ऋग्वेदः सूक्तं २.१९

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← सूक्तं २.१८ ऋग्वेदः - मण्डल २
सूक्तं २.१९
गृत्समद (आङ्गिरसः शौनहोत्रः पश्चाद्) भार्गवः शौनकः
सूक्तं २.२० →
दे. इन्द्रः। त्रिष्टुप्


अपाय्यस्यान्धसो मदाय मनीषिणः सुवानस्य प्रयसः ।
यस्मिन्निन्द्रः प्रदिवि वावृधान ओको दधे ब्रह्मण्यन्तश्च नरः ॥१॥
अस्य मन्दानो मध्वो वज्रहस्तोऽहिमिन्द्रो अर्णोवृतं वि वृश्चत् ।
प्र यद्वयो न स्वसराण्यच्छा प्रयांसि च नदीनां चक्रमन्त ॥२॥
स माहिन इन्द्रो अर्णो अपां प्रैरयदहिहाच्छा समुद्रम् ।
अजनयत्सूर्यं विदद्गा अक्तुनाह्नां वयुनानि साधत् ॥३॥
सो अप्रतीनि मनवे पुरूणीन्द्रो दाशद्दाशुषे हन्ति वृत्रम् ।
सद्यो यो नृभ्यो अतसाय्यो भूत्पस्पृधानेभ्यः सूर्यस्य सातौ ॥४॥
स सुन्वत इन्द्रः सूर्यमा देवो रिणङ्मर्त्याय स्तवान् ।
आ यद्रयिं गुहदवद्यमस्मै भरदंशं नैतशो दशस्यन् ॥५॥
स रन्धयत्सदिवः सारथये शुष्णमशुषं कुयवं कुत्साय ।
दिवोदासाय नवतिं च नवेन्द्रः पुरो व्यैरच्छम्बरस्य ॥६॥
एवा त इन्द्रोचथमहेम श्रवस्या न त्मना वाजयन्तः ।
अश्याम तत्साप्तमाशुषाणा ननमो वधरदेवस्य पीयोः ॥७॥
एवा ते गृत्समदाः शूर मन्मावस्यवो न वयुनानि तक्षुः ।
ब्रह्मण्यन्त इन्द्र ते नवीय इषमूर्जं सुक्षितिं सुम्नमश्युः ॥८॥
नूनं सा ते प्रति वरं जरित्रे दुहीयदिन्द्र दक्षिणा मघोनी ।
शिक्षा स्तोतृभ्यो माति धग्भगो नो बृहद्वदेम विदथे सुवीराः ॥९॥


[सम्पाद्यताम्]

सायणभाष्यम्

' अपाय्यस्य ' इति नवर्चमष्टमं सूक्तं गार्त्समदं त्रैष्टुभमैन्द्रम् । ' अपायि ' इत्यनुक्रान्तम् । लैङ्गिकः सूक्तविनियोगः । द्वितीये पर्याये होतृशस्त्रयाज्या अपायीत्येषा ( आश्व श्रौ. ६.४) ।।

अपा॑य्य॒स्यान्ध॑सो॒ मदा॑य॒ मनी॑षिणः सुवा॒नस्य॒ प्रय॑सः ।

यस्मि॒न्निन्द्रः॑ प्र॒दिवि॑ वावृधा॒न ओको॑ द॒धे ब्र॑ह्म॒ण्यन्त॑श्च॒ नरः॑ ॥

अपा॑यि । अ॒स्य । अन्ध॑सः । मदा॑य । मनी॑षिणः । सु॒वा॒नस्य॑ । प्रय॑सः ।

यस्मि॑न् । इन्द्रः॑ । प्र॒ऽदिवि॑ । व॒वृ॒धा॒नः । ओकः॑ । द॒धे । ब्र॒ह्म॒ण्यन्तः॑ । च॒ । नरः॑ ॥

