ऋग्वेदः सूक्तं २.२३

विकिस्रोतः तः
(ऋग्वेद: सूक्तं २.२३ इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
← सूक्तं २.२२ ऋग्वेदः - मण्डल २
सूक्तं २.२३
गृत्समद (आङ्गिरसः शौनहोत्रः पश्चाद्) भार्गवः शौनकः
सूक्तं २.२४ →
दे. बृहस्पतिः, १, ५, ९, ११, १७, १९ ब्रह्मणस्पतिः। जगती, १५, १९ त्रिष्टुप्


गणानां त्वा गणपतिं हवामहे कविं कवीनामुपमश्रवस्तमम् ।
ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पत आ नः शृण्वन्नूतिभिः सीद सादनम् ॥१॥
देवाश्चित्ते असुर्य प्रचेतसो बृहस्पते यज्ञियं भागमानशुः ।
उस्रा इव सूर्यो ज्योतिषा महो विश्वेषामिज्जनिता ब्रह्मणामसि ॥२॥
आ विबाध्या परिरापस्तमांसि च ज्योतिष्मन्तं रथमृतस्य तिष्ठसि ।
बृहस्पते भीमममित्रदम्भनं रक्षोहणं गोत्रभिदं स्वर्विदम् ॥३॥
सुनीतिभिर्नयसि त्रायसे जनं यस्तुभ्यं दाशान्न तमंहो अश्नवत् ।
ब्रह्मद्विषस्तपनो मन्युमीरसि बृहस्पते महि तत्ते महित्वनम् ॥४॥
न तमंहो न दुरितं कुतश्चन नारातयस्तितिरुर्न द्वयाविनः ।
विश्वा इदस्माद्ध्वरसो वि बाधसे यं सुगोपा रक्षसि ब्रह्मणस्पते ॥५॥
त्वं नो गोपाः पथिकृद्विचक्षणस्तव व्रताय मतिभिर्जरामहे ।
बृहस्पते यो नो अभि ह्वरो दधे स्वा तं मर्मर्तु दुच्छुना हरस्वती ॥६॥
उत वा यो नो मर्चयादनागसोऽरातीवा मर्तः सानुको वृकः ।
बृहस्पते अप तं वर्तया पथः सुगं नो अस्यै देववीतये कृधि ॥७॥
त्रातारं त्वा तनूनां हवामहेऽवस्पर्तरधिवक्तारमस्मयुम् ।
बृहस्पते देवनिदो नि बर्हय मा दुरेवा उत्तरं सुम्नमुन्नशन् ॥८॥
त्वया वयं सुवृधा ब्रह्मणस्पते स्पार्हा वसु मनुष्या ददीमहि ।
या नो दूरे तळितो या अरातयोऽभि सन्ति जम्भया ता अनप्नसः ॥९॥
त्वया वयमुत्तमं धीमहे वयो बृहस्पते पप्रिणा सस्निना युजा ।
मा नो दुःशंसो अभिदिप्सुरीशत प्र सुशंसा मतिभिस्तारिषीमहि ॥१०॥
अनानुदो वृषभो जग्मिराहवं निष्टप्ता शत्रुं पृतनासु सासहिः ।
असि सत्य ऋणया ब्रह्मणस्पत उग्रस्य चिद्दमिता वीळुहर्षिणः ॥११॥
अदेवेन मनसा यो रिषण्यति शासामुग्रो मन्यमानो जिघांसति ।
बृहस्पते मा प्रणक्तस्य नो वधो नि कर्म मन्युं दुरेवस्य शर्धतः ॥१२॥
भरेषु हव्यो नमसोपसद्यो गन्ता वाजेषु सनिता धनंधनम् ।
विश्वा इदर्यो अभिदिप्स्वो मृधो बृहस्पतिर्वि ववर्हा रथाँ इव ॥१३॥
तेजिष्ठया तपनी रक्षसस्तप ये त्वा निदे दधिरे दृष्टवीर्यम् ।
आविस्तत्कृष्व यदसत्त उक्थ्यं बृहस्पते वि परिरापो अर्दय ॥१४॥
बृहस्पते अति यदर्यो अर्हाद्द्युमद्विभाति क्रतुमज्जनेषु ।
यद्दीदयच्छवस ऋतप्रजात तदस्मासु द्रविणं धेहि चित्रम् ॥१५॥
मा न स्तेनेभ्यो ये अभि द्रुहस्पदे निरामिणो रिपवोऽन्नेषु जागृधुः ।
आ देवानामोहते वि व्रयो हृदि बृहस्पते न परः साम्नो विदुः ॥१६॥
विश्वेभ्यो हि त्वा भुवनेभ्यस्परि त्वष्टाजनत्साम्नःसाम्नः कविः ।
स ऋणचिदृणया ब्रह्मणस्पतिर्द्रुहो हन्ता मह ऋतस्य धर्तरि ॥१७॥
तव श्रिये व्यजिहीत पर्वतो गवां गोत्रमुदसृजो यदङ्गिरः ।
इन्द्रेण युजा तमसा परीवृतं बृहस्पते निरपामौब्जो अर्णवम् ॥१८॥
ब्रह्मणस्पते त्वमस्य यन्ता सूक्तस्य बोधि तनयं च जिन्व ।
विश्वं तद्भद्रं यदवन्ति देवा बृहद्वदेम विदथे सुवीराः ॥१९॥


सायणभाष्यम्

तृतीयेऽनुवाके दश सूक्तानि। तत्रेदमेकोनविंशत्यृचं गार्त्समदं प्रथम सूक्तम् । अत्रेयमणुक्रमणिका- ' गणानामेकोना ब्राह्मणस्पत्यं ह बार्हस्पत्यास्तु दृष्टलिङ्गाः पञ्चदश्यन्त्ये त्रिष्टुभौ ' इति । पञ्चदश्येकोनविंशी च त्रिष्टुभौ । शिष्टा जगत्यः । यासु बृहस्पतिशब्दः श्रूयते ता बार्हस्पत्याः । शिष्टा ब्राह्मणस्पत्याः ।। प्रवर्ग्ये अभिष्टवे एतत्सूक्तम् । ' स्पृष्ट्वोदकम् ' इति खण्डे सूत्रितं-- ' गणानां त्वा प्रथश्च यस्य ' ( आश्व. श्रौ. ४. ६) इति ।।


ग॒णानां॑ त्वा ग॒णप॑तिं हवामहे क॒विं क॑वी॒नामु॑प॒मश्र॑वस्तमम् ।

ज्ये॒ष्ठ॒राजं॒ ब्रह्म॑णां ब्रह्मणस्पत॒ आ नः॑ शृ॒ण्वन्नू॒तिभिः॑ सीद॒ साद॑नम् ॥१

ग॒णाना॑म् । त्वा॒ । ग॒णऽप॑तिम् । ह॒वा॒म॒हे॒ । क॒विम् । क॒वी॒नाम् । उ॒प॒मश्र॑वःऽतमम् ।

