गणेशपुराणम्/खण्डः १(उपासनाखण्डम्)/अध्यायाः ७१-७५
← अध्यायाः ६६-७० | गणेशपुराणम्/खण्डः १(उपासनाखण्डम्) अध्यायाः ७१-७५ [[लेखकः :|]] |
अध्यायाः ७६-८० → |
अध्याय ७१ प्रारंभ :- अध्याय ७१ प्रारंभ :-
राजोवाच ।
उद्यापनं कथं कार्यं व्रतस्यास्य महामते ।
तन्मे विस्तरतो ब्रूहि लोकानां हितकाम्यया ॥१॥
ब्रह्मोवाच ।
प्रथमे मासि कर्तव्यं पंचमे सप्तमेऽथवा ।
उद्यापनं मनुष्येन्द्र व्रतसंपूर्ण हेतवे ॥२॥
पूर्वोक्तेन विधानेन पूजयेद् भक्तिमान्नरः ।
पुष्पमंडपिका कृत्वा नानावस्त्रविचित्रताम् ॥३॥
कृत्वा तु सर्वतोभद्रं नानारंगविचित्रतम् ।
पूजयेत्तम देवेशं कलशोपरि पूर्ववत् ॥४॥
चन्दनेन सुगन्धेन पुष्पैर्नानाविधैरपि ।
नारिकेल फलेनैव दद्यादर्घ्यं समाहितः ॥५॥
तिथीनामुत्तमे देवि गणेशप्रिय वल्लभे।
संकटं हर मे देवि गृहाणार्घ्यं नमोऽस्तु ते ॥६॥
लंबोदर नमस्तुभ्यं सततमोदकप्रिय ।
संकष्टं हर मे देव गृहाणार्घ्यं नमोऽस्तु ते ॥७॥
क्षीरोदार्णवसंभूत अत्रिगोत्र समुद्भव ।
गृहाणार्घ्यं मया दत्तं रोहिण्या सहितः शशिन् ॥८॥
भोज्यं भक्ष्यं च लेह्यं च पेयं चोष्यं निवेदयेत् ।
फलैरन्यैश्च बहुभिस्तोषयेद् गणनायकम् ॥९॥
आचार्यं वरयेत्तत्र ऋत्विजश्चैकविंशतिम् ।
गणानांत्वेति मन्त्रेण अयुतं होममाचरेत् ॥१.७१.१०॥
अथवा मूलमन्त्रेण सहस्रं वा तदर्धकम् ।
अष्टोत्तरशतं चापि बलिदानं ततश्चरेत् ॥११॥
पूर्णाहुतिं हुनेत्पश्चाद् वसोर्धारा च पातयेत् ।
होमशेषं समाप्यैवं ब्राह्मणान् भोजयेत्ततः ॥१२॥
वस्त्रयुग्मं च कलशान् दक्षिणासनसंयुतान्।
तेभ्यो दद्याद्यथाशक्ति वित्तशाठ्यं न कारयेत् ॥१३॥
आचार्यं पूजयेत् पश्चाद् वस्त्रालंकरणादिभिः ।
तस्मै भुक्तवते दद्याद् वायनं फलसंयुतम् ॥१४॥
शूर्प पायस संपूर्ण रक्तवस्त्रेण वेष्टितम् ।
सौवर्णं तं गणाधीशं तस्मै दद्यात सदक्षिणम् ॥१५॥
तिलानामाढकं दद्याद् व्रतसंपूर्ण हेतवे ।
ततो गां कपिलां दद्यात् सवत्सां सविभूषणाम् ॥१६॥
ततः क्षमापयेद् विप्रान् विघ्नेशः प्रीयतामिति ।
व्रतस्योद्यापनं कृत्वा हयमेधफलं लभेत् ॥१७॥
पितोवाच ।
एवं मे ब्रह्मणादिष्टं व्रतं लोकोपकारतः ।
तदेतत् कथितं तेऽद्य कुरु पुत्रार्थमादरात् ॥१८॥
इन्द्र उवाच ।
यथायथा समादिष्टं पित्रा तेन महाव्रतम् ।
तथा तथा कृतं तेन कार्तवीर्येण धीमता ॥१९॥
व्याख्याय कथितं सम्यक् पंडितैर्व्रतमुत्तमम् ।
सिद्धिबुद्धियुतां मूर्तिं स्थाप्य कांचननिर्मिताम् ॥१.७१.२०॥
महामंडपिकामध्ये ब्राह्मणैः पठ्यते क्वचित् ।
क्वचित् पुराणं पांडित्यं क्वचित् गायन नर्तने ॥२१॥
नानाविधानां वाद्यानां ध्वनयो निर्गता दिवम् ।
विवदंते जनाः क्वापि मध्यस्थाः केचनाभवन् ॥२२॥
स तु राजा महाधीमान् जजाप परमं मनुम् ।
जप्त्वा हुत्वा पूजयित्वा भोजयित्वा द्विजान् बहून् ॥२३॥
गा ददावयुतं तेभ्योऽलंकृतेभ्यो ह्यलंकृतः ।