अपायि । अस्य । अंधसः । मदाय । मनीषिणः । सुवानस्य । प्रयसः ।

यस्मिन्। इंद्रः। प्रऽदिवि। ववृधानः। ओकः । दधे। ब्रह्मण्यंतः । च। नरः ॥१॥

सुवानस्य सोमाभिषवं कुर्वाणस्य मनीषिणः प्राज्ञस्य यजमानस्य संबंधिनः प्रयसः ॥ प्रीङ् तर्पणे । असुन् ॥ प्रीतिकरस्यास्य सोमलक्षणस्यांधसो मदायापायि । एतदन्नमिंद्रेण पीतमित्यर्थः । यद्वा अपायीति पतिर्व्यत्ययो बहुलमिति चिण् कर्तरि भवति । छंदसि लुङ्लङ्लिट् इति लोडर्थे लुङ्॥ प्रीतिकरस्यांधसो मदायापायि ॥ शेषविवक्षया कर्मणि षष्ठी । इंद्रः सोमं पिबतु । प्रदिवि पुराणे यस्मिन्सोमलक्षणेंऽ धसि वावृधानो वर्धमान इंद्र ओको दधे। सेव्यतया निवासं चकार । किंच ब्रह्मण्यंत इंद्राय स्तोत्रमिच्छंतो नरः कर्मणां नेतार ऋत्विजो यस्मिन्निवासं दधिरे । तदेतदपायीति पूर्वेणान्वयः ।।


अ॒स्य म॑न्दा॒नो मध्वो॒ वज्र॑ह॒स्तोऽहि॒मिन्द्रो॑ अर्णो॒वृतं॒ वि वृ॑श्चत् ।

प्र यद्वयो॒ न स्वस॑रा॒ण्यच्छा॒ प्रयां॑सि च न॒दीनां॒ चक्र॑मन्त ॥

अ॒स्य । म॒न्दा॒नः । मध्वः॑ । वज्र॑ऽहस्तः । अहि॑म् । इन्द्रः॑ । अ॒र्णः॒ऽवृत॑म् । वि । वृ॒श्च॒त् ।

प्र । यत् । वयः॑ । न । स्वस॑राणि । अच्छ॑ । प्रयां॑सि । च॒ । न॒दीना॑म् । चक्र॑मन्त ॥

अस्य । मंदानः । मध्वः । वज्रऽहस्तः । अहिं। इंद्रः । अर्णःऽवृतं । वि। वृश्चत् ।

प्र । यत् । वयः । न । स्वसराणि । अच्छ। प्रयांसि। च। नदीनां । चक्रमंत ॥२॥

अस्य मध्वः । तृतीयार्थे षष्ठी । अनेन मदकरेण सोमेन मंदानो हृष्यन वज्रहस्तो वज्रयुक्तो हस्तो यस्य स इंद्रोऽर्णोवृतमुदकस्यावरकमुदकेनावृतं वाहिं वृत्रं मेघं वा विवृश्चत् । विशेषेणाच्छिनत् ॥ ओव्रश्चू छेदने । तौदादिकः । लङि ग्रहिज्यादिना संप्रसारणं । यद्यदाहिभेदने जाते नदीनां प्रयांसि प्रीणयितॄणि जलान्यच्छ समुद्रमभिलक्ष्य प्रचक्रमंत । गंतुमुपाक्रमन् । तत्र दृष्टांतः। वयो न । यथा पक्षिणः स्वसराणि । सुष्ठर्यंते प्राप्यंत इति स्वराणि स्वसराणि कुलायाः । तानभिलक्ष्य गच्छंति तद्वत् ॥


स माहि॑न॒ इन्द्रो॒ अर्णो॑ अ॒पां प्रैर॑यदहि॒हाच्छा॑ समु॒द्रम् ।

अज॑नय॒त्सूर्यं॑ वि॒दद्गा अ॒क्तुनाह्नां॑ व॒युना॑नि साधत् ॥३

सः । माहि॑नः । इन्द्रः॑ । अर्णः॑ । अ॒पाम् । प्र । ऐ॒र॒य॒त् । अ॒हि॒ऽहा । अच्छ॑ । स॒मु॒द्रम् ।

अज॑नयत् । सूर्य॑म् । वि॒दत् । गाः । अ॒क्तुना॑ । अह्ना॑म् । व॒युना॑नि । सा॒ध॒त् ॥३

