ऋग्वेदः सूक्तं २.६
← सूक्तं २.५ | ऋग्वेदः - मण्डल २ सूक्तं २.६ सोमाहुतिर्भार्गवः |
सूक्तं २.७ → |
दे. अग्निः ।गायत्री |
इमां मे अग्ने समिधमिमामुपसदं वनेः ।
इमा उ षु श्रुधी गिरः ॥१॥
अया ते अग्ने विधेमोर्जो नपादश्वमिष्टे ।
एना सूक्तेन सुजात ॥२॥
तं त्वा गीर्भिर्गिर्वणसं द्रविणस्युं द्रविणोदः ।
सपर्येम सपर्यवः ॥३॥
स बोधि सूरिर्मघवा वसुपते वसुदावन् ।
युयोध्यस्मद्द्वेषांसि ॥४॥
स नो वृष्टिं दिवस्परि स नो वाजमनर्वाणम् ।
स नः सहस्रिणीरिषः ॥५॥
ईळानायावस्यवे यविष्ठ दूत नो गिरा ।
यजिष्ठ होतरा गहि ॥६॥
अन्तर्ह्यग्न ईयसे विद्वाञ्जन्मोभया कवे ।
दूतो जन्येव मित्र्यः ॥७॥
स विद्वाँ आ च पिप्रयो यक्षि चिकित्व आनुषक् ।
आ चास्मिन्सत्सि बर्हिषि ॥८॥
सायणभाष्यम्
' इमा मे ' इत्यष्टर्चं षष्ठं सूक्तं सोमाहुत्यार्षमाग्नेयं गायत्रम् । ' इमां मे गायत्रं हि ' इत्यनुक्रान्तम् । प्रातरनुवाकाश्विनशस्त्रयोर्गायत्रे छन्दस्यस्य विनियोगः । सूत्रितं च - ' इमां मे अग्ने समिधमिमामिति त्रयाणामुत्तमामुद्धरेत् ' (आश्व श्रौ. ४. १३) इति । अपराह्णिक्यामुपसदि 'इमां मे अग्ने समिधम्' इति तिस्र ऋचस्त्रिरभ्यस्ता नव सामिधेन्यः कृत्वा विनियोक्तव्याः । ' अथोपसत् ' इति खण्डे सूत्रितम्- ' इमां मे अग्ने समिधमिमामिति तु सामिधेन्यः ' ( आश्व श्रौ. ४. ८) इति ।।
इ॒मां मे॑ अग्ने स॒मिध॑मि॒मामु॑प॒सदं॑ वनेः ।
इ॒मा उ॒ षु श्रु॑धी॒ गिरः॑ ॥१
इ॒माम् । मे॒ । अ॒ग्ने॒ । स॒म्ऽइध॑म् । इ॒माम् । उ॒प॒ऽसद॑म् । व॒ने॒रिति॑ वनेः ।
इ॒माः । ऊं॒ इति॑ । सु । श्रु॒धि॒ । गिरः॑ ॥१
इमां । मे। अग्ने। संऽइधं । इमां। उपऽसदं। वनेरिति वनेः ।
इमाः । ॐ इति । सु।श्रुधि। गिरः ॥१॥
हे अग्ने मे मदीयामिमामाधीयमानां समिधं इमामुपसदमुपसदनसाधनामाहुतिमुपसद्यागे क्रियमाणां वा वनेः । संभजेथाः । तथेमा उ इमा अपि गिरः स्तुतीः सु सुष्ठु श्रुधि। शृणु ॥१।।
अ॒या ते॑ अग्ने विधे॒मोर्जो॑ नपा॒दश्व॑मिष्टे ।
ए॒ना सू॒क्तेन॑ सुजात ॥२
अ॒या । ते॒ । अ॒ग्ने॒ । वि॒धे॒म॒ । ऊर्जः॑ । न॒पा॒त् । अश्व॑म्ऽइष्टे ।
ए॒ना । सु॒ऽउ॒क्तेन॑ । सु॒ऽजा॒त॒ ॥२
