ऋग्वेदः सूक्तं २.२४

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं २.२३ ऋग्वेदः - मण्डल २
सूक्तं २.२४
गृत्समद (आङ्गिरसः शौनहोत्रः पश्चाद्) भार्गवः शौनकः
सूक्तं २.२५ →
दे. ब्रह्मणस्पतिः, १-१० बृहस्पतिः, १२ इन्द्राब्रह्मणस्पती। जगती, १२, १६ त्रिष्टुप्


सेमामविड्ढि प्रभृतिं य ईशिषेऽया विधेम नवया महा गिरा ।
यथा नो मीढ्वान्स्तवते सखा तव बृहस्पते सीषधः सोत नो मतिम् ॥१॥
यो नन्त्वान्यनमन्न्योजसोतादर्दर्मन्युना शम्बराणि वि ।
प्राच्यावयदच्युता ब्रह्मणस्पतिरा चाविशद्वसुमन्तं वि पर्वतम् ॥२॥
तद्देवानां देवतमाय कर्त्वमश्रथ्नन्दृळ्हाव्रदन्त वीळिता ।
उद्गा आजदभिनद्ब्रह्मणा वलमगूहत्तमो व्यचक्षयत्स्वः ॥३॥
अश्मास्यमवतं ब्रह्मणस्पतिर्मधुधारमभि यमोजसातृणत् ।
तमेव विश्वे पपिरे स्वर्दृशो बहु साकं सिसिचुरुत्समुद्रिणम् ॥४॥
सना ता का चिद्भुवना भवीत्वा माद्भिः शरद्भिर्दुरो वरन्त वः ।
अयतन्ता चरतो अन्यदन्यदिद्या चकार वयुना ब्रह्मणस्पतिः ॥५॥
अभिनक्षन्तो अभि ये तमानशुर्निधिं पणीनां परमं गुहा हितम् ।
ते विद्वांसः प्रतिचक्ष्यानृता पुनर्यत उ आयन्तदुदीयुराविशम् ॥६॥
ऋतावानः प्रतिचक्ष्यानृता पुनरात आ तस्थुः कवयो महस्पथः ।
ते बाहुभ्यां धमितमग्निमश्मनि नकिः षो अस्त्यरणो जहुर्हि तम् ॥७॥
ऋतज्येन क्षिप्रेण ब्रह्मणस्पतिर्यत्र वष्टि प्र तदश्नोति धन्वना ।
तस्य साध्वीरिषवो याभिरस्यति नृचक्षसो दृशये कर्णयोनयः ॥८॥
स संनयः स विनयः पुरोहितः स सुष्टुतः स युधि ब्रह्मणस्पतिः ।
चाक्ष्मो यद्वाजं भरते मती धनादित्सूर्यस्तपति तप्यतुर्वृथा ॥९॥
विभु प्रभु प्रथमं मेहनावतो बृहस्पतेः सुविदत्राणि राध्या ।
इमा सातानि वेन्यस्य वाजिनो येन जना उभये भुञ्जते विशः ॥१०॥
योऽवरे वृजने विश्वथा विभुर्महामु रण्वः शवसा ववक्षिथ ।
स देवो देवान्प्रति पप्रथे पृथु विश्वेदु ता परिभूर्ब्रह्मणस्पतिः ॥११॥
विश्वं सत्यं मघवाना युवोरिदापश्चन प्र मिनन्ति व्रतं वाम् ।
अच्छेन्द्राब्रह्मणस्पती हविर्नोऽन्नं युजेव वाजिना जिगातम् ॥१२॥
उताशिष्ठा अनु शृण्वन्ति वह्नयः सभेयो विप्रो भरते मती धना ।
वीळुद्वेषा अनु वश ऋणमाददिः स ह वाजी समिथे ब्रह्मणस्पतिः ॥१३॥
ब्रह्मणस्पतेरभवद्यथावशं सत्यो मन्युर्महि कर्मा करिष्यतः ।
यो गा उदाजत्स दिवे वि चाभजन्महीव रीतिः शवसासरत्पृथक् ॥१४॥
ब्रह्मणस्पते सुयमस्य विश्वहा रायः स्याम रथ्यो वयस्वतः ।
वीरेषु वीराँ उप पृङ्धि नस्त्वं यदीशानो ब्रह्मणा वेषि मे हवम् ॥१५॥
ब्रह्मणस्पते त्वमस्य यन्ता सूक्तस्य बोधि तनयं च जिन्व ।
विश्वं तद्भद्रं यदवन्ति देवा बृहद्वदेम विदथे सुवीराः ॥१६॥

सायणभाष्यम्

।। श्रीगणेशाय नमः ।।

यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।

निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ।।

अथ ऋषिच्छन्दोदेवताविनियोगपुरःसरं सप्तमः व्याख्यायते ।' गार्त्समदस्य द्वितीयमण्डलस्य तृतीयेऽनुवाके दश सूक्तानि । तत्रैकं सूक्तं व्याकृतम् । ' सेमाम् ' इति षोडशर्चं द्वितीयं सूक्तम् । अत्रानुक्रम्यते- सेमां षोळषान्त्या त्रिष्टुब्द्वादशी च सैन्द्री च ' इति । मण्डलद्रष्टा गृत्समद ऋषिः । द्वादशीषोडश्यौ त्रिष्टुभौ । शिष्टाश्चतुर्दश जगत्यः । ' ब्राह्मणस्पत्यं ह ' इत्युक्तत्वात् तुह्यादिपरिभाषया इदमादीनि त्रीणि सूक्तानि ब्राह्मणस्पत्यानि । अस्य सूक्तस्य द्वादशी ऐन्द्री इन्द्रदेवत्या । चशब्दात् ब्राह्मणस्पत्या च । सामान्यविनियोगः पूर्वमेवोक्तः । विशेषतस्तु लिङ्गादवगन्तव्यः ।


