ऋग्वेदः सूक्तं २.३३

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं २.३२ ऋग्वेदः - मण्डल २
सूक्तं २.३३
गृत्समद (आङ्गिरसः शौनहोत्रः पश्चाद्) भार्गवः शौनकः
सूक्तं २.३४ →
दे. रुद्रः। त्रिष्टुप्


आ ते पितर्मरुतां सुम्नमेतु मा नः सूर्यस्य संदृशो युयोथाः ।
अभि नो वीरो अर्वति क्षमेत प्र जायेमहि रुद्र प्रजाभिः ॥१॥
त्वादत्तेभी रुद्र शंतमेभिः शतं हिमा अशीय भेषजेभिः ।
व्यस्मद्द्वेषो वितरं व्यंहो व्यमीवाश्चातयस्वा विषूचीः ॥२॥
श्रेष्ठो जातस्य रुद्र श्रियासि तवस्तमस्तवसां वज्रबाहो ।
पर्षि णः पारमंहसः स्वस्ति विश्वा अभीती रपसो युयोधि ॥३॥
मा त्वा रुद्र चुक्रुधामा नमोभिर्मा दुष्टुती वृषभ मा सहूती ।
उन्नो वीराँ अर्पय भेषजेभिर्भिषक्तमं त्वा भिषजां शृणोमि ॥४॥
हवीमभिर्हवते यो हविर्भिरव स्तोमेभी रुद्रं दिषीय ।
ऋदूदरः सुहवो मा नो अस्यै बभ्रुः सुशिप्रो रीरधन्मनायै ॥५॥
उन्मा ममन्द वृषभो मरुत्वान्त्वक्षीयसा वयसा नाधमानम् ।
घृणीव च्छायामरपा अशीया विवासेयं रुद्रस्य सुम्नम् ॥६॥
क्व स्य ते रुद्र मृळयाकुर्हस्तो यो अस्ति भेषजो जलाषः ।
अपभर्ता रपसो दैव्यस्याभी नु मा वृषभ चक्षमीथाः ॥७॥
प्र बभ्रवे वृषभाय श्वितीचे महो महीं सुष्टुतिमीरयामि ।
नमस्या कल्मलीकिनं नमोभिर्गृणीमसि त्वेषं रुद्रस्य नाम ॥८॥
स्थिरेभिरङ्गैः पुरुरूप उग्रो बभ्रुः शुक्रेभिः पिपिशे हिरण्यैः ।
ईशानादस्य भुवनस्य भूरेर्न वा उ योषद्रुद्रादसुर्यम् ॥९॥
अर्हन्बिभर्षि सायकानि धन्वार्हन्निष्कं यजतं विश्वरूपम् ।
अर्हन्निदं दयसे विश्वमभ्वं न वा ओजीयो रुद्र त्वदस्ति ॥१०॥
स्तुहि श्रुतं गर्तसदं युवानं मृगं न भीममुपहत्नुमुग्रम् ।
मृळा जरित्रे रुद्र स्तवानोऽन्यं ते अस्मन्नि वपन्तु सेनाः ॥११॥
कुमारश्चित्पितरं वन्दमानं प्रति नानाम रुद्रोपयन्तम् ।
भूरेर्दातारं सत्पतिं गृणीषे स्तुतस्त्वं भेषजा रास्यस्मे ॥१२॥
या वो भेषजा मरुतः शुचीनि या शंतमा वृषणो या मयोभु ।
यानि मनुरवृणीता पिता नस्ता शं च योश्च रुद्रस्य वश्मि ॥१३॥
परि णो हेती रुद्रस्य वृज्याः परि त्वेषस्य दुर्मतिर्मही गात् ।
अव स्थिरा मघवद्भ्यस्तनुष्व मीढ्वस्तोकाय तनयाय मृळ ॥१४॥
एवा बभ्रो वृषभ चेकितान यथा देव न हृणीषे न हंसि ।
हवनश्रुन्नो रुद्रेह बोधि बृहद्वदेम विदथे सुवीराः ॥१५॥


सायणभाष्यम्

चतुर्थेऽनुवाके एकादश सूक्तानि । तत्र ' आ ते पितः ' इति पञ्चदशर्चं प्रथमं सूक्तं गृत्समदस्यार्षं त्रैष्टुभं रौद्रम् । अनुक्रान्तं च-' आ ते पञ्चोना रौद्रम् ' इति । शूलगवादिरुद्रयज्ञेषु अनेन सूक्तेन प्रतीचीं दिगुपस्थेया । सूत्रितं च-' कद्रुद्रायेमा रुद्राया ते पितरिमा रुद्राय स्थिरधन्वन इति सर्वरुद्र- यज्ञेषु दिशामुपस्थानम् ' ( आश्व. गृ, ४. ८.२३) इति । रुद्रदेवत्ये पशौ ' आ ते पितः ' इति हविषोऽनुवाक्या । सूत्रितं च-' आ ते पितर्मरुतां सुम्नमेतु प्र बभ्रवे वृषभाय श्वितीच इति तिस्रः ' ( आश्व. श्रौ. ३.८) इति । अत्र शौनकः-' चतुर्दशीमुपोष्यैकां कृष्णस्य जुहुयाश्चरुम् । आतेसूक्तेन रौद्रेण प्रत्यृचं वाग्यतः शुचिः ।। पूर्वमाज्याहुतीर्हुत्वाथोपस्थाय च शंकरम् । हविःशेषेण वर्तेत एकान्तरमतन्द्रितः । पूर्णमासे जयेन्मृत्युं रोगैश्च परिमुच्यते ' ( ऋग्वि. १. १६८-१७०) इति ।।