सः । माहिनः । इंद्रः । अर्णः । अपां। प्र। ऐरयत् । अहिऽहा। अच्छ। समुद्रं ।

अजनयत् । सूर्यं । विदत् । गाः । अक्तुना । अह्नां। वयुनानि । साधत् ॥३॥

माहिनो मंहनीयः पूजनीयो यद्वा महिमोपेतः । अहिहाहिं मेघं हतवानिंद्रः ॥ ब्रह्मभ्रूणवृत्रेषु क्विप् । बहुलं छंदसीति भूतकाले क्विप् ॥ स इंद्रोऽपामर्णः ॥ ऋ गतौ ॥ स्रोतोलक्षणं प्रवाहं समुद्रमच्छाभिलक्ष्य प्रैरयत् । किंच स इंद्रोंऽगिरसां बिलांतर्वर्तिनामावृतानां गवां लाभाय सूर्यमजनयत् । ततो गाः पणिभिरपहृता गा विदत् । अलभत । विदिर् लाभे । लुङीरितो वेति च्लेरङादेशः । वाक्यभेदादनिघातः । तथाक्तुना तेजसाह्नां दिवसानां वयुनानि प्रज्ञानानि प्रकाशान् साधत् । असाधयत् । ।


सो अ॑प्र॒तीनि॒ मन॑वे पु॒रूणीन्द्रो॑ दाशद्दा॒शुषे॒ हन्ति॑ वृ॒त्रम् ।

स॒द्यो यो नृभ्यो॑ अत॒साय्यो॒ भूत्प॑स्पृधा॒नेभ्य॒ः सूर्य॑स्य सा॒तौ ॥४

सः । अ॒प्र॒तीनि॑ । मन॑वे । पु॒रूणि॑ । इन्द्रः॑ । दा॒श॒त् । दा॒शुषे॑ । हन्ति॑ । वृ॒त्रम् ।

स॒द्यः । यः । नृऽभ्यः॑ । अ॒त॒साय्यः॑ । भूत् । प॒स्पृ॒धा॒नेभ्यः॑ । सूर्य॑स्य । सा॒तौ ॥४

सः । अप्रतीनि । मनवे । पुरूणि । इंद्रः । दाशत् । दाशुषे । हंति । वृत्रं ।

सद्यः । यः । नृऽभ्यः । अतसाय्यः । भूत् । पस्पृधानेभ्यः । सूर्यस्य । सातौ ॥४॥

स इंद्रो दाशुषे हविर्दत्तवते मनवे मनुष्याय यजमानाय पुरूणि बहून्यप्रतीन्युत्कृष्टानि धनानि दाशत् । ददाति । किंच वृत्रमसुरं हंति । कीदृशः । य इंद्रः सूर्यस्य सातौ । सातिः संभजनं । सूर्यसंभजनविषये भूते पस्पृधानेभ्यः अहमेव प्रथमं सूर्यं प्राप्नुयामहमेव प्रथमं सूर्य प्राप्नुयामिति स्पर्धमानेभ्यः स्तोतृभ्यः सद्यस्तदानीमेवातसाय्यस्तत्प्राप्तिहेतुभूतः सन् समाश्रयणीयो भूत्। अभूत् । यद्वा सूर्यस्य सातौ ॥ षोंऽतकर्मणि । अधिकरणे क्तिन् । सूर्यस्य संबंधिनि युद्धे पस्पृधानेभ्यः सूर्येण सह स्पर्धमानभ्यो ऽतसाय्योऽभूत् ॥


स सु॑न्व॒त इन्द्र॒ः सूर्य॒मा दे॒वो रि॑ण॒ङ्मर्त्या॑य स्त॒वान् ।

आ यद्र॒यिं गु॒हद॑वद्यमस्मै॒ भर॒दंशं॒ नैत॑शो दश॒स्यन् ॥५

सः । सु॒न्व॒ते । इन्द्रः॑ । सूर्य॑म् । आ । दे॒वः । रि॒ण॒क् । मर्त्या॑य । स्त॒वान् ।