सेमाम॑विड्ढि॒ प्रभृ॑तिं॒ य ईशि॑षे॒ऽया वि॑धेम॒ नव॑या म॒हा गि॒रा ।

यथा॑ नो मी॒ढ्वान्स्तव॑ते॒ सखा॒ तव॒ बृह॑स्पते॒ सीष॑ध॒ः सोत नो॑ म॒तिम् ॥१

सः । इ॒माम् । अ॒वि॒ड्ढि॒ । प्रऽभृ॑तिम् । यः । ईशि॑षे । अ॒या । वि॒धे॒म॒ । नव॑या । म॒हा । गि॒रा ।

यथा॑ । नः॒ । मी॒ढ्वान् । स्तव॑ते । सखा॑ । तव॑ । बृह॑स्पते । सीस॑धः । सः । उ॒त । नः॒ । म॒तिम् ॥१

सः। इमां । अविड्ढि। प्रऽभृतिं । यः । ईशिषे । अया। विधेम । नवया। महा। गिरा।

यथा। नः । मीढ़्वान्। स्तवते। सखा। तव। बृहस्पते । सीसधः।सः। उत ।नः।मतिं ॥१॥

हे ब्रह्मणस्पते यस्त्वमीशिषे सर्वस्य जगत ईश्वरो भवसि स त्वमिमामस्मदीयां प्रभृतिं प्रकर्षेण भृतां स्तुतिमविड्ढि । प्राप्नुहि ॥ अवतेः प्राप्यर्थस्य लोट्येतद्रूपं ॥ वयं च त्वामया अनया ॥ छांदसो वर्णलोपः ॥ नवया नूतनया प्रत्यग्रया महा महत्या गिरा वेदरूपया स्तुतिलक्षणया वाचा विधेम । परिचरेम ॥ विधतिः परिचरणकर्मा ॥ उत अपि च नोऽस्माकं मध्ये मीढ़्वान् सेक्ता स्तुतेर्वर्षिता । कर्तेति यावत् । तव सखा मित्रभूतः सन् यथा येन प्रकारेण यत्कामनया स्तवते । त्वां स्तौति । हे बृहस्पते बृहतो ब्रह्मणो मंत्रस्य स्वामिन् स त्वं नोऽस्माकं मतिं तदभिमतं फलं सीषधः । साधय ॥ छांदसे लुङि चङ्येतद्रूपं । ।


यो नन्त्वा॒न्यन॑म॒न्न्योज॑सो॒ताद॑र्दर्म॒न्युना॒ शम्ब॑राणि॒ वि ।

प्राच्या॑वय॒दच्यु॑ता॒ ब्रह्म॑ण॒स्पति॒रा चावि॑श॒द्वसु॑मन्तं॒ वि पर्व॑तम् ॥२

यः । नन्त्वा॑नि । अन॑मत् । नि । ओज॑सा । उ॒त । अ॒द॒र्दः॒ । म॒न्युना॑ । शम्ब॑राणि । वि ।

प्र । अ॒च्य॒व॒य॒त् । अच्यु॑ता । ब्रह्म॑णः । पतिः॑ । आ । च॒ । अवि॑शत् । वसु॑ऽमन्तम् । वि । पर्व॑तम् ॥२

यः । नंत्वानि। अनमत्। नि। ओजसा। उत । अदर्दः । मन्युना। शंबराणि। वि।

प्र।अच्यवयत्। अच्युता। ब्रह्मणः । पतिः। आ। च।अविशत्। वसुऽमंतं।वि।पर्वतं॥२॥

यो ब्रह्मणस्पतिर्नंत्वानि नमनीयानि राक्षसादीन्योजसा बलेन न्यनमत् । नितरामनमयत् । प्रह्वीभूतान्यकरोत् । उत अपि च स ब्रह्मणस्पतिर्मन्युना मनुना क्रोधेन वा ॥ मन्युर्मन्यतेर्दीप्तिकर्मणः क्रोधकर्मणो वधकर्मणो वा । नि°१०.२९.। इति यास्कः ॥ शंबराणि । मेघनामैतत् । मेघान् व्यदर्दः । वर्षणार्थं विदारितवान् । दॄ विदारण इत्यस्माद्यङलुगंताल्लङ्येतद्रूपं ॥ तदनंतरमच्युता अच्युतानि नैश्चल्येन मेघेऽवस्थितान्युदकानि प्राच्यावयत् । प्रकर्षेणागमयत्। मेघान्निरगमयदित्यर्थः । तथा वसुमंतं गोरूपधनवंतं पर्वतं वलनाम्नासुरेण बिलद्वारे पिधानार्थ निहितं शिलोच्चयं आ च आभिमुख्येन चेत् ॥ चशब्दश्चेदर्थः । समुच्चयार्थत्वे तु चवायोगे प्रथमेति पूर्वस्याच्यावयदित्यस्याद्युदात्तत्वं स्यात् अस्य च सर्वानुदात्तत्वं । चेदर्थे तु निपातैर्यद्यदिहंतेति निघातप्रतिषेधः सिध्यति ॥ व्यविशत् । विशेषेण प्रविशति । तदानीं तद्गोरूपं धनं प्राप्नोदित्यर्थः । ।


तद्दे॒वानां॑ दे॒वत॑माय॒ कर्त्व॒मश्र॑थ्नन्दृ॒ळ्हाव्र॑दन्त वीळि॒ता ।

उद्गा आ॑ज॒दभि॑न॒द्ब्रह्म॑णा व॒लमगू॑ह॒त्तमो॒ व्य॑चक्षय॒त्स्वः॑ ॥३

तत् । दे॒वाना॑म् । दे॒वऽत॑माय । कर्त्व॑म् । अश्र॑थ्नन् । दृ॒ळ्हा । अव्र॑दन्त । वी॒ळि॒ता ।

उत् । गाः । आ॒ज॒त् । अभि॑नत् । ब्रह्म॑णा । व॒लम् । अगू॑हत् । तमः॑ । वि । अ॒च॒क्ष॒य॒त् । स्व१॒॑रिति॑ स्वः॑ ॥३