दीनान्धकृपणेभ्योऽन्नं ददौ दानान्यनेकशः ॥२४॥
संतुष्टानां स सर्वेषां पुत्राशीर्जगृहे नृपः ।
तेषां द्विजानां तपतां सर्वदा सत्यवादिनाम् ॥२५॥
आशिर्भिः स्वल्पकालेन ससत्वाऽभून्नृपांगना।
सुषुवे शुभवेलायां पुत्रं लक्षणसंयुतम् ॥२६॥
ददौ दानान्यनेकानि पुत्रजन्मप्रहर्षितः ।
व्रतबंध विवाहं च काले तस्याकरोन्नृपः ॥२७॥
ज्ञानविज्ञानसंपन्नं पुत्रं राज्येऽभिषिच्य च ।
सत्पुत्रो भोगसंपन्नो जगामान्ते पदं विभोः ॥२८॥
ऋत्विग्भ्यः पंडितैः सार्धं प्रेक्षकैः सकलैरपि ।
तस्य पुण्येन ते सर्वे गाणेशं धाम चागमन् ॥२९॥ (३१२०)
इति श्रीगणेशपुराण उपासनाखंडे एकसप्ततितमोऽध्यायः ॥७१॥
अध्याय ७२ प्रारंभ :-
शूरसेन उवाच ।
व्रते जाते कथमभूत्तयोः पुत्रः शतक्रतो ।
तत्सर्वं मे वद विभो विस्तरात् परिपृच्छतः ॥१॥
इन्द उवाच ।
किं किं न जायते राजन् परितुष्टे गजानने।
प्रसादात्तस्य सा राज्ञी गर्भ दध्रे नृपस्य यत् ॥२॥
प्रसूता नवमे मासि मंगलं पुत्रमैक्षत ।
द्विस्कन्धं चारुवदनं बाहुहस्त विवर्जितम् ॥३॥
सुनासं पद्मनयनमूरू जानु विवर्जितम् ।
जंघा पादविहीनं तं दृष्ट्वा माता रुदोद ह ॥४॥
सोवाच ।
दुर्भगायाः कथमभूदीदृशो बालको मम।
करपादविहीनोऽयं कथं दत्तो गजानन ॥५॥
आसं शुभाऽहं वन्ध्यैव किमीदृक् पुत्रवत्यहम् ।
कथं न जातो नाशो मे पूर्वजन्मकृतैनसः ॥६॥
कथं प्रसादः फलितस्तवापि द्विरदानन ।
कथं ब्राह्मणवाक्यानि निष्फलानीदृशानि मे ॥७॥
पाणिभ्यां निघ्नती वक्षो ललाटं च मुहुर्मुहुः ।
तस्यां रुदत्यां सर्वांस्ता रुरुदुस्तत्र या स्थिताः ॥८॥
तासां कोलाहलं श्रुत्वा नृपोऽपि तत्र चागमत् ।
तस्यापि रुदितं श्रुत्वा प्रधाना अपि चागमन् ॥९॥
तेषां च रुदितं श्रुत्वा नागरा रुरुदुस्तदा ॥१.७२.१०॥
राजोवाच ।
केयं दीनानुकंपित्वं तव देव गजानन ।
कथं दया कृता तेऽद्य मह्यमेवं प्रदर्शिता ॥११॥
कथं स्मरणमात्रेण पापानि हरसेऽनघ ।
जपः स्तपः स्मृतिर्दानपूजनं द्विजतर्पणम् ॥१२॥
अनुष्ठानं तथा होमः सर्वं व्यर्थं गतं मम ।
तस्माद्यैवं हि बलवत् प्रयत्नस्तु निरर्थकः ॥१३॥
न ज्ञायते कर्मगतिः कदा किं वा भविष्यति ।
मूषक प्राप्यते यद्वत् पर्वतस्य विदारणात् ॥१४॥
तथा मेऽजानि पुत्रेयमाजन्म कृतयत्नतः ।
तत ऊचुः प्रकृतयो नृपं शोकाकुलं तदा ॥१५॥
प्रधाना ऊचुः ।
अलं शोके न भूपाल कथं भाव्यन्यथा भवेत् ।
रामः किं न मृगं वेद तत्पृष्टं गत एव सः ॥१६॥
धर्मराजो न किं वेद निषिध्यं द्यूतकर्म तत् ।
तथापि स गतो रन्तुं सर्वं हित्वा वनं गतः ॥१७॥
चारुता न भवेदस्य भ्रशमाक्रन्दिते सति ।
अदृष्टं चेद् भवेत् सम्यगग्रे चारुरयं भवेत् ॥१८॥
पुष्पं फलं वा कालेन यथा याति महीरुहाम ।
तथा कालेन भविता सम्यक्च पृथिवीपतिः ॥१९॥
इन्द्र उवाच ।
इत्यमात्यवचः श्रुत्वा सावधानोऽभवन्नृपः ।
उवाच नृपपत्नीं तामुत्तिष्ठोत्तिष्ठ मा शुचः ॥१.७२.२०॥