ज्ये॒ष्ठ॒ऽराज॑म् । ब्रह्म॑णाम् । ब्र॒ह्म॒णः॒ । प॒ते॒ । आ । नः॒ । शृ॒ण्वन् । ऊ॒तिऽभिः॑ । सी॒द॒ । सद॑नम् ॥१

गणानां । त्वा । गणऽपतिं । हवामहे । कविं । कवीनां । उपमश्रवःऽतमं ।

ज्येष्ठऽराजं। ब्रह्मणां। ब्रह्मणः। पते। आ। नः। शृण्वन्। ऊतिऽभिः। सीद। सदनं ॥१॥

हे ब्रह्मणस्पते ब्रह्मणोऽन्नस्य परिवृढस्य कर्मणो वा पते पालयितः गणानां देवादिगणानां संबंधिनं गणपतिं स्वीयानां पतिं । कवीनां क्रांतदर्शिनां कविं । उपमश्रवस्तमं । उपमीयतेऽनयेत्युपमा । सर्वेषामन्नानामुपमानं श्रवोऽन्नं यस्य स तथोक्तः । अतिशयेनोपमश्रवा उपमश्रवस्तमः ॥ उपमः माङ् माने। आतश्चोपसर्गे करणेऽङ्प्रत्ययः । ङ्यापोः संज्ञाछंदसोरिति ह्रस्वत्वं ॥ ज्येष्ठराजं । ज्येष्ठाः प्रशस्यतमाः । तेषां मध्ये राजंतं ब्रह्मणां मंत्राणां स्वामिनं त्वा त्वां हवामहे । अस्मिन्कर्मण्याह्वयामः । किंच नोऽस्माकं स्तुतीः शृण्वन् त्वमूतिभिः। पालनैर्हेतुभूतैः सादनं । सीदंत्यस्मिन्निति सदनं । यज्ञगृहमासीद । उपविश ॥


दे॒वाश्चि॑त्ते असुर्य॒ प्रचे॑तसो॒ बृह॑स्पते य॒ज्ञियं॑ भा॒गमा॑नशुः ।

उ॒स्रा इ॑व॒ सूर्यो॒ ज्योति॑षा म॒हो विश्वे॑षा॒मिज्ज॑नि॒ता ब्रह्म॑णामसि ॥२

दे॒वाः । चि॒त् । ते॒ । अ॒सु॒र्य॒ । प्रऽचे॑तसः । बृह॑स्पते । य॒ज्ञिय॑म् । भा॒गम् । आ॒न॒शुः॒ ।

उ॒स्राःऽइ॑व । सूर्यः॑ । ज्योति॑षा । म॒हः । विश्वे॑षाम् । इत् । ज॒नि॒ता । ब्रह्म॑णाम् । अ॒सि॒ ॥२

देवाः। चित् । ते । असुर्य। प्रऽचेतसः । बृहस्पते । यज्ञियं । भागं । आनशुः ।

उस्राःऽइव । सूर्यः। ज्योतिषा। महः। विश्वेषां। इत् । जनिता। ब्रह्मणां । असि ॥२॥

असुर्य असुराणां हंतः हे बृहस्पते प्रचेतसः प्रकृष्टज्ञानास्ते त्वदीया देवाश्चित् देवा अपि यज्ञियं यज्ञार्हं भागमानशुः । प्राप्नुवन् । यद्वा प्रचेतस इति बृहस्पतेर्विशेषणं । प्रकृष्टज्ञानवतस्ते तव संबंधिनो देवा इति योजनीयं । यद्वा प्रचेतसः । विभक्तिपरिणामः । प्रचेतसि त्वयि सति देवा यज्ञियं भागमानशिरे । कर्मविघ्नकारिणामसुराणां रक्षोघ्नमंत्रैरपाकरणात् । न वै ब्रह्मण्वद्रिष्यति । ऐ° ब्रा° १. १३.। इति श्रवणात् । ज्योतिषा तेजसा महो मंहनीयः सूर्य उस्रा इव । उस्राः किरणाः ॥ स्फायितंचीत्यादिना रक्प्रत्ययः ॥ यथा किरणान् जनयति तथा विश्वेषां सर्वेषां ब्रह्मणां मंत्राणां जनिता जनयितैवासि ॥ जनिता मंत्र इति निपातनाणिलोपः ॥


आ वि॒बाध्या॑ परि॒राप॒स्तमां॑सि च॒ ज्योति॑ष्मन्तं॒ रथ॑मृ॒तस्य॑ तिष्ठसि ।

बृह॑स्पते भी॒मम॑मित्र॒दम्भ॑नं रक्षो॒हणं॑ गोत्र॒भिदं॑ स्व॒र्विद॑म् ॥३

आ । वि॒ऽबाध्य॑ । प॒रि॒ऽरपः॑ । तमां॑सि । च॒ । ज्योति॑ष्मन्त॑म् । रथ॑म् । ऋ॒तस्य॑ । ति॒ष्ठ॒सि॒ ।

बृह॑स्पते । भी॒मम् । अ॒मि॒त्र॒ऽदम्भ॑नम् । र॒क्षः॒ऽहन॑म् । गो॒त्र॒ऽभिद॑म् । स्वः॒ऽविद॑म् ॥३

आ। विऽबाध्य । परिऽरपः। तमांसि । च । ज्योतिष्मंतं । रथं। ऋतस्य । तिष्ठसि ।

बृहस्पते । भीमं । अमित्रऽदंभनं । रक्षःऽहनं। गोत्रऽभिदं । स्वःऽविदं ॥३॥

हे बृहस्पते परिरपः । परितो रपः पापरूपं रक्षः ॥ यद्वा रप लप व्यक्तायां वाचि । क्विप् ॥ परिवदतो निंदकान् तमांसि च विबाध्य तेजसा निराकृत्य ज्योतिष्मंतं ज्योतिषा तद्वंतमृतस्य यज्ञस्य प्रापकं भीमं शत्रूणां भयंकरममित्रदंभनं शत्रूणां हिंसकं । तदेवाह रक्षोहणं रक्षसां हंतारं गोत्रभिदं मेघानां भेत्तारं स्वर्विदं स्वर्गस्य लंभकं रथमातिष्ठसि । अधितिष्ठसि ॥ ।


सु॒नी॒तिभि॑र्नयसि॒ त्राय॑से॒ जनं॒ यस्तुभ्यं॒ दाशा॒न्न तमंहो॑ अश्नवत् ।

ब्र॒ह्म॒द्विष॒स्तप॑नो मन्यु॒मीर॑सि॒ बृह॑स्पते॒ महि॒ तत्ते॑ महित्व॒नम् ॥४

सु॒नी॒तिऽभिः॑ । न॒य॒सि॒ । त्राय॑से । जन॑म् । यः । तुभ्य॑म् । दाशा॑त् । न । तम् । अंहः॑ । अ॒श्न॒व॒त् ।

ब्र॒ह्म॒ऽद्विषः॑ । तप॑नः । म॒न्यु॒ऽमीः । अ॒सि॒ । बृह॑स्पते । महि॑ । तत् । ते॒ । म॒हि॒ऽत्व॒नम् ॥४