आ ते॑ पितर्मरुतां सु॒म्नमे॑तु॒ मा न॒ः सूर्य॑स्य सं॒दृशो॑ युयोथाः ।

अ॒भि नो॑ वी॒रो अर्व॑ति क्षमेत॒ प्र जा॑येमहि रुद्र प्र॒जाभिः॑ ॥१

आ । ते॒ । पि॒तः॒ । म॒रु॒ता॒म् । सु॒म्नम् । ए॒तु॒ । मा । नः॒ । सूर्य॑स्य । स॒म्ऽदृशः॑ । यु॒यो॒थाः॒ ।

अ॒भि । नः॒ । वी॒रः । अर्व॑ति । क्ष॒मे॒त॒ । प्र । जा॒ये॒म॒हि॒ । रु॒द्र॒ । प्र॒ऽजाभिः॑ ॥१

आ। ते । पितः । मरुतां । सुम्नं । एतु । मा। नः । सूर्यस्य । संऽदृशः । युयोथाः ।

अभि । नः । वीरः। अर्वति । क्षमेत। प्र। जायेमहि । रुद्रः प्रऽजाभिः ॥ १॥

हे मरुतां पितः मरुत्संज्ञानां देवानामुत्पादक रुद्र ॥ परमपि छंदसीति षष्ट्यंतस्य पूर्वामंत्रितांगवद्भावात्सर्वानुदात्तत्वं ॥ ते त्वदीयमस्मभ्यं दातव्यं सुम्नं सुखमैतु । आगच्छतु । रुद्रस्य च मरुतां पितृत्वमिदं पित्रे मरुतामाख्यायिकामुखेनावादिष्म । ऋग्वे°१.११४.६.। तथा त्वं नोऽस्मान् सूर्यस्य संदृशः संदर्शनान्मा युयोथाः । मा पृथक्कार्षीः ॥ यु मिश्रणामिश्रणयोः । लङि छांदसः शपः श्लुः । छंदस्युभयथेत्यार्धधातुकत्वेन ङित्त्वाभावाद्गुणः ॥ अर्वति शत्रौ । भ्रातृव्यो वा अर्वेति श्रुतेः । नोऽस्माकं वीरो वीर्यवान् पुत्रादिरभिक्षमेत । अभिभवतु । यद्वा वीरस्त्वं नोऽस्मानभिक्षमेथाः । अस्मान् कृतापराधानभिक्षमस्व । हे रुद्र प्रजाभिः पुत्रपौत्रादिभिः प्रजायेमहि। प्रभूताः स्याम ॥


त्वाद॑त्तेभी रुद्र॒ शंत॑मेभिः श॒तं हिमा॑ अशीय भेष॒जेभिः॑ ।

व्य१॒॑स्मद्द्वेषो॑ वित॒रं व्यंहो॒ व्यमी॑वाश्चातयस्वा॒ विषू॑चीः ॥२

त्वाऽद॑त्तेभिः । रु॒द्र॒ । शम्ऽत॑मेभिः । श॒तम् । हिमाः॑ । अ॒शी॒य॒ । भे॒ष॒जेभिः॑ ।

वि । अ॒स्मत् । द्वेषः॑ । वि॒ऽत॒रम् । वि । अंहः॑ । वि । अमी॑वाः । चा॒त॒य॒स्व॒ । विषू॑चीः ॥२

त्वाऽदत्तेभिः । रुद्र। शंऽतमेभिः । शतं । हिमाः । अशीय। भेषजेभिः ।

वि। अस्मत् । द्वेषः। विऽतरं।वि। अंहः।वि। अमीवाः।चातयस्व। विषूचीः ॥२॥

हे रुद्र त्वादत्तेभिस्त्वया दत्तैः शंतमेभिरतिशयेन सुखकरैर्भेषजेभिभैषजैरौषधैः शतं हिमाः शतं हेमंतान् शतं संवत्सरानशीय । व्याप्नुयां ॥ अश्नोतेर्लिङि छांदसो विकरणस्य लुक् । अपि च अस्मदस्मत्तो द्वेषो द्वेष्टॄन् विचातयस्व । विनाशय । तथांहः पापं वितरमत्यंतं विचातयस्व । अमीवा रोगान्विषूचीर्विषु नानांचंतीः कृत्स्नशरीरव्यापकान् रोगान्विचातयस्व । अस्मत्तः पृथक्कृत्य विनाशय ॥


