ऋग्वेदः सूक्तं २.५

विकिस्रोतः तः
(ऋग्वेद: सूक्तं २.५ इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
← सूक्तं २.४ ऋग्वेदः - मण्डल २
सूक्तं २.५
सोमाहुतिर्भार्गवः
सूक्तं २.६ →
दे. अग्निः। अनुष्टुप्


होताजनिष्ट चेतनः पिता पितृभ्य ऊतये ।
प्रयक्षञ्जेन्यं वसु शकेम वाजिनो यमम् ॥१॥
आ यस्मिन्सप्त रश्मयस्तता यज्ञस्य नेतरि ।
मनुष्वद्दैव्यमष्टमं पोता विश्वं तदिन्वति ॥२॥
दधन्वे वा यदीमनु वोचद्ब्रह्माणि वेरु तत् ।
परि विश्वानि काव्या नेमिश्चक्रमिवाभवत् ॥३॥
साकं हि शुचिना शुचिः प्रशास्ता क्रतुनाजनि ।
विद्वाँ अस्य व्रता ध्रुवा वया इवानु रोहते ॥४॥
ता अस्य वर्णमायुवो नेष्टुः सचन्त धेनवः ।
कुवित्तिसृभ्य आ वरं स्वसारो या इदं ययुः ॥५॥
यदी मातुरुप स्वसा घृतं भरन्त्यस्थित ।
तासामध्वर्युरागतौ यवो वृष्टीव मोदते ॥६॥
स्वः स्वाय धायसे कृणुतामृत्विगृत्विजम् ।
स्तोमं यज्ञं चादरं वनेमा ररिमा वयम् ॥७॥
यथा विद्वाँ अरं करद्विश्वेभ्यो यजतेभ्यः ।
अयमग्ने त्वे अपि यं यज्ञं चकृमा वयम् ॥८॥

सायणभाष्यम्

' होताजनिष्ट ' इत्यष्टर्चं पञ्चमं सूक्तं सोमाहुतेरार्षमाग्नेयमानुष्टुभम् । ' होताष्टावानुष्टुभम्' इत्यनुक्रान्तम् । प्रातरनुवाकाश्विनशस्त्रयोराग्नेये क्रतौ अस्य विनियोगः । सूत्रितं च-' अग्नायो होताजनिष्ट ' ( आश्व. श्रौ. ४. १३) इति । चतुर्विशेऽहन्यपीदमेवाज्यम् । ' चतुर्विंशे होताजनिष्टेत्याज्यम् '( आश्व. श्रौ. ७. २) इति । आभिप्लविके द्वितीयेऽहनीदमेवाज्यम् । ' द्वितीयस्य चतुर्विंशेनाज्यम् ' ( आश्व. श्रौ. ७. ६) इत्यतिदिष्टत्वात् ।।


होता॑जनिष्ट॒ चेत॑नः पि॒ता पि॒तृभ्य॑ ऊ॒तये॑ ।

प्र॒यक्ष॒ञ्जेन्यं॒ वसु॑ श॒केम॑ वा॒जिनो॒ यम॑म् ॥१

होता॑ । अ॒ज॒नि॒ष्ट॒ । चेत॑नः । पि॒ता । पि॒तृऽभ्यः॑ । ऊ॒तये॑ ।

प्र॒ऽयक्ष॑न् । जेन्य॑म् । वसु॑ । श॒केम॑ । वा॒जिनः॑ । यम॑म् ॥१

होता । अजनिष्ट । चेतनः । पिता । पितृऽभ्यः । ऊतये ।।

प्रऽयक्षन् । जेन्यं । वसु। शकेम । वाजिनः । यमं ॥१॥

होता होमनिष्पादकश्चेतनश्चेतयितास्मदनुष्ठितस्य पिता पालकोऽस्मद्यज्ञस्य ईदृशोऽग्निरजनिष्ट । उत्पन्नः । किमर्थं । पितृभ्यः पालकेभ्यो यजमानेभ्यः ॥ षष्ठ्यर्थे चतुर्थी ॥ तेषामूतये रक्षणाय च । वयं च वाजिनो हविर्लक्षणान्नवंतः संतः प्रयक्षं प्रकर्षेण पूज्यं जेन्यं जेतव्यं यमं यमयितव्यं वसु धनं शकेम । शक्ता भूयास्म लब्धुमिति शेषः । यद्वा वाजिनोऽन्नस्य यमं यमनं कर्तुं शकेम । प्रयक्षं जेन्यं वसु धनमित्युपमानं । उक्तलक्षणं धनमिव। तद्यथावरोद्धुं शक्नुमस्तद्वत् ॥


