ऋग्वेदः सूक्तं २.४

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं २.३ ऋग्वेदः - मण्डल २
सूक्तं २.४
सोमाहुतिर्भार्गवः
सूक्तं २.५ →
दे. अग्निः ।त्रिष्टुप्


हुवे वः सुद्योत्मानं सुवृक्तिं विशामग्निमतिथिं सुप्रयसम् ।
मित्र इव यो दिधिषाय्यो भूद्देव आदेवे जने जातवेदाः ॥१॥
इमं विधन्तो अपां सधस्थे द्वितादधुर्भृगवो विक्ष्वायोः ।
एष विश्वान्यभ्यस्तु भूमा देवानामग्निररतिर्जीराश्वः ॥२॥
अग्निं देवासो मानुषीषु विक्षु प्रियं धुः क्षेष्यन्तो न मित्रम् ।
स दीदयदुशतीरूर्म्या आ दक्षाय्यो यो दास्वते दम आ ॥३॥
अस्य रण्वा स्वस्येव पुष्टिः संदृष्टिरस्य हियानस्य दक्षोः ।
वि यो भरिभ्रदोषधीषु जिह्वामत्यो न रथ्यो दोधवीति वारान् ॥४॥
आ यन्मे अभ्वं वनदः पनन्तोशिग्भ्यो नामिमीत वर्णम् ।
स चित्रेण चिकिते रंसु भासा जुजुर्वाँ यो मुहुरा युवा भूत् ॥५॥
आ यो वना तातृषाणो न भाति वार्ण पथा रथ्येव स्वानीत् ।
कृष्णाध्वा तपू रण्वश्चिकेत द्यौरिव स्मयमानो नभोभिः ॥६॥
स यो व्यस्थादभि दक्षदुर्वीं पशुर्नैति स्वयुरगोपाः ।
अग्निः शोचिष्माँ अतसान्युष्णन्कृष्णव्यथिरस्वदयन्न भूम ॥७॥
नू ते पूर्वस्यावसो अधीतौ तृतीये विदथे मन्म शंसि ।
अस्मे अग्ने संयद्वीरं बृहन्तं क्षुमन्तं वाजं स्वपत्यं रयिं दाः ॥८॥
त्वया यथा गृत्समदासो अग्ने गुहा वन्वन्त उपराँ अभि ष्युः ।
सुवीरासो अभिमातिषाहः स्मत्सूरिभ्यो गृणते तद्वयो धाः ॥९॥


सायणभाष्यम्

' हुवे वः ' इति नवर्चं चतुर्थं सूक्तम् । भार्गवः सोमाहुतिनामक ऋषिः । अग्नि र्देवता । त्रिष्टुप् छन्दः । ' हुवे नव सोमाहुतिर्भार्गवो ह ' इत्यनुक्रमणिका ।। प्रातरनुवाकाश्विनशस्त्रयोस्त्रैष्टुभे छन्दसीदम् । सूत्रितं च- ' हुवे वः सुद्योत्मानं नि होता होतृषदन इति सूक्ते ' ( आश्व. श्रौ. ४. १३) इति । ।


हु॒वे वः॑ सु॒द्योत्मा॑नं सुवृ॒क्तिं वि॒शाम॒ग्निमति॑थिं सुप्र॒यस॑म् ।

मि॒त्र इ॑व॒ यो दि॑धि॒षाय्यो॒ भूद्दे॒व आदे॑वे॒ जने॑ जा॒तवे॑दाः ॥१

हु॒वे । वः॒ । सु॒ऽद्योत्मा॑नम् । सु॒ऽवृ॒क्तिम् । वि॒शाम् । अ॒ग्निम् । अति॑थिम् । सु॒ऽप्र॒यस॑म् ।

मि॒त्रःऽइ॑व । यः । दि॒धि॒षाय्यः॑ । भूत् । दे॒वः । आऽदे॑वे । जने॑ । जा॒तऽवे॑दाः ॥१

हुवे । वः । सुऽद्योत्मानम् । सुऽवृक्तिम् । विशाम् । अग्निम् । अतिथिम् । सुऽप्रयसम् ।

