सामग्री पर जाएँ

ऋग्वेदः सूक्तं २.१४

विकिस्रोतः तः
(ऋग्वेद: सूक्तं २.१४ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं २.१३ ऋग्वेदः - मण्डल २
सूक्तं २.१४
गृत्समद (आङ्गिरसः शौनहोत्रः पश्चाद्) भार्गवः शौनकः
सूक्तं २.१५ →
दे. इन्द्रः। त्रिष्टुप्


अध्वर्यवो भरतेन्द्राय सोममामत्रेभिः सिञ्चता मद्यमन्धः ।
कामी हि वीरः सदमस्य पीतिं जुहोत वृष्णे तदिदेष वष्टि ॥१॥
अध्वर्यवो यो अपो वव्रिवांसं वृत्रं जघानाशन्येव वृक्षम् ।
तस्मा एतं भरत तद्वशायँ एष इन्द्रो अर्हति पीतिमस्य ॥२॥
अध्वर्यवो यो दृभीकं जघान यो गा उदाजदप हि वलं वः ।
तस्मा एतमन्तरिक्षे न वातमिन्द्रं सोमैरोर्णुत जूर्न वस्त्रैः ॥३॥
अध्वर्यवो य उरणं जघान नव चख्वांसं नवतिं च बाहून् ।
यो अर्बुदमव नीचा बबाधे तमिन्द्रं सोमस्य भृथे हिनोत ॥४॥
अध्वर्यवो यः स्वश्नं जघान यः शुष्णमशुषं यो व्यंसम् ।
यः पिप्रुं नमुचिं यो रुधिक्रां तस्मा इन्द्रायान्धसो जुहोत ॥५॥
अध्वर्यवो यः शतं शम्बरस्य पुरो बिभेदाश्मनेव पूर्वीः ।
यो वर्चिनः शतमिन्द्रः सहस्रमपावपद्भरता सोममस्मै ॥६॥
अध्वर्यवो यः शतमा सहस्रं भूम्या उपस्थेऽवपज्जघन्वान् ।
कुत्सस्यायोरतिथिग्वस्य वीरान्न्यावृणग्भरता सोममस्मै ॥७॥
अध्वर्यवो यन्नरः कामयाध्वे श्रुष्टी वहन्तो नशथा तदिन्द्रे ।
गभस्तिपूतं भरत श्रुतायेन्द्राय सोमं यज्यवो जुहोत ॥८॥
अध्वर्यवः कर्तना श्रुष्टिमस्मै वने निपूतं वन उन्नयध्वम् ।
जुषाणो हस्त्यमभि वावशे व इन्द्राय सोमं मदिरं जुहोत ॥९॥
अध्वर्यवः पयसोधर्यथा गोः सोमेभिरीं पृणता भोजमिन्द्रम् ।
वेदाहमस्य निभृतं म एतद्दित्सन्तं भूयो यजतश्चिकेत ॥१०॥
अध्वर्यवो यो दिव्यस्य वस्वो यः पार्थिवस्य क्षम्यस्य राजा ।
तमूर्दरं न पृणता यवेनेन्द्रं सोमेभिस्तदपो वो अस्तु ॥११॥
अस्मभ्यं तद्वसो दानाय राधः समर्थयस्व बहु ते वसव्यम् ।
इन्द्र यच्चित्रं श्रवस्या अनु द्यून्बृहद्वदेम विदथे सुवीराः ॥१२॥

सायणभाष्यम्

' अध्वर्यवो भरत ' इति द्वादशर्चं तृतीयं सूक्तं गार्त्समदं त्रैष्टुभमैन्द्रम् । ' अध्वर्यवो द्वादश ' इत्यनुक्रान्तम् । सूक्तविनियोगो लैङ्गिकः । अतिरात्रे प्रथमे पर्याये होतुः शस्त्रयाज्या ' अध्वर्यवः ' इत्येषा । ' अध्वर्यवो भरतेन्द्राय सोममिति याज्या ' ( आश्व. श्रौ. ६.४) इति सूत्रितम् ।।