आ यस्मि॑न्स॒प्त र॒श्मय॑स्त॒ता य॒ज्ञस्य॑ ने॒तरि॑ ।

म॒नु॒ष्वद्दैव्य॑मष्ट॒मं पोता॒ विश्वं॒ तदि॑न्वति ॥२

आ । यस्मि॑न् । स॒प्त । र॒श्मयः॑ । त॒ताः । य॒ज्ञस्य॑ । ने॒तरि॑ ।

म॒नु॒ष्वत् । दैव्य॑म् । अ॒ष्ट॒मम् । पोता॑ । विश्व॑म् । तत् । इ॒न्व॒ति॒ ॥२

आ । यस्मिन्। सप्त। रश्मयः । तताः । यज्ञस्य । नेतरि ।

मनुष्वत् । दैव्यं । अष्टमं । पोता। विश्वं। तत् । इन्वति ॥२॥

यज्ञस्य नेतरि यागस्य निर्वाहके यस्मिन्नग्नौ सप्त रश्मयः सप्तसंख्याका रश्मिवद्व्याप्ता होत्रका आतताः । स्वस्वकर्मभिः सर्वतो व्याप्ता भवति । स पोता पावको देवानां पोत्राख्य ऋत्विग्रूपो वाग्निर्मनुष्वत् मनुष्यपोतृवत् दैव्यं । देवो यज्ञः । तत्संबंध्यष्टममष्टर्त्विक्संबंधि तद्विश्वं कर्तव्यजातं सप्तहोत्रकैः सह स्वयमष्टमः सन् इन्वति । व्याप्नोति । यद्वा तदित्यस्य लिंगव्यत्ययः। स पोतेति संबंधः । सप्तहोत्रकैः सहाष्टमो भूत्वा तद्वद्यज्ञं निर्वहतीत्यर्थः॥


द॒ध॒न्वे वा॒ यदी॒मनु॒ वोच॒द्ब्रह्मा॑णि॒ वेरु॒ तत् ।

परि॒ विश्वा॑नि॒ काव्या॑ ने॒मिश्च॒क्रमि॑वाभवत् ॥३

द॒ध॒न्वे । वा॒ । यत् । ई॒म् । अनु॑ । वोच॑त् । ब्रह्मा॑णि । वेः । ऊं॒ इति॑ । तत् ।

परि॑ । विश्वा॑नि । काव्या॑ । ने॒मिः । च॒क्रम्ऽइ॑व । अ॒भ॒व॒त् ॥३

दधन्वे । वा। यत्। ईं। अनु। वोचत् । ब्रह्मणि । वेः । ॐ इति । तत्।

परि। विश्वानि । काव्या । नेमिः । चक्रंऽइव । अभवत् ॥३॥

पूर्वे मंत्रे होत्रादिवत् स्वयमपि यज्ञं निर्वहतीत्युक्तं । अत्र तु सर्वं तत्तदात्मना स्थित्वा स्वयमेव निर्वहतीत्याह। वा अथवा ईमेनं यज्ञमनु लक्षीकृत्य यद्धविरादिकं दधन्वे धारयत्यध्वर्य्वादिरूपः। यानि ब्रह्माणि शस्त्रादीन्यनुवोचत् । अनुवक्ति होत्रादिरूपः । अत्र वान्वित्येतद्योज्यं । तत्सर्वं वेरु । वेरेव । कामयते जानाति वा स्वयमनुष्ठातुं । अयमग्निर्विश्वानि सर्वाणि काव्यानि । कवयो मेधाविन ऋत्विजः । तत्संबंधीनि कर्माणि पर्यभवत् । परिभवति । स्वायत्तानि करोति । व्याप्नोतीत्यर्थः । व्याप्तौ दृष्टांतः । नेमिः बहिर्वेष्टनवलयश्चक्रं रथांगं । यथा कार्त्स्न्येन व्याप्नोति तद्वत् ॥