मित्रःऽइव । यः । दिधिषाय्यः । भूत् । देवः । आऽदेवे । जने । जातऽवेदाः ॥१

हे यजमानाः वः युष्मदर्थम् अग्निं हुवे आह्वयामि । कीदृशं तम् । सुद्योत्मानं सुष्ठु द्योतमानं सुवृक्तिं सुवर्जितं पापैः शोभनस्तुतिं वा । विशां यजमानानाम् अतिथिम् अतिथिवत्सदा पूज्यं सुप्रयसं शोभनहविर्लक्षणान्नम् । किंच जातवेदाः जातानां वेदिता यः देव अग्निः मित्रइव सखेव आदित्य इव वा दिधिषाय्यः धारयिता भूत् भवति । कुत्रेति उच्यते । आदेवे देवपर्यन्ते जने मनुष्यप्रभृतिदेवपर्यन्तेषु । तेषां धारकोऽभवदित्यर्थः ।।


इ॒मं वि॒धन्तो॑ अ॒पां स॒धस्थे॑ द्वि॒ताद॑धु॒र्भृग॑वो वि॒क्ष्वा॒३॒॑योः ।

ए॒ष विश्वा॑न्य॒भ्य॑स्तु॒ भूमा॑ दे॒वाना॑म॒ग्निर॑र॒तिर्जी॒राश्वः॑ ॥२

इ॒मम् । वि॒धन्तः॑ । अ॒पाम् । स॒धऽस्थे॑ । द्वि॒ता । अ॒द॒धुः॒ । भृग॑वः । वि॒क्षु । आ॒योः ।

ए॒षः । विश्वा॑नि । अ॒भि । अ॒स्तु॒ । भूम॑ । दे॒वाना॑म् । अ॒ग्निः । अ॒र॒तिः । जी॒रऽअ॑श्वः ॥२

इमम् । विधन्तः । अपाम् । सधऽस्थे । द्विता । अदधुः । भृगवः । विक्षु । आयोः ।

एषः । विश्वानि । अभि । अस्तु । भूम । देवानाम् । अग्निः । अरतिः । जीरऽअश्वः ॥२

इमम् अग्निं विधन्तः परिचरन्तः भृगवः अस्मत्पूर्वे महर्षयः अपां सधस्थे सहस्थाने अन्तरिक्षे आयोः मनुष्यस्य यजमानस्य स्वभूतासु विक्षु प्रजास्वृत्विक्षु तेषां मध्ये च द्विता द्वयोः स्थानात् अदधुः अधारयन् ।। दधातेर्लङि रूपम् ।। एषः अग्निः भूम भूम्ना अत्यर्थं विश्वानि भूतजातानि अस्मद्विरोधीनि अभ्यस्तु अभिभवतु । स कीदृशः । देवानाम् अरतिः ईश्वरः । तेषां मध्ये शीघ्रम् अरणशीलो वा अस्मद्यागं प्रति । तथा जीराश्वः क्षिप्राश्वः ।।


अ॒ग्निं दे॒वासो॒ मानु॑षीषु वि॒क्षु प्रि॒यं धुः॑ क्षे॒ष्यन्तो॒ न मि॒त्रम् ।

स दी॑दयदुश॒तीरूर्म्या॒ आ द॒क्षाय्यो॒ यो दास्व॑ते॒ दम॒ आ ॥३

अ॒ग्निम् । दे॒वासः॑ । मानु॑षीषु । वि॒क्षु । प्रि॒यम् । धुः॒ । क्षे॒ष्यन्तः॑ । न । मि॒त्रम् ।

सः । दी॒द॒य॒त् । उ॒श॒तीः । ऊर्म्याः॑ । आ । द॒क्षाय्यः॑ । यः । दास्व॑ते । दमे॑ । आ ॥३

अग्निम् । देवासः । मानुषीषु । विक्षु । प्रियम् । धुः । क्षेष्यन्तः । न । मित्रम् ।