अध्व॑र्यवो॒ भर॒तेन्द्रा॑य॒ सोम॒माम॑त्रेभिः सिञ्चता॒ मद्य॒मन्धः॑ ।

का॒मी हि वी॒रः सद॑मस्य पी॒तिं जु॒होत॒ वृष्णे॒ तदिदे॒ष व॑ष्टि ॥१

अध्व॑र्यवः । भर॑त । इन्द्रा॑य । सोम॑म् । आ । अम॑त्रेभिः । सि॒ञ्च॒त॒ । मद्य॑म् । अन्धः॑ ।

का॒मी । हि । वी॒रः । सद॑म् । अ॒स्य॒ । पी॒तिम् । जु॒होत॑ । वृष्णे॑ । तत् । इत् । ए॒षः । व॒ष्टि॒ ॥१

अध्वर्यवः। भरत। इंद्राय। सोमं। आ। अमत्रेभिः । सिंचत। मद्यं । अंधः ।।

कामी। हि। वीरः। सदं। अस्य । पीतिं । जुहोतं । वृष्णे । तत्। इत्। एषः। वष्टि ॥१॥

गृत्समदो ब्रूते । अध्वर्यवः अध्वरस्य नेतारः । अध्वरं यजमानायेच्छंतः ॥ कव्यध्वरपृतनस्यर्चि लोप इत्यकारलोपः । अत्र यास्कः । अध्वर्युरध्वरयुरध्वरं युनक्त्यध्वरस्य नेताध्वरं कामयत इति । नि० १. ८. ॥ हे अध्वर्यवः इंद्राय देवाय सोमं हविर्धानादुत्तरवेदिं प्रति भरत । हरत॥ आमंत्रितस्याविद्यमानत्वादनिघातः । हृत्वामत्रेभिः । अमा सहादंत्यत्र होत्रादय इत्यमत्राणि चमसाः । तैर्मद्यं मदकरमंधः सोमलक्षणमन्नमासिंचत। अग्नौ प्रक्षिपत । अत्र यास्कः । आ सिंचतामत्रैर्मदनीयमंधोऽमत्रं पात्रममा अस्मिन्नदंति । नि० ५.. १.। इति । वीरः स इंद्रोऽस्य सोमस्य पीतिं पानं प्रति सदं सदैव कामी हि । कामयमानो हि । तस्माद्वृष्णे वर्षित्र इंद्राय सोमं जुहोत । जुहुत ॥ हु दानादनयोः । लोटि तप्तनप्तनथनाश्चेति तबादेशः । एष इंद्रस्तदित् तदेव सोमद्रव्यं वष्टि । कामयते ॥


अध्व॑र्यवो॒ यो अ॒पो व॑व्रि॒वांसं॑ वृ॒त्रं ज॒घाना॒शन्ये॑व वृ॒क्षम् ।

तस्मा॑ ए॒तं भ॑रत तद्व॒शायँ॑ ए॒ष इन्द्रो॑ अर्हति पी॒तिम॑स्य ॥२

अध्व॑र्यवः । यः । अ॒पः । व॒व्रि॒ऽवांस॑म् । वृ॒त्रम् । ज॒घान॑ । अ॒शन्या॑ऽइव । वृ॒क्षम् ।

तस्मै॑ । ए॒तम् । भ॒र॒त॒ । त॒त्ऽव॒शाय॑ । ए॒षः । इन्द्रः॑ । अ॒र्ह॒ति॒ । पी॒तिम् । अ॒स्य॒ ॥२

अध्वर्यवः । यः। अपः । वव्रिवांसं। वृत्रं । जघान। अशन्याऽइव। वृक्षं ।

तस्मै । एतं। भरत। तत्ऽवशाय। एषः । इंद्रः । अर्हति । पीतिं । अस्य ॥२॥

हे अध्वर्यवः य इंद्रोऽप उदकानि वव्रिवांसमावृत्य स्थितं वृत्रं । वृणोत्याकाशमिति वृत्रो मेघः । तं मेघं वज्रेण जघान । हतवान् । अशन्येव । यथाशन्या वैद्युताग्निना वृक्षं दहति तद्वत् । तस्मै तद्वशाय सोमकामाय तस्मा इंद्रायैतं सोमं भरत। उत्तरवेदिं प्रति हरत । एष इंद्रोऽस्य सोमस्य पीतिं पानमर्हति । ।