स्वयं च सुमना राजा समाहूय द्विजोत्तमान् ।
गणेश पूजनं चक्रे स्वस्तिवाचनमेव च ॥२१॥
कृत्याऽभ्युदयिक श्राद्धं ददौ दानान्यनेकशः ।
माल्यालंकार वासांसि गावो रत्नान्यनेकशः ॥२२॥
सुहृत्संबन्धि भृत्येभ्यो वस्त्राणि विविधानि सः ।
नाना वादित्र जीवेभ्यो ददौ राजा यथार्हतः ॥२३॥
बन्दिचारण दीनान्धकृपणेभ्यश्च सर्वशः ।
गृहे गृहे च तांबूल शर्करा दापयच्च सः ॥२४॥
कार्तवीर्येति नामास्य चकारैकादशेऽहनि ।
भोजयामास नगरं महोत्साह पुरःसरम् ॥२५॥
ततो द्वादश वर्षाणि व्यतीतानि सुतस्य ह ।
आययौ स्वेच्छया तस्य दत्तात्रेयस्तदा गृहम् ॥२६॥
पादयोः स्वशिरः स्थाप्य कृतवीर्यो ननाम तम् ।
आलिलिंग मुनिस्तं स उत्थाय नृपसत्तमम् ॥२७॥
उपविश्यासने रम्ये पूजयामास सादरम् ।
विष्टरं पाद्यमर्घ्यं च गां च वस्त्रोपवीतकम् ॥२८॥
ददौ धूपं च दीपं च नैवेद्यं विविधं फलम् ।
उद्वर्तनं च तांबूलं रत्नकांचन दक्षिणाम् ॥२९॥
सुप्रसन्नं सुखासीनं पादसंवाहनादिभिः ।
उवाच राजा सम्यक्तं दत्तात्रेयं महामुनिम् ॥१.७२.३०॥
जन्मजन्मान्तरीयं मे पुण्यं फलितमद्य वै ।
यच्चर्मचक्षुषां जातं साक्षात्ते दर्शनं मुने ॥३१॥
अग्रे शुभतरं भावि प्रसादात्तव सुव्रत ।
यतो भवादृशां नैव दर्शनं पापकर्मणाम् ॥३२॥
कृतवीर्यवचः श्रुत्वा दत्तात्रेयस्तमब्रवीत् ।
अपूर्वं तनयं तेऽद्य द्रष्टुकामोऽहमागतः ॥३३॥
तत आनन्दयुक्तोऽसौ नृपः प्राह मुनिं पुनः ।
नृप उवाच ।
अनुष्ठानं तपो दानं वृथा मम गतं व्रतम् ॥३४॥
जगदीशेन दत्तोऽयं पुत्रो हृच्छल्य एव सः।
अनेना दर्शनीयेन गतश्चादर्शनीयताम् ॥३५॥
इन्द्र उवाच ।
आनीय बालकं तस्मै मुनयेऽदर्शयन्नृपः ।
आच्छादयन्नेत्रकंजे तत्सुतं वीक्ष्य सन्मुनिः ॥३६॥
ज्ञात्वा ध्यानेन तत्कर्मं मुनिस्तं पुनरब्रवीत् ।
अयमेव सुतो राजन् कर्ता सर्वान् विजित्य ह ॥३७॥
नाचान्तोऽसि विजृम्भ्य त्वं संकष्टी व्रत जागरे ।
निन्दितो व्रतराजस्तु सर्वसंकष्टनाशनः ॥३८॥
अंगहीनः सुतो जात उपायात् सांगतामियात् ।
राजोवाच ।
ऋतमुक्तं त्वया स्वामिन् कृपां कृत्वा वदस्व मे ॥३९॥
येनोपायेन सांगो मे त्वत्प्रसादात् सुतो भवेत् ।
इन्द्र उवाच ।
मुनिः स कृपयाविष्टस्तत्सुताय तदाऽब्रवीत् ॥१.७२.४०॥
मन्त्रमेकाक्षरं सांगं तत ऊचे पुनश्च तम् ।
आराधनं गणेशस्य मन्त्रेणानेन भक्तिः ॥४१॥
उपवासैकभक्तानां नियमान् कुरू सुव्रत ।
द्वादशाब्दं ततस्तुभ्यं दर्शनं स च दास्याति । ४२।।
तद्दृष्टिपातमात्रेण दिव्यदेहो भविष्यसि ।
इत्युक्त्वा नृपमामन्त्र्य पिदधे मुनिपुंगवः ॥४३॥
गते मुनौ तत: पुत्रः पादहीनो महामनः ।
जगाद कृतवीर्यं स गहनं प्रापयस्य माम् ॥४४॥
गजानन प्रसादार्थमनुष्ठानं करोम्यहम् ।
रुदित्वः पितरौ तस्य श्रुत्वा वाणीं तदीरिताम् ॥४५॥
अप्रेषयद्वनं चारु नरयानेन तं पिता ।
भृत्याः पर्णकुटीमध्ये संस्थाप्य नगरं ययुः ॥४६॥
