शब्दकल्पद्रुमः/ग

विकिस्रोतः तः
Jump to navigation Jump to search
पृष्ठ २/२८५

, गकारः । स तु व्यञ्जनतृतीयवर्णः । अस्यो-

च्चारणस्थानं कण्ठः । (यथा, “अ-कु-ह-विस-
र्ज्जनीयानां कण्ठः ।”) इति व्याकरणम् ॥ * ॥
“गकारं परमेशानि ! पञ्चदेवात्मकं सदा ।
निर्गुणं त्रिगुणोपेतं निरीहं निर्म्मलं सदा ॥
पञ्चप्राणमयं वर्णं सर्व्वशक्त्यात्मकं प्रिये ! ।
अरुणादित्यसङ्काशां कुण्डलीं प्रणमाम्यहम् ॥”
इति कामधेनुतन्त्रम् ॥ * ॥
“ससर्गः श्लेषितः कण्ठे वायुना कादिमीरयेत् ।
वर्गस्पर्शनमात्रेण कं स्वरस्पर्शनात्तु खम् ।
स्तोकगम्भीरसंस्पर्शाद्गवौ ङञ्च वहिर्गतम् ॥”
इति प्रपञ्चसारः ॥ * ॥
(वङ्गाक्षरैस्तस्य लेखनप्रकारादिर्यथा, --
“अधःकुञ्चितरेखा या गाणेशा सा प्रकीर्त्तिता ।
ततो दक्षगता या तु कमला तत्र संस्थिता ।
अधोगता ततो या तु तस्यामीशः सदा वसेत् ॥”
अधोमुखेन गता पुनरूर्द्ध्वमुखेनागतेत्यर्थः ॥ * ॥
तस्य ध्यानं यथा, --
“ध्यानमस्याः प्रवक्ष्यामि शृणुष्व वरवर्णिनि ! ।
दाडिमीपुष्पसङ्काशां चतुर्ब्बाहुसमन्विताम् ॥
रक्ताम्बरधरां नित्यां रत्नालङ्कारभूषिताम् ।
एवं ध्यात्वा ब्रह्मरूपां तन्मन्त्रं दशधा जपेत् ॥”
इति वर्णोद्धारतन्त्रम् ॥ * ॥
तस्य नामानि यथा, --
“गोगौरी गौरवो गङ्गा गणेशो गोकुलेश्वरः ।
शार्ङ्गी पञ्चात्मको गाथा गन्धर्व्वः सर्व्वगः स्मृतिः ॥
सर्व्वसिद्धिः प्रभा धूम्रा द्विजाख्यः शिवदर्शनः ।
विश्वात्मा गौः पृथग्रूपा बालबद्धस्त्रिलोचनः ॥
गीतं सरस्वती विद्या भोगिनी नन्दनो धरा ।
भोगवती च हृदयं ज्ञानं जालन्धरो लवः ॥”
इति नानातन्त्राहृतनामानि ॥

गं, क्ली, (गीयते इति । गै गाने + भावे बाहु-

लकात् डः ।) गीतम् । इत्येकाक्षरकोषः ॥

गः, पुं, (गच्छति सर्व्वं जानाति इच्छामात्रेण

अभिलषितं सर्व्वं प्राप्नोति वा सर्व्वज्ञत्वात् प्राप्त-
सर्व्वैश्वर्य्यत्वाच्च । गम् + डः ।) गणेशः । (गायति
इति । गै + डः ।) गन्धर्व्वः । इत्येकाक्षरकोषः ॥
(गुरुसंज्ञकवर्णः स तु छन्दसो गणविशेषः । यथा,
छन्दोमञ्जर्य्यां १ मे स्तवके ।
“म्यरस्तजभ्नगैर्लान्तैरभिर्दशभिरक्षरैः ।
समस्तं वाङ्मयं व्याप्तं त्रैलोक्यमिव विष्णुना ॥”
“गुरुरेको गकारस्तु लकारो लघुरेककः ॥”
वाच्यलिङ्गे तु उपसर्गरहितः कर्म्मोपपदश्च
स्यात् । तत्र “गापोष्टक् ।” ३ । २ । ८ । इति
टक् । यथा, साम गायतीति सामगः । तथा च
मनुः । २ । ६२ ।
“हृद्गाभिः पूयते विप्रः कण्ठगाभिस्तु भूमिपः ।
वैश्योऽद्भिः प्राशिताभिस्तु शूद्रः स्पृष्टाभि-
रन्ततः ॥”)

गगनं, क्ली, (गं गानं शब्दात्मकं गुणं गच्छति

यद्वा गकारं भूतेषु प्रथमभूतत्वात् प्राधान्यं
गच्छति । यद्वा गच्छन्त्यस्मिन् देवादय इति ।
“गमेर्गश्च ।” उणां । २ । ७७ । इति युच्
गश्चान्तादेशः ।) आकाशम् । इत्यमरः । १ । २ । १ ॥
(यथा मेघदूते । ४८ ।
“प्रेक्षिष्यन्ते गगनगतयो नूनमावर्ज्य दृष्टी-
रेकं मुक्तागुणमिव भुवः स्थूलमध्येन्द्रनीलम् ॥”)
तत्पर्य्यायः । अमरोक्तपर्य्यायाः आकाशशब्दे
द्रष्टव्याः ॥ (तेभ्यः परम् ।) वर्हिः १९ धन्व २०
आपः २१ पृथिवी २२ भूः २३ स्वयम्भूः २४
अध्वा २५ सगरः २६ ससुद्रः २७ अध्वरः २८ ।
इति वेदनिघण्टौ १ अध्यायः ॥ * ॥
“आकाशं प्रथमं भूतं श्रोत्रमध्यात्ममुच्यते ।
अधिभूतं तथा शब्दो दिशस्तत्राधिदैवतम् ॥”
इत्याश्वमेधिकपर्व्व ॥
तस्य गुणाः । शब्दः १ व्यापृत्त्वम् २ छिद्रता ३
अनाश्रयम् ४ अनालम्बम् ५ आश्रयान्तर-
शून्यम् । अव्यक्तम् ६ रूपस्पर्शशून्यत्त्वात् । अधि-
कारिता ७ द्रव्यान्तरानारम्भकत्वम् । अप्रती-
घातिता ८ भूतत्वम् ९ श्रोत्रेन्द्रियोपादानत्वात् ।
विकृतानि १० देहान्तर्गतच्छिद्राणि । तद्यथा, --
“आकाशस्य गुणः शब्दो व्यापृत्त्वं छिद्रमेव च ।
अनाश्रयमनालम्बमव्यक्तमविकारिता ॥
अप्रतीघातिता चैव भूतत्वं विकृतानि च ।
गुणाः पञ्चाशतः प्रोक्ताः पञ्चभूतात्मभूतता ॥”
पञ्चानां भूतानां आत्मा प्राप्तिः स्वकं स्वरूपं
तत्र लक्षिता । इति मोक्षधर्म्मः ॥ (गगनात्
पतिताम्बुगुणविशेषो यथा, --
“गगनाम्बु त्रिदोषघ्नं गृहीतं यत् सुभाजने ।
बल्यं रसायनं मेध्यं पात्रापेक्षि ततः परम् ॥
रक्षोघ्नं शीतलं ह्लादि ज्वरदाहविषापहम् ॥”
इति सुश्रुते सूत्रस्थाने ४५ अध्यायः ॥)

गगनध्वजः, पुं, (गगने गगनस्य वा ध्वज इव ।)

मेघः । इति हारावली ॥ सूर्य्यः । इति हेम-
चन्द्रः ॥

गगनाध्वगः, पुं, (गगनरूपाध्वना आकाशपथेन

गच्छतीति यद्वा गगनाध्वानं व्याप्य गच्छति ।
अनन्तगगनरूपमद्धानं व्याप्य सर्व्वतः स्थित
इत्येव प्रकृततातपर्य्यार्थः । गम + डः ।) सूर्य्यः ।
इति हेमचन्द्रः ॥

गगनेचरः, पुं, (गगने चरतीति । “चरेष्टः ।” ३ ।

२ । १६ । इति टः । अलुक् समासः ।) ग्रहः ।
नक्षत्रम् । इति सिद्धान्तशिरोमणिः ॥ (गगन-
चारिणि त्रि । यथा, महाभारते । १ । २७ । १५ ।
“तस्मिंस्तु कथिते मात्रा कारणे गगनेचरः ॥”)

गगनोल्मुकः, पुं, (गगने गगनस्य वा उल्मुक

इव । मङ्गलग्रहस्य रक्तवर्णत्वात् तथात्वम् ।)
मङ्गलग्रहः । इति हारावली ॥

गग्घ, हसने । इति कविकल्पद्रुमः ॥ (भ्वां परं-

अकं-सेट् ।) कण्ठ्यवर्गतृतीयोपधः । गग घति ।
इति दुर्गादासः ॥

गङ्गका, स्त्री, (गङ्गा + अज्ञाताद्यर्थे कः । ततो

ह्रस्वः । “अभाषितपुंस्काच्च ।” ७ । ३ । ४८
इति पक्षे इत्वाभावः ।) गङ्गा । इति मुग्धबोधम् ॥