सुनीतिऽभिः। नयसि। त्रायसे। जनं । यः । तुभ्यं। दाशात्। न। तं । अंहः । अश्नवत् ।

ब्रह्मऽद्विषः। तपनः। मन्युऽमीः। असि। बृहस्पते । महि। तत् । ते । महिऽत्वनं ॥४॥

हे बृहस्पते सुनीतिभिः । शोभनं नीतयो येषु ते सुनीतयः सन्मार्गाः । तैर्जनं नयसि । अपेक्षितफलं प्रापयसि । त्रायसे । जनमापद्भ्यो रक्षसि च । यो यजमानस्तुभ्यं हविर्लक्षणमन्नं दाशात् प्रयच्छेत् ॥ दाशृ दाने । लेट्यडागमः ॥ तमंहः पापं पापरूपं दारिद्र्यं वा नाश्नवत् । न प्राप्नुयात् ॥ अश्नोतेर्लेटि व्यत्ययेन परस्मैपदं । अडागमः ॥ ब्रह्मद्विषो ब्राह्मणानां मंत्राणां वा द्वेष्टुस्त्पनस्तापकोऽसि । किंच मन्युमीर्मन्योः क्रोधस्य परेषां ज्ञानस्य वा हिंसकोऽसि ॥ मीङ् हिंसायां । क्विप् ॥ ते तव तत्तादृशं महि महत् प्रभूतं महित्वनं माहात्म्यमस्ति ।


न तमंहो॒ न दु॑रि॒तं कुत॑श्च॒न नारा॑तयस्तितिरु॒र्न द्व॑या॒विनः॑ ।

विश्वा॒ इद॑स्माद्ध्व॒रसो॒ वि बा॑धसे॒ यं सु॑गो॒पा रक्ष॑सि ब्रह्मणस्पते ॥५

न । तम् । अंहः॑ । न । दुः॒ऽइ॒तम् । कुतः॑ । च॒न । न । अरा॑तयः । ति॒ति॒रुः॒ । न । द्व॒या॒विनः॑ ।

विश्वाः॑ । इत् । अ॒स्मा॒त् । ध्व॒रसः॑ । वि । बा॒ध॒से॒ । यम् । सु॒ऽगो॒पाः । रक्ष॑सि । ब्र॒ह्म॒णः॒ । प॒ते॒ ॥५

न। तं । अंहः। न। दुःऽइतं । कुतः । चन। न। अरातयः। तितिरुः । न। द्वयाविनः।

विश्वाः। इत्। अस्मात्।ध्वरसः।वि। बाधसे। यं । सुऽगोपाः।रक्षसि। ब्रह्मणः।पते ॥५॥

हे ब्रह्मणस्पते सुगोपाः सुष्ठु पालयिता त्वं यं जनं रक्षसि पालयसि तं जनमंह आहंतव्यं दुःखं न बाधते । दुरितं तत्कारणं पापं च न बाधते । अरातयो हिंसकास्तं जनं कुतश्चन सर्वासु दिक्षु न तितिरुः ॥ तिरतिर्हिंसाकर्मा। लिट्॥ न हिंसंति । तथा द्वयाविनः । मनस्यन्यत्क्रियायां चान्यदित्येतद्द्वयं येषामस्ति ते द्वयाविनो । वंचकाः । तेऽपि तं जनं न बाधंते । किंच ध्वरसो हिंसिका विश्वाः सर्वाः सेनास्तदर्थं विबाधसे । विशेषेण बाधस एव ॥ ॥२९॥


त्वं नो॑ गो॒पाः प॑थि॒कृद्वि॑चक्ष॒णस्तव॑ व्र॒ताय॑ म॒तिभि॑र्जरामहे ।

बृह॑स्पते॒ यो नो॑ अ॒भि ह्वरो॑ द॒धे स्वा तं म॑र्मर्तु दु॒च्छुना॒ हर॑स्वती ॥६

त्वम् । नः॒ । गो॒पाः । प॒थि॒ऽकृत् । वि॒ऽच॒क्ष॒णः । तव॑ । व्र॒ताय॑ । म॒तिऽभिः॑ । ज॒रा॒म॒हे॒ ।

बृह॑स्पते । यः । नः॒ । अ॒भि । ह्वरः॑ । द॒धे । स्वा । तम् । म॒र्म॒र्तु॒ । दु॒च्छुना॑ । हर॑स्वती ॥६

त्वं । नः । गोपाः। पथिऽकृत् । विऽचक्षणः। तव । व्रताय । मतिऽभिः । जरामहे।

बृहस्पते । यः । नः। अभि। ह्वरः। दधे। स्वा। तं । मर्मर्तु । दुच्छुना। हरस्वती ॥६॥

हे बृहस्पते त्वं नोऽस्माकं गोपाः पालयिता पथिकृत् सन्मार्गश्च भवसि । विचक्षणो विशेषेण द्रष्टा सर्वज्ञस्त्वं । तव व्रताय त्वत्संबंधिने यज्ञाय मतिभिः स्तोत्रैर्जरामहे । स्तुमः ॥ जरतिः स्तुतिकर्म ॥ यः पुमान् नोऽस्मानभि अभिलक्ष्य ह्वरः ॥ ह्वृ कौटिल्ये । भावेऽसुन् ॥ कौटिल्यं दधे विदधाति तं स्वा स्वीया दुच्छुना दुर्बुद्धिर्हरस्वती वेगवती सती मर्मर्तु । मोचयतु ॥ मृङ् प्राणत्यागे। अंतर्भावितण्यर्थस्य यङ्लुकि लोटि रूपं ।


उ॒त वा॒ यो नो॑ म॒र्चया॒दना॑गसोऽराती॒वा मर्तः॑ सानु॒को वृकः॑ ।

बृह॑स्पते॒ अप॒ तं व॑र्तया प॒थः सु॒गं नो॑ अ॒स्यै दे॒ववी॑तये कृधि ॥७

उ॒त । वा॒ । यः । नः॒ । म॒र्चया॑त् । अना॑गसः । अ॒रा॒ति॒ऽवा । मर्तः॑ । सा॒नु॒कः । वृकः॑ ।

बृह॑स्पते । अप॑ । तम् । व॒र्त॒य॒ । प॒थः । सु॒ऽगम् । नः॒ । अ॒स्यै । दे॒वऽवी॑तये । कृ॒धि॒ ॥७