सः । दीदयत् । उशतीः । ऊर्म्याः । आ । दक्षाय्यः । यः । दास्वते । दमे । आ ॥३

देवासः देवाः क्षेष्यन्तः स्वर्गं प्रति गच्छन्तः सन्तः पूर्वं मानुषीषु मनुष्यसंबन्धिनीषु विक्षुप्रजासु प्रियं देवानां प्रीणयितारम् अग्निं धुः अधुः स्थापितवन्तः । तत्र दृष्टान्तः । क्षेष्यन्तः मित्रं न । रायं प्रति गच्छन्तो नराः मित्रं प्रियं सखायं स्वगृहरक्षार्थं स्थापयन्ति तद्वत् । यः एवं देवैः स्थापितो योऽग्निः दास्वते हविर्दत्तवते यजमानाय तदर्थं दमे तदीये यागगृहे आ आहितः स्थापितः दक्षाय्यः समर्धयिता दाता वा सः अग्निः उशतीः कामयमानाः ऊर्म्याः रात्रीः सर्वासु रात्रिषु आ दीदयत् दीप्यते सर्वतः । सर्वरात्रीरादीपयति वा ।।


अ॒स्य र॒ण्वा स्वस्ये॑व पु॒ष्टिः संदृ॑ष्टिरस्य हिया॒नस्य॒ दक्षोः॑ ।

वि यो भरि॑भ्र॒दोष॑धीषु जि॒ह्वामत्यो॒ न रथ्यो॑ दोधवीति॒ वारा॑न् ॥४

अ॒स्य । र॒ण्वा । स्वस्य॑ऽइव । पु॒ष्टिः । सम्ऽदृ॑ष्टिः । अ॒स्य॒ । हि॒या॒नस्य॑ । धक्षोः॑ ।

वि । यः । भरि॑भ्रत् । ओष॑धीषु । जि॒ह्वाम् । अत्यः॑ । न । रथ्यः॑ । दो॒ध॒वी॒ति॒ । वारा॑न् ॥४

अस्य । रण्वा । स्वस्यऽइव । पुष्टिः । सम्ऽदृष्टिः । अस्य । हियानस्य । धक्षोः ।

वि । यः । भरिभ्रत् । ओषधीषु । जिह्वाम् । अत्यः । न । रथ्यः । दोधवीति । वारान् ॥४

अस्य अग्नेः पुष्टिः शरीरवृद्धिः रण्वा रमणीया शब्दयुक्ता वा । तत्र दृष्टान्तः । स्वस्य पुष्टिः इव । यथा लोके स्वकीया पुष्टिः स्वस्मै रमणीया भवति तद्वत् । यद्वा अस्याग्नेः संबन्धिनी पुष्टिः यजमानविषया रण्वा स्वस्याग्नेः पुष्टिर्यथा रण्वा तद्वत् । किंच हियानस्य समृद्धिं गच्छतो व्याप्नुवतः धक्षोः काष्ठान् दिधक्षोर्दग्धुमिच्छोः अस्य अग्नेः संदृष्टिः संदर्शनाविर्भावोऽपि रण्वा । यः अग्निः ओषधीषु काष्ठेषु जिह्वां ज्वालाम् । जात्येकवचनम् । ज्वालाः वि भरिभ्रत् अत्यर्थं विहरति । कम्पयतीत्यर्थः ।। हरतेर्यङ्लुगन्तत्वेन दाधर्त्यादिषु ( पा. सू ७.४.६५) निपातितात् लेट्यडागमः । यद्योगादनिघातः।। तत्र दृष्टान्तः । रथ्यः रथार्हः अत्यो न वाजी यथा वारान् दंशवारणसाधनान् बालान् दोधवीति कम्पयति तद्वत् । योऽग्निर्ज्वालाः कम्पयति अस्याग्नेः पुष्टी रण्वेति ।।


आ यन्मे॒ अभ्वं॑ व॒नद॒ः पन॑न्तो॒शिग्भ्यो॒ नामि॑मीत॒ वर्ण॑म् ।

स चि॒त्रेण॑ चिकिते॒ रंसु॑ भा॒सा जु॑जु॒र्वाँ यो मुहु॒रा युवा॒ भूत् ॥५

आ । यत् । मे॒ । अभ्व॑म् । व॒नदः॑ । पन॑न्त । उ॒शिक्ऽभ्यः॑ । न । अ॒मि॒मी॒त॒ । वर्ण॑म् ।