गङ्गा, स्त्री, (गमयति प्रापयति ज्ञापयति वा

भगवतपदं या शक्तिः यद्वा गम्यते प्राप्यते
ज्ञाप्यते मोक्षार्थिभिर्या । गम गतौ + “गन्
गम्यद्योः ।” उणां । १ । १२२ । इति गन् तत-
ष्टाप् ।) स्वनामख्यातनदी । तदधिष्ठात्री देवता च ।
तत्पर्य्यायः । विष्णुपदी २ जह्रुतनया ३
सुरनिम्नगा ४ भागीरथी ५ त्रिपथगा ६
तिस्रोताः ७ भीष्मसूः ८ । इत्यमरः । १ । १० । ३१ ॥
अर्घ्यतीर्थम् ९ तीर्थराजः १० । इति पद्मपुराणम् ॥
त्रिदशदीर्घिका ११ कुमारसूः १२ सरिद्वरा १३
सिद्धापगा १४ स्वरापगा १५ स्वर्ग्यापगा १६
खापगा १७ ऋषिकुल्या १८ हैमवती १९
स्वर्वापी २० हरशेखरा २१ । इति हेमचन्द्रः ॥
सुरापगा २२ धर्म्मद्रवी २३ सुधा २४ जह्न-
कन्या २५ गान्दिनी २६ रुद्रशेखरा २७
नन्दिनी २८ अलकनन्दा २९ सितसिन्धुः ३० ।
इति जटाधरः ॥ अध्वगा ३१ उग्रशेखरा ३२
सिद्धसिन्धः ३३ इति त्रिकाण्डशेषः ॥ स्वर्ग-
सरिद्वरा ३४ मन्दाकिनी ३५ जाह्नवी ३६
पुण्या ३७ समुद्रसुभगा ३८ स्वर्नदी ३९ सुर-
दीर्घिका ४० सुरनदी ४१ स्वर्धुनी ४२ ज्येष्ठा ४३
जह्नुसुता ४४ भीष्मजननी ४५ शुभ्रा ४६ शैले-
न्द्रजा ४७ भवायना ४८ । इति शब्दरत्ना-
वली ॥ अस्या जलस्य गुणाः । शीतत्वम् । स्वादु-
त्वम् । स्वच्छत्वम् । अत्यन्तरुच्यत्वम् । पथ्यत्वम् ।
पावनत्वम् । पापहारित्वम् । तृष्णामोहध्वंसन-
त्वम् । दीपनत्वम् । प्रज्ञाधारित्वञ्च । इति राज-
निर्घण्टः ॥ * ॥
(“गङ्गा सरस्वती कोनं यमुना सरयूः सची ।
वेणा इरावती नीला उत्तरात् पूर्ब्बवाहिनी ॥
हिमवत्-प्रभवा ह्येता हिमसम्भवशीतलाः ।
समाः सर्व्वगुणैर्नद्यो वातश्लेष्महरा नृणाम् ॥
आसां नवशतैर्युक्ता गङ्गा पूर्ब्बसमुद्रगा ॥”
इति हारीते प्रथमस्थाने सप्तमेऽध्याये ॥)
अस्या उत्पत्तिस्तु हिमालयात् सुमेरु-
दुहितरि मनोरमायाम् । हिमालयः प्रार्थितः
सन् देवेभ्य इमां दत्तवान् । तां नीत्वा
देवाः स्वर्गं गतवन्तः ॥ * ॥ पृथिव्यामस्या अव-
तरणकारणम् । सगरराजस्य सुतान् कपिल-
शापेन भस्मीभूतानुद्धर्त्तं भगीरथराजः पृथिव्यां
गङ्गानयनाय तपस्तेपे । ततो ब्रह्मा तुष्टस्तस्मै
तं वरं दत्त्वा गङ्गाधारणार्थं शिवाराधनं कर्त्तु-
मुक्तवान् । स शिवं पर्य्यतोषयत् । शिवोऽपि
हिमालयपर्व्वतं गत्वा जटा विकीर्य्य पतेति
गङ्गामब्रवीत् । सा तज्जटासु पतित्वा संवत्सर-
पर्य्यन्तं बभ्राम । ततः शिवो भगीरथप्रार्थनया
जटामेकामुत्क्षिप्य तामुत्ससर्ज्ज । साऽतिवेगेन
पृथिवीतलमागत्य भगीरथस्य पञ्चात् षश्चा-
दाजगाम । स सगरपुत्त्रकृतखातेन तां रसातल-
पृष्ठ २/२८६
मानीय तज्जलेन सगरसुतान् तांस्तर्पयामास ।
ते पूताः स्वर्गं गतवन्तः । इति वाल्मीकिरामा-
यणमतम् ॥ * ॥ प्रकारान्तरम् । वामनदेवस्य
बलेः सकाशात्त्रिलोकहरणकाले ब्रह्माण्डोपरि-
गतवामपादाङ्गुष्ठनखजनितविवरेण ब्रह्माण्डोर्द्ध-
स्यिता या जलधारा तच्चरणस्पर्शेन समधिक-
पूता सती ध्रुवलोके पपात । ततो देवमार्गेण
सुमेरुपर्व्वतोपरि ब्रह्मसदने पतित्वा सीतालक-
नन्दा वंक्षुर्भद्रेति चतुर्द्ध्वा भूत्वा चतुर्दिशमाश्रित्य
लवणसमुद्रं प्रविष्टा । तत्र सीता ब्रह्मसदनात्
केशराचलशृङ्गेभ्योऽधोऽधः स्रवन्ती गन्धमादन-
मूर्द्धसु पतित्वा भद्राश्ववर्षमध्येन प्राच्यां दिशि
एवं वंक्षुर्माल्यवच्छिखरान्निपत्य केतुमालवर्ष-
मध्येन प्रतीच्यामपरं भद्रा गिरिशृङ्गाण्यतिक्रम्व
शृङ्गवतः शिखरान्निपत्य उत्तरकुरुवर्षमध्येनोदी-
च्यामतोऽलकनन्दा बहुपर्व्वतशृङ्गाण्यतिक्रम्य
हिमकूटान्निपत्य भारतवर्षमध्येन दक्षिणस्यां
दिश्येवंक्रमेण लवणसमुद्रं सर्व्वाः प्रविष्टाः । इति
भागतवमतम् ॥ * ॥ अस्याः पृथिव्यामवतरण-
कालस्तु आदित्यपुराणे ।
“वैशाखशुक्लपक्षे तु तृतीयायां युधिष्ठिर ! ।
यवानुत्पादयामास युगञ्चारब्धवान् कृतम् ॥
ब्रह्मलोकात् त्रिपथगां पृथिव्यामवतारयत् ।
तस्यां कार्य्यो यवैर्होमो यवैर्विष्णुं समर्च्चयेत् ॥” * ॥
अस्या हिमालयान्निर्गताया दशहरा संज्ञा ।
तथा च स्मृतिः ।
“ज्यैष्ठे मासि क्षितिसुतदिने शुक्लपक्षे दशम्यां
हस्ते शैलान्निरगमदियं जाह्नवी मर्त्यलोकम् ।
पापान्यस्यां हरति च तिथौ सा दशेत्याहुरार्य्याः
पुण्यं दद्यादपि शतगुणं बाजिमेधायुतस्य ॥” * ॥
अथ गङ्गाध्यानम् । भविष्ये ।
“चतुर्भुजां त्रिनेत्राञ्च सर्व्वावयवभूषिताम् ।
रत्नकुम्भां सिताम्भोजां वरदामभयप्रदाम् ॥
श्वेतवस्त्रपरीधानां मुक्तामणिविभूषिताम् ।
ततो ध्यायेत् सुरूपाञ्च चन्द्रायुतसमप्रभाम् ॥
चामरैर्वीज्यमानाञ्च श्वेतच्छत्रोपशोभिताम् ।
सुप्रसन्नां सुवदनां करुणार्द्रनिजान्तराम् ॥
सुधाप्लावितभूपृष्ठामार्द्रगन्धानुलेपनाम् ।
त्रैलोक्यनमितां गङ्गां देवादिभिरभिष्टुताम् ॥
दिव्यरूपविभूषाञ्च दिव्यमाल्यानुलेपनाम् ॥”
अपि च ।
“सितमकरनिषण्णां शुक्लवर्णां त्रिनेत्रां
करधृतकमलोद्यत्सूत्पलाऽभीत्यभीष्टाम् ।
विधिहरहरिरूपां सेन्दुकोटीरचूडां
कलितसितदुकूलां जाह्नवीं तां नमामि ॥” * ॥
अथ गङ्गामाहात्म्यश्रवणपठनफलम् । यथा, --
भविष्ये ।
“माहात्म्यं ये च गङ्गायाः शृण्वन्ति च पठन्ति च ।
तेऽप्यसंख्यैर्महापापैर्मुच्यन्ते नात्र संशयः ॥”
अस्याः स्मरणफलम् ।
“गच्छंस्तिष्ठन् स्वपन् ध्यायन् जाग्रद्भुञ्जन् श्वसन् वदन् ।
यः स्मरेत् सततं गङ्गां स च मुच्येत बन्धनात् ॥
भवनानि विचित्राणि विचित्राभरणाः स्त्रियः ।
आरोग्यं वित्तसम्पत्तिर्गङ्गास्मरणजं फलम् ॥”
अस्या दर्शनादिफलम् । ब्रह्माण्डाग्नेययोः ।
“दृष्टा तु हरते पापं स्पृष्टा तु त्रिदिवं नयेत् ।
प्रसङ्गेनापि या गङ्गा मोक्षदा त्ववगाहिता ॥”
तथा भविष्ये ।
“यत् फलं जायते पुंसां दर्शनात् परमात्मनः ।
तद्भवेदेव गङ्गाया दर्शने भक्तिभावतः ॥”
अस्यां स्नानफलम् । ब्रह्माण्डपुराणे ।
“यैः पुण्यवाहिनी गङ्गा सकृद्भक्त्याऽवगाहिता ।
तेषां कुलानां लक्षन्तु भवात्तारयते शिवा ॥
अनेकजन्मसम्भूतं पापं पुंसां प्रणश्यति ।
स्नानमात्रेण गङ्गायां सद्यः पुण्यस्य भाजनम् ॥”
दानधर्म्मे ।
“अन्धाः क्लीवा जडा व्यङ्गाः पतिता रोगिणोऽन्त्यजाः ।
गङ्गां संसेव्य पुरुषा देवैर्गच्छन्ति तुल्यताम् ॥
स्नानन्तु भक्त्या गङ्गायां कर्त्तुकामस्य गच्छतः ।
पदे पदेऽश्वमेघस्य फलं मर्त्यस्य जायते ॥”
तथा, ब्रह्माण्डे ।
“ये गच्छन्ति स्वतो गङ्गां परांश्च प्रेरयन्ति ये ।
इह ते सर्व्वभोगानामन्ते ज्ञानस्य भाजनम् ॥”
अस्याः पूजायाः फलम् । आग्नेये ।
“गङ्गायां पूजितायान्तु पूजिताः सर्व्वदेवताः ।
तस्मात् सर्व्वप्रयत्नेन पूजयेदमरापगाम् ॥” * ॥