तस्थौ तत्र स्वयं सम्यक् तपसे कृतनिश्चयः ॥४७॥ (३१६७)
इति श्रीगणेशपुराण उपासनाखंडे द्विसप्ततितमोऽध्यायः ॥७२॥
अध्याय ७३ प्रारंभ :-
इन्द्र उवाच ।
गुरूपदिष्टं मन्त्रं जजाप नियमेन सः ।
ध्यायन् गजाननं देवं निष्ठामास्थाय नैष्ठिकीम् ॥१॥
वायुभक्षो निराहारो लोष्ट पाषाण सन्निभः ।
एवं द्वादश वर्षाणि व्यतीतानि तपस्यतः ॥२॥
हस्तपादविहीनस्य बालकस्य महात्मनः ।
निर्वाणं तस्य तद्दृष्टवा द्वादशाब्दं गजाननः ॥३॥
तडागमध्यादुत्तस्थौ प्रवालमयमूर्तिगः ।
उवाच संमुखो भूत्वा निष्ठा भक्ति सुतोषित: ॥४॥
गणेश उवाच ।
निर्जनेऽस्मिन् वने यस्मात्सिंहव्याघ्रनिषेविते ।
निकुंज बहुले तिष्ठद्यतो द्वादशवार्षिकम् ॥५॥
अतस्तेऽहं वरं दास्ये शृणु यत्ते मनोगतम् ।
श्रुत्वा वाणीं तदुदिता मास्थितो देहभावनाम् ॥६॥
कृतवीर्यसुतो नत्वा प्रोवाच द्विरदाननम् ।
शृण्वत्सु सर्वमुनिषु विमानस्थेषु भूरिशः ॥७॥
पुत्र उवाच ।
त्वत्पादयुगले देव भक्तिरव्यभिचारिणी ।
अस्तु मे सततं नान्यदुत्साहो मे प्रयाचि म ॥८॥
तथापि याचे देवेश पित्रोः संतोषहेतवे ।
शरीरे चारुतां देहि सर्वसंतोषकारिणीम् ॥९॥
इन्द्र उवाच ।
श्रुत्वा वाक्यं तदीयं तु मायावी स गजाननः ।
अणिमानं समास्थाय विवेशोदरमादरात् ॥१.७३.१०॥
तस्मिन् प्रविष्टे पुत्रोऽसौ दिव्यदेहोऽभवन्नृप ।
सहस्रभुजवान्जातः कृतवीर्यात्मजस्तदा ॥११॥
ऋजुपाद द्वययुतः स्थितः पर्वतसन्निभः ।
ववर्षुः पुष्पवर्षाणि देवा देवर्षयोऽपि च ॥१२॥
तुष्टुवुस्तं च देवं च गीतवादित्रनिस्वनैः ।
जगर्ज कार्तवीर्योऽसौ सहस्रभुजमंडितः ॥१३॥
तस्य शब्दं समाकर्ण्य घनगर्जितसन्निभम् ।
समवर्ती भृश त्रस्तः परेषां गणना कुतः ॥१४॥
पृथिव्यां सर्वराजानः समकपंत तद्भयात् ।
अयं पंचशतं बाणान् संग्रामे मोचयेदिति ॥१५॥
ब्रह्मादयस्ततो यानादुत्तीर्याथ तमब्रुवन् ।
स्मरणात्तव देवानां प्राप्तिः स्याद् गतवस्तुनः ॥१६॥
हृदिस्थं सर्वलोकानामामयं त्वं विनेष्यसि ।
यतः साक्षाद्विष्णुरूपः सहस्रार्जुन संज्ञया ॥१७॥
त्रिषु लोकेषु विख्यातो यावत् कल्पं भविष्यसि ।
साधुत्राणे च निरतः शरणागत पालकः ॥१८॥
विजेता सर्व शत्रूणां पृथिवी मंडलाधिपः ।
इति नाना वरान् दत्वा पिदधुर्देवता गणः ॥१९॥
हस्त्यश्व नरयानानि छत्रचामर दीपिकाः ।
रथानुपायनान्यन्यान्याजह्रूरखिला नृपाः ॥१.७३.२०॥
ततः संस्थापयामास महाप्रासादमध्यगाम् ।
प्रावालीं गणनाथस्य मूर्तिं द्विजपुरःसरः ॥२१॥
प्रवालगणपश्चेति तस्य नाम दधुर्द्विजाः ।
ददौ ग्रामान् ब्राह्मणेभ्यः पूजायै स्थापिताश्च ये ॥२२॥
प्रवालक्षेत्रमिति तत् पप्रथे भुवि सिद्धिदम् ।
तत्र शेषो धरां धर्तुमनुष्ठानपरोऽभवत् ॥२३॥
प्राप तस्माद् गणेशात्तु वरान् बहुतरानपि ।
धराधरणसामर्थ्यं सर्वज्ञात्वं तथैव च ॥२४॥
मूर्ध्ना सहस्रं श्रैष्ठ्यं च नवनागकुलेष्वपि ।