अध्व॑र्यवो॒ यो दृभी॑कं ज॒घान॒ यो गा उ॒दाज॒दप॒ हि व॒लं वः ।

तस्मा॑ ए॒तम॒न्तरि॑क्षे॒ न वात॒मिन्द्रं॒ सोमै॒रोर्णु॑त॒ जूर्न वस्त्रैः॑ ॥३

अध्व॑र्यवः । यः । दृभी॑कम् । ज॒घान॑ । यः । गाः । उ॒त्ऽआज॑त् । अप॑ । हि । व॒लम् । वरिति॒ वः ।

तस्मै॑ । ए॒तम् । अ॒न्तरि॑क्षे । न । वात॑म् । इन्द्र॑म् । सोमैः॑ । आ । ऊ॒र्णु॒त॒ । जूः । न । वस्त्रैः॑ ॥३

अध्वर्यवः।यः। दृभीकं। जघान। यः। गाः। उत्ऽआजत्।अप। हि। वलं वरिति वः।

तस्मै । एतं। अंतरिक्षे । न। वातं । इंद्रं । सोमैः । आ। ऊर्णुत । जूः। न । वस्त्रैः ॥३॥

हे अध्वर्यवः य इंद्रो दृभीकं । सर्वान्विदारयति भियं करोतीति दृभीको नामासुरः । तमसुरं जघान । यश्च वलासुरेण निरुद्धा गा उदाजत् । निरगमयत् । ततश्च तमेव वलमसुरं अपवः । अपावृणोत् । हिंसितवानित्यर्थः । वृणोतेर्लुङि मंत्रे घसेत्यादिना च्लेर्लुक् । हल्ङ्यादिना तिपो लोपः । तस्मा इंद्रायैतं सोममंतरिक्षे वातं न वातमिव धाराभिर्व्याप्तं कुरुत । तदेवाहं सोमैरिंद्रमा ऊर्णत । सर्वत आच्छादयत ॥ ऊर्णुञ् आच्छादने । आदादिकः । लोटि रूपं ॥ तत्र दृष्टांतः । जूर्न जीर्णो यथा वस्त्रैरंगमाच्छादयति तद्वत् ॥


अध्व॑र्यवो॒ य उर॑णं ज॒घान॒ नव॑ च॒ख्वांसं॑ नव॒तिं च॑ बा॒हून् ।

यो अर्बु॑द॒मव॑ नी॒चा ब॑बा॒धे तमिन्द्रं॒ सोम॑स्य भृ॒थे हि॑नोत ॥४

अध्व॑र्यवः । यः । उर॑णम् । ज॒घान॑ । नव॑ । च॒ख्वांस॑म् । न॒व॒तिम् । च॒ । बा॒हून् ।

यः । अर्बु॑दम् । अव॑ । नी॒चा । ब॒बा॒धे । तम् । इन्द्र॑म् । सोम॑स्य । भृ॒थे । हि॒नो॒त॒ ॥४

अर्ध्वर्यवः। यः । उरणं । जघान । नव । चख्वांसं। नवतिं । च । बाहून् ।।

यः । अर्बुदं । अव। नीचा। बबाधे। तं । इंद्रं । सोमस्य। भृथे। हिनोत ॥४॥

हे अध्वर्यवः य इंद्रो नव नवतिं च एकोनशतं बाहून् चख्वांसं ॥ चष्टेरिदं रूपं । यद्वा खनतेः क्वसौ रूपं । निलोपः । छांदसं रूपं ॥ सर्वस्य दर्शयंतं । यद्वा आत्मनो देहे निखातवंतमुरणमेतन्नामकमसुरं जघान । यश्चार्बुदमेतन्नामकमसुरं च नीचाधोमुखं कृत्वावबबाधे। तमेनमिंद्रं सोमस्य भृथे सोमं बिभ्रति पात्रे हिनोत । वर्धयत । यद्वा सोमस्य भृथे भरणे संपादने सति हिनोत । स्तोत्रैः प्रीणयत ॥ हि गतिवृद्ध्योः । स्वादिः ॥