तस्यां यज्ञादिकरणफलम् । स्कान्दे ।
“यज्ञो दानं तपो जप्यं श्राद्धञ्च सुरपूजनम् ।
गङ्गायां यत् कृतं सर्व्वं कोटिकोटिगुणं भवेत् ॥”
तथा भविष्ये ।
“मुलभं सकलं पुण्यं यज्ञदानादिजं फलम् ।
गङ्गातोयैश्च सतिलैर्दुर्ल्लभं पितृतर्पणम् ॥
गयाश्राद्धं कृतं तेन उत्सृष्टस्तु वृषस्तथा ।
येन तद्वीचिसंसिक्ते तीरे श्राद्धमकारि च ॥” * ॥
तज्जलपानफलम् । भविष्ये ।
“गण्डूषमात्रपानेन अश्वमेधफलं लभेत् ।
स्वच्छन्दं यः पिबेदापस्तस्य मुक्तिः करे स्थिता ॥
त्रिभिः सारस्वतं तोयं सप्तभिस्त्वथ यामुनम् ।
नार्मदं दशभिर्मासैर्गाङ्गं वर्षेण जीर्य्यति ॥
नाभ्यन्तर्गततोयानां मृतानां क्वापि देहिनाम् ।
तत्तत्तीर्थफलप्राप्तिर्नात्र कार्य्या विचारणा ॥”
यमोक्तौ ।
“क्षेत्रस्थमुद्धृतं वापि शीतमुष्णमथापि वा ।
गाङ्गेयं हरते पापमाजन्ममरणान्तिकम् ॥” * ॥
अस्यां मरणफलम् । कूर्म्मपुराणे ।
“गङ्गायां ज्ञानतो मृत्वा मुक्तिमाप्नोति मानवः ।
अज्ञानाद्व्रह्मलोकञ्च याति नास्त्यत्र संशयः ॥
गङ्गायाञ्च जले मोक्षो वाराणस्यां जले स्थले ।
अन्तरीक्षे च गङ्गायां गङ्गासागरसङ्गमे ॥”
तथा च, स्मृतौ ।
“शुक्लपक्षे दिवा भूमौ गङ्गायामुत्तरायणे ।
धन्या देहं विमुञ्चन्ति हृदयस्थे जनार्द्दने ॥” * ॥
तत्रास्थिनिक्षेपफलम् ।
“दशाहाभ्यन्तरे यस्य गङ्गातोयेऽस्थि मज्जति ।
गङ्गायां मरणे यादृक् स तादृक् फलमाप्नुयात् ॥” *
तत्र त्रयोदशक्रियावर्जनं यथा, ब्रह्माण्डे ।
“गङ्गां पुण्यजलां प्राप्य त्रयोदश विवर्ज्जयेत् ।
शौचमाचमनं सेकं निर्माल्यं मलघर्षणम् ॥
गात्रसम्बाहनं क्रीडां प्रतिग्रहमथो रतिम् ।
अन्यतीर्थरतिञ्चैव अन्यतीर्थप्रशंसनम् ।
वस्त्रत्यागमथाघातं सन्तारञ्च विशेषतः ॥” * ॥
अथ नारायणक्षेत्रलक्षणम् । ब्रह्मपुराणे ।
“प्रवाहमवधिं कृत्वा यावद्धस्तचतुष्टयम् ।
अत्र नारायणः स्वामी नान्यः स्वामी कदाचन ॥”
अथ गर्भतीरयोर्लक्षणम् ।
“भाद्रकृष्णचतुर्द्दश्यां यावदाक्रमते जलम् ।
तावद्गर्भं विजानीयात् तदूर्द्ध्वं तीरमुच्यते ।
सार्द्धहस्तशतं यावद्गर्भतस्तीरमुच्यते ॥” * ॥
तीरे प्रतिग्रहादिनिषेधो यथा, --
“तीरे प्रतिग्रहस्त्याज्यस्त्याज्यो धर्म्मस्य विक्रयः ॥”
अथ गङ्गाक्षेत्रफलम् । स्कान्दे ।
“तीराद्गव्यूतिमात्रन्तु परितः क्षेत्रमुच्यत ।
अत्र यद्यत् कृतं कर्म्म गङ्गायां नात्र संशयः ।
अत्रस्थास्त्रिदिवं यान्ति ये मृतास्तेऽपुनर्भवाः ॥”
इति प्रायश्चित्ततत्त्वम् ॥ * ॥
(अस्या माहात्म्यं यथा, महाभारते । ३ । ८५ । ९४ ।
“न गङ्गा सदृशं तीर्थं न देवः केशवात् परः ।
ब्राह्मणेभ्यः परं नास्ति एवमाह पितामहः ॥”
अस्या श्च माहात्म्यवर्णने सहस्रनामकथनं यथा,
काशीखण्डे २९ अध्याये ।
अगस्त्य उवाच ।
“विना स्नानेन गङ्गायां नृणां जन्म निरर्थकम् ।
उपायान्तरमस्त्यन्यद् येन स्नानफलं लभेत् ॥
अशक्तानां च पङ्गूनामालस्योपहतात्मनाम् ।
दूरदेशान्तरस्थानां गङ्गास्नानं कथं भवेत् ॥
दानं वाथ व्रतं वाथ मन्त्रः स्तोत्रं जपोऽथवा ।
तीर्थान्तराभिषेको वा देवतोपासनन्तु वा ॥
यद्यस्ति किञ्चित् षड्वक्त्र ! गङ्गास्नानफलप्रदम् ।
विधानान्तरमात्रेण तद्वद प्रणताय मे ॥
त्वत्तो न वेद स्कन्दान्यो गङ्गागर्भसमुद्भव ! ।
परं स्वर्गतरङ्गिण्या महिमानं महामते ! ॥
स्कन्द उवाच ।
सन्ति पुण्यजलानीह सरांसि सरितो मुने ! ।
स्थाने स्थाने च तीर्थानि जितात्माध्युषितानि च ॥
दृष्टप्रत्ययकारीणि महामहिमभाञ्ज्यपि ।
परं स्वर्गतरङ्गिण्याः कोट्यंशोऽपि न तत्र वै ॥
अनेनैवानुमानेन बुध्यस्व कलशोद्भव ! ।
दध्रे गङ्गोत्तमाङ्गेन देवदेवेन शम्भुना ॥
स्नानकालेऽन्यतीर्थेषु जप्यते जाह्नवी जनैः ।
विना विष्णुपदीं क्वान्यत् समर्थमघमोचने ॥
गङ्गास्नानफलं ब्रह्मन् ! गङ्गायामेव लभ्यते ।
यथा द्राक्षाफलस्वादोद्राक्षायामेव नान्यतः ॥ १० ॥
अस्त्युपाय इह त्वेकः स्याद्येनाविकलं फलम् ।
स्नानस्य देवसरितो महागुह्यतमो मुने ! ॥
शिवभक्ताय शान्ताय विष्णुभक्तिपराय च ।
श्रद्धालवे त्वास्तिकाय गर्भवासमुमुक्षवे ॥
पृष्ठ २/२८७
कथनीयं न चान्यस्य कस्यचित् केनचित् क्वचित् ।
इदं रहस्यं परमं महापातकनाशनम् ॥
महाश्रेयस्करं पुण्यं मनोरथकरं परम् ।
द्युनदीप्रीतिजनकं शिवसन्तोषसन्तति ॥
नाम्नां सहस्रं गङ्गायाः स्तवराजेषु शोभनम् ।
जप्यानां परमं जप्यं वेदोपनिषदा समम् ॥
जपनीयं प्रयत्नेन मौनिना वाचकं विना ।
शुचिस्थानेषु शुचिना सुस्पष्टाक्षरमेव च ॥
स्कन्द उवाच । ॐ नमो गङ्गादेव्यै ॥
ॐ काररूपिण्यजराऽतुलाऽनन्ताऽमृतस्रवा ।
अत्युदाराऽभयाऽशोकाऽलकनन्दाऽमृताऽमला ॥
अनाथवत्सलाऽमोवाऽपां योनिरमृतप्रदा ।
अव्यक्तलक्षणाऽक्षोभ्याऽनवच्छिन्नाऽपराजिता ॥
अनाथनाथाऽभीष्टार्थसिद्धिदानङ्गवर्द्धिनी ।
अणिमादिगुणाधाराऽग्रगण्याऽलीकहारिणी ॥
अचिन्त्यशक्तिरनघाऽद्भुतरूपाऽघहारिणी ।
अद्रिराजसुताऽष्टाङ्गयोगसिद्धिप्रदाऽच्युता ॥ २० ॥
अक्षुण्णशक्तिरसुदाऽनन्ततीर्थऽमृतोदका ।
अनन्तमहिमाऽपाराऽनन्तसौख्यप्रदाऽन्नदा ॥
अशेषदेवतामूर्त्तिरघोराऽमृतरूपिणी ।
अविद्याजालशमनी ह्यप्रतर्क्यगतिप्रदा ॥
अशेषविघ्नसंहर्त्री त्वशेषगुणगुम्फिता ।
अज्ञानतिमिरज्योतिरनुग्रहपरायणा ॥
अभिरामानवद्याङ्ग्यनन्तसाराऽकलङ्किनी ।
आरोम्यदानन्दवल्ली त्वापन्नार्त्तिविनाशिनी ॥
राश्चर्य्यमूर्त्तिरायुष्या ह्याढ्याद्याप्रार्य्यसेविता ।
आप्यायिन्याप्तविद्याख्या त्वानन्दाश्वासदायिनी ॥
आलस्यघ्न्यापदां हन्त्री ह्यानन्दामृतवर्षिणी ।
इरावतीष्टदात्रीष्टा त्विष्टापूर्त्तफलप्रदा ॥
इतिहासश्रुतीड्यार्था त्विहामुत्र शुभप्रदा ।
इज्या शीलसमिज्येष्टा त्विन्द्रादिपरिवन्दिता ॥
इलालङ्कारमालेद्धा त्विन्दिरा रम्यमन्दिरा ।
इदिन्दिरादिसंसेव्या त्वीश्वरीश्वरवल्लभा ॥
ईतिभीतिहरेड्या च त्वीडनीयचरित्रभृत् ।
उत्कृष्टशक्तिरुत्कृष्टोडुपमण्डलचारिणी ॥
उदिताम्बरमार्गोस्रोरगलोकविहारिणी ।
उक्षोर्वरोत्पलोत्कुम्भा उपेन्द्रचरणद्रवा ॥ ३० ॥
उदन्वत्पूर्त्तिहेतुश्चोदारोत्साहप्रवर्द्धिनी ।
उद्बेगघ्न्युष्णशमनी उष्णरश्मिसुता प्रिया ॥
उत्पत्तिस्थितिसंहारकारिण्युपरिचारिणी ।
ऊर्ज्जं वहन्त्यूर्ज्ज धरोर्ज्जावती चोर्म्मिमालिनी ॥
उर्द्ध्वरेतःप्रियोर्द्ध्वाध्वा ह्यूर्म्मिलोर्द्ध्वगतिप्रदा ।
ऋषिबृन्दस्तुतर्द्धिश्च ऋणत्रयविनाशिनी ॥
ऋतम्भरर्द्धिदात्री च ऋक्स्वरूपा ऋजुप्रिया ।
ऋक्षमार्गवहर्क्षार्च्चिरृ जुमार्गप्रदर्शिनी ॥
एधिताखिलधर्म्मार्था त्वेकैकामृतदायिनी ।