श्रेष्ठो॑ जा॒तस्य॑ रुद्र श्रि॒यासि॑ त॒वस्त॑मस्त॒वसां॑ वज्रबाहो ।

पर्षि॑ णः पा॒रमंह॑सः स्व॒स्ति विश्वा॑ अ॒भी॑ती॒ रप॑सो युयोधि ॥३

श्रेष्ठः॑ । जा॒तस्य॑ । रु॒द्र॒ । श्रि॒या । अ॒सि॒ । त॒वःऽत॑मः । त॒वसा॑म् । व॒ज्र॒बा॒हो॒ इति॑ वज्रऽबाहो ।

पर्षि॑ । नः॒ । पा॒रम् । अंह॑सः । स्व॒स्ति । विश्वाः॑ । अ॒भिऽइ॑तीः । रप॑सः । यु॒यो॒धि॒ ॥३

श्रेष्ठः। जातस्य। रुद्र। श्रिया।असि। तवःऽतमः। तवसो।वज्रबाहो इति वज्रऽबाहो।

पर्षि। नः । पारं। अंहसः। स्वस्ति । विश्वाः । अभिऽइतीः । रपसः। युयोधि ॥३॥

हे रुद्र जातस्योत्पन्नस्य सर्वस्य जगतो मध्ये श्रियैश्वर्येण श्रेष्ठः प्रशस्यतमोऽसि । भवसि । तथा हे वज्रबाहो आयुधहस्त रुद्र तवसां प्रवृद्धानां मध्ये तवस्तमोऽतिशयेन प्रवृद्धोऽसि । स त्वं नोऽस्मानंहसः पापस्य पारं तीरं स्वस्ति क्षेमेण पर्षि । पारय। तथा रपसः पापस्य विश्वाः सर्वा अभीतीरभिगमनानि युयोधि । पृथक्कुरु ॥ यौतेश्छांदसः शपः श्लुः । वा छंदसीत्यपित्वस्य विकल्पनात् ङित्त्वाभावेऽङितश्चेति हेर्धिः ॥


मा त्वा॑ रुद्र चुक्रुधामा॒ नमो॑भि॒र्मा दुष्टु॑ती वृषभ॒ मा सहू॑ती ।

उन्नो॑ वी॒राँ अ॑र्पय भेष॒जेभि॑र्भि॒षक्त॑मं त्वा भि॒षजां॑ शृणोमि ॥४

मा । त्वा॒ । रु॒द्र॒ । चु॒क्रु॒धा॒म॒ । नमः॑ऽभिः । मा । दुःऽस्तु॑ती । वृ॒ष॒भ॒ । मा । सऽहू॑ती ।

उत् । नः॒ । वी॒रान् । अ॒र्प॒य॒ । भे॒ष॒जेभिः॑ । भि॒षक्ऽत॑मम् । त्वा॒ । भि॒षजा॑म् । शृ॒णो॒मि॒ ॥४

मा। त्वा । रुद्र। चुक्रुधाम। नमःऽभिः । मा। दुःऽस्तुती। वृषभ। मा। सऽहूती।

उत्।नः। वीरान्। अर्पय। भेषजेभिः। भिषक्तमं। त्वा। भिषजां । शृणोमि ॥४॥

हे रुद्र त्वा त्वां नमोभिरयथाक्रियमाणैर्नमस्कारैर्हविर्भिवा मा चुक्रुधाम् । मा क्रोधयाम । क्रुद्धं मा कार्ष्म ॥ क्रुध कोपे । अस्माण्यंताल्लुङि चङि रूपं ॥ हे वृषभ कामानां वर्षितर्दुष्टुती दुःस्तुत्याशोभनया स्तुत्या मा चुक्रुधामेत्येव । तथा सहूती सहूत्या विसदृशैरन्यैर्देवैः सहाह्वानेन मा क्रोधयाम । श्रेष्ठो हि स्वस्मान्न्यूनेन सहाह्वाने क्रुद्धो भवति । स त्वं नोऽस्माकं वीरान् पुत्रान्भेषजेभिस्त्वदीयैर्भेषजैरौषधैरुदर्पय । उत्कृष्टं संयोजय । हे रुद्र त्वा त्वां भिषजां चिकित्साभिज्ञानां मध्ये भिषक्तममतिशयेन भैषज्यस्य कर्तारं शृणोमि । प्रथमो दैव्यो भिषक् । वा० सं० १६.५.। इति च मंत्रांतरेऽप्युक्तं ।