उत । वा। यः । नः। मर्चयात् । अनागसः । अरातिऽवा। मर्तः। सानुकः । वृकः ।

बृहस्पते । अप। तं । वर्तय । पथः । सुऽगं । नः। अस्यै । देवऽवीतये । कृधि ॥७॥

उत वा अपि च हे बृहस्पते अरातीवाभिमुखमागमनवान् सानुकः समुच्छ्रितः ॥ सानु समुच्छ्रितमिति यास्कः । नि° २. २४. ॥ वृकः ॥ वृक आदाने ॥ धनादीनामादाता यो मर्तो मनुष्योऽनागसोऽपराधहीनान्नो ऽस्मान् मर्चयात् ॥ मर्चयतिर्हिंसाकर्मा ॥ हिंस्यात् । तं मर्तं पथो वैदिकान्मार्गादपवर्तय । निवर्तय । नोऽस्माकमस्यै देववीतये । देवानां वीतिं सोमभक्षणमर्चयतीति देववीतिर्यज्ञः । अस्यै देववीतयेऽस्मै यज्ञाय नोऽस्माकं सुगं सुष्ठु गंतव्यं मार्गं कृधि । कुरु । यज्ञानुष्ठानाय सुमतिं देहीत्यर्थः ।


त्रा॒तारं॑ त्वा त॒नूनां॑ हवाम॒हेऽव॑स्पर्तरधिव॒क्तार॑मस्म॒युम् ।

बृह॑स्पते देव॒निदो॒ नि ब॑र्हय॒ मा दु॒रेवा॒ उत्त॑रं सु॒म्नमुन्न॑शन् ॥८

त्रा॒तार॑म् । त्वा॒ । त॒नूना॑म् । ह॒वा॒म॒हे॒ । अव॑ऽस्पर्तः । अ॒धि॒ऽव॒क्तार॑म् । अ॒स्म॒युम् ।

बृह॑स्पते । दे॒व॒ऽनिदः॑ । नि । ब॒र्ह॒य॒ । मा । दुः॒ऽएवाः॑ । उत्ऽत॑रम् । सु॒म्नम् । उत् । न॒श॒न् ॥८

त्रातारं । त्वा । तनूनां। हवामहे । अवऽस्पर्तः । अधिऽवक्तारं । अस्मऽयुं ।

बृहस्पते । देवऽनिदः । नि। बर्हय। मा। दुःऽएवः। उत्ऽतरं। सुम्नं । उत्। नशन् ॥८॥

अवस्पर्तः उपद्रवेभ्यः पारयितः । यद्वा अवसा रक्षणेनापद्भ्यः पारयितः हे बृहस्पते तनूनामंगानां पुत्रादीनां वा त्रातारं पालयितारमधिवक्तारमस्मासु पक्षपातेनाधिकं वक्तारमस्मयुं हविष्प्रदानस्मान् कामयमानं त्वां हवामहे । अस्मिन्कर्मण्याह्वयामः । किंच देवनिदो देवनिंदकानसुरान् निबर्हय। विनाशय। दुरेवा दुष्टगमना दुर्बुद्धयः शत्रव उत्तरमुत्कृष्टतरं सुम्नं सुखं मा उन्नशन् । मा व्याप्नुवंतु । ।


त्वया॑ व॒यं सु॒वृधा॑ ब्रह्मणस्पते स्पा॒र्हा वसु॑ मनु॒ष्या द॑दीमहि ।

या नो॑ दू॒रे त॒ळितो॒ या अरा॑तयो॒ऽभि सन्ति॑ ज॒म्भया॒ ता अ॑न॒प्नसः॑ ॥९

त्वया॑ । व॒यम् । सु॒ऽवृधा॑ । ब्र॒ह्म॒णः॒ । प॒ते॒ । स्पा॒र्हा । वसु॑ । म॒नु॒ष्या॑ । आ । द॒दी॒म॒हि॒ ।

याः । नः॒ । दू॒रे । त॒ळितः॑ । याः । अरा॑तयः । अ॒भि । सन्ति॑ । ज॒म्भय॑ । ताः । अ॒न॒प्नसः॑ ॥९

त्वया । वयं । सुऽवृधा । ब्रह्मणः । पते । स्पार्हा । वसु । मनुष्या । आ। ददीमहि।

याः। नः । दूरे । तळितः। याः । अरातयः । अभि। संति । जंभय । ताः। अनप्नसः ॥९॥

हे ब्रह्मणस्पते सुवृधा सुष्ठु वर्धयित्रा त्वया हेतुना वयं स्पार्हा स्पृहणीयानि वसु धनानि मनुष्या ॥ सुपां सुलुगिति चतुर्थो बहुवचनस्याकारः ॥ मनुष्येभ्यो दातृभ्य आददीमहि । गृह्णीमहे ॥ आङो दोऽनास्यविहरण इत्यात्मनेपदं ॥ दूरे दूरदेशे या अरातयः याश्च तळितोंऽतिकेऽरातयो नोऽस्मानभि संति । अभि भवंति अनप्नसः कर्महीनान् ता अरातीस्तान् शत्रून् जंभय । नाशय ॥ जभि नाशने चुरादिः । अत्र निरुक्तं । त्वया वयं सुवर्धयित्रा ब्रह्मणस्पते स्पृहणीयानि वसूनि मनुष्येभ्य आददीमहि याश्च नो दूरे तळितो याश्चांतिके ऽरातयोऽदानकर्माणो वादानप्रज्ञा वा जंभय ता अनप्नसो ऽप्न इति रूपनाम । नि° ३. ११.। इति ।।


त्वया॑ व॒यमु॑त्त॒मं धी॑महे॒ वयो॒ बृह॑स्पते॒ पप्रि॑णा॒ सस्नि॑ना यु॒जा ।

मा नो॑ दु॒ःशंसो॑ अभिदि॒प्सुरी॑शत॒ प्र सु॒शंसा॑ म॒तिभि॑स्तारिषीमहि ॥१०

त्वया॑ । व॒यम् । उ॒त्ऽत॒मम् । धी॒म॒हे॒ । वयः॑ । बृह॑स्पते । पप्रि॑णा । सस्नि॑ना । यु॒जा ।

मा । नः॒ । दुः॒ऽशंसः॑ । अ॒भि॒ऽदि॒प्सुः । ई॒श॒त॒ । प्र । सु॒ऽशंसाः॑ । म॒तिऽभिः॑ । ता॒रि॒षी॒म॒हि॒ ॥१०

त्वया । वयं । उत्ऽतमं । धीमहे । वयः। बृहस्पते । पप्रिणा। सस्निना। युजा ।।

मा। नः। दुःऽशंसः।अभिऽदिप्सुः। ईशत। प्र। सुऽशंसाः। मतिऽभिः। तारिषीमहि ॥१०॥

हे बृहस्पते पप्रिणा ॥ पॄ पालनपूरणयोः । आदृगमहनेति किन्प्रत्ययः । छांदसो यणादेशः ॥ कामानां पूरकेण सस्निना शुद्धेन युजा सहायेन त्वया हेतुनोत्तमं वयो हविर्लक्षणमन्नं वयं धीमहे । धारयामः ॥ धी धारणे । दैवादिकः । दुःशंसो दुःशंसनीयोऽभिदिप्सुरभिदंभितुमभिभवितुमिच्छुः पुरुषो नोऽस्माकं मा ईशत । मा ईशिष्ट । ईश्वरो मा भवतु ॥ ईश ऐश्वर्ये । लेट्यडागमः । वयं मतिभिः स्तोत्रैः सुशंसाः शोभनशंसनोपेताः। संतः प्रतारिषीमहि । प्रकर्षेण वर्धेमहि ॥ ॥ ३० ॥