एधनीयस्वभावैज्या त्वेजिताशेषपातका ॥
ऐश्वर्य्यदैश्वर्य्यरूपा ह्यैतिह्यं ह्यैन्दवीद्युतिः ।
ओजस्विन्योषधीक्षेत्रमोजोदौदनदायिनी ॥
ओष्ठामृतौन्नत्यदात्री त्वौषधं भवरोगिणाम् ।
औदार्य्यचञ्चुरौपेन्द्री त्वौग्री ह्यौमेयरूपिणी ॥
अम्बराध्ववहाम्बष्ठाम्बरमालाम्बुजेक्षणा ।
अम्बिकाम्बुमहायोनिरन्धोदान्धकहारिणी ॥
अंशुमाला ह्यंशुमती त्वङ्गीकृतषडानना ।
अन्धतामिस्रहन्त्र्यन्धुरञ्जना ह्यञ्जनावती ॥
कल्याणकारिणी काम्या कमलोत्पलगन्धिनी ।
कुमुद्वती कमलिनी कान्तिः कल्पितदायिनी ॥
काञ्चनाक्षी कामधेनुः कीर्त्तिकृत् क्लेशनाशिनी ।
क्रतुश्रेष्ठा क्रतुफला कर्म्मबन्धविभेदिनी ॥ ४१ ॥
कमलाक्षी क्लमहरा कृशानुंतपनद्युतिः ।
करुणार्द्रा च कल्याणी कलिकल्मषनाशिनी ॥
कामरूपा क्रियाशक्तिः कमलोत्पलमालिनी ।
कूटस्था करुणा कान्ता कूर्म्मयाना कलावती ॥
कमला कल्पलतिका काली कलुषवैरिणी ।
कमनीयजला कम्रा कपर्दिसुकपर्दगा ॥
कालकूटप्रशमनी कदम्बकुसुमप्रिया ।
कालिन्दी केलिललिता कलकल्लोलमालिका ॥
कान्तलोकत्रया कण्डूः कण्डूतनयवत्सला ।
खड्गिणी खड्गधाराभा खगा खण्डेन्दुधारिणी ॥
खे खेलगामिनी स्वस्था खण्डेन्दुतिलकप्रिया ।
खेचरी खेचरीबन्द्या ख्यातिः ख्यातिप्रदायिनी ॥
खण्डितप्रणताघौघा खलबुद्धिविनाशिनी ।
खातैनःकन्दसन्दोहा खड्गखट्वाङ्गखेटिनी ॥
खरसन्तापशमनी खनिः पीयूषपाथसाम् ।
गङ्गा गन्धवती गौरी गन्धर्व्वनगरप्रिया ॥
गम्भीराङ्गी गुणमयी गतातङ्का गतिप्रिया ।
गणनाथाम्बिका गीता गद्यपद्यपरिष्टुता ॥ ५० ॥
गान्धारी गर्भशमनी गतिभ्रष्टगतिप्रदा ।
गोमती गुह्यविद्या गौर्गोप्त्री गगनगामिनी ॥
गोत्रप्रवर्द्धिनी गुण्या गुणातीता गुणाग्रणीः ।
गुहाम्बिका गिरिसुता गोविन्दाङ्घ्रिसमुद्भवा ॥
गुणनीयचरित्रा च गायत्री गिरिशप्रिया ।
गूढरूपा गुणवती गुर्व्वी गौरववर्द्धिनी ॥
ग्रहपीडाहरा गुन्द्रा गरघ्नी गानवत्सला ।
घर्म्महन्त्री घृतवती घृततुष्टिप्रदायिनी ॥
घण्टारवप्रिया घोराऽघौघविध्वंसकारिणी ।
घ्राणतुष्टिकरी घोषा घनानन्दा घनप्रिया ॥
घातुका घूर्णितजला घृष्टपातकसन्ततिः ।
घटकोटिप्रपीतापा घटिताशेषमङ्गला ॥
घृणावती घृणनिधिर्घस्मरा घूकनादिनी ।
घुसृणापिञ्जरतनुर्घर्घरा घर्घरस्वना ॥
चन्द्रिका चन्द्रकान्ताम्बुश्चञ्चदापा चलद्युतिः ।
चिन्मयी चितिरूपा च चन्द्रायुतशतानना ॥
चाम्पेयलोचना चारुश्चार्व्वङ्गी चारुगामिनी ।
चार्य्या चारित्रनिलया चित्रकृच्चित्ररूपिणी ॥
चम्पूश्चन्दनशुच्यम्बुश्चर्च्चनीया चिरस्थिरा ।
चारुचम्पकमालाढ्या चमिताऽशेषदुष्कृता ॥ ६० ॥
चिदाकाशवहाऽचिन्त्या चञ्चच्चामरवीजिता ।
चोरिता शेषवृजिना चरिताऽशेषमण्डला ॥
छेदिताऽखिलपापौघा छद्मघ्नी छलहारिणी ।
छन्नत्रिविष्टपतला छोटिताऽशेषबन्धना ॥
छुरिताऽमृतधारौघा छिन्नैनाश्छन्दगामिनी ।
छत्रीकृतमरालौघा छटीकृतनिजामृता ॥
जाह्नवीज्या जगन्माता जप्या जङ्घालवीचिका ।
जया जनार्द्दनप्रीता जुषणीया जगद्धिता ॥
जीवनं जीवणप्राणा जगज्ज्येष्ठा जगन्मयी ।
जीवजीवातुलतिका जन्मिजन्मनिवर्हिणी ॥
जाड्यविध्वंसनकरी जगद्योनिर्जलाविला ।
जगदानन्दजननी जलजा जलजेक्षणा ॥
जनलोचनपीयूषा जटातटविहारिणी ।
जयन्ती जन्तुपापघ्नी जनितज्ञानविग्रहा ॥
झल्लरीवाद्यकुशला झलज्झालजलावृता ।
झिण्टीशवन्द्या झाङ्कारकारिणी झर्झरावती ।
टीकिताऽशेषपाताला टङ्किकैनोऽद्रिपाटने ।
टङ्कारनृत्यत्कल्लोला टीकनीयमहातटा ॥
डम्बरप्रवहा डीनराजहंसकुलाकुला ।
डमड्डमरुहस्ता च डामरोक्तमहाण्डका ॥ ७० ॥
ढौकिताऽशेषनिर्व्वाणा ढक्कानादचलज्जला ।
ढुण्डिविघ्नेशजननी ढणड्ढुणितपातका ॥
तर्पणी तीर्थतीर्था च त्रिपथा त्रिदशेश्वरी ।
त्रिलोकगोप्त्री तोयेशी त्रैलोक्यपरिवन्दिता ॥
तापत्रितयसंहर्त्री तेजोबलविवर्द्ध्विनी ।
त्रिलक्षा तारणी तारा तारापतिकरार्च्चिता ॥
त्रैलोक्यपावनी पुण्या तुष्टिदा तुष्टिरूपिणी ।
तृष्णाच्छेत्त्री तीर्थमाता त्रिविक्रमपदोद्भवा ॥
तपोमयी तपोरूपा तपस्तोमफलप्रदा ।
त्रैलोक्यव्यापिनी तृप्तिस्तृप्तिकृत्तत्त्वरूपिणी ॥
त्रैलोक्यसुन्दरी तुर्य्या तुर्य्यातीतपदप्रदा ।
त्रैलोक्यलक्ष्मीस्त्रिपदी तथ्या तिमिरचन्द्रिका ॥
तेजोगर्भा तपःसारा त्रिपुरारिशिरोगृहा ।
त्रयीस्वरूपिणी तन्वी तपनाङ्गजभीतिनुत् ॥
तरिस्तरणिजामित्रं तर्पिताऽशेषपूर्ब्बजा ।
तुलाविरहिता तीव्रपापतूलतनूनपात् ॥
दारिद्र्यदमनी दक्षा दुष्प्रेक्षा दिव्यमण्डना ।
दीक्षावती दुरावाप्या द्राक्षामधुरवारिभृत् ॥
दर्शिताऽनेककुतुका दुष्टदुर्ज्जयदुःखहृत् ।
दैन्यहृद्दुरितघ्नी च दानवारिपदाब्जजा ॥ ८० ॥
दन्दशूकविषघ्नी च दारिताऽघौघसन्ततिः ।
द्रुता देवद्रुमच्छन्ना दुर्व्वाराघविघातिनी ॥
दमग्राह्या देवमाता देवलोकप्रदर्शिनी ।
देवदेवप्रिया देवी दिक्पालपददायिनी ॥
दीर्घायुःकारिणी दीर्घा दोग्ध्री दूषणवर्ज्जिता ।
दुग्धाम्बुवाहिनी दोह्या दिव्या दिव्यगतिप्रदा ॥
द्युनदी दीनशरणं देहिदेहनिवारिणी ।
द्राघीयसी दाघहन्त्री दितपातकसन्ततिः ॥
दूरदेशान्तरचरी दुर्गमा देववल्लभा ।
दुर्वृत्तघ्नी दुर्विगाह्या दयाधारा दयावती ॥
दुरासदा दानशीला द्राविणी द्रुहिणस्तुता ।
दैत्यदानवसंशुद्धिकर्त्त्री दुर्बुद्धिहारिणी ॥
दानसारा दयासारा द्यावाभूमिविगाहिनी ।
दृष्टादृष्टफलप्राप्तिर्देवताबृन्दवन्दिता ॥
दीर्घव्रता दीर्घदृष्टिर्दीप्ततोया दुरालभा ।
दण्डयित्री दण्डनीतिर्दुष्टदण्डधरार्च्चिता ॥
दुरोदरघ्नी दावार्च्चिर्द्रवद्द्रव्यैकशेवधिः ।
दीनसन्तापशमनी दात्री दवथुवैरिणी ॥
दरीविदारणपरा दान्ता दान्तजनप्रिया ।
पृष्ठ २/२८८
दारिताद्रितटा दुर्गा दुर्गारण्यप्रचारिणी ॥ ९० ॥
धर्म्मद्रवा धर्म्मधुरा धेनुर्धीरा धृतिर्ध्रुवा ।
धेनुदानफलस्पर्शा धर्म्मकामार्थमोक्षदा ॥
धर्म्मोर्म्मिवाहिनीधुर्य्या धात्री धात्रीविभूषणम् ।
धर्म्मिणी धर्म्मशीला च धन्विकोटिकृतावना ॥
ध्यातृपापहरा ध्येया धावनी धूतकल्मषा ।
धर्म्मधारा धर्म्मसारा धनदा धनवर्द्धिनी ॥
धर्म्माधर्म्मगुणच्छेत्री धत्तूरकुसुमप्रिया ।
धर्म्मेशी धर्म्मशास्त्रज्ञा धनधान्यसमृद्धिकृत् ॥
धर्म्मलभ्या धर्म्मजला धर्म्मप्रसवधर्म्मिणी ।
ध्यानगम्यस्वरूपा च धरणी धातृपूजिता ॥
धूर्धूर्जटिजटासंस्था धन्या धीर्धारणावती ।
नन्दा निर्व्वाणजननी नन्दिनी नुन्नपातका ॥
निषिद्धविघ्ननिचया निजानन्दप्रकाशिनी ।
नभोऽङ्गनचरी नूतिर्नम्या नारायणी नुता ॥
निर्म्मला निर्म्मलाख्याना नाशिनी तापसम्पदाम् ।
नियता नित्यसुखदा नानाश्चर्य्यमहानिधिः ॥
नदीनदसरोमाता नायिका नाकदीर्घिका ।