सः । चि॒त्रेण॑ । चि॒कि॒ते॒ । रम्ऽसु॑ । भा॒सा । जु॒जु॒र्वान् । यः । मुहुः॑ । आ । युवा॑ । भूत् ॥५

आ । यत् । मे । अभ्वम् । वनदः । पनन्त । उशिक्ऽभ्यः । न । अमिमीत । वर्णम् ।

सः । चित्रेण । चिकिते । रम्ऽसु । भासा । जुजुर्वान् । यः । मुहुः । आ । युवा । भूत् ॥५

यत् यस्य अभ्वं महत्त्वं मे मम संबन्धिनः वनदः वनन्तः संभक्तारः । यद्वा वनदोऽवनदो भृशं शब्दयन्तः स्तोतारः ।। अवशब्दो भृशार्थवाची। तत्पूर्वान्नदेः क्विप् । अवाप्योः इत्यकारलोपः ।। आ पनन्त समन्तात् स्तुवन्ति । सः अग्निः उशिग्भ्यः अस्मदीयं रूपं कामयमानेभ्य ऋत्विग्भ्यः वर्णं स्वसदृशं रूपं नामिमीत । नशब्दश्चार्थे । निर्मिमीते च । स च रंसु रमणीयेष्वाज्यादिहविःषु निमित्तेषु चित्रेण भासा हिरण्यकनकादिनानावर्णया दीप्त्या चिकिते विज्ञायते । किंच यः अग्निः जुजुर्वान् जीर्णः सन् ज्वालोपशमे स एव मुहुः पुनः पुनः आ युवा सर्वतो मिश्रयिता तरुणो वा आ भूत् आभवति पुनराज्यादिसंयोगात् ।। ।। २४ ।।


आ यो वना॑ तातृषा॒णो न भाति॒ वार्ण प॒था रथ्ये॑व स्वानीत् ।

कृ॒ष्णाध्वा॒ तपू॑ र॒ण्वश्चि॑केत॒ द्यौरि॑व॒ स्मय॑मानो॒ नभो॑भिः ॥६

आ । यः । वना॑ । त॒तृ॒षा॒णः । न । भाति॑ । वाः । न । प॒था । रथ्या॑ऽइव । स्वा॒नी॒त् ।

कृ॒ष्णऽअ॑ध्वा । तपुः॑ । र॒ण्वः । चि॒के॒त॒ । द्यौःऽइ॑व । स्मय॑मानः । नभः॑ऽभिः ॥६

आ । यः । वना । ततृषाणः । न । भाति । वाः । न । पथा । रथ्याऽइव । स्वानीत् ।

कृष्णऽअध्वा । तपुः । रण्वः । चिकेत । द्यौःऽइव । स्मयमानः । नभःऽभिः ॥६

यः अग्निः वना वनानि वृक्षसमूहान् ततृषाणो न तृषित इव । त्वरमाण इत्यर्थः । आ भाति आभासयति । दहतीत्यर्थः । यद्वा वना वने आभाति । किंच वार्ण उदकमिव पथा प्रवणेन मार्गेण गच्छति तद्वत् इतस्ततो गच्छति । रथ्येव रथस्थ वोढाश्व इव स्वानीत् शब्दयति । यद्वा रथशब्दात् सोर्ड्यादेशः । यथा रथो युद्धमार्गेण गच्छन् स्वनति तद्वत् । किंच कृष्णाध्वा कृष्णवर्त्मा तपुः तापकः रण्वः रमणीयः एवंभूतः सन् चिकेत ज्ञायते । प्रकाशत इत्यर्थः । क इव । नभोभिः नक्षत्रैः स्मयमानः प्रकाशमानः द्यौरिव द्युलोकं इव । यद्वा नभोभिरन्तरिक्ष- प्रदेशविशेषैः स्मयमानः शोभमानो द्यौरादित्य इव । नीलवर्णान्तरिक्षचार्यादित्यो यथा ज्ञायते तद्वत् स्वसंचारेण कृष्णीभूते मार्गे ज्ञायते । प्रकाशत इत्यर्थः ।।