अध्व॑र्यवो॒ यः स्वश्नं॑ ज॒घान॒ यः शुष्ण॑म॒शुषं॒ यो व्यं॑सम् ।

यः पिप्रुं॒ नमु॑चिं॒ यो रु॑धि॒क्रां तस्मा॒ इन्द्रा॒यान्ध॑सो जुहोत ॥५

अध्व॑र्यवः । यः । सु । अश्न॑म् । ज॒घान॑ । यः । शुष्ण॑म् । अ॒शुष॑म् । यः । विऽअं॑सम् ।

यः । पिप्रु॑म् । नमु॑चिम् । यः । रु॒धि॒ऽक्राम् । तस्मै॑ । इन्द्रा॑य । अन्ध॑सः । जु॒हो॒त॒ ॥५

अध्वर्यवः । यः । सु। अश्नं । जघान । यः । शुष्णं । अशुषं । यः । विऽअंसं ।

यः । पिप्रुं । नमुचिं । यः । रुधिऽक्रां । तस्मै । इंद्राय । अंधसः। जुहोत ॥५॥

हे अध्वर्यवः ये इंद्रोऽश्नं । अश्नाति भक्षयति प्राणिजातमिति । यद्वा अश्नुते स्वतेजसा सर्वं व्याप्नोतीत्यन्नः कश्चिदसुरः । तमसुरं सु सुष्ठु जघान । अशुषं केनाप्यशोषणीयं शुष्णमसुरं यश्च तमसुरं व्यंसमंसहीनं कृत्वा जघान । यश्च पिप्रुं तेजसां जगद्व्याप्य वर्तमानमेतन्नामकमसुरं नमुचिमसुरं जघान यश्च । तैत्तिरीयके नमुचिमसुरं नालभतेति प्रकृत्य फेनेन शिर उद्वर्तयदित्यंतेन वाक्यसंदर्भेण नमुचिवधः प्रपंचितः । तथा मंत्रश्च । अपां फेनेन नमुचेः शिर इंद्रोदवर्तयः । ८. १४. १३.। इति । रुधिक्रामेतन्नामकमसुरं यश्च जघान । तस्मा इंद्रायांधसो हविर्लक्षणान्यन्नानि जुहोत । जुहुत ॥


अध्व॑र्यवो॒ यः श॒तं शम्ब॑रस्य॒ पुरो॑ बि॒भेदाश्म॑नेव पू॒र्वीः ।

यो व॒र्चिनः॑ श॒तमिन्द्रः॑ स॒हस्र॑म॒पाव॑प॒द्भर॑ता॒ सोम॑मस्मै ॥६

अध्व॑र्यवः । यः । श॒तम् । शम्ब॑रस्य । पुरः॑ । बि॒भेद॑ । अश्म॑नाऽइव । पू॒र्वीः ।

यः । व॒र्चिनः॑ । श॒तम् । इन्द्रः॑ । स॒हस्र॑म् । अ॒प॒ऽअव॑पत् । भर॑त । सोम॑म् । अ॒स्मै॒ ॥६

अध्वर्यवः । यः। शतं । शंबरस्य । पुरः । बिभेद । अश्मनाऽइव । पूर्वीः ।।

यः । वर्चिनः। शतं । इंद्रः । सहस्रं। अपऽअवपत् । भरत। सोमं। अस्मै ॥६॥

हे अध्वर्यवः य इंद्रः शंबरस्य मायाविनोऽसुरस्य पूर्वीः पुरातनीः शतं पुरः पुरीरश्मनेव अश्मसदृशेन वज्रेण बिभेद । यश्चेंद्रो वर्चिनः ॥ वर्च दीप्तौ । गमेरिनिः । उ०४.६.। इति विधीयमान इनिर्बहुलवचनादस्माद्भवति । यद्वा नामैतत् । तस्यासुरस्य शतं सहस्रमेतत्संख्याकानपरिमितान्वीरान् पुत्रानपावपत् । युगपदेव भूम्यामपातयत् । तथा च मंत्रवर्णः । शतं वर्चिनः सहस्रं च साकं हथो अप्रत्यसुरस्य वीरान् । ७. ९९.५। इति । अस्मा इंद्राय सोमं भरत ॥ ॥ १३ ॥


