ऋग्वेदः सूक्तं २.७
← सूक्तं २.६ | ऋग्वेदः - मण्डल २ सूक्तं २.७ सोमाहुतिर्भार्गवः |
सूक्तं २.८ → |
दे. अग्निः । गायत्री |
श्रेष्ठं यविष्ठ भारताग्ने द्युमन्तमा भर ।
वसो पुरुस्पृहं रयिम् ॥१॥
मा नो अरातिरीशत देवस्य मर्त्यस्य च ।
पर्षि तस्या उत द्विषः ॥२॥
विश्वा उत त्वया वयं धारा उदन्या इव ।
अति गाहेमहि द्विषः ॥३॥
शुचिः पावक वन्द्योऽग्ने बृहद्वि रोचसे ।
त्वं घृतेभिराहुतः ॥४॥
त्वं नो असि भारताग्ने वशाभिरुक्षभिः ।
अष्टापदीभिराहुतः ॥५॥
द्र्वन्नः सर्पिरासुतिः प्रत्नो होता वरेण्यः ।
सहसस्पुत्रो अद्भुतः ॥६॥
सायणभाष्यम्
' श्रेष्ठं यविष्ठ ' इति षडृचं सप्तमं सूक्तं सोमाहुत्यार्षम् आग्नेयं गायत्रम् । प्रातरनुवाकाश्विनशस्त्रयोर्गायत्रे छन्दसि अस्य विनियोगः पूर्वसूक्ते एवोक्तः । श्रावणीकर्मण्याद्या विनियुक्ता ।।
श्रेष्ठं॑ यविष्ठ भार॒ताग्ने॑ द्यु॒मन्त॒मा भ॑र ।
वसो॑ पुरु॒स्पृहं॑ र॒यिम् ॥१
श्रेष्ठ॑म् । य॒वि॒ष्ठ॒ । भा॒र॒त॒ । अग्ने॑ । द्यु॒ऽमन्त॑म् । आ । भ॒र॒ ।
वसो॒ इति॑ । पु॒रु॒ऽस्पृह॑म् । र॒यिम् ॥१
श्रेष्ठं। यविष्ठ । भारत । अग्ने। द्युऽमंतं । आ। भर।
वसो इति । पुरुऽस्पृहं । रयिं ॥१॥
हे अग्ने यविष्ठ युवत्तम हे भारत । भरता ऋत्विजः । तेषां संबंधी भारतः । तेऽध्वर्य्वादिभिर्मंथनहविःस्तोत्रादिना व्याप्रियमाणत्वात् । तादृश हे वसो वासक व्याप्त वा एवंरूपाग्ने श्रेष्ठमतिप्रशस्यं द्युमंतं दीप्तिमंतं पुरुस्पृहं बहुभिरर्थिभिः स्पृहणीयं रयिमाभर । आहर॥
मा नो॒ अरा॑तिरीशत दे॒वस्य॒ मर्त्य॑स्य च ।
पर्षि॒ तस्या॑ उ॒त द्वि॒षः ॥२
मा । नः॒ । अरा॑तिः । ई॒श॒त॒ । दे॒वस्य॑ । मर्त्य॑स्य । च॒ ।
पर्षि॑ । तस्याः॑ । उ॒त । द्वि॒षः ॥२
मा। नः । अरातिः। ईशत । देवस्य । मर्त्यस्य । च।
पर्षि। तस्याः। उत । द्विषः ॥२॥
हे अग्ने त्वदनुग्रहान्नोऽस्मानरातिरदानं शत्रुत्वं । यद्वा छंदस्यरातिशब्दः शत्रुवाची स्त्रीलिंगो भवति । अदाता शत्रुर्मेशत । पराभवितुं शक्तो मा भूत् । मा विषयीकुर्यात् । अरातिर्विशेष्यते । देवस्य च मर्त्यस्य च संबंधिनी तैः कारिता । उत अपि च तस्या उभयविधाया द्विषोऽस्मदरतिः पर्षि । पूरय ॥ ।