अया।ते। अग्ने। विधेम। ऊर्जः। नपात्। अश्वंऽइष्टे।
एना। सुऽउक्तेन। सुऽजात ॥२॥
हे अग्ने ते त्वामयानयाहुत्या विधेम । परिचरेम । हे ऊर्जो नपात् बलस्य नप्तः तस्य नपातयितर्वा हे अश्वमिष्टे व्यापकयज्ञ। यद्वा आशु क्रियमाणं कर्माश्वं । तदिच्छतीत्यश्वमिष्टिः । संत्वरमाणा ह्युपसदमाचरंति । ते कर्मभिः समत्वरंत ते तिस्रः सामिधेनीरनूच्य तिस्रो देवता अयजन्निति ब्राह्मणं । ऐ०ब्रा०३.४५। तादृशाग्रे ते त्वामयानयाहुत्या विधेम । परिचरेम । तथा हे सुजात शोभनजनन एना एतेन सूक्तेन स्तोत्रेण प्रीणयेमेति शेषः । यद्वा स्तुत्युपबृंहितेन विधेम ॥
तं त्वा॑ गी॒र्भिर्गिर्व॑णसं द्रविण॒स्युं द्र॑विणोदः ।
स॒प॒र्येम॑ सप॒र्यवः॑ ॥३
तम् । त्वा॒ । गीः॒ऽभिः । गिर्व॑णसम् । द्र॒वि॒ण॒स्युम् । द्र॒वि॒णः॒ऽदः॒ ।
स॒प॒र्येम॑ । स॒प॒र्यवः॑ ॥३
तं । त्वा । गीःऽभिः । गिर्वणसं । द्रविणस्युं । द्रविणःऽदः ।
सपर्येम । सपर्यवः ॥३॥
हे द्रविणोदो धनस्य दातरग्ने तं तादृशं गिर्वणसं गीर्भिः स्तुतिभिर्वननीयं द्रविणस्युं हविर्लक्षणधनेच्छुं त्वा त्वां सपर्यवः परिचरणकर्तारो वयं गीर्भिः स्तुतिभिः सपर्येम । परिचरेम ॥
स बो॑धि सू॒रिर्म॒घवा॒ वसु॑पते॒ वसु॑दावन् ।
यु॒यो॒ध्य१॒॑स्मद्द्वेषां॑सि ॥४
सः । बो॒धि॒ । सू॒रिः । म॒घवा॑ । वसु॑ऽपते । वसु॑ऽदावन् ।
यु॒यो॒धि । अ॒स्मत् । द्वेषां॑सि ॥४
सः। बोधि।सूरिः। मघऽवा। वसुऽपते । वसुऽदावन्।
युयोधि। अस्मत्।द्वेषांसि॥४॥
मघवान्नवान् सूरिर्विद्वान् प्रेरको वा स उक्तलक्षणकस्त्वं बोधि । बुध्यस्वास्मदीयं स्तोत्रं । किंच हे अग्ने द्वेषांसि द्वेष्टॄनस्मदस्मत्तो युयोधि । पृथक्कुरु ॥
स नो॑ वृ॒ष्टिं दि॒वस्परि॒ स नो॒ वाज॑मन॒र्वाण॑म् ।
स नः॑ सह॒स्रिणी॒रिषः॑ ॥५
सः । नः॒ । वृ॒ष्टिम् । दि॒वः । परि॑ । सः । नः॒ । वाज॑म् । अ॒न॒र्वाण॑म् ।
सः । नः॒ । स॒ह॒स्रिणीः॑ । इषः॑ ॥५
सः।नः। वृष्टिं । दिवः। परि। सः।नः। वाजं। अनवार्णं ।
सः।नः। सहस्रिणीः। इषः॥५॥
सः स एवाग्निर्नोऽस्मदर्थं दिवस्परि द्युलोकादंतरिक्षात् ॥ परीति पंचम्यर्थानुवादी ॥ वृष्टिं करोतीति च शेषः । स एव नोऽस्मदर्थमनर्वाणमविचलमनल्पं वाजं बलं ददातु । तथा सहस्रिणीरपरिमितप्रकाराणीषोऽन्नानि स एवाग्निर्ददातु ॥