अध्व॑र्यवो॒ यः श॒तमा स॒हस्रं॒ भूम्या॑ उ॒पस्थेऽव॑पज्जघ॒न्वान् ।

कुत्स॑स्या॒योर॑तिथि॒ग्वस्य॑ वी॒रान्न्यावृ॑ण॒ग्भर॑ता॒ सोम॑मस्मै ॥७

अध्व॑र्यवः । यः । श॒तम् । आ । स॒हस्र॑म् । भूम्याः॑ । उ॒पऽस्थे॑ । अव॑पत् । ज॒घ॒न्वान् ।

कुत्स॑स्य । आ॒योः । अ॒ति॒थि॒ऽग्वस्य॑ । वी॒रान् । नि । अवृ॑णक् । भर॑त । सोम॑म् । अ॒स्मै॒ ॥७

अध्वर्यवः। यः। शतं । आ। सहस्रं। भूम्याः। उपऽस्थे। अवपत् । जघन्वान् ।

कुत्सस्य। आयोः। अतिथिऽग्वस्य । वीरान्।नि।अवृणक्। भरत। सोमं।अस्मै ॥७॥

हे अध्वर्यवो जघन्वान् पूर्वं शत्रून् हतवान् य इंद्रः शतं सहस्रमसुरान् भूम्या उपस्थ उत्संगेऽवपत् । एकैकेन प्रकारेणापातयत् । किंच यः कुत्सस्यैतन्नामकस्य राजर्षेः । आयोः पौरूरवसस्य राजर्षेः। अतिथिग्वस्य दिवोदासस्य । एतेषां त्रयाणां वीरानभिगंतॄन्प्रति द्वंद्विनः शुष्णादीनसुरान् न्यवृणक् । वृणक्तिर्हिंसाकर्मा । अवधीत् । तथा च मंत्रवर्णः । त्वं कुत्सं शुष्णहत्येष्वाविथारंधयोऽतिथिग्वाय शंबरं ।१. ५१. ६.। इति । तादृशायेंद्राय सोमं भरत ॥


अध्व॑र्यवो॒ यन्न॑रः का॒मया॑ध्वे श्रु॒ष्टी वह॑न्तो नशथा॒ तदिन्द्रे॑ ।

गभ॑स्तिपूतं भरत श्रु॒तायेन्द्रा॑य॒ सोमं॑ यज्यवो जुहोत ॥८

अध्व॑र्यवः । यत् । न॒रः॒ । क॒मया॑ध्वे । श्रु॒ष्टी । वह॑न्तः । न॒श॒थ॒ । तत् । इन्द्रे॑ ।

गभ॑स्तिऽपूतम् । भ॒र॒त॒ । श्रु॒ताय॑ । इन्द्रा॑य । सोम॑म् । य॒ज्य॒वः॒ । जु॒हो॒त॒ ॥८

अध्वर्यवः । यत्। नरः । कमयाध्वे। श्रुष्टी। वहंतः । नशथ। तत् । इंद्रे ।

गभस्तिऽपूतं । भरत। श्रुताय । इंद्राय। सोमं। यज्यवः । जुहोत ॥८॥

नरः कर्मणां नेतारो हे अध्वर्यवः यदभिलषितमर्थं कामयाध्वे ॥ कामयतेर्लेट्यडागमः ॥ श्रुष्टी क्षिप्रमिंद्रे सोमं वहंतः प्रापयंतो यूयं तदभिलषितं फलं नशथ । प्राप्नुत। श्रुताय लोके प्रसिद्धायेंद्राय गभस्तिपूतं हस्ताभ्यां मंजनदोहनादिभिः शोधितं सोमं भरत। उत्तरवेदिं प्रति हरत । ततो यज्यवो यागं कुर्वाणा हे अध्वर्यव आहृतं सोममिंद्राय जुहोत । जुहुत । अग्नौ प्रक्षिपत ॥


अध्व॑र्यव॒ः कर्त॑ना श्रु॒ष्टिम॑स्मै॒ वने॒ निपू॑तं॒ वन॒ उन्न॑यध्वम् ।

जु॒षा॒णो हस्त्य॑म॒भि वा॑वशे व॒ इन्द्रा॑य॒ सोमं॑ मदि॒रं जु॑होत ॥९

अध्व॑र्यवः । कर्त॑न । श्रु॒ष्टिम् । अ॒स्मै॒ । वने॑ । निऽपू॑तम् । वने॑ । उत् । न॒य॒ध्व॒म् ।

