ऋग्वेदः सूक्तं २.८
← सूक्तं २.७ | ऋग्वेदः - मण्डल २ सूक्तं २.८ गृत्समद (आङ्गिरसः शौनहोत्रः पश्चाद्) भार्गवः शौनकः |
सूक्तं २.९ → |
दे. अग्निः। गायत्री, ६ अनुष्टुप् |
वाजयन्निव नू रथान्योगाँ अग्नेरुप स्तुहि ।
यशस्तमस्य मीळ्हुषः ॥१॥
यः सुनीथो ददाशुषेऽजुर्यो जरयन्नरिम् ।
चारुप्रतीक आहुतः ॥२॥
य उ श्रिया दमेष्वा दोषोषसि प्रशस्यते ।
यस्य व्रतं न मीयते ॥३॥
आ यः स्वर्ण भानुना चित्रो विभात्यर्चिषा ।
अञ्जानो अजरैरभि ॥४॥
अत्रिमनु स्वराज्यमग्निमुक्थानि वावृधुः ।
विश्वा अधि श्रियो दधे ॥५॥
अग्नेरिन्द्रस्य सोमस्य देवानामूतिभिर्वयम् ।
अरिष्यन्तः सचेमह्यभि ष्याम पृतन्यतः ॥६॥
सायणभाष्यम्
' वाजयन्निव ' इति षडृचमष्टमं सूक्तम् । सोमाहुतेर्हशब्दानुवृत्तस्याभावात् मण्डलद्रष्टा गृत्समद ऋषिः । अग्निर्देवता । हिशब्दाद्गायत्री छन्दः । अन्त्यानुष्टुप् । ' वाजयन्निवान्त्यानुष्टुप् ' इत्यनुक्रान्तम् । प्रातरनुवाकाश्विनशस्त्रयोस्तृतीयसूक्तत्वेन अस्योत्तमावर्जितस्य विनियोग उक्तः ।।
वा॒ज॒यन्नि॑व॒ नू रथा॒न्योगाँ॑ अ॒ग्नेरुप॑ स्तुहि ।
य॒शस्त॑मस्य मी॒ळ्हुषः॑ ॥१
वा॒ज॒यन्ऽइ॑व । नु । रथा॑न् । योगा॑न् । अ॒ग्नेः । उप॑ । स्तु॒हि॒ ।
य॒शःऽत॑मस्य । मी॒ळ्हुषः॑ ॥१
वाजयन्ऽइव।नु। रथान्। योगान् । अग्नेः। उप स्तुहि।
यश:ऽतमस्य। मीळ्हुषः ॥१॥
हे अंतरात्मन् नु क्षिप्रमग्नेर्योगानश्वानुपस्तुहि । कीदृशस्याग्नेः । यशस्तमस्य प्रवृद्धयशसः ॥ मत्वर्थो लुप्यते मीळ्हुषः सेक्तुः फलस्य । ईदृशस्य योगान् स्तुहि । होतरिति वा संबोध्यं । स्तुतौ दृष्टांतः । वाजयन्निव । अन्नमिच्छन् पुरुष इव । स यथाश्वान् गमनाय स्तौति तद्वत् । यद्वोक्तलक्षणस्याग्नेर्गमनसाधनान्रथान् स्तुहि । ।
यः सु॑नी॒थो द॑दा॒शुषे॑ऽजु॒र्यो ज॒रय॑न्न॒रिम् ।
चारु॑प्रतीक॒ आहु॑तः ॥२
यः । सु॒ऽनी॒थः । द॒दा॒शुषे॑ । अ॒जु॒र्यः । ज॒रय॑न् । अ॒रिम् ।
चारु॑ऽप्रतीकः । आऽहु॑तः ॥२
यः । सुऽनीथः । ददाशुषे । अजुर्यः। जरयन् । अरिं।
चारुऽप्रतीकः । आऽहुतः ॥२॥
सुनीथः शोभननयनोऽजुर्योऽजरणीयोऽनभिभाव्यः चारुप्रतीकः शोभनोपक्रमो योऽस्ति सोऽग्निर्ददाशुषे हविर्दत्तवते यजमानाय तदर्थमरिं तस्य शत्रुं जरयन् नाशयन् आहुतः । समंतादाराधितो भवति ।
य उ॑ श्रि॒या दमे॒ष्वा दो॒षोषसि॑ प्रश॒स्यते॑ ।
यस्य॑ व्र॒तं न मीय॑ते ॥३
यः । ऊं॒ इति॑ । श्रि॒या । दमे॑षु । आ । दो॒षा । उ॒षसि॑ । प्र॒ऽश॒स्यते॑ ।
यस्य॑ । व्र॒तम् । न । मीय॑ते ॥३