अ॒ना॒नु॒दो वृ॑ष॒भो जग्मि॑राह॒वं निष्ट॑प्ता॒ शत्रुं॒ पृत॑नासु सास॒हिः ।

असि॑ स॒त्य ऋ॑ण॒या ब्र॑ह्मणस्पत उ॒ग्रस्य॑ चिद्दमि॒ता वी॑ळुह॒र्षिणः॑ ॥११

अ॒न॒नु॒ऽदः । वृ॒ष॒भः । जग्मिः॑ । आ॒ऽह॒वम् । निःऽत॑प्ता । शत्रु॑म् । पृत॑नासु । स॒स॒हिः ।

असि॑ । स॒त्यः । ऋ॒ण॒ऽयाः । ब्र॒ह्म॒णः॒ । प॒ते॒ । उ॒ग्रस्य॑ । चि॒त् । द॒मि॒ता । वी॒ळु॒ऽह॒र्षिणः॑ ॥११

अननुऽदः। वृषभः। जग्मिः । आऽहवं। निःऽतप्ता। शत्रुं। पृतनासु । ससहिः।।

असि। सत्यः। ऋणऽयाः। ब्रह्मणः । पते।उग्रस्य।चित्। दमिता। वीळुऽहर्षिणः॥११॥

हे ब्रह्मणस्पते अनानुदः । अनु पश्चाद्ददातीत्यनुदः । स यस्य नास्तीत्यननुदः । दात्रंतरशून्य इत्यर्थः । अत एवं वृषभः कामानां वर्षिता । आहवं ॥ आह्वयतेऽत्रेत्याहवो युद्धं । आङि युद्धे । पा°३. ३. ७३.। इत्यप्प्रत्ययः संप्रसारणं च । तद्युद्धं जग्मिर्गंता ॥ आदृगमहनेति किन्प्रत्ययः । लिङ्वद्भावादाहवमित्यत्र षष्ठीप्रतिषेधः । शत्रुं शातयितारं निष्टप्ता। नितरां तस्य तापकः । तृनंतत्वात्षष्ठीप्रतिषेधः । निसस्तपतावनासेवने । पा८. ३. १०२.। इति षत्वं । तादौ च नितीति गतेः स्वरः । पृतनासु संग्रामेषु सासहिः शत्रूणामभिभविता । एतादृशस्त्वं सत्यः सत्यपराक्रमः सत्यप्रज्ञो वासि। ऋणया ऋणस्य यावयितासि ॥ यु मिश्रणामिश्रणयोः। ण्यंतस्य क्विपि णिलोपे लोपो व्योर्वलीति वलोपः ॥ किंच उग्रस्य चित् ओजस्विनोऽपि दमितोपशमयिता वीळुहर्षिणो दृढहर्षस्य कामुकस्य नास्तिकस्य चिद्दमितासि ॥


अदे॑वेन॒ मन॑सा॒ यो रि॑ष॒ण्यति॑ शा॒सामु॒ग्रो मन्य॑मानो॒ जिघां॑सति ।

बृह॑स्पते॒ मा प्रण॒क्तस्य॑ नो व॒धो नि क॑र्म म॒न्युं दु॒रेव॑स्य॒ शर्ध॑तः ॥१२

अदे॑वेन । मन॑सा । यः । रि॒ष॒ण्यति॑ । शा॒साम् । उ॒ग्रः । मन्य॑मानः । जिघां॑सति ।

बृह॑स्पते । मा । प्रण॑क् । तस्य॑ । नः॒ । व॒धः । नि । क॒र्म॒ । म॒न्युम् । दुः॒ऽएव॑स्य । शर्ध॑तः ॥१२

अदेवेन । मनसा। यः । रिषण्यति । शासां। उग्रः । मन्यमानः । जिघांसति ।

बृहस्पते । मा। प्रणक्। तस्य। नः । वधः। नि। कर्म। मन्युं। दुःऽएवस्य। शर्धतः ॥१२॥

यः पुमान् अदेवेन देवानमन्यमानेन यद्वा आसुरवृत्तिविशिष्टेन मनसास्मान् रिषण्यति । हिनस्ति । दुरस्युर्द्रविणस्युर्वृषण्यति रिषण्यतीति निपातितः ॥ यश्चोग्रः पापचित्तो मन्यमान आत्मानं बहु मन्यमानः पुमान् शासामुक्थस्य शंसितारं । यद्वा अस्माकमाशंसां । शासितॄणामुग्र इति वा योजनीयं । अस्मान् जिघांसति । हंतुमिच्छति ॥ हंतेः सन्यज्झनगमां सनोति दीर्घः ॥ हे बृहस्पते तस्य वधः ॥ वध्यतेऽनेनेति वध आयुधं । नो ऽस्मान्मा प्रणम् ॥ पृची संपर्के श्नम् विकरणी । व्यत्ययेनामागमः । चादिलोप इति न निघातः । व्यत्ययेनाद्युदात्तः ॥ किंच दुरेवस्य दुष्टगमनस्य शर्धतो बलवतः । यद्वा दुष्टाभिसंधेर्वेगं कुर्वतस्तस्य मन्युं क्रोधं ज्ञानं वा नि कर्म । त्वत्प्रसादान्निराकुर्मश्च ॥


भरे॑षु॒ हव्यो॒ नम॑सोप॒सद्यो॒ गन्ता॒ वाजे॑षु॒ सनि॑ता॒ धनं॑धनम् ।

विश्वा॒ इद॒र्यो अ॑भिदि॒प्स्वो॒३॒॑ मृधो॒ बृह॒स्पति॒र्वि व॑वर्हा॒ रथाँ॑ इव ॥१३

भरे॑षु । हव्यः॑ । नम॑सा । उ॒प॒ऽसद्यः॑ । गन्ता॑ । वाजे॑षु । सनि॑ता । धन॑म्ऽधनम् ।

विश्वाः॑ । इत् । अ॒र्यः । अ॒भि॒ऽदि॒प्स्वः॑ । मृधः॑ । बृह॒स्पतिः॑ । वि । व॒व॒र्ह॒ । रथा॑न्ऽइव ॥१३

भरेषु । हव्यः । नमसा । उपऽसद्यः । गंता । वाजेषु । सनिता । धनंऽधनं ।

विश्वाः। इत्। अर्यः। अभिदिप्स्वः। मृधः। बृहस्पतिः।वि। ववर्ह। रथान्ऽइव ॥१३॥

स बृहस्पतिर्भरेषु संग्रामेषु हव्यो योद्धृभिः स्वरक्षणार्थमाह्वातव्यो नमसोपसद्यः सर्वैर्नमसोपसदनीयः । किंच वाजेषु गंता । संग्रामेषु रक्षार्थं गमनशीलः। तथा धनं धनं सनिता संभक्ता दाता॥ तृनंतत्वात्षष्ठीप्रतिषेधः ॥ तथार्यः स्वामी बृहस्पतिरभिदिप्स्वोऽभिभवनेच्छावतीर्विश्वा इत् सर्वा एव मृधो हिंसिकाः सेना रथानिव युद्धे वेगेन परकीयान्रथानिव विववर्ह । विशेषेण शिथिलीचकार । यद्वा इवशब्दश्चार्थे । रथांश्च विववर्ह ॥ लडर्थे लिट् ।।