तत् । देवानां। देवऽतमाय । कर्त्वं । अश्रथ्नन् । दृळ्हा। अव्रदंत । वीळिता।

उत् । गाः । आजत्। अभिनत् । ब्रह्मणा। वलं। अगूहत् । तमः। वि। अचक्षयत् । स्व१रिति स्वः ॥३॥

देवानामिंद्रादीनां मध्ये देवतमायातिशयेन दानादिगुणयुक्ताय ॥ षष्ठ्यर्थे चतुर्थी ॥ ईदृशस्य ब्रह्मणस्पतेस्तत्कर्त्वं कर्तव्यं कर्म । किं पुनस्तदिति चेदुच्यते । दृळ्हा दृढानि पर्वतादीन्यश्रथ्नन्॥ श्रंथ विमोचनप्रतिहर्षणयोः॥ अस्य बलेन श्रथितानि विश्लिष्टान्यभवन् । तथा वीळिता संस्तंभितानि दृढीकृतानि वृक्षादीनि ॥ वीळयतिश्च व्रीळयतिश्च संस्तंभकर्माणाविति यास्कः । नि° ५. १६.॥ अव्रदंत । मृदून्यभवन्॥ व्रदतिर्मृदूभावकर्मा ॥ अपि च स ब्रह्मणस्पतिर्वलेनापहृता गा उदाजत् ॥ अज गतिक्षेपणयोः ॥ देवान्प्रत्युद्गमयत् । तथा ब्रह्मणात्मीयेन मंत्रेण वलं सर्वस्यावारकमसुरमभिनत्। मंत्रस्य सामर्थ्येनाभैत्सीत् । तदनंतरं वलेनोत्पादितं तमो ध्वांतमगूहत् ॥ गुह संवरणे ॥ गूढमदृश्यमकरोत् । तदनंतरं स्वरादित्यं व्यचक्षयत् । तमसो निराकरणेन तत्स्थमदर्शयत् ॥ चष्टिः पश्यतिकर्मा ॥


अश्मा॑स्यमव॒तं ब्रह्म॑ण॒स्पति॒र्मधु॑धारम॒भि यमोज॒सातृ॑णत् ।

तमे॒व विश्वे॑ पपिरे स्व॒र्दृशो॑ ब॒हु सा॒कं सि॑सिचु॒रुत्स॑मु॒द्रिण॑म् ॥४

अश्म॑ऽआस्यम् । अ॒व॒तम् । ब्रह्म॑णः । पतिः॑ । मधु॑ऽधारम् । अ॒भि । यम् । ओज॑सा । अतृ॑णत् ।

तम् । ए॒व । विश्वे॑ । प॒पि॒रे॒ । स्वः॒ऽदृशः॑ । ब॒हु । सा॒कम् । सि॒सि॒चुः॒ । उत्स॑म् । उ॒द्रिण॑म् ॥४

अश्मऽआस्यं । अवतं। ब्रह्मणः । पतिः । मधुऽधारं। अभि। यं । ओजसा । अतृणत् ।

तं । एव। विश्वे । पपिरे। स्वःऽदृशः । बहु । साकं । सिसिचुः। उत्सं । उद्रिणं ॥४॥

ब्रह्मणस्पतिर्ब्रह्मणो मंत्रस्य पतिः पालयिता देवोऽश्मास्यमश्मवद्दृढतरास्यं । यास्कस्त्वाह । अशनवतमास्यंदनवंतं । नि° १०. १३.। इति व्यापनवंतमासेचनवंतमिति तस्यार्थः । मधुधारं मधुर्मदयित्री उदकधारा यस्य तादृशमवतमवस्तात्ततं विस्तृतं यं मेघमोजसा बलेनाभ्यतृणत् ॥ उतृदिर् हिंसानादरयोः ॥ अहिंसीत् । वर्षणार्थमवधीदित्यर्थः । तमेव मेघं विश्वे सर्वे स्वर्दृशः । स्वरादित्यः । तस्य संबंधिनो द्रष्टारो रश्मयः पपिरे । घर्मकाले पिबंति । मेघेन वृष्टस्योदकस्य पानात्तमेव पिबंतीत्युच्यते । ते च रश्मयो वर्षासूत्समुत्सेचनवंतमुद्रिणमुदकवंतं मेघं साकं सह युगपदेव बहु सिसिचुः । घर्मकाले यत्पीतं ततोऽपि बहुतरं सहस्रगुणितं सिंचंतीत्यर्थः ।


सना॒ ता का चि॒द्भुव॑ना॒ भवी॑त्वा मा॒द्भिः श॒रद्भि॒र्दुरो॑ वरन्त वः ।

अय॑तन्ता चरतो अ॒न्यद॑न्य॒दिद्या च॒कार॑ व॒युना॒ ब्रह्म॑ण॒स्पतिः॑ ॥५

सना॑ । ता । का । चि॒त् । भुव॑ना । भवी॑त्वा । मा॒त्ऽभिः । श॒रत्ऽभिः॑ । दुरः॑ । व॒र॒न्त॒ । वः॒ ।

अय॑तन्ता । च॒र॒तः॒ । अ॒न्यत्ऽअ॑न्यत् । इत् । या । च॒कार॑ । व॒युना॑ । ब्रह्म॑णः । पतिः॑ ॥५