सा॒कं हि शुचि॑ना॒ शुचिः॑ प्रशा॒स्ता क्रतु॒नाज॑नि ।

वि॒द्वाँ अ॑स्य व्र॒ता ध्रु॒वा व॒या इ॒वानु॑ रोहते ॥४

सा॒कम् । हि । शुचि॑ना । शुचिः॑ । प्र॒ऽशा॒स्ता । क्रतु॑ना । अज॑नि ।

वि॒द्वान् । अ॒स्य॒ । व्र॒ता । ध्रु॒वा । व॒याःऽइ॑व । अनु॑ । रो॒ह॒ते॒ ॥४

साकं । हि । शुचिना। शुचिः । प्रऽशास्ता। क्रतुना। अजनि।।

विद्वान् । अस्य । व्रता । ध्रुवा। वयाः ऽइव । अनु। रोहते ॥४॥

शुचिः स्वयं शोधकः प्रशास्ता देवानां एतन्नामक ऋत्विक् प्रशासिता वा यज्ञविघ्नानां शुचिना क्रतुना शोधकेनाग्निहोत्रादिकर्मणा साकं हि सहैवाजनि । उत्पन्नः । जातमात्र एव शुद्धः सर्वस्य प्रशास्ता च सन्नग्निहोत्रादिनिर्वोढाभवदित्यर्थः । अस्याग्रेर्ध्रुवा ध्रुवाणि फलपर्यवसायीनि व्रतानि कर्माणि विद्वान् जानन् यजमानो वया इव विस्तृताः शाखा इवानुरोहते । क्रमेणानुतिष्ठति । ।


ता अ॑स्य॒ वर्ण॑मा॒युवो॒ नेष्टुः॑ सचन्त धे॒नवः॑ ।

कु॒वित्ति॒सृभ्य॒ आ वरं॒ स्वसा॑रो॒ या इ॒दं य॒युः ॥५

ताः । अ॒स्य॒ । वर्ण॑म् । आ॒युवः॑ । नेष्टुः॑ । स॒च॒न्त॒ । धे॒नवः॑ ।

कु॒वित् । ति॒सृऽभ्यः॑ । आ । वर॑म् । स्वसा॑रः । याः । इ॒दम् । य॒युः ॥५

ताः । अस्य । वर्णं । आयुवः । नेष्टुः । सचंत । धेनवः ।।

कुवित् । तिसृऽभ्यः । आ । वरं स्वसारः । याः । इदं । ययुः ॥५॥

या वक्ष्यमाणलक्षणा या अंगुलय इदमनुष्ठीयमानं कर्म ययुः। प्राप्नुवंति । अनुतिष्ठंति । ता आयुवो गंत्र्यो व्याप्ता धेनवः प्रीणयित्र्यः स्वसारः स्वयं सारिण्यों ऽगुलयो नेष्टुर्हविर्याचितुर्भक्षयितुः शोधयितुः पोषयितुनैतुर्वास्याग्नेः । यद्वैतन्नामकऋत्विग्रूपस्य। तिसृभ्य आ गार्हपत्यादिमूर्तीनामपि वरं वर्णं कुवित् बहुकृत्वः सचंत । सेवंते । परिचरंति ॥


यदी॑ मा॒तुरुप॒ स्वसा॑ घृ॒तं भर॒न्त्यस्थि॑त ।

तासा॑मध्व॒र्युराग॑तौ॒ यवो॑ वृ॒ष्टीव॑ मोदते ॥६

यदि॑ । मा॒तुः । उप॑ । स्वसा॑ । घृ॒तम् । भर॑न्ती । अस्थि॑त ।

तासा॑म् । अ॒ध्व॒र्युः । आऽग॑तौ । यवः॑ । वृ॒ष्टीऽइ॑व । मो॒द॒ते॒ ॥६

यदि । मातुः । उप । स्वसा । घृतं । भरंती । अस्थित ।

तासां । अध्वर्युः । आऽगतौ। यवः । वृष्टीऽइव । मोदते ॥६॥

यदि यदा मातुः सर्वस्य निर्मातुर्भूम्या वैदिलक्षणायाः स्वसा स्वसृस्थानीया जुहूर्घृतं भरंती सत्युपास्थित । उपतिष्ठेदग्निं । एकवचनमविवक्षितं । जुहपभृद्ध्रुवा घृतं भरंत्यस्तिष्ठंतीत्यर्थः । तदा तासां जुह्वादीनामागतौ यागाय प्राप्तौ सत्यामध्वर्युरेतन्नामक ऋत्विग्रूपोऽध्वरं कामयमानो वार्यमग्निर्मोदते । हृष्यति । यवो वृष्टीव वृष्ट्या यथा मोदते तद्वत् ॥