अति संतुष्ट मनसा तेन यत् स्थापितं पुरा ॥२५॥
धरणीधर इत्येवं द्वितीयं नाम पप्रथे ।
स्मरतां शृण्वतां चापि सर्वकामफलप्रदम् ॥२६॥
संपूज्य सर्वान् द्विजपुंगवांस्तान्, राज्ञश्च सर्वांननुपृच्छ्य चैतान् ।
सहस्रबाहुर्नगरं स्वकीयं, द्रष्टुं स्वमातापितरावथागात् ॥२७॥
जहर्षतुस्तौ तं दृष्ट्वा नगरं च तथाविधम् ।
ददतुर्द्विजमुख्येभ्यो नानादानानि सर्वशः ॥२८॥
इन्द्र उवाच ।
अभ्यधापि तु संकष्ट चतुर्थी महिमाऽदभुतः ।
कृतवीर्य सुताच्चायं मृत्युलोकं गतः शुभः ॥२९॥
अनुभूतः सुरगणैश्चन्द्रसेनादिभिर्नृपैः ।
अतिपुण्यतमश्चायं स्मरणादपि सिद्धिदः ॥१.७३.३०॥
एतत्प्रसादात् संप्राप्ता रावणेनाखिलाज्ञता ।
एतत् प्रसादात् संप्राप्तं पुरा राज्यं च पांडवै ॥३१॥
एतद्व्रतस्य यत्पुण्यं हस्ते मे दीयते यदि ।
तदैव तद्विमानं तु प्रचलेदमरावतीम् ॥३२।।
क उवाच ।
इति शक्रमुखात्तस्य व्रतस्य महिमा श्रुतः ।
शूरसेनेन भूपेन स्वानन्दाब्धौ निमज्यताम् ॥३३॥
वन्दिते पादकमले शक्रस्य प्रतिगर्जिता ।
तमुवाच ततः प्रीतः शूरसेनो नृपोत्तमः ॥३४॥
श्रुत्वा कथां दिव्यरूपां चतुर्थीव्रतसंभवाम् ।
स उवाच ।
फलितं पूर्वपुण्यं मे येनाश्रावीदृशं व्रतम् ॥३५॥
न हयेतस्मात् पुण्यतरं त्रिषु लोकेषु किंचन ।
इत्युक्त्वा शक्रमारेभे व्रतं कर्तुं स्वयं ततः ॥३६॥ (३२०३)
इति श्रीगणेशपुराण उपासनाखंडे चतुर्थी व्रतमाहात्म्यं नामत्रिसप्ततितमोऽध्यायः ॥७३॥
अध्याय ७४ प्रारंभ :-
व्यास उवाच ।
ब्रह्मन् कथं कृतं तेन शूरसेनेन भूभुजा।
सेतिहासं शक्रमुखाच्छ्रुत्वा सादरमुत्तमम् ॥१॥
ब्रह्मोवाच ।
ततः स्वदूतान् प्राहेदं गच्छन्तु नगरं प्रति ।
स आनेयस्तु संकष्टचतुर्थी व्रतकारकः ॥२॥
ते दूतास्त्वरया याता: पप्रच्छुस्ते गृहं गृहं ।
ददृशुर्भ्रममाणास्ते विमानं सुंदरं शुभम् ॥३॥
याऽभवद् दुष्ट चांडाली गलत् कुष्ठास्रवन्मुखा ।
मक्षिकाकृमिभारेण दुर्गन्धेन समावृता ॥४॥
शुष्कोदरी दीर्घकेशा शुष्कदन्ताक्षि नासिका ।
अत्यन्तमलिना दीर्घश्रोत्ररन्ध्रा घनस्वना ॥५॥
नेतुं तामीदृशीं दूतैरानीतां गणपस्य हि ।
अत्याश्चर्यमिदमिति राजदूता: प्रणम्य ताम् ॥६॥
ऊचुस्ते देवदूतास्तान् गणनाथस्य किंकरान् ।
अत्यंतं कुत्सिता जात्या हीनेयं स्वर्गगा कथम् ॥७॥
केयमासीत्पुरा दूताः कथमीदृग् बभूव च ।
केन पुण्येन युष्माभिः स्वर्गं तु नीयते कथम् ॥८॥
एतद्वदन्तु सर्वं नो यदि वक्तुं क्षमं भवेत् ।
देवदूता ऊचुः ।
आसीद् बंगाल विषये सारंगधर नामतः ॥९॥
क्षत्रियस्तस्य कन्येयं सुन्दरा नाम सुन्दरी ।
पिककंठा शशिमुखी रतिलावण्यजित्वरा ॥१.७४.१०॥
यद्दास्यकरणे नार्हाः प्रसिद्धा अष्टनायिकाः ।
योगिनामपि या चेतः कटाक्षेन विमोहयेत् ॥११॥
युवानो मुमुचुः शुक्रं केचित्तद्रूपवीक्षणात् ।
जारमार्गेषु निरता साऽभवद्विश्वमोहिनी ॥१२॥
महार्हवस्त्रालंकारा नानाविषयभोगिनी ।