नष्टोद्धारणधीरा च नन्दनानन्ददायिनी ॥
निर्णिक्ताशेषभुवना निःसङ्गा निरुपद्रवा ।
निरालम्बा निष्प्रपञ्चा निर्णाशितमहामला ॥ १०० ॥
निर्म्मलज्ञानजननी निःशेषप्राणितापहृत् ।
नित्योत्सवा नित्यतृप्ता नमस्कार्य्या निरञ्जना ॥
निष्ठावती निरातङ्का निर्लेपा निश्चयात्मिका ।
निरवद्या निरीहा च नीललोहितमूर्द्धगा ॥
नन्दिभृङ्गिगणस्तुत्या नागानन्दा नगात्मजा ।
निष्प्रत्यूहा नाकनदी निरयार्णवदीर्घनौः ॥
पुण्यप्रदा पुण्यगर्भा पुण्यापुण्यतरङ्गिणी ।
पृथुः पृथुफला पूर्णा प्रणतार्त्तिप्रभञ्जिनी ॥
प्राणदा प्राणिजननी प्राणेशी प्राणरूपिणी ।
पद्मालया पराशक्तिः पुरजित्परमप्रिया ॥
परापरफलप्राप्तिः पावनी च पयस्विनी ।
परानन्दा प्रकृष्टार्था प्रतिष्ठा पालनी परा ॥
पुराणपठिता प्रीता प्रणवाक्षररूपिणी ।
पार्व्वती प्रेमसम्पन्ना पशुपाशविमोचनी ॥
परमात्मस्वरूपा च परब्रह्मप्रकाशिनी ।
परमानन्दनिष्पन्दा प्रायश्चित्तस्वरूपिणी ॥
पानीयरूपनिर्व्वाणा परित्राणपरायणा ।
पापेन्धनदवज्याला पापारिः पापनामनुत् ॥
परमैश्वर्य्यजननी प्रज्ञा प्राज्ञा परापरा ।
प्रत्यक्षलक्ष्मीः पद्माक्षी परव्योमामृतस्रवा ॥ ११० ॥
प्रसन्नरूपा प्रणिधिः पूता प्रत्यक्षदेवता ।
पिनाकिपरमप्रीता परमेष्ठिकमण्डलुः ॥
पद्मनाभपदार्घेण प्रसूता पद्ममालिनी ।
परर्द्धिदा पुष्टिकरी पथ्या पूर्त्तिः प्रभावती ॥
पुनाना पीतगर्भघ्नी पापपर्व्वतनाशिनी ।
फलिनी फलहस्ता च फुल्लाम्बुजविलोचना ॥
फालितैनोमहाक्षेत्रा फणिलोकविभूषणम् ।
फेनच्छलप्रणुन्नैनाः फुल्लकैरवगन्धिनी ॥
फेनिलाच्छाम्बुधाराभा फुडुच्चाटितपातका ।
फाणितस्वादुसलिला फाण्टपथ्यजलाविला ॥
विश्वमाता च विश्वेशी विश्वा विश्वेश्वरप्रिया ।
ब्रह्मण्या ब्रह्मकृद् ब्राह्मी ब्रह्मिष्ठा विमलोदका ॥
विभावरी च विरजा विक्रान्तानेकविष्टपा ।
विश्वमित्रं विष्णुपदी वैष्णवी वैष्णवप्रिया ॥
विरूपाक्षप्रियकरी विभूतिर्विश्वतोमुखी ।
विपाशा वैबुधी वेद्या वेदाक्षररसस्रवा ॥
विद्या वेगवती वन्द्या बृंहणी ब्रह्मवादिनी ।
वरदा विप्रकृष्टा च वरिष्टा च विशोधनी ॥
विद्याधरी विशोका च वयोबृन्दनिषेविता ।
बहूदका बलवती व्योमस्था विबुधप्रिया ॥ १२० ॥
वाणी वेदवती वित्ता ब्रह्मविद्यातरङ्गिणी ।
ब्रह्माण्डकोटिव्याप्ताम्बुर्ब्रह्महत्यापहारिणी ॥
ब्रह्मेशविष्णुरूपा च बुद्धिर्विभववर्द्धिनी ।
विलासिसुखदा वैश्या व्यापिनी च वृषारणिः ॥
वृषाङ्कमौलिनिलया विपन्नार्त्तिप्रभञ्जिनी ।
विनीता विनता ब्रध्नतनया विनयान्विता ॥
विपञ्ची वाद्यकुशला वेणुश्रुतिविचक्षणा ।
वर्चस्करी बलकरी बलोन्मूलितकल्मषा ॥
विपाप्मा विगतातङ्का विकल्पपरिवर्ज्जिता ।
वृष्टिकर्त्री वृष्टिजला विधिर्विच्छिन्नबन्धना ॥
व्रतरूपा वित्तरूपा बहुविघ्नविनाशकृत् ।
वसुधारा वसुमती विचित्राङ्गी विभावसुः ॥
विजया विश्वबीजं च वामदेवी वरप्रदा ।
वृषाश्रिता विषघ्नी च विज्ञानोर्म्यंशुमालिनी ॥
भव्या भोगवती भद्रा भवानी भूतभाविनी ।
भूतधात्री भयहरा भक्तदारिद्र्यघातिनी ॥
भुक्तिमुक्तिप्रदा भेशी भक्तस्वर्गापवर्गदा ।
भागीरथी भानुमती भाग्यं भोगवती भृतिः ॥
भवप्रिया भवद्वेष्ट्री भूतिदा भूतिभूषणा ।
भाललोचनभावज्ञा भूतभव्यभवत्प्रभुः ॥ १३० ॥
भ्रान्तिज्ञानप्रशमनी भिन्नब्रह्माण्डमण्डपा ।
भूरिदा भक्तिसुलभा भाग्यवद्दृष्टिगोचरी ॥
भञ्जितोपप्लवकुला भक्ष्यभोज्यसुखप्रदा ।
भिक्षणीया भिक्षुमाता भावाभावस्वरूपिणी ॥
मन्दाकिनी महानन्दा माता मुक्तितरङ्गिणी ।
महोदया मधुमती महापुण्या मुदाकरी ॥
मुनिस्तुता मोहहन्त्री महातीर्था मधुस्रवा ।
माधवी मानिनी मान्या मनोरथपथातिगा ॥
मोक्षदा मतिदा मुख्या महाभाग्यजनाश्रिता ।
महावेगवती मेध्या महामहिमभूषणा ॥
महाप्रभावा महती मीनचञ्चललोचना ।
महाकारुण्यसंपूर्णा महर्द्धिश्च महोत्पला ॥
मूर्त्तिमन्मुक्तिरमणी मणिमाणिक्यभूषणा ।
मुक्ताकलापनेपथ्या मनोनयननन्दिनी ॥
महापातकराशिघ्नी महादेवार्द्धहारिणी ।
महोर्म्मिमालिनी मुक्ता महादेवी मनोन्मनी ॥
महापुण्योदयप्राप्या मायातिमिरचन्द्रिका ।
महाविद्या महामाया महामेधा महौषधम् ॥
मालाधरी महोपाया महोरगविभूषणा ।
महामोहप्रशमनी महामङ्गलमङ्गलम् ॥ १४० ॥
मार्त्तण्डमण्डलचरी महालक्ष्मीर्मदोज्झिता ।
यशस्विनी यशोदा च योग्या युक्तात्मसेविता ॥
योगसिद्धिप्रदा याज्या यज्ञेशपरिपूरिता ।
यज्ञेशी यज्ञफलदा यचनीया यशस्करी ॥
यमिसेव्या योगयोनिर्योगिनी युक्तबुद्धिदा ।
योगज्ञानप्रदा युक्ता यमाद्यष्टाङ्गयोगयुक् ॥
यन्त्रिताघौघसञ्चारा यमलोकनिवारिणी ।
यातायातप्रशमनी यातनानामकृन्तनी ॥
यामिनीशहिमाच्छोदा युगधर्म्मविवर्ज्जिता ।
रेवतीरतिकृद्रम्या रत्नगर्भा रमा रतिः ॥
रत्नाकरप्रेमपात्रं रसज्ञा रसरूपिणी ।
रत्नप्रासादगर्भा च रमणीयतरङ्गिणी ॥
रत्नार्ची रुद्ररमणी रागद्वेषविनाशिनी ।
रमा रामा रम्यरूपा रोगिजीवातुरूपिणी ॥
रुचिकृद्रोचनी रम्या रुचिरा रोगहारिणी ।
राजहंसा रत्नवती राजत्कल्लोलराजिका ॥
रामणीयकरेखा च रुजारी रोगरोषिणी ।
राका रङ्कार्त्तिशमनी रम्या रोलम्बराविणी ॥
रागिणी रञ्जितशिवा रूपलावण्यशेवधिः ।
लोकप्रसूर्लोकवन्द्या लोलत्कल्लोलमालिनी ॥
लीलावती लोकभूमिर्लोकलोचनचन्द्रिका ।
लेखस्रवन्ती लटभा लघुवेगा लघुत्वहृत् ॥ १५१ ॥
लास्यत्तरङ्गहस्ता च ललितालयभङ्गिगा ।
लोकबन्धुर्लोकधात्री लोकोत्तरगुणोर्ज्जिता ॥
लोकत्रयहिता लोका लक्ष्मीर्लक्षणलक्षिता ।
लीलालक्षितनिर्व्वाणा लावण्यामृतवर्षिणी ॥
वैश्वानरी वासवेद्या बन्ध्यत्वपरिहारिणी ।
वासुदेवाङ्घ्रिरेणुघ्नी वज्रिवज्रनिवारिणी ॥
शुभावती शुभफला शान्तिः शान्तनुवल्लभा ।
शूलिनी शैशववयाः शीतलामृतवाहिनी ॥
शोभावती शीलवती शोषिताशेषकिल्विषा ।
शरण्या शिवदा शिष्टा शरजन्मप्रसूः शिवा ॥
शक्तिः शशाङ्कविमला शमनस्वसृसम्मता ।
शमा शमनमार्गघ्नी शितिकण्ठमहाप्रिया ॥
शुचिः शुचिकरी शेषा शेषशायिपदोद्भवा ।
श्रीनिवासश्रुतिः श्रद्धा श्रीमती श्रीः शुभव्रता ॥
शुद्धविद्या शुभावर्त्ता श्रुतानन्दा श्रुतिस्तुतिः ।
शिवेतरघ्नी शबरी शाम्बरीरूपधारिणी ॥
श्मशानशोधनी शान्ता शश्वच्छतधृतिष्टुता ।
शालिनी शालिशोभाढ्या शिखिवाहनगर्भभृत् ॥
शंसनीयचरित्रा च शातिताशेषपातका ।
षड्गुणैश्वर्य्यसम्पन्ना षडङ्गश्रुतिंरूपिणी ॥ १६१ ॥
षण्ढताहारिसलिला ष्ट्यायन्नदनदीशता ।
सरिद्बरा च सुरसा सुप्रभा सुरदीर्धिका ॥
स्वःसिन्धुः सर्व्वदुःखघ्नी सर्व्वव्याधिमहौषधम् ।
सेव्या सिद्धिः सती सूक्तिः स्कन्दसूश्च सरस्वती ॥