तेजि॑ष्ठया तप॒नी र॒क्षस॑स्तप॒ ये त्वा॑ नि॒दे द॑धि॒रे दृ॒ष्टवी॑र्यम् ।

आ॒विस्तत्कृ॑ष्व॒ यदस॑त्त उ॒क्थ्यं१॒॑ बृह॑स्पते॒ वि प॑रि॒रापो॑ अर्दय ॥१४

तेजि॑ष्ठया । त॒प॒नी । र॒क्षसः॑ । त॒प॒ । ये । त्वा॒ । नि॒दे । द॒धि॒रे । दृ॒ष्टऽवी॑र्यम् ।

आ॒विः । तत् । कृ॒ष्व॒ । यत् । अस॑त् । ते॒ । उ॒क्थ्य॑म् । बृह॑स्पते । वि । प॒रि॒ऽरपः॑ । अ॒र्द॒य॒ ॥१४

तेजिष्ठया। तपनी। रक्षसः । तप। ये। त्वा। निदे । दधिरे। दृष्टऽवीर्यं ।

आविः। तत् । कृष्व।यत्। असत् ।ते। उक्थ्यं। बृहस्पते । वि। परिऽरपः।अर्दय ॥१४॥

हे बृहस्पते तेजिष्ठयातिशयेन तिग्मया तपनी तापकारिण्या हेत्या रक्षसो राक्षसांस्तप । तापय । ये राक्षसा दृष्टवीर्यं युद्धेषु दृष्टपराक्रमं त्वां निदे निंदाया विषयं दधिरे । कृतवंतः । तान् तापयेति समन्वयः ।। ते तवोक्थ्यं सर्वैः प्रशंसनीयं यद्वीर्यमसत् पूर्वमासीत् तदधुनाविष्कृष्व । प्रकटीकुरु । तेन च वीर्येण परिरापः परिवदतो निंदकानसुरान् व्यर्दय । विशेषेण बाधस्व ॥


बार्हस्पत्ये पशावेषा हविषोऽनुवाक्या । प्रदानानामिति खंडे सूचितं । बृहस्पते अति यदर्यो अर्हात्तमृत्विया उप वाचः सचंते । आ°३.७.। इति ॥ एषैवाश्विनशस्त्रे परिधानीया । सूत्रितं । बृहस्पते अति यदर्यो अर्हादिति परिधानीया । आ°६.५.। इति ॥

बृह॑स्पते॒ अति॒ यद॒र्यो अर्हा॑द्द्यु॒मद्वि॒भाति॒ क्रतु॑म॒ज्जने॑षु ।

यद्दी॒दय॒च्छव॑स ऋतप्रजात॒ तद॒स्मासु॒ द्रवि॑णं धेहि चि॒त्रम् ॥१५

बृह॑स्पते । अति॑ । यत् । अ॒र्यः । अर्हा॑त् । द्यु॒ऽमत् । वि॒ऽभाति॑ । क्रतु॑ऽमत् । जने॑षु ।

यत् । दी॒दय॑त् । शव॑सा । ऋ॒त॒ऽप्र॒जा॒त॒ । तत् । अ॒स्मासु॑ । द्रवि॑णम् । धे॒हि॒ । चि॒त्रम् ॥१५

बृहस्पते । अति। यत् । अर्यः । अर्हात् । द्युमत्। विऽभाति । क्रतुऽमत् । जनेषु ।

यत्। दीदयत् । शवसा। ऋतऽप्रजात। तत । अस्मासु। द्रविणं । धेहि । चित्रं ॥१५॥

ऋतप्रजात सत्येनोत्पन्न हे बृहस्पते अर्यः श्रेष्ठो ब्राह्मणः सर्वान् कामेनतीत्य यद्ब्रह्मवर्चसं तेजोऽहीत्। पूजयेत् ॥ अर्ह पूजायां । लेव्यडागमः ॥ जनेषु ब्राह्मणेषु द्युमत् दीप्तियुक्तं क्रतुमत् ज्ञानोपेतं यद्ब्रह्मवर्चसं विभाति । विशेषेण दीप्यते । यच्च शवसा बलेन स्वाश्रयं जनं दीदयत् ॥ दीदयतिर्दीप्तिकर्मा ॥ दीपयति चित्रं चायनीयं तद्ब्रह्मवर्चसरूपं द्रविणमस्मासु धेहि । निधेहि ॥ यद्वा अर्य उदारोऽपि त्वया दत्तं धनमतीवार्हात्। श्रद्दधीत । यच्च त्वद्दत्तं धनं जनेषु तव स्तोत्रं कुर्वाणेषु दीप्तियुक्तं कर्मसाधनं च विभाति यच्च धनं शवसान्नादिसमृद्ध्या दीदयत् स्वाश्रयं दीपयति तादृशं धनमस्मासु धेहि । तथा च ब्राह्मणं । बृहस्पते अति यदर्यो अर्हादित्येतया परिदध्यात्तेजस्कामो ब्रह्मवर्चसकामोऽतीव वान्यान्ब्रह्मवर्चसमर्हति द्युमदिति द्युमदिव वै ब्रह्मवर्चसं विभातीति वीव वै ब्रह्मवर्चसं भाति यद्दीदयच्छवस ऋतप्रजातेति दीदायेव वै ब्रह्मवर्चसं तदस्मासु द्रविणं धेहि चित्रमिति चित्रमिव वै ब्रह्मवर्चसं ब्रह्मवर्चसी ब्रह्मयशसी भवति । ऐ° ब्रा°४.११.। इति ॥ ॥ ३१॥


मा नः॑ स्ते॒नेभ्यो॒ ये अ॒भि द्रु॒हस्प॒दे नि॑रा॒मिणो॑ रि॒पवोऽन्ने॑षु जागृ॒धुः ।

आ दे॒वाना॒मोह॑ते॒ वि व्रयो॑ हृ॒दि बृह॑स्पते॒ न प॒रः साम्नो॑ विदुः ॥१६

मा । नः॒ । स्ते॒नेभ्यः॑ । ये । अ॒भि । द्रु॒हः । प॒दे । नि॒रा॒मिणः॑ । रि॒पवः॑ । अन्ने॑षु । ज॒गृ॒धुः ।

आ । दे॒वाना॑म् । ओह॑ते । वि । व्रयः॑ । हृ॒दि । बृह॑स्पते । न । प॒रः । साम्नः॑ । वि॒दुः॒ ॥१६