आ । यत् । र॒यिम् । गु॒हत्ऽअ॑वद्यम् । अ॒स्मै॒ । भर॑त् । अंश॑म् । न । एत॑शः । द॒श॒स्यन् ॥५

सः । सुन्वते । इंद्रः । सूर्यं। आ । देवः रिणक् । मर्त्याय । स्तवान् ।।

आ। यत् । रयिं । गुहत् ऽअवद्यं । अस्मै । भरत् । अंशे। न। एतशः । दशस्यन् ॥५॥

स्तवान् एतशेन स्तूयमानो देवो द्योतमानः स इंद्रः सुन्वते सोमाभिषवं कुर्वते मर्त्याय मनुष्यायैतशाय सूर्यमारिणक् । एतशेन स्पर्धमानं सूर्यं बलेनारेचयत् । तथा च निगमः । प्रैतशं सूर्ये पस्पृधानं सौवश्व्ये सुष्विमावदिंद्र इति । यद्यस्मादेतशः सौवश्व्यो राजा दशस्यन् यजमानोऽस्मा इंद्राय गुहद्वयं प्रच्छन्नावद्यं रयिं सोमरूपमभरत् । संपादयामास । तत्र दृष्टांतः । अंशं न । यथा पितांशं भागं पुत्राय भरति तद्वत् ॥ ॥२३॥


स र॑न्धयत्स॒दिव॒ः सार॑थये॒ शुष्ण॑म॒शुषं॒ कुय॑वं॒ कुत्सा॑य ।

दिवो॑दासाय नव॒तिं च॒ नवेन्द्र॒ः पुरो॒ व्यै॑र॒च्छम्ब॑रस्य ॥६

सः । र॒न्ध॒य॒त् । स॒ऽदिवः॑ । सार॑थये । शुष्ण॑म् । अ॒शुष॑म् । कुय॑वम् । कुत्सा॑य ।

दिवः॑ऽदासाय । न॒व॒तिम् । च॒ । नव॑ । इन्द्रः॑ । पुरः॑ । वि । ऐ॒र॒त् । शम्ब॑रस्य ॥६

सः । रंधयत् । सऽदिवः । सारथये । शुष्णं । अशुषं । कुयव। कुत्साय ।।

दिवःऽदासाय । नवतिं । च । नवं । इंद्रः । पुरः । वि। ऐरत् । शंबरस्य ॥६॥

सदिवो दीप्तियुक्तः स इंद्रः सारथय आत्मनः सारथ्यं कुर्वते कुत्साय राजर्षये शुष्णं । शोषयति सर्वमिति शुष्णः कश्चिदसुरः । तमशुषं न केनापि शोषणीयं । कुयवमेतन्नामानमसुर रंधयत् ॥ रध्यतिर्वशगमने ॥ वशमनयत्॥ यद्वा रध हिंसासंराद्ध्योरित्यस्य ण्यंतस्य रधिजभोरचीति नुम् ॥ अवधीत् । किंच स इंद्रो दिवोदासायैतन्नामकाय राज्ञे शंबरस्यासुरस्य नव नवतिं पुरो व्यैरत् । विदारितवान् ।


ए॒वा त॑ इन्द्रो॒चथ॑महेम श्रव॒स्या न त्मना॑ वा॒जय॑न्तः ।

अ॒श्याम॒ तत्साप्त॑माशुषा॒णा न॒नमो॒ वध॒रदे॑वस्य पी॒योः ॥७

ए॒व । ते॒ । इ॒न्द्र॒ । उ॒चथ॑म् । अ॒हे॒म॒ । श्र॒व॒स्या । न । त्मना॑ । वा॒जय॑न्तः ।