जु॒षा॒णः । हस्त्य॑म् । अ॒भि । वा॒व॒शे॒ । वः॒ । इन्द्रा॑य । सोम॑म् । म॒दि॒रम् । जु॒हो॒त॒ ॥९

अध्वर्यवः। कर्तन। श्रुष्टिं । अस्मै। वने । निऽपूतं । वने । उत्। नयध्वं ।

जुषाणः । हस्त्यं । अभि । वावशे। वः । इंद्राय । सोमं । मदिरं । जुहोत ॥९॥

हे अध्वर्यवः अस्मा इंद्राय सोमं श्रुष्टिं सुखकरं कर्तन । कुरुत ॥ करोतेर्लोटि बहुलं छंदसीति विकरणस्य लुक् । तप्तनप्तनथनाश्चेति तनबादेशः । आमंत्रितस्याविद्यमानत्वान्न निघातः । किंच वने संभजनीये वन उदके निपूतमाप्यायनेन शोधितं सोममुन्नयध्वं । ऊर्ध्वं नयत । यद्वा वने तद्विकारे चमसे निपूतं दशापवित्रेण शोधितं सोमं वने चमस उन्नयध्वं । जुषाणः प्रीयमाणः स इंद्रो वो युष्माकं हस्त्यं हस्ताभ्यामभिषुतं सोममभिवावशे । कामयते ॥ वश कांतौ । यङ्लुगंतस्य लटि व्यत्ययेनात्मनेपदं । लोपस्त आत्मनेपदेष्विति तलोपः । मदिरं मदकरमिमं सोममिंद्राय जुहोत । इंद्रोद्देशेनाग्नौ प्रक्षिपत ॥


अध्व॑र्यव॒ः पय॒सोध॒र्यथा॒ गोः सोमे॑भिरीं पृणता भो॒जमिन्द्र॑म् ।

वेदा॒हम॑स्य॒ निभृ॑तं म ए॒तद्दित्स॑न्तं॒ भूयो॑ यज॒तश्चि॑केत ॥१०

अध्व॑र्यवः । पय॑सा । ऊधः॑ । यथा॑ । गोः । सोमे॑भिः । ई॒म् । पृ॒ण॒त॒ । भो॒जम् । इन्द्र॑म् ।

वेद॑ । अ॒हम् । अ॒स्य॒ । निऽभृ॑तम् । मे॒ । ए॒तत् । दित्स॑न्तम् । भूयः॑ । य॒ज॒तः । चि॒के॒त॒ ॥१०

अध्वर्यवः । पयसा । ऊधः । यथा । गोः । सोमेभिः । ईं। पृणत । भोजं । इंद्रं।

वेद । अहं । अस्य। निऽभृतं । मे । एतत्। दित्संतं । भूयः। यजतः । चिकेत ॥१०॥

हे अध्वर्यवः यथा गोरूधः पयसा पूर्णं तद्वदीमेनं भोजं फलस्य दातारं रक्षितारं चेदं सोमेभिः सोमैः। पृणत । पूरयत । मे मदीयस्य सोमस्य निभृतं गूढं सुखसाधनस्वभावमहमेव वेद । जानामि । इति पूर्वं न परस्मै कथितं । तथापि युष्मभ्यं ब्रवीमीत्येवं । दित्संतं सोमं दातुमिच्छंतं यजमानं यजतो यष्टव्य इंद्रो भूयो ऽतिशयेन चिकेत ॥ दित्संतं । डुदाञ् दाने । इच्छायां सन् । सनि मीमाध्वित्याकारस्य इसादेशः । अत्र लोपोऽभ्यासस्येत्यभ्यासलोपः । सः स्यार्धधातुक इति सकारस्य तत्वं ।


