विंदसे । वसु।

जातूऽस्थिरस्य। प्र। वयः। सहस्वतः। या। चकर्थ। सः।इंद्र।विश्वा। असि। उक्थ्यः॥११॥

वीर बलवन् हे इंद्र तव वीर्यं सामर्थ्यं सुप्रवाचनं । सुष्ठु प्रवचनीयं । सर्वैः श्लाघनीयमित्यर्थः । किं तत् । एकेन क्रतुना कर्मणा वसु विंदसे । शत्रूणां धनं लभसे ॥ विद्लृ लाभे । तुदादिः स्वरितेत् ॥ यद्वा तदीयं धनं स्तोतॄन्प्रापयसीति यत् तत्प्रशस्यमित्यर्थः । सहस्वतो बलवतो जातूष्ठिरस्य । एतन्नामकः कश्चित् । तस्य वयोऽन्नं प्रादाः । यद्वा जातूष्ठिरस्य। जातु कदाचित् सर्वदा स्थिरस्य सहस्वतो बलवतो यज्ञादेः कर्मणः संबंधि वयो हविर्लक्षणमन्नं प्र विंदस इति समन्वयः । या यानीमान्यन्यानि विश्वा सर्वाणि कर्माणि चकर्थ कृतवानसि । स तादृशस्त्वमुक्थ्यः । सर्वैः प्रशंसनीयो भवसि ॥

अर॑मय॒ः सर॑पस॒स्तरा॑य॒ कं तु॒र्वीत॑ये च व॒य्या॑य च स्रु॒तिम् ।

नी॒चा सन्त॒मुद॑नयः परा॒वृजं॒ प्रान्धं श्रो॒णं श्र॒वय॒न्त्सास्यु॒क्थ्यः॑ ॥१२

अर॑मयः । सर॑ऽअपसः । तरा॑य । कम् । तु॒र्वीत॑ये । च॒ । व॒य्या॑य । च॒ । स्रु॒तिम् ।

नी॒चा । सन्त॑म् । उत् । अ॒न॒यः॒ । प॒रा॒ऽवृज॑म् । प्र । अ॒न्धम् । श्रो॒णम् । श्र॒वय॑न् । सः । अ॒सि॒ । उ॒क्थ्यः॑ ॥१२

अरमयः । सरऽअपसः । तराय। कं। तुर्वीतये। च। वय्याय। च। स्रुतिं ।

नीचा। संतं । उत्। अनयः । पराऽवृजं । प्र। अंधं । श्रोणं । श्रवयन्। सः । असि । उक्थ्यः ॥ १२॥

हे इंद्र सरपसः । सरणमपः कर्म यासां ताः सरपसः ॥ शकंध्वादित्वात्पररूपत्वं । ता अपः कं सुखेन तराय तरणायारमयः । अक्रीडयः । किंच तुर्वीतये । तुर्वीतिर्नाम कश्चिद्राजर्षिः । तस्मै वय्याय च। वय्यो नाम कश्चित् तस्मै । ताभ्यां स्रुतिं सरणं प्रत्यरमयः । तौ हि जलपूर्णां महानदीं दृष्ट्वा तरीतुमसमर्थावास्तां । तौ च त्वया तारितौ । परावृजं । परितः पापानि वृणक्ति दहतीति परावृक् कश्चिदृषिः । तमप्सु मग्नं तथा नीचा नीचं संतमुदनयः । आपद्भ्य ऊर्ध्वं नीतवानसि । किंच अंधं संतं श्रोणं पंगुं संतं चक्षुर्दानादपंगुकरणाच्चोड्नयः । किं कुर्वन् । प्रकर्षेण श्रवयन् । आत्मानं कीर्तिमंतं कुर्वन् । उदनय इति समन्वयः । स इत्यादि सिद्धं ।

अ॒स्मभ्यं॒ तद्व॑सो दा॒नाय॒ राध॒ः सम॑र्थयस्व ब॒हु ते॑ वस॒व्य॑म् ।

इन्द्र॒ यच्चि॒त्रं श्र॑व॒स्या अनु॒ द्यून्बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑ ॥१३

अ॒स्मभ्य॑म् । तत् । व॒सो॒ इति॑ । दा॒नाय॑ । राधः॑ । सम् । अ॒र्थ॒य॒स्व॒ । ब॒हु । ते॒ । व॒स॒व्य॑म् ।

