गणेशपुराणम्/खण्डः १ (उपासना खण्डः)/अध्यायः ३८

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ३७ गणेशपुराणम्/खण्डः १ (उपासना खण्डः)
अध्यायः ३८
[[लेखकः :|]]
अध्यायः ३९ →

व्यास उवाच ।
ततो गृत्समदस्यासीत् कथं वृत्तिः सुरेश्वर ।
तन्ममाचक्ष्व यत्नेन श्रद्दधानस्य पद्मज ।। १ ।।
ब्रह्मोवाच ।
ततः सर्वे मुनिगणा मानयामासुरादरात् ।
ब्रह्मन् मुनिवरश्रेष्ठं नेमुर्गृत्समदं च तम् ।।२ ।।
वरदानाद् गणेशस्य वव्रुस्तं यज्ञकर्मणि ।
सर्वारम्भे गणेशस्य पूजनादौ च सस्मरः । । ३ ।।
एवं विख्यातिमगमत् स मुनिर्गणनायके ।
भक्तिं परमिकां चक्रे जपन्मंत्रं सुनिश्चलः । ।४।।
कदाचित् स मुनिर्व्यास चुक्षुवे बलमुत्तरम् ।
दिशो नभश्च पृथिवीं नादयन् गिरिगह्वरान् ।।५ ।।
अपश्यत् पुरतो यावत् तावद्बालं भयंकरम् ।
रक्तवर्णं महानादं जपाकुसुमसन्निभम् ।।६।।
तेजोराशिं च मुष्णंतं नेत्रालोकपथं मुहुः ।
दृष्ट्वा स तादृशं बालं चकम्पे भयविह्वलः ।।७।।
तर्कयामास मनसा विघ्नः कोऽयमिहागतः ।।
न जाने गणनाथेन दत्त पुत्रो ममाद्भुतः ।।८।।
पश्यति स्म पुनः सोऽमुं चारुवक्त्रं सुलोचनम् ।
चारु रूक्मांगदं चारु मुकुटं चारुनूपुरम् ।।९।।
चारुणा कटिसूत्रेण राजत्कटितटं सुतम् ।
पप्रच्छ तं मुनिः कोऽसि कस्यासि किं चिकीर्षसि ।। 1.38.१० ।।
क्व च ते पितरौ स्थानं वद तेजोनिधेऽर्भक ।
क उवाच ।
श्रुत्वेत्थं वचनं तस्य जगाद बालको मुनिम् ।। ११ ।।
बालक उवाच ।
भूतभाविभवज्ज्ञानी किं मां त्वं परिपृच्छसि ।
तथाऽप्याज्ञावशो वच्मि क्षुतात्तव जनिर्मम ।। १२ ।।
त्वमेव जनको माता कृपां कुरु ममोपरी ।
पालयस्व पितर्मां त्वं दिनानि कतिचिन्मुने ।। १३ ।।
त्रैलोक्याक्रमणे शक्तो देवेन्द्रं वशवर्तिनम् ।
करिष्यामि न सन्देहो वीक्ष्यसे पौरूषं मम ।। १४।।
ब्रह्मोवाच ।
इत्याकर्ण्य वचस्तस्य भयहर्षं समन्वितः ।
उवाच श्लक्ष्णया वाचा मुनिर्गृत्समदो वचः । । १५ ।।
यद्ययं जातमात्रोऽपि शक्तस्त्रैलोक्य कर्षणे ।
तस्मादस्य प्रदास्यामि स्वं मन्त्रं स्वात्मजस्य हि ।। १६ ।।
येनास्य वांछितं देवः परितुष्टो विनायकः ।
प्रदास्यति जगन्नाथो मम कीर्तिर्भविष्यति ।। १७।।
एवं संचिंत्य मनसा तस्मै स्वं मन्त्रमादिशत् ।
गणानां त्वेति तं चाह कुर्वनुष्ठानमादरात् ।। १ ८।।
जपस्व वैदिकं मंत्रं चित्तं स्थाप्य गजानने ।
संतुष्टस्ते यदा पुत्र सर्वान् कामान् प्रदास्यति ।। १ ९।।
एवं प्राप्त महामंत्रो जगाम तपसे वनम् ।
एकांगुष्ठेनावतस्थे निराहारो जितेन्द्रियः । ।1.38.२ ० ।।
ध्यायन् गजाननं देवं मनसा निश्चेलन सः ।
जपतस्तस्य वर्षाणि सार्धायुतमितानि च ।। २१ ।।
गतानि तस्य मुखतो बभूवाग्निर्दिशो ज्वलन ।
भयं बभूव देवानां दैत्यानां तलवासिनाम् ।।२२ ।।
ततस्तत् तपसा तुष्ट आविरासीद् गजाननः ।