स यो व्यस्था॑द॒भि दक्ष॑दु॒र्वीं प॒शुर्नैति॑ स्व॒युरगो॑पाः ।

अ॒ग्निः शो॒चिष्माँ॑ अत॒सान्यु॒ष्णन्कृ॒ष्णव्य॑थिरस्वदय॒न्न भूम॑ ॥७

सः । यः । वि । अस्था॑त् । अ॒भि । धक्ष॑त् । उ॒र्वीम् । प॒शुः । न । ए॒ति॒ । स्व॒ऽयुः । अगो॑पाः ।

अ॒ग्निः । शो॒चिष्मा॑न् । अ॒त॒सानि॑ । उ॒ष्णन् । कृ॒ष्णऽव्य॑थिः । अ॒स्व॒द॒य॒त् । न । भूम॑ ॥७

सः । यः । वि । अस्थात् । अभि । धक्षत् । उर्वीम् । पशुः । न । एति । स्वऽयुः । अगोपाः ।

अग्निः । शोचिष्मान् । अतसानि । उष्णन् । कृष्णऽव्यथिः । अस्वदयत् । न । भूम ॥७

यः अग्निः व्यस्थात् विविधं तिष्ठति । व्याप्नोति विश्वम् । तथा योऽग्निः उर्वीं विस्तृतां पृथिवीं सर्वाम् । यश्च अभि दक्षत आभिमुख्येन प्रवर्धमानो भवति ।। उभे अपि यच्छब्दयोगान्न निहन्येते ।। सः अग्निः पशुर्न पशुरिव । यथा जातः पशुः स्वच्छन्देन चरति तथा स्वयुः स्वयमेव गच्छन् अगोपाः गोपरहितः । नियामकवर्जित इत्यर्थः । एति गच्छति । किं कुर्वन् । शोचिष्मान् प्रकृष्टदीप्तिः कृष्णव्यथिः कृष्णवर्णं प्राप्ता दग्धा व्यथाकराः कण्टकादयो येन तादृशः सन् भूम अत्यधिकम् अस्वदयन्न आस्वादयतीव वृक्षगतान् रसान् । अतसानि संततानि नीरसानि वा तरुगुल्मादीनि उष्णन् दहन्नेति ।।


नू ते॒ पूर्व॒स्याव॑सो॒ अधी॑तौ तृ॒तीये॑ वि॒दथे॒ मन्म॑ शंसि ।

अ॒स्मे अ॑ग्ने सं॒यद्वी॑रं बृ॒हन्तं॑ क्षु॒मन्तं॒ वाजं॑ स्वप॒त्यं र॒यिं दाः॑ ॥८

नु । ते॒ । पूर्व॑स्य । अव॑सः । अधि॑ऽइतौ । तृ॒तीये॑ । वि॒दथे॑ । मन्म॑ । शं॒सि॒ ।

अ॒स्मे इति॑ । अ॒ग्ने॒ । सं॒यत्ऽवी॑रम् । बृ॒हन्त॑म् । क्षु॒ऽमन्त॑म् । वाज॑म् । सु॒ऽअ॒प॒त्यम् । र॒यिम् । दाः॒ ॥८

नु । ते । पूर्वस्य । अवसः । अधिऽइतौ । तृतीये । विदथे । मन्म । शंसि ।

अस्मे इति । अग्ने । संयत्ऽवीरम् । बृहन्तम् । क्षुऽमन्तम् । वाजम् । सुऽअपत्यम् । रयिम् । दाः ॥८

हे अग्ने ते तव संबन्धिनः पूर्वस्य पूर्वं यागसमये कृतस्य अवसः अभिमतर्पणस्य अधीतौ स्मरणे सति तत्स्मृत्या नु अद्यापि तृतीये विदथे यागे तृतीयसवने । यद्वा प्रातरनुवाकसम्बन्धिनाम् आग्नेयोषस्याश्विनानां मध्येऽन्यतमे तृतीये क्रतौ मन्म मननीयं स्तोत्रं शंसि अशंस्। शस्यतेऽस्माभिः। हे अग्ने त्वं च अस्मे अस्मभ्यं संयद्वीरं संयतो वीरा यस्मिन् तादृशं बृहन्तं महान्तं क्षुमन्तं शब्दवन्तं कीर्तिमन्तं वाजम् उक्तलक्षणमन्नं स्वपत्यं रयिं च दाः देहि । ।