मा। नः। स्तेनेभ्यः। ये। अभि। द्रुहः। पदे। निरामिणः । रिपवः। अन्नेषु । जगृधुः ।

आ। देवानां। ओहते । वि। व्रयः। हृदि। बृहस्पते । न। परः। साम्नः। विदुः ॥१६॥

हे बृहस्पते नोऽस्मान् स्तेनेभ्यः । स्त्यानमस्ति येष्विति स्तेनाश्चौराः । तेभ्यो मा दाः । तान् दर्शयति । ये चौरा द्रुहः प्राणद्रोहस्य पदे स्थाने निरामिणो नितरां रमणशीला रिपवो हिंसकाः संतोऽन्नेषु परकीयेष्वभिजागृधुः । अभिकांक्षंति ॥ गृधु अभिकांक्षायां । लिटि रूपं । ये च देवानां वि व्रयो विशेषेण वर्जनं ॥ व्री व्ली इति धातू वर्जने वर्तते । य एवं विद्वान् दक्षिणां प्रतिगृह्णाति नैनं दक्षिणा व्लीनाति । तै० ब्रा°२ २. ५.१।। इत्येकस्य वर्जनार्थे दृष्टस्यापि वर्जनार्थत्वं । तत् हृदि स्वकीये हृदय आ ओहते । आवहंति । देवानां यागान् स्तुतीश्च न करवामेति मन्यंत इति यावत् । तेभ्योऽस्मान् मा दा इति समन्वयः । ये पुमांसः साम्नः साममयात्त्वत्तः परः परस्तादन्यदुत्कृष्टं साम यद्रक्षोघ्नं । साम वै रक्षोहेति । न विदुः । न जानंति । किंतु सर्वसाधकं साम त्वामेव विदुषोऽस्मान् स्तेनेभ्यो मा दाः ॥


विश्वे॑भ्यो॒ हि त्वा॒ भुव॑नेभ्य॒स्परि॒ त्वष्टाज॑न॒त्साम्नः॑साम्नः क॒विः ।

स ऋ॑ण॒चिदृ॑ण॒या ब्रह्म॑ण॒स्पति॑र्द्रु॒हो ह॒न्ता म॒ह ऋ॒तस्य॑ ध॒र्तरि॑ ॥१७

विश्वे॑भ्यः । हि । त्वा॒ । भुव॑नेभ्यः । परि॑ । त्वष्टा॑ । अज॑नत् । साम्नः॑ऽसाम्नः । क॒विः ।

सः । ऋ॒ण॒ऽचित् । ऋ॒ण॒ऽयाः । ब्रह्म॑णः । पतिः॑ । द्रु॒हः । ह॒न्ता । म॒हः । ऋ॒तस्य॑ । ध॒र्तरि॑ ॥१७

विश्वेभ्यः। हि। त्वा । भुवनेभ्यः। परि। त्वष्टा। अजनत् । साम्नःऽसाम्नः । कविः ।

सः। ऋणऽचित्। ऋणऽयाः। ब्रह्मणः। पतिः। द्रुहः । हंता। महः। ऋतस्य। धर्तरि॥१७॥

हे ब्रह्मणस्पते त्वष्टा प्रजापतिर्विश्वेभ्यो भुवनेभ्यस्परि सर्वेभ्यो भूतजातेभ्य उत्कृष्टं त्वामजनद्धि । अजीजनत् खलु । ततस्त्वं साम्नः साम्नः सर्वस्यापि साम्नः कविः ॥ कु शब्दे। अच इरिति इप्रत्ययः ॥ उच्चारयिता कर्तासि । यद्वा कविः क्रांतदर्शी त्वष्टा साम्नः साम्नः सर्वस्यापि साम्नः सारेण त्वामजीजनत् । किंच स ब्रह्मणस्पतिर्महो महत ऋतस्य यज्ञस्य धर्तरि धारके यजमाने ऋणचित् स्तोतृकाममृणमिव चिनोतीति ऋणचित् । किंच ऋणयाः पापरूपस्य ऋणस्य यावयिता पृथक्कर्ता च द्रुहः कर्मणो द्रोग्धुरसुरस्य हंता भवेति ॥


तव॑ श्रि॒ये व्य॑जिहीत॒ पर्व॑तो॒ गवां॑ गो॒त्रमु॒दसृ॑जो॒ यद॑ङ्गिरः ।

इन्द्रे॑ण यु॒जा तम॑सा॒ परी॑वृतं॒ बृह॑स्पते॒ निर॒पामौ॑ब्जो अर्ण॒वम् ॥१८

तव॑ । श्रि॒ये । वि । अ॒जि॒ही॒त॒ । पर्व॑तः । गवा॑म् । गो॒त्रम् । उ॒त्ऽअसृ॑जः । यत् । अ॒ङ्गि॒रः॒ ।

इन्द्रे॑ण । यु॒जा । तम॑सा । परि॑ऽवृतम् । बृह॑स्पते । निः । अ॒पाम् । औ॒ब्जः॒ । अ॒र्ण॒वम् ॥१८

तव । श्रिये। वि। अजिहीत। पर्वतः। गवां । गोत्रं । उत्ऽअसृजः । यत्। अंगिरः।

इंद्रेण । युजा । तमसा। परिऽवृतं । बृहस्पते। निः । अपां। औब्जः। अर्णवं ॥१८॥

अंगिर आंगिरस हे बृहस्पते गवामावारको वलेनाधिष्ठितः पर्वतस्तव श्रिय आश्रयणार्थं व्यजिहीत ।। विवृतद्वारतामगच्छत् । ततस्त्वं यद्यदा गोत्रं ॥ इनित्रकट्यचश्चेति समूहार्थे प्रत्ययः ॥ गवां समूहमुदसृजः । निरगमयः । तदेंद्रेण युजा सहायेन युक्तस्त्वं तमसा वृत्रासुरेण परीवृतं परित आक्रांतमपामर्णवं स्थानभूतं मेघं निरौब्जः । नितरामधोमुखमकार्षीः ॥


ब्रह्म॑णस्पते॒ त्वम॒स्य य॒न्ता सू॒क्तस्य॑ बोधि॒ तन॑यं च जिन्व ।

विश्वं॒ तद्भ॒द्रं यदव॑न्ति दे॒वा बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑ ॥१९

ब्रह्म॑णः । प॒ते॒ । त्वम् । अ॒स्य । य॒न्ता । सु॒ऽउ॒क्तस्य॑ । बो॒धि॒ । तन॑यम् । च॒ । जि॒न्व॒ ।

विश्व॑म् । तत् । भ॒द्रम् । यत् । अव॑न्ति । दे॒वाः । बृ॒हत् । व॒दे॒म॒ । वि॒दथे॑ । सु॒ऽवीराः॑ ॥१९