दिशो वितिमिराः कुर्वंश्छादयन् भानुमंडलम् ।।२ ३ ।।
भ्रामयन् पुष्पकरं चारू सुविषाणं मुदा युतः ।
तद्बृंहित रवं श्रुत्वा बालको विह्वलग्निव ।।२४।।
उन्मील्य नेत्रे सोऽपश्यद्देवं तं पुरतः स्थितम् ।
चतुर्भुजं महाकायं नानाभूषा विभूषितम् ।।२५।।
परशुं कमलं माला मोदकान् बिभ्रतं करैः ।
तेजसा धर्षितस्तस्य धैर्यं कृत्वा ननाम सः ।।२ ६ ।।
बद्धांजलिपुटो भूत्वा प्रार्थयामास तं विभुम् ।
बालक उवाच ।
किं मां धर्षयसे देव भक्तं त्वां शरणागतम् । ।२७।।
भव सौम्यतरो देव देहि मेऽखिलवांछितम् ।
ब्रह्मोवाच ।
इत्याकर्ण्य वचस्तस्य संजहार स्वकं महः ।। २८।।
उवाच परमप्रीतो सावधान भवार्भक ।
यं ध्यायसि दिवारात्रो सोऽहं ते वरदोऽधुना ।।२९।।
ममेदं परमं रूपं स्वप्रकाशं जगन्मयम् ।
न विदुर्ब्रह्म रुद्राद्याः कुतो वेत्स्यन्ति मानवाः ।।1.38.३ ० ।।
देवाश्च मुनयः सर्वे न च राजर्षयोऽपरे ।
नासुराः सिद्धगन्धर्वा न नागा न च दानवः ।। ३१ ।।
सोऽहं तव तपोबद्धो वरं दातुमिहागतः ।
वरयस्व वरान्मत्तो यान्यांस्त्वं मनसेच्छसि ।। ३२ ।।
स उवाच ततो बालो धन्योऽहं तव दर्शनात् ।
पिता धन्यतरो मेऽद्य सार्थकं जन्म मे तपः ।।३ ३ ।।
स्तुतिं कर्तुं न जानामि बालभावात्सुरेश्वर ।
यतस्त्वं सर्वजगतां कर्ता पाताऽपहारकः ।।३४।।
त्वद् भासा भासयत्येव रविरग्निश्च चन्द्रमाः ।
चराचरं चेतयसे स्वमाहात्म्यान् महामते ।। ३५।।
महिमानं महान्तं ते केशा अपि न यं विदुः ।
यदि मे वरदोऽसि त्वं तन्मे देहि गजानन ।। ३ ६।।
त्रैलोक्याकर्षणे शक्तिं विशिष्टां देहि मे विभो ।
देवदानवगन्धर्व मनुष्योरगराक्षसा ।।३७।।
वश्या मम सदा सन्तु मुनिकिन्नर चारणाः।
मनसा चिन्तितं यन्मे तत्तत् सिध्यतु सर्वदा ।।३ ८।।
इंद्रादयो लोकपालाः सेवां कुर्वन्तु मे सदा ।
इह भोगाननेकान्मे मुक्तिं चान्ते प्रयच्छ च ।। ३ ९।।
अन्यं च ते वरं याचे पुरमेतत् तवाज्ञया ।
प्रथां यातु यतश्चात्र तपमुग्रं तपो मया ।।1.38.४० ।।
गणेशपुरमिति च ख्यातिं यातु जनेष्टदम् ।।
गणेश उवाच ।
त्रयाणामपि लोकानामाक्रमं त्वं करिष्यसि ।।४१ ।।
सर्वेभ्यो न भयं तेऽस्ति सर्वे वश्याश्च ते सदा ।
आयसं कांचनं रौप्यं मया दत्तं पुरत्रयम् ।।४२ ।।
अभेद्यं सर्वदेवानां कामगं शंकर विना ।
त्रिपुरेति च ते नाम ख्यातिं लोके गमिष्यति ।। ।।४३ ।।
यदैकेन च बाणेन शिवो भेत्स्यति ते पुरम् ।
तदैव यास्यसे मुक्तिं नात्र कार्या विचारणा ।।४४।।
अन्यत्ते वांछितं सर्वं मत्प्रसादाद् भविष्यति ।
ब्रह्मोवाच ।
दत्त्वेत्थं स वरान्देवस्तत्रैवान्तर्दधे विभुः।
विषादमगमद्देव वियोगात् त्रिपुरासुरः ।।४५।।
हर्षं च विपुलं लेभे वरान्प्राप्य यथेप्सितान्।
त्रैलोक्यविजयं कर्तुं यतते स्म ततो बलात् ।।४६।। ( १४५९)
इति श्रीगणेशपुराणे उपासनाखंडे वरप्रदानं नामाष्टत्रिंशत्तमोऽध्याय ।। ३८।।