इन्द्र॑ । यत् । चि॒त्रम् । श्र॒व॒स्याः । अनु॑ । द्यून् । बृ॒हत् । व॒दे॒म॒ । वि॒दथे॑ । सु॒ऽवीराः॑ ॥१३

अस्मभ्यं । तत् । वसो इति । दानाय। राधः । सं । अर्थयस्व । बहु। ते। वसव्यं ।

इंद्र। यत्। चित्रं । श्रवस्याः । अनु। द्यून्। बृहत्। वदेम विदथे । सुऽवीराः ॥१३॥

वसो सर्वस्य वासक वसुमन्वा हे इंद्र स्तोतृभ्योऽस्मभ्यं तद्राधो धनं दानाय । उपलक्षणमेतत् । भोगाय च समर्थयस्व । देहि । अस्मान् संगमयेत्यर्थः । अर्थ याचने चुरादिरदंत आत्मनेपदी ॥ ते तव तद्बहु प्रभूतं वसव्यं । वस्वेव वसव्यं । वस्वादित्वात् स्वार्थिको यत् । तादृशं प्रभूतं धनमस्ति खलु । चित्रं चायनीयं यद्धनमनु द्यून् अन्वहं ॥ कालाध्वनोरिति द्वितीया ॥ श्रवस्याः । भोग्यमिच्छेः ॥ अंतर्णीतण्यर्थत्वादकर्मकत्वं । यथा रोदितीति । स त्वन्यः । द्वे ह्यत्र कर्मणी उद्देश्यकर्म च विधेयकर्मांतर्भूतं । उद्देश्यकर्मणा सकर्मको भविष्यति । यथा माणवकं पुत्रीयतीति भाष्य उदाहृतं । पा० ३. १. ८. २. । श्रवःशब्दाच्छंदसि परेच्छायां क्यच् । तदंतस्य लेट्यडागमे रूपं । सुवीराः कल्याणपुत्रपौत्राः संतो वयं विदथेऽस्मिन्यज्ञे बृहत् प्रभूतं शस्त्रादिकं वाक्यं वदेम ॥ ॥ १२ ॥


टिप्पणी

२.१३.१ तदाहना अभवत् पिप्युषी पयः इति

आहनसम् -- आ-समन्तात् - हनसम्।

सोमयागे यदा सोमस्य हननं कुर्वन्ति, तदा ऋजीषः अवशिष्टं भवति। तस्य न कोपि उपचारः संभवमस्ति। आहनसम् - न कोपि अवशिष्टः अस्ति। अथ सोम इति वै पशुम् अवोचाम । एवम् पुरोडाशान् । दश त्वा एते सोम अंशवः । प्रत्नो अंशुर् यम् एतम् अभिषुण्वन्ति । तृप्तो अंशुर् आपः । रसो अंशुर् व्रीहिः । वृषो अंशुर् यवः । शुक्रो अंशुः पयः । जीवो अंशुः पशुः । अमृतो अंशुर् हिरण्यम् । ऋग् अंशुर् यजुर् अंशुः साम अंशुर् इति । एत वा उ दश सोम अंशवः । यदा वा एते सर्वे संगच्छन्ते । अतः सोमो अतः सुतः । - कौ १३.४


मण्डल २

सूक्तं २.१

सूक्तं २.२

सूक्तं २.३

सूक्तं २.४

सूक्तं २.५

सूक्तं २.६

सूक्तं २.७

सूक्तं २.८

सूक्तं २.९

सूक्तं २.१०

सूक्तं २.११

सूक्तं २.१२

सूक्तं २.१३

सूक्तं २.१४

सूक्तं २.१५

सूक्तं २.१६

सूक्तं २.१७

सूक्तं २.१८

सूक्तं २.१९

सूक्तं २.२०

सूक्तं २.२१

सूक्तं २.२२

सूक्तं २.२३

सूक्तं २.२४

सूक्तं २.२५

सूक्तं २.२६

सूक्तं २.२७

सूक्तं २.२८

सूक्तं २.२९

सूक्तं २.३०

सूक्तं २.३१

सूक्तं २.३२

सूक्तं २.३३

सूक्तं २.३४

सूक्तं २.३५

सूक्तं २.३६

सूक्तं २.३७

सूक्तं २.३८

सूक्तं २.३९

सूक्तं २.४०

सूक्तं २.४१

सूक्तं २.४२

सूक्तं २.४३


"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_२.१३&oldid=243125" इत्यस्माद् प्रतिप्राप्तम्