सना। ता। का। चित् । भुवना। भवीत्वा। मात्ऽभिः। शरत् ऽभिः । दुरः। वरंत। वः।

अयतंता। चरतः। अन्यत् ऽअन्यत् । इत्। या। चकार। वयुना। ब्रह्मणः । पतिः ॥५॥

हे ऋत्विग्यजमाना वो युष्मदर्थं सना सनातनानि ता तानि का चित् कानि चित् ब्रह्मणस्पतेः प्रज्ञानानि भुवना भुवनानां ॥ सुपां सुलुगिति षष्ठ्या लुक ॥ भुवनानामुदकानां भवीत्वा भाव्यानां दुरो द्वाराणि माद्भिर्मासैः ॥ पद्दन्नित्यादिना मासशब्दस्य मास्भावः । स्वतवस्मासोषसां च त इष्यते । पा° ७. ४. ४८. २.। इति तत्वं । शरद्भिः संवत्सरैश्च वरंत । विवृण्वंति । तत्काले वर्षणार्थं मेघद्वाराण्युद्घाटयंतीत्यर्थः । कानि पुनस्तानि । ब्रह्मणस्पतिर्या यानि वयुना ॥ ज्ञाननामैतत् ॥ ज्ञानानि मंत्रविषयाणि चकार । कृतवान् । तदनंतरमयतंता अयतमानावप्रयत्नावुभौ लोकौ द्यौश्च पृथिवी च अन्यदन्यदित् अन्यदन्यदेव पृथिवी वृष्टिजलं दिव्यमुदकं द्यौरुदककार्यं हविर्लक्षणं पार्थिवमन्नं एवं परस्परव्यतिहारेण चरतः । भुंजाते ॥ चर गतिभक्षणयोः ॥ ॥१॥


अ॒भि॒नक्ष॑न्तो अ॒भि ये तमा॑न॒शुर्नि॒धिं प॑णी॒नां प॑र॒मं गुहा॑ हि॒तम् ।

ते वि॒द्वांसः॑ प्रति॒चक्ष्यानृ॑ता॒ पुन॒र्यत॑ उ॒ आय॒न्तदुदी॑युरा॒विश॑म् ॥६

अ॒भि॒ऽनक्ष॑न्तः । अ॒भि । ये । तम् । आ॒न॒शुः । नि॒ऽधिम् । प॒णी॒नाम् । प॒र॒मम् । गुहा॑ । हि॒तम् ।

ते । वि॒द्वांसः॑ । प्र॒ति॒ऽचक्ष्य॑ । अनृ॑ता । पुनः॑ । यतः॑ । ऊं॒ इति॑ । आय॑न् । तत् । उत् । ई॒युः॒ । आ॒ऽविश॑म् ॥६

अभिऽनक्षंतः । अभि। ये। तं। आनशुः। निऽधिं । पणीनां परमं गुहा। हितं ।

ते । विद्वांसः । प्रतिऽचक्ष्य । अनृता । पुनः । यतः। ॐ इति । आयन्। तत् । उत् । ईयुः । आऽविशं ॥६॥

गोसमूहे पणिभिरसुरैरपहृते सति पणीनां स्थानं सरमाख्यया देवशुन्या ज्ञात्वा ब्रह्मणस्पतिना सृष्टा अंगिरसस्तत्स्थानं प्राप्य गोसमूहं पणिभिर्निर्मिता मायाश्च दृष्ट्वा असुरनिवासस्थानं स्वहस्तोद्भूतेनाग्निना दग्ध्वा प्रत्यागच्छन् । तदेतद्वृचेनोच्यते । अभिनक्षंतोऽभितो गच्छंतो येंऽगिरसस्तं निधिं गोसमूहरूपं निधानं धनं परममुत्कृष्टं पणीनां । तृतीयार्थे षष्ठी । पणिभिर्गुहायां निहितं स्थापितमभ्यानशुः । अभिलक्ष्यानशिरे । प्राप्तवंतः । विद्वांसो ऽभिज्ञास्तें ऽगिरसोऽनृता अनृतान्यसुरैः कृता मायाः प्रतिचक्ष्य दृष्ट्वा आविशमावेष्टुं प्रवेष्टुं यत उ यत एव स्थानादायन् आगच्छन् तत्स्थानं पुनरुदीयुः । उदगच्छन् । उत्कर्षेण प्राप्ताः ॥


ऋ॒तावा॑नः प्रति॒चक्ष्यानृ॑ता॒ पुन॒रात॒ आ त॑स्थुः क॒वयो॑ म॒हस्प॒थः ।

ते बा॒हुभ्यां॑ धमि॒तम॒ग्निमश्म॑नि॒ नकि॒ः षो अ॒स्त्यर॑णो ज॒हुर्हि तम् ॥७

ऋ॒तऽवा॑नः । प्र॒ति॒ऽचक्ष्य॑ । अनृ॑ता । पुनः॑ । आ । अतः॑ । आ । त॒स्थुः॒ । क॒वयः॑ । म॒हः । प॒थः ।

ते । बा॒हुऽभ्या॑म् । ध॒मि॒तम् । अ॒ग्निम् । अश्म॑नि । नकिः॑ । सः । अ॒स्ति॒ । अर॑णः । ज॒हुः । हि । तम् ॥७

ऋतऽवनः। प्रतिऽचक्ष्य । अनृता। पुनः। आ। अतः। आ। तस्थुः। कवयः।महः। पथः।

ते बाहुऽभ्यां। धमितं। अग्निं। अश्मनि। नकिः। सः।अस्ति।अरणः। जहुः।हि।तं ॥७॥

ऋतावानः । ऋतमिति सत्यनामधेयं । तद्वंतः कवयः क्रांतदर्शिनः सर्वज्ञा अंगिरसोऽनृता अनृतानि प्रतिचक्ष्य पूर्वोक्तप्रकारेण दृष्ट्वा अतः ऽस्मात्स्थानात् पुनराजिगमिषवो महस्पथो महतो मार्गान् प्रति आतस्थुः । अवतस्थिरे । अवतिष्ठमानाश्च ते बाहुभ्यां हस्ताभ्यां धमितं मंथनोत्पादितं प्रज्वालितमग्निमश्मनि पणीनां निवासभूते शिलोच्चये जहुर्हि । दग्धुं त्यक्तवंतः खलु । अरणोऽरमयिता दाहेन दुःखकारी सोऽग्निः पूर्वं तत्र नकिरस्ति । न विद्यते । अविद्यमानमग्निं स्वसामर्थ्यादुत्पाद्य तत्र प्रचिक्षिपुरित्यर्थः ।।