यः। ऊं इति। श्रिया । दमेषु । आ । दोषा। उषसि । प्रऽशस्यते ।
यस्यं । व्रतं । न।मीयते ॥३॥
योऽग्निरु श्रिया ज्वालया युक्तः सन् दमेषु आ आगत्य दोषा रात्रिषु उषस्यहःसु च प्रशस्यते । स्तूयते । यस्याग्नेर्व्रतं कर्म न मीयते । न हिंस्यते न क्षीयते वा । ।
आ यः स्व१॒॑र्ण भा॒नुना॑ चि॒त्रो वि॒भात्य॒र्चिषा॑ ।
अ॒ञ्जा॒नो अ॒जरै॑र॒भि ॥४
आ । यः । स्वः॑ । न । भा॒नुना॑ । चि॒त्रः । वि॒ऽभाति॑ । अ॒र्चिषा॑ ।
अ॒ञ्जा॒नः । अ॒जरैः॑ । अ॒भि ॥४
आ। यः। स्वः।न। भानुना। चित्रः। विऽभाति।अर्चिषा।
अंजानः। अजरैः। अभि॥४॥
योऽग्निश्चित्रश्चायनीयो नानावर्णो वार्चिषा ज्वालया रश्मिसमूहेनाविभाति । सर्वतो भासते । तत्र दृष्टांतः । स्वर्भानुना । किरणेन सूर्य इव । स यथा विभाति तद्वत् । किं कुर्वन् । अजरैर्नित्यैर्ज्वालासमूहैरभि सर्वतोंऽजानो व्यंजयन् प्रकाशयन् ॥
अत्रि॒मनु॑ स्व॒राज्य॑म॒ग्निमु॒क्थानि॑ वावृधुः ।
विश्वा॒ अधि॒ श्रियो॑ दधे ॥५
अत्रि॑म् । अनु॑ । स्व॒ऽराज्य॑म् । अ॒ग्निम् । उ॒क्थानि॑ । व॒वृ॒धुः॒ ।
विश्वाः॑ । अधि॑ । श्रियः॑ । द॒धे॒ ॥५
अत्रिं। अनु। स्वऽराज्यं । अग्निं । उक्थानि। ववृधुः।
विश्वाः। अधि। श्रियः।दधे ॥५॥
अत्रिं शत्रूणामन्नानां वा भक्षकं स्वराज्यं स्वयमेव राजमानं स्वराज्यमनु अभिलक्ष्य वाग्निमुक्थानि शस्त्राणि ववृधुः । वर्धयंति । स चाभिर्विश्वाः सर्वाः श्रियोऽधि दधे । धारयति । ।
अ॒ग्नेरिन्द्र॑स्य॒ सोम॑स्य दे॒वाना॑मू॒तिभि॑र्व॒यम् ।
अरि॑ष्यन्तः सचेमह्य॒भि ष्या॑म पृतन्य॒तः ॥६
अ॒ग्नेः । इन्द्र॑स्य । सोम॑स्य । दे॒वाना॑म् । ऊ॒तिऽभिः॑ । व॒यम् ।
अरि॑ष्यन्तः । स॒चे॒म॒हि॒ । अ॒भि । स्या॒म॒ । पृ॒त॒न्य॒तः ॥६
अग्नेः । इंद्रस्य । सोमस्य । देवानां । ऊतिऽभिः । वयं ।
अरिष्यंतः । सचेमहि । अभि । स्याम । पृतन्यतः ॥६॥
अरिष्यंतः केनाप्यहिंस्यमाना वयमग्नेरिंद्रस्य सोमस्य देवानामन्येषामप्यूतिभी रक्षणाभिः सचेमहि । युक्ता भवेम । तथा रक्षायुक्ता वयं पृतन्यतः पृतनामात्मन इच्छतः शत्रूनभिष्याम । अभिभवेम ॥ पृतनाशब्दात्क्यचि कव्यध्वरपृतनस्यर्चि लोप इत्यवर्णलोपः ॥ ॥ २९ ॥
वेदार्थस्य प्रकाशेन तमो हार्द निवारयन् ।
पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥
इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेण सायणाचार्येण विरचिते माधवीये वेदार्थाकाशे ऋक्संहिताभाष्ये द्वितीयाष्टके पंचमोऽध्यायः समाप्तः ।।
मण्डल २ | |
---|---|
|