हवी॑मभि॒र्हव॑ते॒ यो ह॒विर्भि॒रव॒ स्तोमे॑भी रु॒द्रं दि॑षीय ।

ऋ॒दू॒दरः॑ सु॒हवो॒ मा नो॑ अ॒स्यै ब॒भ्रुः सु॒शिप्रो॑ रीरधन्म॒नायै॑ ॥५

हवी॑मऽभिः । हव॑ते । यः । ह॒विःऽभिः॑ । अव॑ । स्तोमे॑भिः । रु॒द्रम् । दि॒षी॒य॒ ।

ऋ॒दू॒दरः॑ । सु॒ऽहवः॑ । मा । नः॒ । अ॒स्यै । ब॒भ्रुः । सु॒ऽशिप्रः॑ । री॒र॒ध॒त् । म॒नायै॑ ॥५

हवीमऽभिः । हवते । यः । हविःऽर्भिः । अव। स्तोमेभिः । रुद्रं। दिषीय ।

ऋदूदरः। सुऽहवः । मा। नः । अस्यै। बभ्रुः। सुऽशिप्रः। रीरधत् । मनायै ॥५॥

यो रुद्रो हविर्भिश्चरुपुरोडाशादिभिः सहितैर्हवीमभिराह्वानैः स्तुतिलक्षणैर्हवते । आहूयते स्तूयते ॥ व्यत्ययेन कर्मणि कर्तप्रत्ययः । बहुलं छंदसीति हूयतेः संप्रसारणं ॥ तं रुद्रं स्तोमेभिः स्तोत्रैरवदिषीय । अवखंडयामि । पृथक्करोमि । अपगतक्रोधं करोमीति यावत् । दो अवखंडने । व्यत्ययेनात्मनेपदं । बहुलं छंदसीतीत्वं ॥ ऋदूदरः । ऋदूदरो मृदूदर इति यास्कः । नि°६.४.। सुहवः शोभनाह्वानो बभ्रुर्भर्ता सर्वस्य बभ्रुवर्णो वा । सुशिप्रः । शिप्रे हनू नासिके वा । शोभनशिप्रः । एवंगुणविशिष्टः स रुद्रोऽस्यै मनायै । हन्मीति मन्यमाना बुद्धिर्मना । तस्यै नोऽस्मान्मा रीरधत् । मा वशं नैषीत् । रध हिसासंराद्ध्योः । अस्माण्ण्यंतालुङि चङि रूपं । रध्यतिर्वशगमन इति यास्कः ॥ ॥१६॥


उन्मा॑ ममन्द वृष॒भो म॒रुत्वा॒न्त्वक्षी॑यसा॒ वय॑सा॒ नाध॑मानम् ।

घृणी॑व च्छा॒याम॑र॒पा अ॑शी॒या वि॑वासेयं रु॒द्रस्य॑ सु॒म्नम् ॥६

उत् । मा॒ । म॒म॒न्द॒ । वृ॒ष॒भः । म॒रुत्वा॑न् । त्वक्षी॑यसा । वय॑सा । नाध॑मानम् ।

घृणि॑ऽइव । छा॒याम् । अ॒र॒पाः । अ॒शी॒य॒ । आ । वि॒वा॒से॒य॒म् । रु॒द्रस्य॑ । सु॒म्नम् ॥६

उत्। मा। ममंद । वृषभः । मरुत्वान् । त्वक्षीयसा। वयसा। नाधमानं ।

घृणिऽइव । छायां । अरपाः । अशीय । आ। विवासेयं । रुद्रस्य । सुम्नं ॥६॥

वृषभः कामानां वर्षिता मरुत्वान् मरुद्भिः पुत्रैर्युक्तो रुद्रो नाधमानं याचमानं मा मां त्वक्षीयसा दीप्तेन वयसान्नेनोन्ममंद । उत्कर्षेण तर्पयतु । अपि चाहं घृणीव छायां यथा सूर्यकिरणसंतप्तश्छायां प्रविशति एवं रुद्रस्य सुम्नं सुखमरपा अपापः सन् अशीय । व्याप्नुयां । तदर्थं तं रुद्रमाविवासेयं । परिचरेयं । विवासतिः परिचरणकर्मा ।


क्व१॒॑ स्य ते॑ रुद्र मृळ॒याकु॒र्हस्तो॒ यो अस्ति॑ भेष॒जो जला॑षः ।

अ॒प॒भ॒र्ता रप॑सो॒ दैव्य॑स्या॒भी नु मा॑ वृषभ चक्षमीथाः ॥७

क्व॑ । स्यः । ते॒ । रु॒द्र॒ । मृ॒ळ॒याकुः॑ । हस्तः॑ । यः । अस्ति॑ । भे॒ष॒जः । जला॑षः ।