विश्वा॑ उ॒त त्वया॑ व॒यं धारा॑ उद॒न्या॑ इव ।
अति॑ गाहेमहि॒ द्विषः॑ ॥३
विश्वाः॑ । उ॒त । त्वया॑ । व॒यम् । धाराः॑ । उ॒द॒न्याः॑ऽइव ।
अति॑ । गा॒हे॒म॒हि॒ । द्विषः॑ ॥३
विश्वाः । उत । त्वया । वयं । धाराः । उदन्याःऽइव।
अति । गाहेमहि । द्विषः ॥३॥
उत अपि च हे अग्ने वयं त्वदनुग्रहाद्विश्वा द्विषः सर्वानपि द्वेष्टॄन् उदन्या धारा इव उदकसंबंधिनीर्धीरा अल्पस्रुतीरिव त्मनात्मनैवान्यनिरपेक्षेणातिगाहेमहि । अतिक्रम्य गच्छेम ॥
शुचिः॑ पावक॒ वन्द्योऽग्ने॑ बृ॒हद्वि रो॑चसे ।
त्वं घृ॒तेभि॒राहु॑तः ॥४
शुचिः॑ । पा॒व॒क॒ । वन्द्यः॑ । अग्ने॑ । बृ॒हत् । वि । रो॒च॒से॒ ।
त्वम् । घृ॒तेभिः॑ । आऽहु॑तः ॥४
शुचिः । पावक। वंद्यः। अग्ने । बृहत्। वि। रोचसे।
त्वं । घृतेभिः । आऽहुतः ॥४॥
हे पावक शोधकाग्ने शुचिः शुद्धो वंद्यो नमस्कार्यः सन् बृहत् महत् अत्यधिकं विरोचसे । विविधं दीप्यसे । यतस्त्वं घृतेभिर्घृतैराहुत । समंतात्सिक्तः । अतो विरोचसे ॥
त्वं नो॑ असि भार॒ताग्ने॑ व॒शाभि॑रु॒क्षभिः॑ ।
अ॒ष्टाप॑दीभि॒राहु॑तः ॥५
त्वम् । नः॒ । अ॒सि॒ । भा॒र॒त॒ । अग्ने॑ । व॒शाभिः॑ । उ॒क्षऽभिः॑ ।
अ॒ष्टाऽप॑दीभिः । आऽहु॑तः ॥५
त्वं । नः। असि । भारत। अग्ने। वशाभिः । उक्षऽभिः।
अष्टाऽपदीभिः । आऽहुतः ॥५॥
हे भारत ऋत्विजां पुत्रस्थानीयाग्ने नोऽस्मदीयस्त्वं वशाभिर्वंध्याभिर्गोभिः उक्षभिः सेक्तृभिर्बलीवर्दैः अष्टापदीभिर्गर्भिणीभिश्चाहुत आराधितोऽसि ॥
द्र्व॑न्नः स॒र्पिरा॑सुतिः प्र॒त्नो होता॒ वरे॑ण्यः ।
सह॑सस्पु॒त्रो अद्भु॑तः ॥६
द्रुऽअ॑न्नः । स॒र्पिःऽआ॑सुतिः । प्र॒त्नः । होता॑ । वरे॑ण्यः ।
सह॑सः । पु॒त्रः । अद्भु॑तः ॥६
द्रुऽअन्नः । सर्पिःऽआसुतिः । प्रत्नः । होता। वरेण्यः।
सहसः । पुत्रः । अद्भुतः ॥६॥
द्र्वन्नः समिद्रूपान्नः सर्पिरासुतिः सर्पिरासूयत आसिच्यते यस्मिन् तादृशः प्रत्नः पुरातनो होता होमनिष्पादको वरेण्यो वरणीयः सहसस्पुत्रः सहसो बलस्य पुत्रस्थानीयः । बलेनोत्पन्नत्वात् । अद्भुत आश्चर्यभूतः । रमणीय इत्यर्थः । एवंमहानुभावोऽग्निर्मामनुजानात्वित्यर्थः ॥ ॥ २८ ॥
मण्डल २ | |
---|---|
|