बंगाल नगरे ख्याता वेश्येवासीद् गतत्रया ॥१३॥
भर्तारं चित्रनामानं वंचयत्येव सर्वदा ।
न्यायादसंख्य द्रव्यस्य पित्रा संपादितं पुरा ॥१४॥
कदाचिच्छयने तं सा हित्वा सुंदरवेषभृत् ।
निशीथे चलिता तेन हस्तेऽधारि रुषावशात् ॥५॥
उवाच भर्त्सयंस्तां च चित्रनामा पतिस्तदा ।
धिक् त्वां पापसमाचारे या जारे निरताऽनिशम् ॥१६॥
तद्वाक्यमिथ्यमाकर्ण्य शान्तकोपाऽभवत्तदा ।
अभक्ष्यभक्षणेनासौ मत्ता बलवती भृशम् ॥१७॥
अन्धे तमसि संगृह्य शस्त्रिकां दक्षहस्ततः ।
तया तदुदरं भित्वा चित्रनामपतेस्तदा ॥१८॥
गता तं पुरुषं रन्तुं यो जारो मनसि स्थितः ।
यावत्सा रमते तत्र तावत्पर्यन्तवासिना ॥१९॥
जाग्रता चरितं तस्या ज्ञात्वा राज्ञे निवेदितम् ।
तद्दूतास्तमसि स्थित्वा तावत्सा गृहमागता ॥१.७४.२०॥
दधुस्तां राजदूतास्ते निन्यू राजसमीपतः ।
निजघ्नुस्तां बहिर्नीत्वा दूता राजाज्ञया तदा ॥२१॥
सा नीता नरके घोरे यमदूतैस्तदायज्ञा ।
अधोमुखी स्थिता तत्र संदष्टा कृमिभिर्भृशम् ॥२२॥
अत्यंतं बुभुजे दुःखं स्मरन्ती पूर्वचेष्टिकम् ।
कल्पान्ते मृत्युलोकेऽभूच्चांडाली दुर्भगा भृशम् ॥२३॥
एकदा मदिरां पीत्वा मत्ता सुप्ता दिवैव सा ।
निशायां प्रथमे यामे प्रबुद्धा क्षुधिता भृशम् ॥२४॥
तदैव भिक्षितुं याता गृहं सा व्रतकारिणः ।
तेनान्नमस्यै दत्तं यत्तया भुक्तं विधूदये ॥ २५॥
गणेशेति च जल्पन्त्या स्वेच्छया दैवयोगतः ।
तदैव गणनाथेन विमानं प्रेषितं शुभम् ॥२६॥
ब्रह्मोवाच ।
देवदूतवचः श्रुत्वा पुनरूचुर्नमस्य ते ।
राजदूता ऊचुः ।
इदमत्यद्भुतं दृष्टमस्माभिः कार्यकारिभिः ॥२७॥
राज्ञा यदुपदिष्टं नो वाक्यमेतन्निबोधत ।
शक्रो गृत्समदं दृष्टुं विमानवरमास्थितः ॥२८॥
भ्रुशुंडिमाययौ देवैर्दृष्ट्वा नत्वा प्रपूज्य तम् ।
तदनुज्ञां च पूजां च गृहीत्वा स्वां पुरीं ययौ ॥२९॥
गच्छतस्तस्य यानं तच्छूरसेनपुरेऽपतत् ।
कुष्ठिनो वैश्यपुत्रस्य दृष्टिपातेन तत्क्षणात् ॥१.७४.३०॥
शूरसेनो गतस्तत्र नमस्कृत्य प्रपूज्य तम् ।
विमान पतनेऽपृच्छदुपायं गमनेऽपि च ॥३१॥
इन्द्रेणोक्तं तु संकष्टचतुर्थी व्रत संभवात् ।
पुण्यात् प्रस्थास्यते यानं तदर्थे यत्नमाचर ॥३२॥
वयं तदाज्ञया दूतास्तं गवेषितुमागतः ।
अनया चेद्व्रतमिदं देवदूताः कृतं यदि ॥३३॥
तर्हीयं नीयतां शूरसेनं भूमिपतिं प्रति ।
श्रेयो दास्यति चांडाली संकष्टीव्रतसंभवम् ॥३४॥
पुनर्द्विगुण पुण्येयं विमानं प्रति यास्यति ।
विमानमपि शक्रस्य स्वपुरीमागमिष्यति ॥३५॥
युष्माकमस्या अस्माकं कार्यं राज्ञः शचीपतेः ।
एवं कृते तु भविता क्रियतां यदि रोचते ॥३६॥
इति तद्वचनं श्रुत्वाऽभिदधु र्देवसेवकाः ।
आज्ञानो नो गणेशस्यास्तीमां दातुं परस्य हि ॥३७॥
इत्युक्त्वा तां समुत्थाय विमाने निदधुर्यदा ।
तदैव सा दिव्यकान्तिर्दिव्यवस्त्रांगभूषणा ॥३८॥
देवदूतैस्तु सा नीता दिव्यवादित्रनिःस्वनैः ।