ऋ॒तज्ये॑न क्षि॒प्रेण॒ ब्रह्म॑ण॒स्पति॒र्यत्र॒ वष्टि॒ प्र तद॑श्नोति॒ धन्व॑ना ।

तस्य॑ सा॒ध्वीरिष॑वो॒ याभि॒रस्य॑ति नृ॒चक्ष॑सो दृ॒शये॒ कर्ण॑योनयः ॥८

ऋ॒तऽज्ये॑न । क्षि॒प्रेण॑ । ब्रह्म॑णः । पतिः॑ । यत्र॑ । वष्टि॑ । प्र । तत् । अ॒श्नो॒ति॒ । धन्व॑ना ।

तस्य॑ । सा॒ध्वीः । इष॑वः । याभिः॑ । अस्य॑ति । नृ॒ऽचक्ष॑सः । दृ॒शये॑ । कर्ण॑ऽयोनयः ॥८

ऋतऽज्येन। क्षिप्रेण। ब्रह्मणः । पतिः। यत्र। वष्टि। प्र। तत्। अश्नोति। धन्वना।

तस्य । साध्वीः । इषवः। याभिः। अस्यति । नृऽचक्षसः। दृशये । कर्णऽयोनयः ॥८॥

ऋतं सत्यमेव ज्या यस्य तेन क्षिप्रेणेषूणां क्षेपकेण धन्वना धरणभूतेन धनुषा ब्रह्मणस्पतिर्ब्रह्मणो मंत्रस्य पालयिता देवो यत्र यस्मिन्विषये वष्टि कामयते तत्प्राप्नोति । प्रकर्षेण व्याप्नोति ॥ अश्नोतेर्व्यत्ययेन परस्मैपदं ॥ तस्य धनुषः साध्वीः साधिकास्ता इषवो भवंति याभिरिषुभिर्ब्रह्मणस्पतिरस्यति। राक्षसादीन् क्षिपति । कीदृश्यस्ताः । नृचक्षसो नॄन् पश्यतः । उपलक्षणमेतत् । सर्वज्ञस्य ब्रह्मणस्पतेर्दृशये दर्शनाय ज्ञानाय जाताः कर्णयोनयः श्रोत्रेंद्रियेण ग्राह्या मंत्रभूता आकर्णकृष्टा वा बाणाः । ब्रह्मणस्पतिर्मंत्रैरेव सर्वं साधयतीति भावः ।


स सं॑न॒यः स वि॑न॒यः पु॒रोहि॑त॒ः स सुष्टु॑त॒ः स यु॒धि ब्रह्म॑ण॒स्पतिः॑ ।

चा॒क्ष्मो यद्वाजं॒ भर॑ते म॒ती धनादित्सूर्य॑स्तपति तप्य॒तुर्वृथा॑ ॥९

सः । स॒म्ऽन॒यः । सः । वि॒ऽन॒यः । पु॒रःऽहि॑तः । सः । सुऽस्तु॑तः । सः । यु॒धि । ब्रह्म॑णः । पतिः॑ ।

चा॒क्ष्मः । यत् । वाज॑म् । भर॑ते । म॒ती । धना॑ । आत् । इत् । सूर्यः॑ । त॒प॒ति॒ । त॒प्य॒तुः । वृथा॑ ॥९

सः। संऽनयः। सः। विऽनयः। पुरःऽहितः। सः। सुऽस्तुतः । सः। युधि। ब्रह्मणः। पतिः ।

चाश्मः। यत्। वाजं।भरते। मती।धन। आत्। इत्। सूर्यः। तपति। तप्यतुः। वृथा॥९॥

पुरोहितो देवैः पुरतोऽत्र स्थापितः स ब्रह्मणस्पतिः संनयः विश्लिष्टानां मंत्रैः संगमयिता भवति । विनयः संगतानां विविधं नेता पृथक्कर्तापि स एव । तथा सुष्टुतः शोभनं स्तोतृभिः स्तुतश्च भवति । तथा युधि संग्रामे स स्तोतॄणामनुग्रहाय प्रादुर्भवतीति शेषः । यद्यदा चाक्ष्मः ॥ चष्टेः क्षमतेर्वा ॥ सर्वस्य द्रष्टा सर्वसहो वा ब्रह्मणस्पतिर्वाजमन्नं मती मननीयं प्रशस्तं धना धनं च स्तोतॄणामर्थाय भरते । बिभर्ति । वृष्टिद्वारा पोषयति । आदित् अनंतरमेव तप्यतुस्तापकः सूर्यो वृथा । अनायासवचनमेतत् । अनायासेन तपति । दीप्यते । ब्रह्मणस्पतिना दत्तैरन्नैर्धनैश्च यज्ञस्य सिद्धत्वात् स्वयं केवलं हवींषि भुंजान एव वर्तत इत्यर्थः ॥


वि॒भु प्र॒भु प्र॑थ॒मं मे॒हना॑वतो॒ बृह॒स्पतेः॑ सुवि॒दत्रा॑णि॒ राध्या॑ ।

इ॒मा सा॒तानि॑ वे॒न्यस्य॑ वा॒जिनो॒ येन॒ जना॑ उ॒भये॑ भुञ्ज॒ते विशः॑ ॥१०

वि॒ऽभु । प्र॒ऽभु । प्र॒थ॒मम् । मे॒हना॑ऽवतः । बृह॒स्पतेः॑ । सु॒ऽवि॒दत्रा॑णि । राध्या॑ ।

इ॒मा । सा॒तानि॑ । वे॒न्यस्य॑ । वा॒जिनः॑ । येन॑ । जनाः॑ । उ॒भये॑ । भु॒ञ्ज॒ते । विशः॑ ॥१०