ईळा॑नायाव॒स्यवे॒ यवि॑ष्ठ दूत नो गि॒रा ।
यजि॑ष्ठ होत॒रा ग॑हि ॥६
ईळा॑नाय । अ॒व॒स्यवे॑ । यवि॑ष्ठ । दू॒त॒ । नः॒ । गि॒रा ।
यजि॑ष्ठ । हो॒तः॒ । आ । ग॒हि॒ ॥६
ईळानाय । अवस्यवे । यविष्ठ । दूत । नः। गिरा।
यजिष्ठ। होतः। आ। गहि ॥६॥
हे यविष्ठ युवत्तम दूत देवानां यज्ञादिसूचक यजिष्ठातिशयेन यष्टव्य होतर्देवानामाह्वातरग्ने नो गिरा स्मदीयया स्तुत्येळानाय पूजयित्रेऽवस्यवे स्वरक्षणमिच्छते मदर्थमागहि । आगच्छ ॥
अ॒न्तर्ह्य॑ग्न॒ ईय॑से वि॒द्वाञ्जन्मो॒भया॑ कवे ।
दू॒तो जन्ये॑व॒ मित्र्यः॑ ॥७
अ॒न्तः । हि । अ॒ग्ने॒ । ईय॑से । वि॒द्वान् । जन्म॑ । उ॒भया॑ । क॒वे॒ ।
दू॒तः । जन्या॑ऽइव । मित्र्यः॑ ॥७
अंतः। हि।अग्ने। ईयसे। विद्वान् । जन्म। उभया। कवे।
दूतः। जन्यऽइव। मित्र्यः ॥७॥
हे कवे मेधाविन्नग्ने अंतर्जनानां हृदय ईयसे हि । गच्छसि जानासि वा। हिः स होता सेदु दूत्यं चिकित्वाँ अंतरीयते । ४. ८. ४. । इत्यादिमंत्रांतरप्रसिद्धिद्योतनार्थः । कीदृशस्त्वं । उभया उभयविधानि जन्म जन्मानि यष्टॄणां यजमानानां यष्टव्यानां देवानां च संबंधीनि विद्वान् जानन् सन् । ईयस इति संबंधः । तत्र दृष्टांतः । जन्यो जनेभ्यो हितो मित्र्यो विशेषेण मित्रेभ्यो हितो दूत इव। स यथा प्रजानां चित्तवृत्तिज्ञानाय राज्ञा प्रेरितस्तासां मनो जानाति तद्वत् त्वमप्यस्माकमंतरीयस इत्यर्थः । ।
स वि॒द्वाँ आ च॑ पिप्रयो॒ यक्षि॑ चिकित्व आनु॒षक् ।
आ चा॒स्मिन्स॑त्सि ब॒र्हिषि॑ ॥८
सः । वि॒द्वान् । आ । च॒ । पि॒प्र॒यः॒ । यक्षि॑ । चि॒कि॒त्वः॒ । आ॒नु॒षक् ।
आ । च॒ । अ॒स्मिन् । स॒त्सि॒ । ब॒र्हिषि॑ ॥८
सः। विद्वान् । आ। च। पिप्रयः। यक्षि। चिकित्वः । आनुषक्।
आ। च। अस्मिन् । सत्सि । बर्हिषि ॥८॥
हे अग्ने स त्वं विद्वान् विशेषाभिज्ञः सन् आ च पिप्रयः । सर्वतोऽस्मान्पूरय च कामैः । हे चिकित्वश्चेतनावन् आनुषक् अनुक्रमेण यक्षि । यज देवान् । आसत्सि । आसीद चास्मिन् स्तीर्णं बर्हिषि ॥ ॥२७॥
मण्डल २ | |
---|---|
|