त्वया॒ यथा॑ गृत्सम॒दासो॑ अग्ने॒ गुहा॑ व॒न्वन्त॒ उप॑राँ अ॒भि ष्युः ।

सु॒वीरा॑सो अभिमाति॒षाह॒ः स्मत्सू॒रिभ्यो॑ गृण॒ते तद्वयो॑ धाः ॥९

त्वया॑ । यथा॑ । गृ॒त्स॒ऽम॒दासः॑ । अ॒ग्ने॒ । गुहा॑ । व॒न्वन्तः॑ । उप॑रान् । अ॒भि । स्युरिति॒ स्युः ।

सु॒ऽवीरा॑सः । अ॒भि॒मा॒ति॒ऽसहः॑ । स्मत् । सू॒रिऽभ्यः॑ । गृ॒ण॒ते । तत् । वयः॑ । धाः॒ ॥९

त्वया । यथा । गृत्सऽमदासः । अग्ने । गुहा । वन्वन्तः । उपरान् । अभि । स्युरिति स्युः ।

सुऽवीरासः । अभिमातिऽसहः । स्मत् । सूरिऽभ्यः । गृणते । तत् । वयः । धाः ॥९

हे अग्ने त्वया रक्षकेण वन्वन्तः छान्दसं भजन्तो गृत्समदा ऋषयः । आत्मनि पारोक्ष्येण वचनम् । यथा गुहा गुहायां वर्तमानान् उपरान् उपरमणसाधनान् उपरि उत्कृष्टे वर्तमानान्वा धनविशेषान् अभि स्युः अभिभवेयुः । स्वाधीनान् कुर्युः । यद्वा गूढानुपरान् उपरेऽधिकत्वेन वर्तमानान् पापान् अभिस्युः अभिभवेयुः । तथा कुर्वित्यर्थः । कीदृशाः । सुवीरासः शोभनपुत्राद्युपेताः अभिमातिसहः वैरिणां पापादीनां सोढारः । किंच मेधाविभ्यो यजमानेभ्यो गृणते ।। व्यत्ययेनैकवचनम् ।। शब्दयद्भ्यः स्तोतृभ्यः । यद्वा सूरिभ्यो यजमानेभ्यो गृणते स्तोत्रे च स्मत् सुमत् अतिप्रभूतं तत् तादृशं प्रसिद्धं वयः अन्नं धाः धेहि ।। ।। २५ ।।


मण्डल २

सूक्तं २.१

सूक्तं २.२

सूक्तं २.३

सूक्तं २.४

सूक्तं २.५

सूक्तं २.६

सूक्तं २.७

सूक्तं २.८

सूक्तं २.९

सूक्तं २.१०

सूक्तं २.११

सूक्तं २.१२

सूक्तं २.१३

सूक्तं २.१४

सूक्तं २.१५

सूक्तं २.१६

सूक्तं २.१७

सूक्तं २.१८

सूक्तं २.१९

सूक्तं २.२०

सूक्तं २.२१

सूक्तं २.२२

सूक्तं २.२३

सूक्तं २.२४

सूक्तं २.२५

सूक्तं २.२६

सूक्तं २.२७

सूक्तं २.२८

सूक्तं २.२९

सूक्तं २.३०

सूक्तं २.३१

सूक्तं २.३२

सूक्तं २.३३

सूक्तं २.३४

सूक्तं २.३५

सूक्तं २.३६

सूक्तं २.३७

सूक्तं २.३८

सूक्तं २.३९

सूक्तं २.४०

सूक्तं २.४१

सूक्तं २.४२

सूक्तं २.४३


"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_२.४&oldid=196882" इत्यस्माद् पुनः प्राप्तिः