विऽभु । प्रऽभु । प्रथमं। मेहनाऽवतः । बृहस्पतेः। सुऽविदत्राणि । राध्या ।

इमा। सातानि । वेन्यस्य। वाजिनः । येन । जनाः । उभये । भुंजते । विशः ॥१०॥

विभु विभूनि व्याप्तानि प्रभु प्रभूणि प्रौढानि प्रथमं प्रथमानि मुख्यानि। एवंभूतानि मेहनावतो वर्षणवतो वृष्टिप्रदस्य बृहस्पतेर्बृहतो मंत्रस्य पालयितुः संबंधीनि सुविदत्राणि ॥ विद्लृ लाभे । सुविदेः कत्रन् । उ° ३. १७८/३८८. ॥ सुष्ठु लब्धव्यानि ॥ सुविदत्रं धनं भवतीति यास्कः ॥ राध्या राध्यानि सम्यक् साधनीयानि । प्राप्तव्यानीति यावत् । इमा सातानीमानि धनानि वेन्यस्य कमनीयस्य वाजिनोऽन्नवतो ब्रह्मणस्पतेः ॥ तृतीयार्थे षष्ठी । ब्रह्मणस्पतिना दत्तानि । येन धनेनोभय उभयविधा जनाः स्तोतारो यजमानाश्च देवा मनुष्याश्च वा विशो निविष्टाः संतो भुंजते । भोगान् लभंते । तत्सर्वं ब्रह्मणस्पतिना दत्तमित्यर्थः ॥ ॥ २ ॥


योऽव॑रे वृ॒जने॑ वि॒श्वथा॑ वि॒भुर्म॒हामु॑ र॒ण्वः शव॑सा व॒वक्षि॑थ ।

स दे॒वो दे॒वान्प्रति॑ पप्रथे पृ॒थु विश्वेदु॒ ता प॑रि॒भूर्ब्रह्म॑ण॒स्पतिः॑ ॥११

यः । अव॑रे । वृ॒जने॑ । वि॒श्वऽथा॑ । वि॒ऽभुः । म॒हाम् । ऊं॒ इति॑ । र॒ण्वः । शव॑सा । व॒वक्षि॑थ ।

सः । दे॒वः । दे॒वान् । प्रति॑ । प॒प्र॒थे॒ । पृ॒थु । विश्वा॑ । इत् । ऊं॒ इति॑ । ता । प॒रि॒ऽभूः । ब्रह्म॑णः । पतिः॑ ॥११

यः। अवरे। वृजने।विश्वऽथा। विऽभुः। महां। ऊं इति । रण्वः । शवसा । ववक्षिथ ।

सः । देवः । देवान् । प्रति । पप्रथे। पृथु । विश्वा । इत्। ऊं इति। ता । परिऽभूः । ब्रह्मणः । पतिः ॥११॥

विश्वथा सर्वप्रकारेण विभुर्व्याप्तो रण्वो रमयिता स्तोतव्यो वा यो ब्रह्मणस्पतिरवरे निकृष्टे वृजने वर्जनहेतुभूते बले वर्तमानं । दुर्बलमिति यावत् । महामु महांतं च ॥ छांदसो वर्णलोपः ॥ उभयविधं स्तोतारं शवसात्मीयेन बलेन ववक्षिथ । वोढुमिच्छति । सर्वदा वहतीति यावत् । वहतेः सनंतस्य लिट्येतद्रूपं । पुरुषव्यत्ययः ॥ स देवो दानादिगुणयुक्तो देवान् प्रति सर्वेषां देवानां प्रतिनिधिः सन् पृथु पप्रथे । अत्यंतं प्रथते । यशसा विस्तीर्णो भवतीति यावत् । यस्मादेवं तस्माद्विश्वेदु सर्वाण्येव ता तानि सर्वाणि भूतजातानि परिभूः परिभवन् अभिभवन् वर्तत इति शेषः ।


विश्वं॑ स॒त्यं म॑घवाना यु॒वोरिदाप॑श्च॒न प्र मि॑नन्ति व्र॒तं वा॑म् ।

अच्छे॑न्द्राब्रह्मणस्पती ह॒विर्नोऽन्नं॒ युजे॑व वा॒जिना॑ जिगातम् ॥१२

विश्व॑म् । स॒त्यम् । म॒घ॒ऽवा॒ना॒ । यु॒वोः । इत् । आपः॑ । च॒न । प्र । मि॒न॒न्ति॒ । व्र॒तम् । वा॒म् ।

अच्छ॑ । इ॒न्द्रा॒ब्र॒ह्म॒ण॒स्प॒ती॒ इति॑ । ह॒विः । नः॒ । अन्न॑म् । युजा॑ऽइव । वा॒जिना॑ । जि॒गा॒त॒म् ॥१२

विश्वं । सत्यं । मघऽवाना। युवोः। इत् । आपः । चन । प्र। मिनंति। व्रतं । वां।

अच्छ। इंद्राब्रह्मणस्पती इति । हविः। नः।अन्नं । युजाऽइव। वाजिना।जिगातं ॥१२॥

हे मघवाना । मघमिति धननाम । तद्वंताविंद्राब्रह्मणस्पती युवोरित् युवयोरेव विश्वं सर्वं स्तोत्रं सत्यं यथार्थं । स्तुत्या यद्यद्गुणजातं प्रतिपाद्यते तत्सर्वं युवयोर्विद्यमानमेव न त्वारोपितमित्यर्थः । तथा चनेत्येतत्पदद्वयसमुदायः । ऐकपद्यं त्वध्यापकसांप्रदायिकं यद्येव शब्दस्य पूर्वपदे न । आपश्च आपोऽपि । उपलक्षणमेतत् । एतदुपलक्षितानि सर्वाण्यपि भूतानि वां युवयोर्वृतं कर्म न प्रमिनंति । न हिंसंति ॥ मीङ् हिंसायां क्रैयादिकः । मीनातेर्निगम इति ह्रस्वत्वं ॥ हे इंद्राब्रह्मणस्पती नोऽस्माकं हविरच्छाभिमुख्येन जिगातं । गच्छतं । आगच्छतमिति यावत् । जिगातिर्गतिकर्मा । जौहोत्यादिकः । तत्र दृष्टांतः। युजेव वाजिना । युजा रथे नियुक्तौ वाजिनौ वेजनवंतावश्वावन्नं घासं प्रति यथा स्वयमेव शीघ्रं गच्छतस्तद्वत् शीघ्रमागच्छतमित्यर्थः । युजेवेत्यत्र सुपां सुलुगिति प्रथमाद्विवचनस्याकारः । तृतीयायां हि सावेकाच इति विभक्तेरुदात्तत्वं ॥