गजाननसमीपे सा राजदूता यथागतम् ॥३९॥
ययुस्ते शूरसेनं तं वृत्तान्तं समनुब्रुवन् ।
ब्रुवत्सु तेषु तद्यानं चांडाल्या सह संव्रजेत् ॥१.७४.४०॥
ददृशुस्ते दीप्यमानं भासयत् प्रदिशो दिशः ।
तस्या दृष्टिर्निपतिता तस्मिन् याने शचीपतेः ॥४१॥
विमानं वायुसंस्पर्शाद्विमानमूर्ध्वमाययौ ।
पश्यत्सु सर्वलोकेषु विस्मितेषु सुरर्षिषु ॥४२॥
स्वं स्वं स्थानं ययुः सर्वे शक्रे यातेऽमरावतीम् ।
साऽपि वैनायकं धाम संप्राप्ता दिव्यदेहभाक् ॥४३॥
पापं हित्वा तु संकष्टचतुर्थीव्रत पुण्यतः ।
इदं यः शृणुयात् सम्यक् श्रावयेद्वा प्रयत्नतः ॥४४॥
प्राप्नुयात् सकलान् कामान् संकष्टनाशनं नरः ॥४५॥ (३२४८)
इति श्रीगणेशपुराण उपासनाखंडे चतुःसप्ततितमोऽध्यायः ॥७४॥
अध्याय ७५ प्रारंभ :-
क उवाच ।
श्रुत्वा दृष्ट्वा शूरसेनो महिमानं व्रतोद्भवम् ।
स्वयं कर्तुंमनाः प्राह वसिष्ठं मुनिपुंगवं ॥१॥
राजोवाच ।
मुहूर्तं वद संकष्टचतुर्थीव्रतहेतवे ।
व्रतं कर्तुमिहेच्छामि सद्यः प्रत्ययकारकम् ॥२॥
वसिष्ठ उवाच ।
माघे कृष्णे भौमवारे कुरुष्व व्रतमुत्तमम् ।
सर्वसिद्धिकरं सर्वकामदं राजसत्तम ॥३॥
ब्रह्मोवाच ।
राजा संभृतसंभारः सपत्नीकोऽति भक्तिमान् ।
अचिरेणैव संप्राप्ते वसिष्ठोक्तदिने शुभे ॥४॥
प्रारीप्समानः संकष्टचतुर्थीव्रतमुत्तमम् ।
प्राप्तःस्नानं विधायाथ नित्यकर्म समाप्य च ॥५॥
गणेशं पूजयित्वैव स्वस्तिवाच्य द्विजर्षभान् ।
पूजयित्वा वशिष्ठं स ततोऽनुज्ञां समाप्य च ॥६॥
गणेशे मन आधाय तन्नामजपतत्परः ।
एकांगुष्ठस्थितस्तावद्यावदस्तमियाद्रविः ॥७॥
पुनः स्नानं चकाराशु सायंसंध्यामुपास्य च ।
प्रारभत्पूजनं सम्यग्वसिष्ठेन समन्वितः ॥८॥
महामंडपिकां कृत्वा कदलीस्तंभमंडिताम् ।
नानालंकारवस्त्राढ्यां छत्रचामरशोभिताम् ॥९॥
आदर्शपक्तिरुचिरां पुप्पमालाविभूषिताम् ।
नानामणिप्रभायुक्तां दीपमाला विराजिताम् ॥१.७५.१०॥
तन्मध्ये स्वर्णकलशे स्थापयित्वा गजाननीम् ।
सौवर्णीं प्रतिमां चारु सर्वावयवसुंदराम् ॥११॥
नानालंकाररुचिरां नानारत्नविभूषिताम् ।
पठत्सु द्विजमुख्येषु गायत्सु गायकेषु च ॥१२॥
नदत्सु सर्वतूर्येषु नृत्यत्सु नर्तकेषु च ।
वैदिकैश्चैव पौराणैस्तां मूर्तिं समपूजयत् ॥१३॥
उपचारैः षोडशभिः पंचामृत पुरःसरम् ।
मोदकापूपलड्डूक पायसान्नं सशर्करम् ॥१४॥
नानाव्यंजनशोभाढ्यं पंचामृत समन्वितम् ।
नैवेद्यं पुरतः स्थाप्य जलं च चारुगंधयुक् ॥१५॥
समर्पयामास नृपो गजाननसुतुष्टये ।
फलानि पूग तांबूलं दक्षिणां रत्नकांचनीम् ॥१६॥
दूर्वां निराजनं मन्त्रपुप्पांजलीननेकधा ।
तिथये गणनाथाय चन्द्रायार्घ्यं ददावथ ॥१७॥
ब्राह्मणान्पूजयामास सादरं चाप्यबूभुजत् ।
अयुतं गा ददौ तेभ्यो वस्त्रालंकारदक्षिणाः ॥१८॥
ततः सुहृद्बंधुयुतः स्वयं च बुभुजे नृपः ।
रात्रौ जागरणं चक्रे गीतवाद्यकथादिभिः ॥१९॥