अ॒श्याम॑ । तत् । साप्त॑म् । आ॒शु॒षा॒णाः । न॒नमः॑ । वधः॑ । अदे॑वस्य । पी॒योः ॥७

एव । ते । इंद्र। उचथं । अहेम। श्रवस्या । न । त्मना । वाजयंतः ।

अश्याम। तत् । साप्तं । आशुषाणाः । ननमः। वधः । अदेवस्य । पीयोः ॥७॥

हे इंद्र श्रवस्या । सुपां सुलुगिति तृतीयायाः पूर्वसवर्णदीर्घः । अन्नेच्छया वाजयंतस्त्वां बलिनं कुर्वतः । यद्वा श्रवस्या यशःकामनया वाजयंतो ऽन्नमिच्छंतः ॥ इच्छायामपि णिच् दृश्यते । अश्वायंतो गव्यंतो वाजयंत इति क्यजंतत्वे चित्प्रातिपदिकस्यांतोदात्तत्वं स्यात् वाजयंतः शतक्रतुमिति यथा । तादृशा वयं ते तुभ्यमेवोचथं स्तोत्रं त्मना आत्मना स्वयमेव नाहेम । इदानीं प्रापयेम ॥ अहि गतौ । न संप्रत्यर्थे ॥ आशुषाणाः । अश्नोतेः कानचि व्यत्ययो बहुलमिति लिट्यपि विकरणद्वय उप्रत्ययः स च ॥ त्वामश्नुवाना वयं यदभिलषितं तत्साप्तं सप्तपुरुषसंबंधि साप्तपदीनं सख्यमश्याम। व्याप्नुयाम । अदेवस्य देवानिंद्रादीनजानतः पीयोः ॥ पीयतिहिंसाकर्मा ॥ हिंसकस्यासुरस्य वधः ॥ वध्यंते शत्रवोऽनेनेति वधरायुधं ॥ ननमः । तदधो नमय ॥ ननमः । णमु । प्रह्वत्वे । ण्यं तस्य लुङि चङि रूपं । मितां ह्रस्व इति ह्रस्वः ॥


ए॒वा ते॑ गृत्सम॒दाः शू॑र॒ मन्मा॑व॒स्यवो॒ न व॒युना॑नि तक्षुः ।

ब्र॒ह्म॒ण्यन्त॑ इन्द्र ते॒ नवी॑य॒ इष॒मूर्जं॑ सुक्षि॒तिं सु॒म्नम॑श्युः ॥८

ए॒व । ते॒ । गृ॒त्स॒ऽम॒दाः । शू॒र॒ । मन्म॑ । अ॒व॒स्यवः॑ । न । व॒युना॑नि । त॒क्षुः॒ ।

ब्र॒ह्म॒ण्यन्तः॑ । इ॒न्द्र॒ । ते॒ । नवी॑यः । इष॑म् । ऊर्ज॑म् । सु॒ऽक्षि॒तिम् । सु॒म्नम् । अ॒श्युः॒ ॥८

एव । ते । गृत्सऽमदाः। शूर। मन्म । अवस्यवः। न। वयुनानि । तक्षुः।।

ब्रह्मण्यंतः । इंद्र । ते । नवीयः । इषं । ऊर्जं। सुऽक्षितिं । सुम्नं । अश्युः ॥८॥

शूर बलवन् हे इंद्र ते तुभ्यं गृत्ममदाः । अत्र यास्कः । गृत्समदो गृत्समदनो गृत्स इति मेधाविनाम गृणातेः स्तुतिकर्मणः । नि°९.५ । इति । तथाविधा मन्म मननीयं स्तोत्रं ते तुभ्यमेव तक्षुः । ततक्षुः । चक्रुः । तत्र दृष्टांतः । अवस्यवो न ॥ अवः । गत्यर्थादवतेरमुनि रूपमव इति । अवो गमनमिच्छंतः पुमांसो वयुनानि मार्गान् यथा कुर्वंति तद्वत ! किंच नवीयः ॥ सुपां सुलुगिति षष्ट्या लुक् ॥ नवीयसो नवतरस्य ते तव ब्रह्मण्यंतः स्तोत्रं कर्तुमिच्छंतो गृत्समदाः सुक्षितिमियं शोभननिवासोपेतमन्नमूर्जं बलं सुम्नं सुखं चाश्युः । प्राप्नुयुः । एकस्मिन गृत्समदे बहुवचनं परोक्षनिर्देशश्च ॥