स्वः स्वाय॒ धाय॑से कृणु॒तामृ॒त्विगृ॒त्विज॑म् ।

स्तोमं॑ य॒ज्ञं चादरं॑ व॒नेमा॑ ररि॒मा व॒यम् ॥७

स्वः । स्वाय॑ । धाय॑से । कृ॒णु॒ताम् । ऋ॒त्विक् । ऋ॒त्विज॑म् ।

स्तोम॑म् । य॒ज्ञम् । च॒ । आत् । अर॑म् । व॒नेम॑ । र॒रि॒म । व॒यम् ॥७

स्वः । स्वाय। धायसे । कृणुतां । ऋत्विक् । ऋत्विजं ।

स्तोमं । यज्ञं । च । आत् । अरं । वनेम । ररिम । वयं ॥७॥

अयमग्निः स्वः स्वयमेव स्वाय स्वकीयाय धायसे कर्मणे हविषां धारणाय वा ऋत्विक् होताजनिष्टेत्यादिनोक्तलक्षणो होतृपोतृप्रशास्त्राद्यृत्विग्रूपः सन् ऋत्विजमार्विज्यं । भावप्रधानोऽयं निर्देशः ॥ देवर्त्विग्रूपः सन् ऋत्विजं मानुषमार्त्विज्यं कृणुतां । करोतु । वयं च तदनुग्रहात् आदनंतरमेव स्तोमं स्तोत्रं यज्ञं च तदाश्रयं यागमप्यरमलमत्यर्थं वनेम । संभजेमहि । ररिम ददेमहि च हविः । यद्वा स्तोमं वनेम यज्ञं यज्ञयोग्यं हवी ररिम ॥ यथा विद्वां अरं करद्विश्श्वेभ्यो यजतेभ्यः ।। अयमग्ने त्वे अपि यं यज्ञं चकृमा वयं ॥ ६॥


यथा॑ वि॒द्वाँ अरं॒ कर॒द्विश्वे॑भ्यो यज॒तेभ्यः॑ ।

अ॒यम॑ग्ने॒ त्वे अपि॒ यं य॒ज्ञं च॑कृ॒मा व॒यम् ॥८

यथा॑ । वि॒द्वान् । अर॑म् । कर॑त् । विश्वे॑भ्यः । य॒ज॒तेभ्यः॑ ।

अ॒यम् । अ॒ग्ने॒ । त्वे इति॑ । अपि॑ । यम् । य॒ज्ञम् । च॒कृ॒म । व॒यम् ॥८

यथा । विद्वान् । अरं । करत् । विश्वेभ्यः । यजतेभ्यः ।। अयं । अग्ने । त्वे इति । अपि । यं । यज्ञं । चकृम । वयं ॥८॥

हे अग्ने विद्वान् त्वन्माहात्म्याभिज्ञः प्रयोगज्ञो वा यजमानो यथा विश्वभ्यो यजतेभ्यः सर्वेभ्यो यजनीयेभ्यो देवेभ्योऽरं पर्याप्तं करत् कुर्यात् तथा त्वमनुगृहाणेत्यर्थः । वयमपि यं यज्ञं यागविशेषं चकृम कुर्महे स यागस्त्वे अपि ॥ अपिरेवार्थे ॥ तवैव त्वत्प्रीत्यर्थः । त्वमेव तस्मात्तं सर्वदेवार्थयागं तत्तदृत्विग्रूपः सन् निर्वहेत्यर्थः ॥ ॥२६॥


[सम्पाद्यताम्]

टिप्पणी

२.५.१

होताजनिष्ट चेतनः पिता पितृभ्य ऊतये।

प्रयक्षञ्जेन्यं वसु शकेम वाजिनो यमम्॥ २.००५.०१

अग्नेः उत्पत्तिरभवत्। कीदृशस्याग्नेः। यः होता, देवानां आह्वानकर्ता, तेभ्यः हविष्प्रदाता अस्ति। यः पितृभ्यः, जीवस्य चेतनायाः पालनकर्तॄणां प्राणानां पिता अस्ति। ईदृशस्य अग्नेः सहायेन वयं जेन्यस्य, जेतव्यस्य वसोः, धनस्य प्रयक्षन्, प्रकृष्टरूपेण पूजाकरणे शक्ताः भविष्यामः।