उ॒ताशि॑ष्ठा॒ अनु॑ शृण्वन्ति॒ वह्न॑यः स॒भेयो॒ विप्रो॑ भरते म॒ती धना॑ ।

वी॒ळु॒द्वेषा॒ अनु॒ वश॑ ऋ॒णमा॑द॒दिः स ह॑ वा॒जी स॑मि॒थे ब्रह्म॑ण॒स्पतिः॑ ॥१३

उ॒त । आशि॑ष्ठाः । अनु॑ । शृ॒ण्व॒न्ति॒ । वह्न॑यः । स॒भेयः॑ । विप्रः॑ । भ॒र॒ते॒ । म॒ती । धना॑ ।

वी॒ळु॒ऽद्वेषाः॑ । अनु॑ । वशा॑ । ऋ॒णम् । आ॒ऽद॒दिः । सः । ह॒ । वा॒जी । स॒म्ऽइ॒थे । ब्रह्म॑णः । पतिः॑ ॥१३

उत । आशिष्ठाः। अनु। शृण्वंति । वह्नयः । सभेयः । विप्रः । भरते । मती। धना।

वीळुऽद्वेषाः । अनु । वशा। ऋणं । आऽददिः। सः ।ह । वाजी। संऽइथे। ब्रह्मणः । पतिः ॥१३॥

उत अपि च आशिष्ठा आशुतराः शीघ्रगामिनो वह्नयः ॥ अश्वनामैतत् ॥ वोढारो ब्रह्मणस्पतेरश्वा अनु शृण्वंति । अस्माभिः कृतं स्तोत्रमनुक्रमेण शृण्वंति । यद्वा ब्रह्मणस्पतिना कृतमनुशासनं शृण्वंति । अतस्ते तमस्मदीयं यज्ञं प्रापयंत्विति शेषः । सभेयः सभायां साधुः ॥ ढश्छंदसीति ढः॥ विप्रो मेधावी अध्वर्युर्होता वा मती मत्या मननीयेन स्तोत्रेण ॥ सुपां सुलुगिति पूर्वसवर्णदीर्घः ॥ धना हविर्लक्षणानि धनानि तस्मै ब्रह्मणस्पतये भरते । बिभर्ति । संपादयतीति यावत् । यद्वा स्तोत्रेण धनानि भरते । बिभर्ति पोषयति । अतो वीळुद्वेषाः । वीळून् दृढान् प्रबलान् राक्षसादीन् द्वेष्टीति तादृशो ब्रह्मणस्पतिर्वशा वशाया गोः ॥ सुपां सुलुगिति षष्ठ्या लुक् । ऋत्यक इति प्रकृतिभावः ॥ ऋणमस्माभिर्यज्वभिः प्रदेयमवदानात्मकमनुक्रमेणाददिरादाता भवत्विति शेषः । अवदानस्य ऋणत्वं च तैत्तिरीये त्रिभिर्ऋणवा जायते ब्रह्मचर्येण ऋषिभ्यः ।६.३.१०.५.। इत्यादिना स्पष्टमाम्नातं । यद्वा अनुरानुगुण्ये । वशा वशस्य कामस्याभिलाषस्यानुगुणमादाता भवत्विति योज्यं । हशब्दः प्रसिद्धौ । स खलु ब्रह्मणस्पतिः समिथे । संयंति संगच्छंतेऽस्मिन्नाहुतिभिर्देवा इति समिथो यज्ञः । तस्मिन्वाजी अन्नवान् । तस्माद्धविष आदाता भवत्वित्यर्थः । ।


ब्रह्म॑ण॒स्पते॑रभवद्यथाव॒शं स॒त्यो म॒न्युर्महि॒ कर्मा॑ करिष्य॒तः ।

यो गा उ॒दाज॒त्स दि॒वे वि चा॑भजन्म॒हीव॑ री॒तिः शव॑सासर॒त्पृथ॑क् ॥१४

ब्रह्म॑णः । पतेः॑ । अ॒भ॒व॒त् । य॒था॒ऽव॒शम् । स॒त्यः । म॒न्युः । महि॑ । कर्म॑ । क॒रि॒ष्य॒तः ।

यः । गाः । उ॒त्ऽआज॑त् । सः । दि॒वे । वि । च॒ । अ॒भ॒ज॒त् । म॒हीऽइ॑व । री॒तिः । शव॑सा । अ॒स॒र॒त् । पृथ॑क् ॥१४

ब्रह्मणः । पतेः । अभवत् । यथाऽवशं । सत्यः। मन्युः । महि। कर्म। करिष्यतः ।

यः । गाः । उत्ऽआजत् । सः । दिवे । वि। च। अभजत् । महीऽइव । रीतिः । शवसा । असरत् । पृथक् ॥ १४॥

महि महत्कर्म करिष्यतो ब्रह्मणस्पतेर्मन्युर्मननसाधनो मंत्रः क्रोधो वा यथावशं यथाकामं सत्योऽवितथो ऽभवत् । स यथा कामयते तथा करोतीत्यर्थः । यो ब्रह्मणस्पतिः पणिभिरपहृता गा उदाजत् । उदगमयत् गुहाया निरगमयदित्यर्थः । स ब्रह्मणस्पतिर्दिवे द्युलोकाय तत्रत्येभ्यो देवेभ्य इत्यर्थः । व्यभजच्च । ता गा विभक्ताश्चाकरोत् । स च गोसमूहो महीव रीतिः । महती स्रुतिरिव ॥ रीङ स्रवणे । यथा गंगादीनां स्रोतो विभक्तं सत् निम्नदेशाभिमुखं प्रसरति तथा शवसात्मीयेन बलेन तत्तद्देवगृहं पृथक् विभिन्नोऽसरत् । अगच्छत ॥