नू॒नं सा ते॒ प्रति॒ वरं॑ जरि॒त्रे दु॑ही॒यदि॑न्द्र॒ दक्षि॑णा म॒घोनी॑ ।

शिक्षा॑ स्तो॒तृभ्यो॒ माति॑ ध॒ग्भगो॑ नो बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑ ॥९

नू॒नम् । सा । ते॒ । प्रति॑ । वर॑म् । ज॒रि॒त्रे । दु॒ही॒यत् । इ॒न्द्र॒ । दक्षि॑णा । म॒घोनी॑ ।

शिक्ष॑ । स्तो॒तृऽभ्यः॑ । मा । अति॑ । ध॒क् । भगः॑ । नः॒ । बृ॒हत् । व॒दे॒म॒ । वि॒दथे॑ । सु॒ऽवीराः॑ ॥९

नूनं । सा । ते । प्रति । वरं । जरित्रे। दुहीयत् । इंद्र। दक्षिणा । मघोनी ।

शिक्ष । स्तोतृभ्यः। मा। अति। धक् । भगः। नः। बृहत्। वदेम विदथे । सुवीराः ॥९॥

हे इंद्र या दक्षिणा दक्षमुत्साहनं करोतीति दक्षिणा स्तोतृभ्यो देया ते त्वत्संबंधिनी मघोनी धनवत जरित्रे स्तोत्रे वरं श्रेष्ठमभिमतमर्थं नूनं प्रतिदुहीयत् । इदानीं प्रतिदोग्धि। संपादयतीत्यर्थः । तादृशीं दक्षिणां स्तोतृभ्योऽस्मभ्यं शिक्ष । प्रयच्छ । किंच भगो भजनीयस्त्वं माति धक् ॥ दहेर्दानार्थस्य लुङि मंत्रे घसेत्यादिना च्लेर्लुक् ॥ नोऽस्मानतिक्रम्यान्येभ्यो दक्षिणां मा दाः । प्रथममस्मभ्यं दत्त्वा पश्चादन्येभ्यो दीयतामित्यर्थः । यद्वा नोऽस्माकं कामान् मा धक् । मा धाक्षीः। अपेक्षितफलदानेन पूरयेत्यर्थः । सुवीराः शोभनपुत्रपौत्राः संतो वयं विदथे ऽस्मिन्यज्ञे बृहत् प्रभूतं स्तोत्रं वदेम । त्वामुद्दिश्य ब्रवाम । अत्र सा ते प्रतिदुग्धामिति प्रकृत्य वीरो वीरयत्यमित्रान् वेतेर्वा स्याद्गतिकर्मणो वीरयतेर्वेत्यंतं निरुक्तमनुसंधेयं । नि० १.७.॥॥६॥ ॥१॥

मण्डल २

सूक्तं २.१

सूक्तं २.२

सूक्तं २.३

सूक्तं २.४

सूक्तं २.५

सूक्तं २.६

सूक्तं २.७

सूक्तं २.८

सूक्तं २.९

सूक्तं २.१०

सूक्तं २.११

सूक्तं २.१२

सूक्तं २.१३

सूक्तं २.१४

सूक्तं २.१५

सूक्तं २.१६

सूक्तं २.१७

सूक्तं २.१८

सूक्तं २.१९

सूक्तं २.२०

सूक्तं २.२१

सूक्तं २.२२

सूक्तं २.२३

सूक्तं २.२४

सूक्तं २.२५

सूक्तं २.२६

सूक्तं २.२७

सूक्तं २.२८

सूक्तं २.२९

सूक्तं २.३०

सूक्तं २.३१

सूक्तं २.३२

सूक्तं २.३३

सूक्तं २.३४

सूक्तं २.३५

सूक्तं २.३६

सूक्तं २.३७

सूक्तं २.३८

सूक्तं २.३९

सूक्तं २.४०

सूक्तं २.४१

सूक्तं २.४२

सूक्तं २.४३


"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_२.१९&oldid=208757" इत्यस्माद् प्रतिप्राप्तम्