अ॒प॒ऽभ॒र्ता । रप॑सः । दैव्य॑स्य । अ॒भि । नु । मा॒ । वृ॒ष॒भ॒ । च॒क्ष॒मी॒थाः॒ ॥७

क्व। स्यः । ते । रुद्र । मृळयाकुः । हस्तः । यः । अस्ति । भेषजः। जलाषः ।

अपऽभर्ता । रपसः । दैव्यस्य । अभि । नु । मा । वृषभ । चक्षमीथाः ॥७॥

हे रुद्र ते तव मृळयाकुः सुखयिता स्यः स हस्तः क्व कुत्र वर्तते । यो हस्तो भेषजो भैषज्यकृत् जलाषः सर्वेषां सुखकरोऽस्ति । भवति । स हस्तो विद्यत एव । तेन हस्तेन मां रक्षेति भावः । अपि च हे वृषभ कामानां वर्षितः दैव्यस्य देवकृतस्य रपसः पापस्यापभर्तापहर्ता विनाशयिता भूत्वा कृतापराधं मां नु क्षिप्रमभिचक्षमीथाः । अभिक्षमस्व ॥ क्षमूष् सहने । लङि छांदसः शपः श्लुः । बहुलं छंदसीतीडागमः ॥


रुद्रदेवत्ये पशौ वपापुरोडाशहविषां क्रमेण प्र बभ्रव इत्याद्यास्तिस्रो याज्याः । प्र बभ्रवे वृषभाय श्वितीच इति तिस्र आ पश्चातान्नासत्या पुरस्तात् । आ° ३. ८.। इति ॥

प्र ब॒भ्रवे॑ वृष॒भाय॑ श्विती॒चे म॒हो म॒हीं सु॑ष्टु॒तिमी॑रयामि ।

न॒म॒स्या क॑ल्मली॒किनं॒ नमो॑भिर्गृणी॒मसि॑ त्वे॒षं रु॒द्रस्य॒ नाम॑ ॥८

प्र । ब॒भ्रवे॑ । वृ॒ष॒भाय॑ । श्वि॒ती॒चे । म॒हः । म॒हीम् । सु॒ऽस्तु॒तिम् । ई॒र॒या॒मि॒ ।

न॒म॒स्य । क॒ल्म॒ली॒किन॑म् । नमः॑ऽभिः । गृ॒णी॒मसि॑ । त्वे॒षम् । रु॒द्रस्य॑ । नाम॑ ॥८

प्र। बभ्रवे । वृषभाय । श्वितीचे । महः। महीं। सुऽस्तुतिं । ईरयामि ।

नमस्य। कल्मलीकिनं । नमःऽभिः। गृणीमसि । त्वेषं । रुद्रस्यं । नाम ॥ ८॥

बभ्रवे विश्वस्य भर्त्रे बभुवर्णाय वा वृषभाय कामानां वर्षित्रे तद्वत्प्रसह्यकारिणे वा श्वितीचे श्वैत्यमंचते ॥ श्विता वर्णे । औणादिक इन्प्रत्ययः । श्वितिमंचतीत्यंचतेर्ऋत्विगित्यादिना क्विन् । चतुर्थ्येकवचनेऽच इत्यकारलोपे चाविति दीर्घत्वं । उदात्तनिवृत्तिस्वरेण विभक्तेरुदात्तत्वं ॥ एवंगुणविशिष्टाय रुद्राय महो महीं महतोऽपि महतीं सुष्टुतिं शोभनस्तुतिं प्रेरयामि । प्रकर्षेणोच्चारयामि । हे स्तोतः कल्मलीकिनं । ज्वलतो नामधेयमेतत् । नैघं० १.१७.। ज्वलंतं । कलयत्यपगमयति मलमिति कल्मलीकं तेजः । तद्वंतं रुद्रं नमोभिर्नमस्करैर्हविर्भिर्वा नमस्य । पूजय । वयं च रुद्रस्य महादेवस्य त्वेषं दीप्तं नाम गृणीमसि । गृणीमः संकीर्तयामः ॥ गॄ शब्दे । क्रैयादिकः । इदंतो मसिः । प्वादीनां ह्रस्वः ॥


स्थि॒रेभि॒रङ्गैः॑ पुरु॒रूप॑ उ॒ग्रो ब॒भ्रुः शु॒क्रेभिः॑ पिपिशे॒ हिर॑ण्यैः ।

ईशा॑नाद॒स्य भुव॑नस्य॒ भूरे॒र्न वा उ॑ योषद्रु॒द्राद॑सु॒र्य॑म् ॥९

स्थि॒रेभिः॑ । अङ्गैः॑ । पु॒रु॒ऽरूपः॑ । उ॒ग्रः । ब॒भ्रुः । शु॒क्रेभिः॑ । पि॒पि॒शे॒ । हिर॑ण्यैः ।

ईशा॑नात् । अ॒स्य । भुव॑नस्य । भूरेः॑ । न । वै । ऊं॒ इति॑ । यो॒ष॒त् । रु॒द्रात् । अ॒सु॒र्य॑म् ॥९