अध्व॑र्यवो॒ यो दि॒व्यस्य॒ वस्वो॒ यः पार्थि॑वस्य॒ क्षम्य॑स्य॒ राजा॑ ।

तमूर्द॑रं॒ न पृ॑णता॒ यवे॒नेन्द्रं॒ सोमे॑भि॒स्तदपो॑ वो अस्तु ॥११

अध्व॑र्यवः । यः । दि॒व्यस्य॑ । वस्वः॑ । यः । पार्थि॑वस्य । क्षम्य॑स्य । राजा॑ ।

तम् । ऊर्द॑रम् । न । पृ॒ण॒त॒ । यवे॑न । इन्द्र॑म् । सोमे॑भिः । तत् । अपः॑ । वः॒ । अ॒स्तु॒ ॥११

अध्वर्यवः । यः । दिव्यस्य । वस्वः। यः। पार्थिवस्य । क्षम्यस्य । राजा।

तं । ऊर्दरं । न। पृणत। यवेन । इंद्रं । सोमेभिः। तत् । अपः। वः । अस्तु ॥११॥

हे अध्वर्यवः य इंद्रो दिव्यस्य द्युलोकार्हस्य वस्वो वसुनो राजा भवति । यश्च पार्थिवस्य । पृथिवीशब्देन विस्तीर्णमंतरिक्षमुच्यते । तत्रत्यं धनं पार्थिवं । तस्य राजा । यश्च क्षम्यस्य । क्षमा भूमिः । तत्रत्यं धनं क्षम्यं । तस्य च राजा भवति । तमेवंविधमिंद्रं सोमेभिः सोमैः पृणत पूरयत । तत्र दृष्टांतः । ऊर्दरं न । ऊर्ध्वं दीर्णमूर्दरं कुसूलं । यथा यवेन तत्पूर्णं तद्वदिंद्रं पूरयतेति । तादृशं सोमादिनेंद्रोदरपूरणलक्षणमपः कर्म वो युष्माकमस्तु ॥


अ॒स्मभ्यं॒ तद्व॑सो दा॒नाय॒ राध॒ः सम॑र्थयस्व ब॒हु ते॑ वस॒व्य॑म् ।

इन्द्र॒ यच्चि॒त्रं श्र॑व॒स्या अनु॒ द्यून्बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑ ॥१२

अ॒स्मभ्य॑म् । तत् । व॒सो॒ इति॑ । दा॒नाय॑ । राधः॑ । सम् । अ॒र्थ॒य॒स्व॒ । ब॒हु । ते॒ । व॒स॒व्य॑म् ।

इन्द्र॑ । यत् । चि॒त्रम् । श्र॒व॒स्याः । अनु॑ । द्यून् । बृ॒हत् । व॒दे॒म॒ । वि॒दथे॑ । सु॒ऽवीराः॑ ॥१२

अस्मभ्यं । तत् । वसो इति । दानाय। राधः । सं । अर्थयस्व। बहु। ते। वसव्यं ।

इंद्र। यत्। चित्रं । श्रवस्याः। अनु। द्यून्। बृहत्। वदेम विदथे। सुऽवीराः ॥१२॥

एषा ऋग्व्याख्याता ॥ ॥ १४ ॥

टिप्पणी

मण्डल २

सूक्तं २.१

सूक्तं २.२

सूक्तं २.३

सूक्तं २.४

सूक्तं २.५

सूक्तं २.६

सूक्तं २.७

सूक्तं २.८

सूक्तं २.९

सूक्तं २.१०

सूक्तं २.११

सूक्तं २.१२

सूक्तं २.१३

सूक्तं २.१४

सूक्तं २.१५

सूक्तं २.१६

सूक्तं २.१७

सूक्तं २.१८

सूक्तं २.१९

सूक्तं २.२०

सूक्तं २.२१

सूक्तं २.२२

सूक्तं २.२३

सूक्तं २.२४

सूक्तं २.२५

सूक्तं २.२६

सूक्तं २.२७

सूक्तं २.२८

सूक्तं २.२९

सूक्तं २.३०

सूक्तं २.३१

सूक्तं २.३२

सूक्तं २.३३

सूक्तं २.३४

सूक्तं २.३५

सूक्तं २.३६

सूक्तं २.३७

सूक्तं २.३८

सूक्तं २.३९

सूक्तं २.४०

सूक्तं २.४१

सूक्तं २.४२

सूक्तं २.४३


"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_२.१४&oldid=398831" इत्यस्माद् प्रतिप्राप्तम्