सम्पत्तरङ्गिणी स्तुत्या स्थानुमौलिकृतालया ।
स्थैर्य्यदा सुभगा सौख्या स्त्रीषु सौभाग्यदायिनी ॥
स्वर्गनिःश्रेणिका सूक्ष्मा स्वधा स्वाहा सुधाजला ।
समुद्ररूपिणी स्वर्ग्या सर्व्वपातकवैरिणी ॥
स्मृताघहारिणी सीता संसाराब्धितरण्डिका ।
सौभाग्यसुन्दरी सन्ध्या सर्व्वसारसमन्विता ॥
हरप्रिया हृषीकेशी हंसरूपा हिरण्मयी ।
हृताघसङ्घा हितकृत् हेला हेलाघगर्व्वहृत् ॥
क्षेमदा क्षालिताघौघा क्षुद्रविद्राविणी क्षमा ।
पृष्ठ २/२८९
इति नामसहस्रं हि गङ्गायाः कलशोद्भव ! ।
कीर्त्तयित्वा नरः सम्यग् गङ्गास्नानफलं लभेत् ॥
सर्व्वपापप्रशमनं सर्व्वविघ्नविनाशनम् ।
सर्व्वस्तोत्रजपाच्छ्रेष्टं सर्व्वपावनपावनम् ॥
श्रद्धयाभीष्टफलदं चतुर्व्वर्गसमृद्धिकृत् ।
सकृज्जपादवाप्नोति ह्येकक्रतुफलं मुने ! ॥ १७० ॥
सर्व्वतीर्थेषु यः स्नातः सर्व्वयज्ञेषु दीक्षितः ।
तस्य यत् फलमुद्दिष्टं त्रिकालपठनाच्च तत् ॥
सर्व्वव्रतेषु यत् पुण्यं सम्यक् तीर्थेषु वाडव! ।
तत् फलं समवाप्नोति त्रिसन्ध्यं नियतः पठन् ॥
स्नानकाले पठेद्यस्तु यत्र कुत्र जलाशये ।
तत्र सन्निहिता नूनं गङ्गा त्रिपथगा मुने ! ।
श्रेयोऽर्थी लभते श्रेयो धनार्थी लभते धनम् ।
कामी कामानवाप्नोति मोक्षार्थी मोक्षमाप्नुयात् ॥
वर्षं त्रिकालपठनात् श्रद्धया शुचिमानसः ।
ऋतुकालाभिगमनादपुत्त्रः पुत्त्रवान् भवेत् ॥
नाकालमरणं तस्य नाग्निचौराहिसाध्वसम् ।
नाम्नां सहस्रं गङ्गायाः यो जपेच्छ्रद्धया मुने ! ॥
गङ्गानामसहस्रन्तु जप्त्वा ग्रामान्तरं व्रजेत् ।
कार्य्यसिद्धिमवाप्नोति निर्व्विघ्नो गेहमाविशेत् ॥
तिथिवारर्क्षयोगानां न दोषः प्रभवेत् तदा ।
यदा जप्त्वा व्रजेदेतत् स्तोत्रं ग्रामान्तरं नरः ॥
आयुरारोग्यजननं सर्व्वोपद्रवनाशनम् ।
सर्व्वसिद्धिकरं पुंसां गङ्गानामसहस्रकम् ॥ १७९ ॥
जन्मान्तरसहसेषु यत् पापं सम्यगर्ज्जितम् ।
गङ्गानामसहस्रस्य जपनात् तत् क्षयं व्रजेत् ॥
ब्रह्मघ्नो मद्यपः स्वर्णस्तेयी च गुरुतल्पगः ।
तत्संयोगी भ्रूणहन्ता मातृहा पितृहा मुने ! ॥
विश्वासघाती गरदः कृतघ्नो मित्रघातकः ।
अग्निदो गोवधकरो गुरुद्रव्यापहारकः ॥
महापातकयुक्तोऽपि संयुक्तोऽप्युपपातकैः ।
मुच्यते श्रद्धया जप्त्वा गङ्गानामसहस्रकम् ॥
आधिव्याधिपरिक्षिप्तो घोरतापपरिप्लतः ।
मुच्यते सर्व्वदुःखेभ्यः स्तवस्यास्यानुकीर्त्तनात् ॥
संवत्सरेण युक्तात्मा पठन् भक्तिपरायणः ।
अभीप्सितां लभेत् सिद्धिं सर्व्वैः पापैः प्रमुच्यते ॥
संशयाविष्टचित्तस्य धर्म्मविद्वेषिणोऽपि च ।
दाम्भिकस्यापि हिंस्रस्य चेतो धर्म्मपरं भवेत् ॥
वर्णाश्रमपथीनस्तु कामक्रोधविवर्ज्जितः ।
यत् फलं लभते ज्ञानी तदाप्नोत्यस्य कीर्त्तनात् ॥
गायत्र्ययुतजप्येन यत् फलं समुपार्ज्जितम् ।
सकृत् पठनतः सम्यक् तदशेषमवाप्नुयात् ॥ १८८ ॥
गां दत्त्वा वेदविदुषे यत् फलं लभते कृती ।
तत् पुण्यं सम्यगाख्यातं स्तवराजसकृज्जपात् ॥
गुरुशुश्रूषणं कुर्व्वन् यावज्जीवं नरोत्तमः ।
यत् पुण्यमर्ज्जयेत् तद्भाग् वर्षं त्रिषवणं जपन् ॥
वेदपारायणात् पुण्यं यदत्र परिपठ्यते ।
तत् षण्मासेन लभते त्रिसन्ध्यं परिकीर्त्तनात् ॥
गङ्गायाः स्तवराजस्य प्रत्यहं परिशीलनात् ।
शिवभक्तिमवाप्नोति विष्णुभक्तोऽथवा भवेत् ॥
यः कीर्त्तयेदनुदिनं गङ्गानामसहस्रकम् ।
ततसमीपे सहचरी गङ्गादेवी सदा भवेत् ॥
सर्व्वत्र पूज्यो भवति सर्व्वत्र विजयी भवेत् ।
सर्व्वत्र सुखमाप्नोति जाह्नवीस्तोत्रपाठतः ॥
सदाचारी स विज्ञेयः स शुचिस्तु सदैव हि ।
कृतसर्व्वसुरार्च्चः स कीर्त्तयेद् य इमां स्तुतिम् ॥
तस्मिंस्तृप्ते भवेत् तृप्ता जाह्नवी नात्र संशयः ।
तस्मात् सर्व्वप्रयत्नेन गङ्गाभक्तं समर्च्चयेत् ॥
स्तवराजमिमं गाङ्गं शृणुयाद्यश्च वै पठेत् ।
श्रावयेदथ तद्भक्तान् दम्भलोभविवर्ज्जितः ॥
मुच्यते त्रिविधैः पापैर्मनोवाक्कायसम्भवैः ।
क्षणान्निष्पापतामेति पितॄणाञ्च प्रियो भवेत् ॥
सर्व्वदेवप्रियश्चापि सर्व्वर्षिगणसम्मतः ।
अन्ते विमानमारुह्य दिव्यस्त्रीशतसंवृतः ॥
दिव्याभरणसम्पन्नो दिव्यभोगसमन्वितः ।
नन्दनादिवने स्वैरं देववत् स प्रमोदते ॥ २०० ॥
भुज्यमानेषु विप्रेषु श्राद्धकाले विशेषतः ।
जपन्निदं महास्तोत्रं पितॄणां तृप्तिकारकम् ॥
यावन्ति तत्र सिक्थानि यावन्तोऽम्बुकणाः स्थिताः
तावन्त्येव हि वर्षाणि मोदन्ते स्वः पितामहाः ॥
यथा प्रीणन्ति पितरो गङ्गायां पिण्डदानतः ।
तथैव तृप्नुयुः श्राद्धे स्तवस्यास्यानुसंश्रवात् ॥
एतत् स्तोत्रं गृहे यस्य लिखितं परिपूज्यते ।
तत्र पापभयं नास्ति शुचि तद्भवनं सदा ॥
अगस्ते ! किं बहूक्तेन शृणु मे निश्चितं वचः ।
संशयो नात्र कर्त्तव्यः सन्देग्धरि फलं न हि ॥
यावन्ति मर्त्ये स्तोत्रांणि मन्त्रजालान्यनेकशः ।
तावन्ति स्तवराजस्य गाङ्गेयस्य समानि न ॥
यावज्जम्म जपेद्यस्तु नाम्नामेतत् सहस्रकम् ।
स कीकटेष्वपि मृतो न पुनर्गर्भमाविशेत् ॥
नित्यं नियमवानेतद्यो जपेत् स्तोत्रमुत्तमम् ।
अन्यत्रापि विपन्नः स गङ्गातीरे मृतो भवेत् ॥
एतत् स्तोत्रवरं रम्यं पुरा प्रोक्तं पिनाकिना ।
विष्णवे निजभक्ताय मुक्तिवीजाक्षरास्पदम् ॥
गङ्गास्नानप्रतिनिधिः स्तोत्रमेतन्मयेरितम् ।
सिस्नासुर्जाह्नवीं तस्मादेतत् स्तोत्रं जपेत् सुधीः ॥”
इति श्रीस्कन्दपुराणे काशीखण्डे गङ्गासहस्र-
नामकथनं नामैकोनत्रिंशत्तमोऽध्यायः ॥ * ॥ * ॥
इयमेव शिवस्य तोयरूपा परा मूर्त्तिः । यथा,
काशीखण्डे । २७ । २--७ ।
ईश्वर उवाच ।
“निशामय महावाहो ! विष्णो ! त्रैलोक्यसुन्दर ! ।
प्राप्तं वाराणसीत्याख्यामविमुक्तं यथा तथा ॥
निर्द्दग्धान् सागरान् श्रुत्वा कपिलक्रोधवह्निना ।
अश्वमेधाश्वसंयुक्तान् पूर्ब्बजान् स्वान् भगीरथः ॥
सूर्य्यवंशे महातेजा राजा परमधार्म्मिकः ।
आरिराधयिषुर्गङ्गां तंपसे कृतनिश्चयः ॥
हिमवन्तं नगश्रेष्ठममात्यन्यस्तराज्यधूः ।
जगाम यशसां राशिरुद्दिधीर्षुः पितामहान् ॥
ब्रह्मशापाग्निनिर्द्दग्धान् महादुर्गतिगानपि ।
विना त्रिमार्गगां विष्णो ! को जन्तूंस्त्रिदिवं नयेत् ॥
ममैव सा परा मूर्त्तिस्तोयरूपा शिवात्मिका ।
ब्रह्माण्डानामनेकानामाधारः प्रकृतिः परा ॥
शरीरस्था इडा नाडी । यथा, हटयोगदीपि-
कायाम् । ३ । ११० ।
“इडा भगवती गङ्गा पिङ्गला यमुनानदी ।
इडापिङ्गलयोर्मध्ये बालरण्डा च कुण्डली ॥”)
दुर्गा । यथा, देवीपुराणे ४५ अध्याये ।
“क्रियाकारणरूपत्वात् सरणाच्च सरिन्मता ।
सङ्गमाद्गमनाद्गङ्गा लोके देवी विभाव्यते ॥”