स्थिरेभिः। अंगैः । पुरुऽरूपः । उग्रः । बभ्रुः। शुक्रेभिः । पिपिशे । हिरण्यैः ।

ईशानात् । अस्य। भुवनस्य। भूरेः। न। वै । ऊं इति । योषत् । रुद्रात् । असुर्यं ॥९॥

स्थिरेभिः स्थिरैर्दृढैरंगैरवयवैर्युक्तः पुरुरूपोऽष्टमूर्त्यात्मकैर्बहुभी रूपैरुपेत उग्र उद्गूर्णस्तेजस्वी बभुर्भर्ता बभुवर्णो वा रुद्रः शुक्रेभिर्दीप्तैर्हिरण्यैर्हिरण्मयैर्हितरमणीयैर्वालंकारैः पिपिशे । दीप्यते ॥ पिश अवयवे । कर्मणि लिट् ॥ ईशानादीश्वरादस्य भुवनस्य भूतजातस्य भूरेर्भर्तुः रुद्रादसुर्यं ॥ असु क्षेपणे । असेरुरन् । असुरः क्षेप्ता । तत्र साधुः ॥ असुर्यं बलं न वा उ योषत् । नैव पृथग्भवति ॥ यौतेर्लेट्यडागमः । सिब्बहुलं लेटीति सिप् ॥


अर्ह॑न्बिभर्षि॒ साय॑कानि॒ धन्वार्ह॑न्नि॒ष्कं य॑ज॒तं वि॒श्वरू॑पम् ।

अर्ह॑न्नि॒दं द॑यसे॒ विश्व॒मभ्वं॒ न वा ओजी॑यो रुद्र॒ त्वद॑स्ति ॥१०

अर्ह॑न् । बि॒भ॒र्षि॒ । साय॑कानि । धन्व॑ । अर्ह॑न् । नि॒ष्कम् । य॒ज॒तम् । वि॒श्वऽरू॑पम् ।

अर्ह॑न् । इ॒दम् । द॒य॒से॒ । विश्व॑म् । अभ्व॑म् । न । वै । ओजी॑यः । रु॒द्र॒ । त्वत् । अ॒स्ति॒ ॥१०

अर्हन। बिभर्षि। सायकानि । धन्व । अर्हन् । निष्कं । यजतं । विश्वऽरूपं ।

अर्हन् । इदं । दयसे । विश्वं । अभ्यै । न। वै। ओजीयः। रुद्र। त्वत् । अस्ति ॥१०॥

हे रुद्र त्वमर्हन् अह योग्य एव सन् सायकानि शरान् धन्व धनुश्च बिभर्षि । धारयसि । तथार्हन्नेव यजत यजनीयं पूजनीयं विश्वरूपं बहुविधरूपयुक्तं निष्कं हारं बिभर्षि । तथार्हन्नेवेदं विश्वं सर्वमभ्वं । महन्नामैतत् । अतिविस्तृतं जगद्दयसे । रक्षसि । देङ रक्षणे । हे रुद्र त्वत् त्वत्तोऽन्यत् किंचिदोजीय ओजस्वितरं बलवत्तरं न वा अस्ति । न खलु विद्यते । अतस्त्वमेवोक्तव्यापारेषु योज्य इत्यर्थः । ओजःशब्दान्मत्वर्थीयो विनिः । तत आतिशायनिक इष्ठन् । विन्मतोर्लुक् । टेरिति टिलोपः ॥ ॥ १७ ॥


प्रयाणे मृगस्यामनोज्ञवचः श्रुत्वा स्तुहि श्रुतमित्येतां जपेत् । सूत्रितं च । स्तुहि श्रुतं गर्तसदं युवानमिति मृगस्य । आश्व गृ° ३. १०. १०.। इति ॥

स्तु॒हि श्रु॒तं ग॑र्त॒सदं॒ युवा॑नं मृ॒गं न भी॒ममु॑पह॒त्नुमु॒ग्रम् ।

मृ॒ळा ज॑रि॒त्रे रु॑द्र॒ स्तवा॑नो॒ऽन्यं ते॑ अ॒स्मन्नि व॑पन्तु॒ सेनाः॑ ॥११

स्तु॒हि । श्रु॒तम् । ग॒र्त॒ऽसद॑म् । युवा॑नम् । मृ॒गम् । न । भी॒मम् । उ॒प॒ऽह॒त्नुम् । उ॒ग्रम् ।

मृ॒ळ । ज॒रि॒त्रे । रु॒द्र॒ । स्तवा॑नः । अ॒न्यम् । ते॒ । अ॒स्मत् । नि । व॒प॒न्तु॒ । सेनाः॑ ॥११

स्तुहि। श्रुतं । गर्तऽसदं। युवानं । मृगं । न। भीमं । उपऽहत्नुं । उग्रं ।

मृळ। जरित्रे । रुद्र। स्तवानः । अन्यं । ते । अस्मत् । नि । वपंतु । सेनाः॥११॥

हे स्तोतः श्रुतं विश्रुतं प्रख्यातं रुद्रं स्तुहि । कीदृशं । गर्तसदं । गर्तो रथः । तत्र सीदंतं युवानं नित्यतरुणं मृगं न भीमं मृगं सिंहमिव भयंकरं । उपहत्नुमुपहंतारं शत्रूणामुग्रमुद्गूर्णं । हे रुद्र त्वं स्तवानोऽस्माभिः स्तूयमानः सन् जरित्रे स्तोत्रे मह्यं मृळ। सुखय । ते त्वदीयाः सेना अस्मदन्यमस्मद्व्यतिरिक्तं पुरुषं निवपंतु । निघ्नंतु ॥