प्रभाते विमले स्नात्वा पुनः संपूज्य पूर्ववत् ।
मूतिं तां गणनाथस्य वसिष्ठाय सदक्षिणाम् ॥१.७५.२०॥
सोपस्करां ददौ राजा ततस्तुष्टो गजाननः ।
विमानं प्रेषयामास सर्वसंपद् विराजितम् ।।२१।।
तद्दूतैः स्थापितस्तत्र गजानन स्वरूपवान् ।
पश्यतां सर्वलोकानां मन आनन्दयन् मुहुः ॥२२॥
चलितो देवलोकाय राजा पुण्यप्रभावतः ।
तमूचुर्देवदूतास्ते गजाननस्वरूपिणः ॥२३॥
नानालंकारशोभाढ्या मुकुटाक्रांतमस्तकाः ।
विनायकेन तुष्टेन विमानं प्रेषितं तव ।।२४॥
त्वद्दर्शनौत्सुक्यधृता ततो वयमुपागताः ।
इति तद्वचनं श्रुत्वा मुमोचाश्रूणि भूमिपः॥२५॥
जगाद गद्गद्गिरा रोमांचांचितविग्रहः ।
तानुवाच ततो राजा शूरसेनः स्मयन्निव ॥२६॥
अव्यक्तस्याप्रमेयस्य नितस्य जगदीशितुः ।
वाङ्मनो गोचरस्यापि न हेतुर्मम दर्शने ॥२७॥
न समर्थाश्च यं वेदाः शास्त्राणि च निरूपितम ।
यं च स्मरन्ति सततं केशाद्या देवतागणाः ॥२८॥
तेनाहं चेत् स्मृतो दूतास्तर्हि भाग्यं महन्मम ।
इत्याकर्ण्य तु तद्वाक्यं दूता ऊचुः पुनर्नृपम् ॥२९॥
न जानीमो वयं राजन् भक्तानां महिमा कथम् ।
निर्गुणं यन्निराकारं येन साकारतामियात्॥१.७५.३०॥
राजोवाच ।
एका मे महती वांछा तुष्टे देवे भवत्सु च ।
तुष्टेषु नगरीं हित्वा कथं यायां गजाननम् ॥३१॥
न भक्षितं विनाऽप्यतैर्मया हालाहलं क्वचित् ।
स कथं परमानन्दं भोक्ष्यं एतैर्विनाऽनघाः ॥३२॥
पुनरूचुश्च तं दूतास्त्वदिच्छां परिपूर्यताम् ।
न चेद् गजानन: क्रोधात्ताडयिष्यति नोऽखिलान् ॥३३॥
ब्रह्मोवाच ।
ततः सर्वजनं नेतुं विमाने निदधुः क्षणात् ।
चतुरा करजा ब्रह्मन्निक्षिप्ताः सर्वजन्तवः ॥३४॥
सर्वे दिव्याम्बरा दिव्यवस्त्रालंकारशोभिनः ।
ऊचुः परस्परं सर्वे किमेतदद्भुतं महत् ॥३५॥
अस्माभिर्न कृतं पुण्यं विमानं कथमीदृशम् ।
अपरे चाब्रुवंस्तत्र राजपुण्यबलादिदम् ॥३६॥
यथा निधिबलाद्धातुमात्रस्य हाटकं भवेत् ।
अतिपापे यथा साधुवचसा सिद्धिमाप्नुयात् ॥३७॥
तथैव राजपुण्येन वयं सर्वे समुद्धृताः ।
ततो वैनायका दूता गतिमूर्ध्वामकल्पयन् ॥३८॥
जडीभूतं विमानं तन्नोदतिष्ठन् महीतलात्।
ततः संशयितं सर्वं कथमेतद्दिवं व्रजेत् ॥३९॥
ऊचुः परस्परं लोका निर्दैवस्य निधिः कुतः ।
आरुरुक्षेत कथं भिक्षापात्रं शिक्यं महत्तरम् ॥१.७५.४०॥
ददृशुः सर्वतः केचित् कुष्ठी दृष्टिपथं गतः ।
उवाच कश्चिद्राजानं कुष्ठिनं त्वमिमं त्यज ॥४१॥
आस्मिन्नधो गते यानमूर्ध्वमेतद् भविष्यति ।
शूरसेन उवाचैतान् दूतांस्तं त्यक्तुमिच्छतः । ४२॥
अहं पापसमाचारस्त्याज्यो नेयः इमेऽखिलाः ।
अथवा कथ्यतामस्य पूर्वपापं च जन्म च ॥४३॥
मत् स्नेहात् सर्ववेतृत्वादुपायं कृपयाऽपि च ।
दूता ऊचुः ।
न कार्या नृपते चिन्ता वदिष्यामो वयं तव ॥४४॥
जन्मपापमुपायं च कुष्ठिनो दुष्ट कर्म च ॥४५॥ (३२९३)
इति श्रीगणेशपुराण उपासनाखंडे पंचसप्ततितमोऽध्यायः ॥७५॥