ब्रह्मणः । पते । त्वं । अस्य । यंता । सुऽउक्तस्य। बोधि। तनयं । च। जिन्व ।

विश्वं । तत् । भद्रं । यत् । अवंति । देवाः । बृहत्। वदेम । विदथे । सुवीराः ॥१९॥

हे ब्रह्मणस्पते ब्रह्मणां स्तोत्राणामधिपते अस्य जगतो यंता नियामकस्त्वं सूक्तस्यास्मदीयमिदं ब्राह्मणस्पत्यं सूक्तं बोधि । बुध्यस्व । त्वं तनयं पुत्रपौत्रादिलक्षणं संतानं जिन्व ॥ जिविः प्रीणनार्थः । लोटि रूपं ॥ प्रीणय। भवादृशा देवा यदवंति रक्षंति तत्तादृशं विश्वं सर्वं भद्रं कल्याणं भवति । अतो वयं विदथेऽस्मिन्यज्ञे सुवीराः शोभनपुत्रपौत्राः संतो बृहत्प्रभूतमिदं स्तोत्रं वदेम । ब्रूयाम ॥ ॥ ३२ ॥ ॥ ६॥


वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन्।

पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥

इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाशे ऋक्संहिताभाष्ये द्वितीयाष्टके षष्ठोऽध्यायः समाप्तः ॥

[सम्पाद्यताम्]

गणेशपुराणे १.३७.३७ गृत्समदेन गणानां त्वेति मन्त्रेण गणेशस्याराधना

गणेशपुराणे १.३८.१८ गृत्समद-पुत्रेण त्रिपुरेण गणानां त्वेति मन्त्रस्य साधनम्

गणशब्दोपरि टिप्पणी

टिप्पणी

शब्दकल्पद्रुमे गण असुरस्य कथा एवंप्रकारेण लिखितमस्ति - दैत्यविशेषः । स तु अभिजिदिति नामान्तरस्य दैत्यस्य गुणवतो भार्य्यायां गुणवत्यां सम्भूतः । यथा, स्कन्दपुराणे गणेशखण्डे ३ अध्याये ।

“अथ सोऽप्यभिजित् पत्न्या समुद्रस्नानमाययौ ।

पर्व्वणि श्रद्धया युक्तश्चक्रे स्नानं तया सह ॥

तृषिता सा गुणवती पपौ चाञ्जलिना जलम् ।

यद्वीर्य्यं ब्रह्मणा त्यक्तं दैवात्तदुरे गतम् ॥”

भार्य्यागुणवती तस्य नवमासादनन्तरम् ।

पुत्त्रं प्रसूताह्नि शुभे दिव्यरूपं गुणाद्भुतम् ॥

ज्योतिर्विद्भिरनुज्ञातो गण इत्यभिधां पिता ।

कृत्वाभ्युदयिकं चक्रे व्यत्यीते दशमेऽहनि ॥”

स च महादेवमाराध्य वरं लब्ध्वा त्रैलोक्यं निर्जित्य च कपिलमुनेश्चिन्तामणिमपहृतवान् । कपिलमुनिस्तु अस्मादपराधात् जातमन्युर्गणेशमाराधयामास । अथ प्रसन्नेन गणपतिना तद्गृहे अवतीर्य्य तं गणदैत्यं विनाशितवान् इत्येषा कथा तत्रैवाध्याये विस्तरशो द्रष्टव्या ॥ - शब्दकल्पद्रुम

अस्यां कथायां अभिजित् नामाख्यासुरस्य भार्या गुणवती अस्ति। सा गुणवती गणं असुरपुत्रं जनयति। अभिजितस्य किं अर्थं कर्तुं शक्नुमः। अभिजित् अर्थात् यः स्वैः गुणैः प्रकृतिं जेतुं प्रयत्नशीलः अस्ति। शतपथ ब्राह्मणस्य कथनमस्ति - सर्वगणम् इति । अङ्गानि वै सर्वे गणाः। अंगान्येवात्मन् धत्ते। ॥१२.८.१.२२

आत्मा गुणैर्विहीना अस्ति। यदा आत्मा गुणानि गृह्णाति, तदा सा तेभिः गुणैः कम्पिता भवति। गयासुरस्य संदर्भे अयं पूर्वमेव कथितमस्ति। गयासुरस्य देहोपरि सर्वे देवाः स्थिताः अभूवन्, किन्तु तस्य कम्पनस्य विरामं नासीत्। यदा गदाधरः गदासहितं तस्योपरि स्थितः अभवत्, तदैव गयासुरः निश्चलो अभवत्। अत्र गदा अस्त्रः हृदयस्य परितः यः नाडीनां जालं अस्ति, तस्य नियामकः। आत्मना अङ्गैः सह यः सम्बन्धं अस्ति, सैव सम्बन्धं हृदयस्य स्वपरितः स्थिताभिः नाडीभिः सह अस्ति, एवं कथितुं शक्यन्ते।

लौेकिके साहित्ये गुणगण शब्दं प्रसिद्धमस्ति। तुलसीदासस्य रामायणे अयं विवादितं पंक्तिः अस्ति -

पूजिय विप्र शीलगुण हीना। शूद्र न गुणगण ज्ञान प्रवीना।।

अत्र शूद्रः कः भवितुं शक्यते। यस्य आत्मा गुणैः कम्पिता भवति, सः।

ज्येष्ठशब्दस्य विवेचनम्

ततो द्वादशभिः सूक्तैस् तुष्टावेन्द्रं श्रुधीत्यृषिः । ददर्श संस्तुवन्नेव तत्र स ब्रह्मणस्पतिम् ।।७९ ।।

बृहस्पतिं तु तुष्टाव दृष्टलिङ्गाभिरेव च । स तमप्यभितुष्टाव चतुर्भिरित उत्तरैः ।। ८० ।।

गणानां विश्वमित्यस्यां सहेन्द्राब्राह्मणस्पती । बृहस्पतिं प्रसङ्गाद्वा ब्रह्मणस्पतिमेव च ।। बृहद्देवता ४.८१ ।।

मण्डल २

सूक्तं २.१

सूक्तं २.२

सूक्तं २.३

सूक्तं २.४

सूक्तं २.५

सूक्तं २.६

सूक्तं २.७

सूक्तं २.८

सूक्तं २.९

सूक्तं २.१०

सूक्तं २.११

सूक्तं २.१२

सूक्तं २.१३

सूक्तं २.१४

सूक्तं २.१५

सूक्तं २.१६

सूक्तं २.१७

सूक्तं २.१८

सूक्तं २.१९

सूक्तं २.२०

सूक्तं २.२१

सूक्तं २.२२

सूक्तं २.२३

सूक्तं २.२४

सूक्तं २.२५

सूक्तं २.२६

सूक्तं २.२७

सूक्तं २.२८

सूक्तं २.२९

सूक्तं २.३०

सूक्तं २.३१

सूक्तं २.३२

सूक्तं २.३३

सूक्तं २.३४

सूक्तं २.३५

सूक्तं २.३६

सूक्तं २.३७

सूक्तं २.३८

सूक्तं २.३९

सूक्तं २.४०

सूक्तं २.४१

सूक्तं २.४२

सूक्तं २.४३


"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_२.२३&oldid=208783" इत्यस्माद् पुनः प्राप्तिः