कु॒मा॒रश्चि॑त्पि॒तरं॒ वन्द॑मानं॒ प्रति॑ नानाम रुद्रोप॒यन्त॑म् ।

भूरे॑र्दा॒तारं॒ सत्प॑तिं गृणीषे स्तु॒तस्त्वं भे॑ष॒जा रा॑स्य॒स्मे ॥१२

कु॒मा॒रः । चि॒त् । पि॒तर॑म् । वन्द॑मानम् । प्रति॑ । न॒ना॒म॒ । रु॒द्र॒ । उ॒प॒ऽयन्त॑म् ।

भूरेः॑ । दा॒तार॑म् । सत्ऽप॑तिम् । गृ॒णी॒षे॒ । स्तु॒तः । त्वम् । भे॒ष॒जा । रा॒सि॒ । अ॒स्मे इति॑ ॥१२

कुमारः । चित् । पितरं । वंदमानं । प्रति। ननाम । रुद्र । उपऽयंतं । भूरेः।

दातारं। सत्ऽपतिं । गृणीषे। स्तुतः । त्वं। भेषजा। रासि । अस्मे इति ॥१२॥

वंदमानं आयुष्मान् भव सौम्येति स्तुवंतं पितरं कुमारश्चित् यथा कुमारः ॥ चिदित्येतदुपमार्थे ॥ हे रुद्र उपयंतमस्मत्समीपे गच्छंतं त्वां प्रतिननाम । प्रतिनतोऽस्मि । अपि च भूरेर्बहुनो धनस्य दातारं सत्पतिं सतां पालयितारं । पत्यावैश्वर्य इति पूर्वपदप्रकृतिस्वरत्वं ॥ हे रुद्र एवंभूतं त्वां गृणीषे । स्तौमि ॥ मिपस्तिङां तिङो भवंतीति से आदेशः ॥ स्तुतश्च त्वमस्मे अस्मभ्यं भेषजा भेषजानि रासि । देहि । ।


या वो॑ भेष॒जा म॑रुत॒ः शुची॑नि॒ या शंत॑मा वृषणो॒ या म॑यो॒भु ।

यानि॒ मनु॒रवृ॑णीता पि॒ता न॒स्ता शं च॒ योश्च॑ रु॒द्रस्य॑ वश्मि ॥१३

या । वः॒ । भे॒ष॒जा । म॒रु॒तः॒ । शुची॑नि । या । शम्ऽत॑मा । वृ॒ष॒णः॒ । या । म॒यः॒ऽभु ।

यानि॑ । मनुः॑ । अवृ॑णीत । पि॒ता । नः॒ । ता । शम् । च॒ । योः । च॒ । रु॒द्रस्य॑ । व॒श्मि॒ ॥१३

या। वः । भेषजा । मरुतः । शुचीनि । या। शंऽतमा। वृषणः । या । मयःऽभु।

यानि । मनुः। अवृणीत। पिता। नः । ता। शं। च। योः। च। रुद्रस्य । वश्मि ॥१३॥

हे मरुतो रुद्रपुत्रा वो युष्माकं या यानि भेषजा भेषजान्यस्मदारोग्यहेतुभूतान्यौषधानि शुचीनि शुद्धानि निर्मलानि संति । हे वृषणः कामानां वर्षितारो मरुतो या यानि च युष्मदीयानि भेषजानि शंतमा अतिशयेन सुखकराणि । या यानि च भेषजानि मयोभु मयोभूनि मयसः सुखस्य भावयितॄणि नोऽस्मत्पिता मनुर्यानि भेषजानि युष्मदीयान्यवृणीत वृतवान् ता तानि भेषजानि रुद्रस्य महादेवस्य संबंधि शं च योश्च यच्छमनीयानां रोगाणामुपशमनं यावनीयानां भयानां यद्यावनमस्मत्तः पृथक्करणं तदुभयं च वश्मि । कामये ॥ वश कांतौ । आदादिकः ॥


परि॑ णो हे॒ती रु॒द्रस्य॑ वृज्या॒ः परि॑ त्वे॒षस्य॑ दुर्म॒तिर्म॒ही गा॑त् ।

अव॑ स्थि॒रा म॒घव॑द्भ्यस्तनुष्व॒ मीढ्व॑स्तो॒काय॒ तन॑याय मृळ ॥१४

परि॑ । नः॒ । हे॒तिः । रु॒द्रस्य॑ । वृ॒ज्याः॒ । परि॑ । त्वे॒षस्य॑ । दुः॒ऽम॒तिः । म॒ही । गा॒त् ।