वैदिक दृष्ट्या, य़क्ष धातुः पूजा अर्थे अस्ति। पौराणिक दृष्ट्या, येषु तन्त्रेषु धनात्मकतायाः क्षयं अस्ति, येषु तन्त्रेषु अव्यवस्थायाः, एण्ट्रोपेः वर्धनं अस्ति, तेषु धनात्मकतायाः क्षयस्य निवारणहेतु यक्ष संज्ञकायाः चेतनायाः कल्पना अस्ति( द्र. यक्षोपरि पौराणिकाः संदर्भाः)। लौकिकदृष्ट्या, यक्षः धनस्य रक्षां करोति। यथा सर्वविदितमस्ति, अस्मिन् जगते प्रत्येकं तन्त्रं ऋणःगामी अस्ति। धनोगामी कर्तुं कः उपायः अस्ति। ऋचानुसारेण, पितृसंज्ञका ये सहजाः प्राणाः चेतनायाः स्थूल देहे धारणाय क्रियाशीलाः सन्ति, तेषां क्रियान्वने धनात्मकतायाः क्षयं भवति। अतएव, यदि कोपि विशिष्टः प्राणः एतेषां पितॄसंज्ञकानां प्राणानां उद्धरणे शक्तं भवेत्, तर्हि धनात्मकतायाः प्रादुर्भावं भवेत्। वेदे एवंप्रकारस्य प्राणस्य संज्ञा अग्निः अस्ति। वैदिकसाहित्ये, अग्निः पृथिवी महाभूतस्य रसं, सारं अस्ति। यत्किंचित् स्थूलतरमस्ति, तस्मात् सूक्ष्मतरायाः चेतनायाः जननं अग्निरस्ति। अन्यशब्देषु, यत्किंचित् अव्यवस्थितमस्ति, तस्मात् व्यवस्थिततरस्य तन्त्रस्य जननं अग्निरस्ति।

प्र-यक्षणस्य उदाहरणं अस्मिन् ऋचायां उपलब्धमस्ति -

तदु प्रयक्षतममस्य कर्म दस्मस्य चारुतममस्ति दंसः।

उपह्वरे यदुपरा अपिन्वन्मध्वर्णसो नद्यश्चतस्रः॥ ऋ. १.०६२.०६

अस्याः ऋचायाः विनियोगः प्रवर्ग्यकर्मणि अस्ति। ऋचानुसारेण, यत्र इन्द्रः पृथिव्योपरि मधुपूर्णानां चतस्रः नदीनां सृष्टिं करोति, तत् कृत्यं प्र-यक्षतममस्ति।

अपि च -

प्र ते यक्षि प्र त इयर्मि मन्म भुवो यथा वन्द्यो नो हवेषु।

धन्वन्निव प्रपा असि त्वमग्न इयक्षवे पूरवे प्रत्न राजन्॥ १०.००४.०१


अधोल्लिखितायां ऋचायां अग्निः यक्षाध्यक्षः भवति -

वैश्वानरं कवयो यज्ञियासोऽग्निं देवा अजनयन्नजुर्यम्।

नक्षत्रं प्रत्नममिनच्चरिष्णु यक्षस्याध्यक्षं तविषं बृहन्तम्॥ १०.०८८.१३




मण्डल २

सूक्तं २.१

सूक्तं २.२

सूक्तं २.३

सूक्तं २.४

सूक्तं २.५

सूक्तं २.६

सूक्तं २.७

सूक्तं २.८

सूक्तं २.९

सूक्तं २.१०

सूक्तं २.११

सूक्तं २.१२

सूक्तं २.१३

सूक्तं २.१४

सूक्तं २.१५

सूक्तं २.१६

सूक्तं २.१७

सूक्तं २.१८

सूक्तं २.१९

सूक्तं २.२०

सूक्तं २.२१

सूक्तं २.२२

सूक्तं २.२३

सूक्तं २.२४

सूक्तं २.२५

सूक्तं २.२६

सूक्तं २.२७

सूक्तं २.२८

सूक्तं २.२९

सूक्तं २.३०

सूक्तं २.३१

सूक्तं २.३२

सूक्तं २.३३

सूक्तं २.३४

सूक्तं २.३५

सूक्तं २.३६

सूक्तं २.३७

सूक्तं २.३८

सूक्तं २.३९

सूक्तं २.४०

सूक्तं २.४१

सूक्तं २.४२

सूक्तं २.४३


"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_२.५&oldid=196883" इत्यस्माद् पुनः प्राप्तिः