ब्रह्म॑णस्पते सु॒यम॑स्य वि॒श्वहा॑ रा॒यः स्या॑म र॒थ्यो॒३॒॑ वय॑स्वतः ।

वी॒रेषु॑ वी॒राँ उप॑ पृङ्धि न॒स्त्वं यदीशा॑नो॒ ब्रह्म॑णा॒ वेषि॑ मे॒ हव॑म् ॥१५

ब्रह्म॑णः । प॒ते॒ । सु॒ऽयम॑स्य । वि॒श्वहा॑ । रा॒यः । स्या॒म॒ । र॒थ्यः॑ । वय॑स्वतः ।

वी॒रेषु॑ । वी॒रान् । उप॑ । पृ॒ङ्धि॒ । नः॒ । त्वम् । यत् । ईशा॑नः । ब्रह्म॑णा । वेषि॑ । मे॒ । हव॑म् ॥१५

ब्रह्मणः । पते । सुऽयमस्य । विश्वहा। रायः । स्याम । रथ्यः। वयस्वतः ।

वीरेषु । वीरान्। उप। पृङ्धि। नः । त्वं । यत् । ईशानः । ब्रह्मणा। वेषि। मे। हवं ॥१५॥

हे ब्रह्मणस्पते मंत्राधिपते सुयमस्य सुष्ठु नियंतव्यस्य वयस्वतो ऽन्नयुक्तस्य रायो धनस्य विश्वहा विश्वेषु सर्वेष्वहःसु रथ्योऽधिपतयः स्याम । भूयास्म । रथा एषां संतीति रथ्यः ॥ छंदसीवनिपाविति मत्वर्थीय ईकारः॥ अपि च नोऽस्माकं वीरेषु वीर्याज्जातेष्वस्मदीयेषु पुत्रेषु वीरान् पुत्रान् त्वमुप पृङ्धि। संपृक्तान् कुरु । उत्पादय ॥ पृची संपर्के । रौधादिकं । वयं पौत्रानपि लभेमहीति यावत् । ईशानः सर्वस्येश्वरस्त्वं ब्रह्मणा ॥ अन्ननामैतत् ॥ हविर्लक्षणेनान्नेन सह मे हवं मदीयं स्तुतिलक्षणमाह्वानं वेषि । कामयसे ॥ वी गतिप्रजननकांत्यसनखादनेषु ॥ अतो मयोक्तं कुर्वित्यर्थः ।।


ब्रह्म॑णस्पते॒ त्वम॒स्य य॒न्ता सू॒क्तस्य॑ बोधि॒ तन॑यं च जिन्व ।

विश्वं॒ तद्भ॒द्रं यदव॑न्ति दे॒वा बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑ ॥१६

ब्रह्म॑णः । प॒ते॒ । त्वम् । अ॒स्य । य॒न्ता । सु॒ऽउ॒क्तस्य॑ । बो॒धि॒ । तन॑यम् । च॒ । जि॒न्व॒ ।

विश्व॑म् । तत् । भ॒द्रम् । यत् । अव॑न्ति । दे॒वाः । बृ॒हत् । व॒दे॒म॒ । वि॒दथे॑ । सु॒ऽवीराः॑ ॥१६

ब्रह्मणः । पते । त्वं । अस्य । यंता । सुऽउक्तस्यं । बोधि । तनयं । च। जिन्व ।

विश्वं । तत् । भद्रं । यत् । अवंति । देवाः । बृहत् । वदेम विदथे । सुऽवीराः ॥१६॥

हे ब्रह्मणस्पते यन्ता सर्वस्य जगतो नियन्ता त्वमस्य सूक्तस्य इदं सूक्तम् ।। ' क्रियाग्रहणं कर्तव्यम् ' इति कर्मणः संप्रदानत्वात् चतुर्थ्यर्थे षष्ठी । । बोधि बुध्यस्व । बुद्ध्वा तनयं पुत्रं च अस्मभ्यं जिन्व प्रेरय । । जिविः प्रीणनार्थोऽत्र प्रेरणे वर्तते धातूनामनेकार्थत्वात् । । यत् भद्रं कल्याणं देवाः सर्वे अवन्ति रक्षन्ति विश्वं सर्वं तत् भद्रं च जिन्वेति शेषः । वयं च सुवीराः शोभनैर्वीरैः पुत्रपौत्रादिभिरुपेताः सन्तः बृहत् प्रौढं स्तोत्रं विदथे । विदन्ति यष्टव्यतया अस्मिन् देवान् जानन्तीति विदथो यज्ञः । तस्मिन् वदेम ब्रवाम ।। ।। ३ ।।


मण्डल २

सूक्तं २.१

सूक्तं २.२

सूक्तं २.३

सूक्तं २.४

सूक्तं २.५

सूक्तं २.६

सूक्तं २.७

सूक्तं २.८

सूक्तं २.९

सूक्तं २.१०

सूक्तं २.११

सूक्तं २.१२

सूक्तं २.१३

सूक्तं २.१४

सूक्तं २.१५

सूक्तं २.१६

सूक्तं २.१७

सूक्तं २.१८

सूक्तं २.१९

सूक्तं २.२०

सूक्तं २.२१

सूक्तं २.२२

सूक्तं २.२३

सूक्तं २.२४

सूक्तं २.२५

सूक्तं २.२६

सूक्तं २.२७

सूक्तं २.२८

सूक्तं २.२९

सूक्तं २.३०

सूक्तं २.३१

सूक्तं २.३२

सूक्तं २.३३

सूक्तं २.३४

सूक्तं २.३५

सूक्तं २.३६

सूक्तं २.३७

सूक्तं २.३८

सूक्तं २.३९

सूक्तं २.४०

सूक्तं २.४१

सूक्तं २.४२

सूक्तं २.४३


"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_२.२४&oldid=208784" इत्यस्माद् पुनः प्राप्तिः