अव॑ । स्थि॒रा । म॒घव॑त्ऽभ्यः । त॒नु॒ष्व॒ । मीढ्वः॑ । तो॒काय॑ । तन॑याय । मृ॒ळ॒ ॥१४

परि । नः । हेतिः । रुद्रस्य । वृज्याः । परि। त्वेषस्य । दुःऽमतिः । मही। गात्।

अव । स्थिरा। मघवत्ऽभ्यः। तनुष्व। मीढ्वः । तोकाय । तनयाय । मृळ ॥१४॥

रुद्रस्य महादेवस्य हेतिरायुधं नोऽस्मान्परिवृज्याः । परिवर्जयतु । तथा त्वेषस्य दीप्तस्य रुद्रस्य मही महती दुर्मतिर्दुःखकारिणी बुद्धिश्च परिगात् । अस्मान्वर्जयित्वान्यत्र गच्छतु ॥ अपपरी वर्जने । पा° १. ४. ८८. ॥ हे मीढ्वः सेचनसमर्थ रुद्र स्थिरा स्थिराणि त्वदीयानि धनूंषि मघवद्भ्यो हविर्लक्षणधनयुक्तेभ्यो यजमानेभ्यो ऽवतनुष्व। अवततज्यानि कुरु । तथा तोकायास्मत्पुत्राय तनयाय तत्पुत्राय च मृळ । सुखं कुरु॥


ए॒वा ब॑भ्रो वृषभ चेकितान॒ यथा॑ देव॒ न हृ॑णी॒षे न हंसि॑ ।

ह॒व॒न॒श्रुन्नो॑ रुद्रे॒ह बो॑धि बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑ ॥१५

ए॒व । ब॒भ्रो॒ इति॑ । वृ॒ष॒भ॒ । चे॒कि॒ता॒न॒ । यथा॑ । दे॒व॒ । न । हृ॒णी॒षे । न । हंसि॑ ।

ह॒व॒न॒ऽश्रुत् । नः॒ । रु॒द्र॒ । इ॒ह । बो॒धि॒ । बृ॒हत् । व॒दे॒म॒ । वि॒दथे॑ । सु॒ऽवीराः॑ ॥१५

एव। बभ्रो इति । वृषभ। चेकितान। यथा । देव। न। हृणीषे । न। हंसि ।।

हवनऽश्रुत्। नः। रुद्र। इह। बोधि। बृहत् । वदेम । विदथे । सुऽवीराः ॥१५॥

हे बभ्रो जगतो भर्तर्बभ्रुवर्ण वा वृषभ कामानां वर्षितः चेकितान सर्वं जानन् हे देव द्योतमान रुद्र यथा येन प्रकारेण न हृणीषि न क्रुध्यसि न च हंसि ॥ हृणीङ् लज्जायां अयं क्रुध्यतिकर्मा च ॥ एवं हवनश्रुत् अस्मदीयमाह्वानं शृण्वन् नोऽस्मान् हे रुद्र इहास्मिन्देशे बोधि। बुध्यस्व। विदथे यज्ञे गृहे वा सुवीराः शोभनपुत्राः संतो बृहत् प्रौढं त्वदीयं स्तोत्रं वदेम । उच्चारयाम ॥ ॥१८॥

[सम्पाद्यताम्]

रौद्रं मारुतं तु परम् आ ते धारावरा इति । वामतस्तु मृगं दृष्ट्वा बिभ्यदेत्य ऋषिः स्वयम् ।। ८९ ।।

स्तुहि श्रुतमिति त्वस्यां तमेवास्तौत्प्रसादयन् । अपां नपादुपेत्यत्र स्तुतः सूक्ते ततः परे ।।बृहद्देवता ४.९० ।।

मण्डल २

सूक्तं २.१

सूक्तं २.२

सूक्तं २.३

सूक्तं २.४

सूक्तं २.५

सूक्तं २.६

सूक्तं २.७

सूक्तं २.८

सूक्तं २.९

सूक्तं २.१०

सूक्तं २.११

सूक्तं २.१२

सूक्तं २.१३

सूक्तं २.१४

सूक्तं २.१५

सूक्तं २.१६

सूक्तं २.१७

सूक्तं २.१८

सूक्तं २.१९

सूक्तं २.२०

सूक्तं २.२१

सूक्तं २.२२

सूक्तं २.२३

सूक्तं २.२४

सूक्तं २.२५

सूक्तं २.२६

सूक्तं २.२७

सूक्तं २.२८

सूक्तं २.२९

सूक्तं २.३०

सूक्तं २.३१

सूक्तं २.३२

सूक्तं २.३३

सूक्तं २.३४

सूक्तं २.३५

सूक्तं २.३६

सूक्तं २.३७

सूक्तं २.३८

सूक्तं २.३९

सूक्तं २.४०

सूक्तं २.४१

सूक्तं २.४२

सूक्तं २.४३


"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_२.३३&oldid=208872" इत्यस्माद् पुनः प्राप्तिः