गङ्गाका, स्त्री, (गङ्गा एव । स्वार्थे कन् ततः

“अभाषितपुंस्काच्च ।” ७ । ३ । ४८ । इति पाणिनि-
मतेन गङ्गका गङ्गिका इत्येव पदद्वयं सिद्धं
परं मुग्धवोधमतेन “वाच्चापोऽनुक्तपुंस्कस्य ।”
इति सूत्रेण । गङ्गिका गङ्गाका गङ्गका इति
पदत्रयं सिद्धम् । “वाग्रहणमकारस्यापि स्थित्य-
र्थम् ।” इति मुग्धबोधटीकाकृद् दुर्गादासः ।)
गङ्गा । इति मुग्धबोधम् ॥

गङ्गाचिल्ली, स्त्री, (गङ्गास्थिता चिल्ली ।) चिल्ल-

विशेषः । गाङ्गचिल इति भाषा । तत्पर्य्यायः ।
देवट्टी २ विश्वका ३ जंलकुक्कुटी ४ । इति
हारावली ॥

गङ्गाजः, पुं, (गङ्गायाः गङ्गागर्भात् जायते इति ।

जन् + डः ।) भीष्मः । इति शब्दरत्नावली ॥
कार्त्तिकेयः । इति भारतम् ॥

गङ्गाटेयः, पुं, (गङ्गायां गङ्गादिनद्यामित्यर्थः

अटतीति । अट् + अच् । ततो ढक् । यद्वा
गङ्गातटेयातीति । या + कः । पृषोदरात् तकार-
लोपे साधुः ।) मत्स्यभेदः । चिङ्गिडि इति
भाषा । तत्पर्य्यायः । गलानिलः २ । इति
त्रिकाण्डशेषः ॥

गङ्गाधरः, पुं, (धरतीति धरः । धृ + अच् । गङ्गाया

धरः । स्वशिरोजटाभिरिति शेषः ।) शिवः । इत्य-
मरः । १ । १ । ३६ ॥ (अस्य गङ्गाधारणविवरणं
यथा, रामायणे । १ । ४३ । १-११ ।
“देवदेवे गते तस्मिन् सोऽङ्गुष्ठाग्रनिपीडिताम् ।
कृत्वा वसुमतीं राम ! वत्सरं समुपासत ॥
अथ संवत्सरे पूर्णे सर्व्वलोकनमस्कृतः ।
उमापतिः पशुपती राजानमिदमब्रवीत् ॥
प्रीतस्तेऽहं नरश्रेष्ठ ! करिष्यामि तव प्रियम् ।
शिरसा धारयिष्यामि शैलराजसुतामहम् ॥
ततो हैमवती ज्येष्ठा सर्व्वलोकनमस्कता ।
तदा सातिमहद्रूपं कृत्वा वेगञ्च दुःसहम् ॥
आकाशादपतद्राम ! शिवे शिवशिरस्युत ।
अचिन्तयच्च सा देवी गङ्गा परमदुर्द्धरा ॥
विशाम्यहं हि पातालं स्रोतस्रा गृह्य शङ्करम् ।
तस्यावलेपनं ज्ञात्वा क्रुद्धस्तु भगवान् हरः ॥
तिरोभावयितुं बुद्धिं चक्रे त्रिनयनस्तदा ।
सा तस्मिन् पतिता पुण्या पुण्ये रुद्रस्य मूर्द्धनि ॥
हिमवत्प्रतिमे राम ! जटामण्डलगह्वरे ।
सा कथञ्चित् महीं गन्तुं नाशक्नोत् यत्नमास्थिता ॥
नैव सा निर्गमं लोभे जटामण्डलमन्ततः ।
तत्रैवावभ्रमद्देवी संवत्सरगणान् बहून् ॥
तामपश्यत् पुनस्तत्र तपः परममास्थितः ।
स तेन तोषितश्चासीदत्यन्तं रघुनन्दन ! ॥
पृष्ठ २/२९०
विससर्ज ततो गङ्गां हरो विन्दुसरः प्रति ॥”)
समुद्रः । इति त्रिकाण्डशेषः ॥ * ॥ (जीर्णाति-
साररोगनाशकचूर्णौषधविशेषः । यथा, --
“धातक्यामलकीपयोधरवृकीकट्वङ्गयष्ठीमधु-
श्रीजम्ब्वाम्रफलास्थिनागरविषाह्रीवेरलोध्रेन्द्रजैः ।
तुल्यांशं विहितं सतण्डुलजलं गङ्गाधराख्यं मह-
च्चूर्णं तूर्णमपाकरोति सकलं जीर्णातिसारं परम् ॥”
इति शब्दार्थचिन्तामणिः ॥)

गङ्गापत्री, स्त्री, (गङ्गावत् पवित्रं शुभ्रं वा पत्रमस्या

इति ङीष् ।) वृक्षविशेषः । तत्पर्य्यायः । पत्री २
सुगन्धा ३ गन्धपत्रिका ४ । अस्या गुणाः ।
कटुत्वम् । उष्णत्वम् । वातनाशित्वम् । व्रण-
रोपणत्वञ्च । इति राजनिर्धण्टः ॥

गङ्गापुत्त्रः, पुं, (गङ्गायाः पुत्त्रः ।) भीष्मः । इति

पुराणम् ॥ वर्णसङ्करजातिविशेषः । मुरदा-
फराश इति पारस्य भाषा । स तु लेटात् तीवर
कन्यायां जातः । इति ब्रह्मवैवर्त्तपुराणम् ॥
(कार्त्तिकश्च ॥)

गङ्गासुतः, पुं, (गङ्गायाः सुतः पुत्त्रः ।) कार्त्ति-

केयः । इति हेमचन्द्रः ॥ (यथा, महाभारते ।
३ । २३१ । १५ ।
“सहस्रशीर्षस्त्वमनन्तरूपः
सहस्रपात्त्वं गुरुशक्तिधारी ।
गङ्गासुतस्त्वं स्वमतेन देव !
स्वाहामहीकृत्तिकानां तथैव ॥”)
भीष्मश्च । इति पुराणम् ॥

गङ्गिका, स्त्री, (गङ्गा एव । स्वार्थे कन् ततः

“अभाषितपुंस्काच्च ।” ७ । ३ । ४८ । इति पक्षे इत् ।)
गङ्गा । इति मुग्धबोधम् ॥

गच्छः, पुं, (गम् + सम्पदादित्वात् क्विप् तुक् च गतं

गमनं क्व्यति नाशयतीति । गत् + छो + कः ।)
वृक्षः । इति हेमचन्द्रः ॥ गाछ इति भाषा ॥
निर्विसर्गे गमनक्रियानुमतिः । (तदा गमधातो-
र्लोटि मध्यमपुरुषस्यैकवचनस्य रूपम् ।) इति
व्याकरणम् ॥ याओ इति भाषा ॥

गज, स्वने । इति कविकल्पद्रुमः ॥ (भ्वां-परं-

अकं-सेट् ।) गजति । इति दुर्गादासः ॥

गज, इ मदे स्वने । इति कविकल्पद्रुमः ॥ (भ्वां-परं-

अकं-सेट् इदित् ।) इ, कर्म्मणि गञ्ज्यते । इति
दुर्गादासः ॥

गज, क स्वने । (चुरां-परं-अकं-सेट् ।) क, गाज-

यति । इति दुर्गादासः ॥

गजः, पुं, (गजति मदेन मत्तो भवतीति । गज् +

अच् ।) हस्ती । इत्यमरः । २ । ८ । ३४ ॥ (स तु
त्रिविधः । यथाह शब्दार्थचिन्तामणिः ।
“भद्रो मन्दो मृगश्चैव विज्ञेयास्त्रिविघा गजाः ॥”
अस्य लक्षणादिकं यथा, वृहत्संहितायां ६७
अध्याये ।
“मध्वाभदन्ताः सुविभक्तदेहा
न चोपदिग्धाश्च कृशाः क्षमाश्च ।
गात्रैः समैश्चापसमानवंशा
वराहतुल्यैर्जघनैश्च भद्राः ॥
वक्षोऽथ कक्षावलयः श्लथाश्च
लम्बोदरस्त्वग्बृहती गलश्च ।
स्थूला च कुक्षिः सह पेचकेन
सैंही च दृग्मन्दमतङ्गजस्य ॥
मृगास्तु ह्रस्वाधरवालमेढ्रा-
स्तन्वङ्घ्रिकण्ठद्विजहस्तकर्णाः ।
स्थूलेक्षणाश्चेति यथोक्तचिह्नैः
सङ्कीर्णनागा व्यतिमिश्रचिह्नाः ॥
पञ्चोन्नतिः सप्त मृगस्य दैर्घ्य-
मष्टौ च हस्ताः परिणाहमानम् ।
एकद्विवृद्धावथ मन्दभद्रौ
सङ्कीर्णनागोऽनियतप्रमाणः ॥
भद्रस्य वर्णो हरितो मदस्य
मन्दस्य हारिद्रंकसन्निकाशः ।
कृष्णो मदश्चाभिहितो मृगस्य
सङ्कीर्णनागस्य मदो विमिश्रः ॥
ताम्रोष्ठतालुवदनाः कलविङ्कनेत्राः
स्निग्धोन्नताग्रदशनाः पृथुलायतास्याः ।
चापोन्नतायतनिगूढनिमग्नवंशा-
स्तन्वेकरोमचितकूर्म्मसमानकुम्भाः ॥
विस्तीर्णकर्णहनुनाभिललाटगुह्याः
कूर्म्मोन्नतद्विनवविंशतिभिर्नखैश्च ।
रेखात्रयोपचितवृत्तकराः सुवाला
धन्याः सुगन्धिमदपुष्करमारुताश्च ॥
दीर्घाङ्गुलिरक्तपुष्कराः
सजलाम्भोदनिनादबृंहिणः ।
बृहदायतवृत्तकन्धरा
धन्या भूमिपतेर्मतङ्गजाः ॥
निर्मदाभ्यधिकहीननखाङ्गान्
कुब्जवामनकमेषविषाणान् ।
दृश्यकोशफलपुष्करहीनान्
श्यावनीलशबलासिततालून् ॥
स्वल्पवक्त्ररुहमत्कुणषण्ढान्
हस्तिनीं च गजलक्षणयुक्ताम् ।
गर्भिनीं च नृपतिः परदेशं
प्रापयेदतिविरूपफलास्ते ॥ * ॥
यथा, भट्टिः । १४ । ५ ।
“हया जिहेषिरे हर्षाद्गम्भीरं जगजुर्गजाः ॥”)
परिमाणविशेषः । स तु हस्तद्वयं पादोनहस्त-
द्वयञ्च । (यथा, शब्दार्थचिन्तामणौ ।
“अरत्नीनां शतान्यष्टावेकः षष्ट्यधिकानि च ।
गजप्रमाणमाख्यातं मुनिभिर्ब्रह्मवादिभिः ॥”)
वास्तुनः स्थानभेदः । इति मेदिनी ॥
“प्रस्तारे दैर्घ्यमानन्तु स्वहस्तेन तथा नरैः ।
कृत्वा त्रिघ्नं गजैर्हृत्वा वास्तुस्थाननिरूपणम् ॥
ध्वजो धूमश्च सिंहश्च श्वां वृषः खर एव च ।
गजः काकपदञ्चैव स्थानान्यष्टौ च वास्तुनः ॥
ध्वजे विभूतिर्मरणञ्च धूमे
सिंहे जयः श्वा च करोत्यनर्थम् ।
वृषे च भोगी क्षयणं खरे च
पुष्टिर्गजे काकपदे विनाशः ॥”
इति ज्योतिषम् ॥ * ॥
औपधपाकार्थगर्त्तविशेषः । यथा, --
“हस्तप्रमाणगर्त्तो यः पुटः स तु गजाह्वयः ।
इत्थं चारत्निके कुण्डे पुटो वाराह उच्यते ॥”
इति वैद्यकप्रयोगामृतम् ॥
(असुरविशेषः । स तु महिषासुरपुत्त्रः । यथा,
काशीखण्डे । ६८ । ३ ।
“महिषासुरपुत्त्रोऽसौ समायाति गजासुरः ।
प्रमथन् प्रमथान् सर्व्वान् निजवीर्य्यमदोद्धतः ॥”)

गजकन्दः, पुं, (गज इव स्थूलः गजस्य दन्त इव वा

कन्दो यस्य ।) हस्तिकन्दः । इति राज-
निर्घण्टः ॥

गजकूर्म्माशी, [न्] पुं, (गजश्च कूर्म्मश्च तौ गज-

कूर्म्मौ । तौ अश्नातीति । अश ग भोजने +
णिनि ।) गरुडः । इति शब्दरत्नावली ॥
(पुरा हि कदाचित् विभावसुसुप्रतीकनामानौ
द्वौ भ्रातरौ ब्राह्मणकुमारौ पितृधनार्थमन्योन्य-
मभिशप्तौ गजत्वं कूर्म्मत्वं च गतावपि पूर्ब्बवैर-
मनुस्मरन्तो सुचिरं युध्यमानौ प्रजापतिकश्यपा-
दिष्टेन पतगेश्वरेण गरुडेन भक्षितौ । एतद्वि-
वरणन्तु महाभारतीयादिपर्व्वणि सौपर्णे २९
अध्याये सविस्तरं दर्शनीयम् ॥)

गजचिर्भटा, स्त्री, (गजस्पृहणीया चिर्भटा ।)

इन्द्रवारुणी । इति रत्नमाला ॥ गोरक्षलाड
राखालशसा इति च भाषा ॥

गजचिर्भिटः, पुं, (गजप्रियश्चिर्भिटः ।) गोडुम्बा ।

इति त्रिकाण्डशेषः ॥

गजचिर्भिटा, स्त्री, (गजभक्ष्या चिर्भिटा ।)

महेन्द्रवारुणी । इति राजनिर्धण्टः ॥

गजच्छाया, स्त्री, (गजस्य कुञ्जरस्य छाया प्रति-

विम्बः । हस्तिच्छाया ।) योगविशेषः । यथा, --
“यदेन्दुः पितृदैवत्ये हंसश्चैव करे स्थितः ।
याम्या तिथिर्भवेत् सा हि गजच्छाया प्रकी
र्त्तिता ॥”
इति मिताक्षरापरिभाषा ॥
अपि च । कृत्यचिन्तामणौ ।
“कृष्णपक्षे त्रयोदश्यां मघास्विन्दुः करे रविः ।
यदा तदा गजच्छाया श्राद्धे पुण्यैरवाप्यते ॥”
अन्यच्च ।
“योगो मघात्रयोदश्यां कुञ्जरच्छायसंज्ञितः ।
भवेन्मघायां संस्थे च शशिन्यर्के करे स्थिते ॥” * ॥
चन्द्रसूर्य्ययोर्ग्रहणकालः । यथा, वराहः ।
“सैंहिकेयो यदा भानुं ग्रसते पर्व्वसन्धिषु ।
गजच्छायातु सा प्रोक्ता तत्र श्राद्धं प्रकल्पयेत् ॥”
अमावास्याश्राद्धकालः । यथा, --
“अमावास्यां गते सोमे छाया या प्राङ्मुखी भवेत् ।
गजच्छाया तु सा प्रोक्ता तत्र श्राद्धं प्रकल्पयेत् ॥”
इति च मलमासतत्त्वम् ॥

गजढक्का, स्त्री, (गजस्य उपरिभागे स्थिता या

बृहड्ढक्का ।) गजोपरिस्थबृहड्ढक्का । तत्-
पर्य्यायः । मदाम्नातः २ । इति हारावली ॥

गजता, स्त्री, (गजानां समूहः । “ग्रामजनबन्धु-

भ्यस्तल् ।” ४ । २ । ४३ । एतस्य सूत्रस्य
पृष्ठ २/२९१
“गजसहायाभ्याञ्चेति वक्तव्यम् ।” वार्त्तिं इति
तल् ।) गजसमूहः । तत्पर्य्यायः । हास्ति-
कम् २ । इत्यमरः । २ । ८ । ३६ ॥

गजदघ्नः, पुं, (गजेन परिमाणमस्य इति परिमाणार्थे

दघ्नच् ।) गजपरिमाणम् । इति मुग्धबोधम् ॥

गजदन्तः, पुं, (गजस्य दन्तौ इव दन्तोऽस्य ।)

गणेशः । इति शब्दरत्नावली ॥ (गजस्य दन्तः ।)
गजसम्बन्धिदन्तः । नागदन्तः । हातिर दाँत
इति भाषा । स तु द्रव्यस्थापनार्थं भित्तिस्थ-
दण्डद्वयम् । दाण्डा इति भाषा ॥

गजदन्तफला, स्त्री, (गजदन्ताकृति गजदन्त इव

शुभ्रं वा फलमस्याः ।) डङ्गरीलता । इति राज-
निर्घण्टः ॥

गजदानं, क्ली, (गजस्य दानं मदः गजकटा-

दिभ्यः क्षरितो मद इत्यर्थः ।) हस्तिमदः । इति
राजनिर्घण्टः ॥ (तस्य प्रस्रवणस्थानानि । यथा, --
“करात् कटाभ्यां मेढ्राच्च नेत्राभ्याञ्च मदच्युतिः ।”
इति पालकाव्यम् ॥
तथा च रघुः । ४ । ४५ ।
“स सैन्यपरिभोगेण गजदानसुगन्धिना ।
कावेरीं सरितां पत्यः शङ्कनीयामिवाऽकरोत् ॥”
गजस्य हस्तिनो दानं प्रदानम् । गजसम्पदानम् ।
इति व्युत्पत्तिलभ्योऽर्थः ॥)

गजद्वयसः, त्रि, (गजेन परिमाणमस्य इति । गज

+ “दघ्नमात्रद्वयसट्माने ।” इति परिमाणार्थे
द्वयसट् ।) परिमितः । इति मुग्धबोधम् ॥

गजपादपः, पुं, (गजस्य नाम्ना ख्यातः पादपः

गजप्रियः पादपो वा ।) स्थालीवृक्षः । इति
भावप्रकाशः ॥

गजपिप्पली, स्त्री, (गजोपपदेन युक्ता पिप्पली ।

गजनाम्ना ख्याता पिप्पली वा ।) पिप्पलीभेदः ।
गजपिँपुल इति भाषा । तत्पर्य्यायः । करि-
पिप्पली २ इभकणा ३ कपिवल्ली ४ कपिल्लिका ५
श्रेयसी ६ वशिरः ७ गजाह्वा ८ । इति रत्न-
माला ॥ कोलवल्ली ९ । इत्यमरः ॥ वसिरः १० ।
इति तट्टीका ॥ गजोषणा ११ चव्यफलम् १२
चव्यजा १३ छिद्रवैदेही १४ दीर्घग्रन्थिः १५
तैजसी १६ वर्त्तली १७ स्थूलवैदेही १८ ।
अस्या गुणाः । कटुत्वम् । उष्णत्वम् । रुजामल-
विशोषणत्वम् । वलासवातहरत्वम् । स्तनकर्ण-
विवर्द्ध्वनत्वञ्च । इति राजनिर्घण्टः ॥ भेदाग्नि-
कारित्वम् । इति राजवल्लभः ॥ तत्पर्य्याय-
मुणाः । यथा, भावप्रकाशः ।
“चविकायाः फलं प्राज्ञैः कथिता गजपिप्पली ।
कपिवल्ली कोलवल्ली श्रेयसी वशिरश्च सा ॥
गजकृष्णा कटुवातश्लेष्मनुद्बह्निबर्द्धिनी ।
उष्णा निहन्त्यतीसारश्वासकण्ठामयक्रिमीन् ॥”

गजपुटः, पुं, (गजाह्वयः पुटः हस्तप्रमाणो गर्त्तः ।)

औषधपाकार्थं हस्तपरिमितगर्त्तः । इति वैद्य-
कम् ॥ अस्य प्रमाणं गजशब्दे द्रष्टव्यम् ॥ (लौह-
मारणादावस्य प्रयोजनं यथा, --
“दशादिशतपर्म्यन्तो गजपुटविधिर्म्मतः ॥
इति वैद्यकभैषज्यधन्वन्तरिग्रन्थे जारणविध्य-
धिकारे ॥ क्वचित् क्लीवलिङ्गत्वमपि दृश्यते । यथा,
भावप्रकाशस्य पूर्ब्बखण्डे द्बितीये भागे ।
“सपादहस्तमानेन कुण्डे निम्ने यथायते ।
वनोपलसहस्रेण पूर्णो मध्ये विधारयेत् ॥
पुटनद्रव्यसंयुक्तां कोष्ठिकां मुद्रितां मुखे ।
अथार्द्धानि करण्डानि अर्द्धान्युपरि निःक्षिपेत् ॥
एतद्गजपुटं प्रोक्तं ख्यातं सर्व्वपुटोत्तमम् ॥
हस्तश्चतुर्व्विंशत्यङ्गुलप्रमाणः सपादस्तेन त्रिंश-
दङ्गलप्रमाणेनेत्यर्थः । अतएवोक्तम् ।
साधारणनराङ्गुल्या त्रिंशदङ्गुलको गजः ॥”
इति गजपुटम् ॥)

गजप्रिया, स्त्री, (गजस्य प्रिया ।) शल्लकीवृक्षः ।

इति हेमचन्द्रः ॥

गजबन्धनी, स्त्री, (गजः हस्ती बध्यते लौह-

शृङ्खलादिभिः रुध्यतेऽस्याम् । बन्ध + ल्युट् ङीप्
च ।) गजबन्धनस्थानम् । हातिशाला इति
भाषा । तत्पर्य्यायः । वारी २ । इत्यमरः । २ । ८ ।
४३ ॥ वारिः ३ । इति भरतः ॥ प्रारब्धिः ४ ।
इति जटाधरशब्दरत्नावल्यौ ॥

गजभक्षकः, पुं, (गजेन हस्तिना भक्ष्यते इति ।

भक्ष + कर्म्मणि अप् ततः कप् स्वार्थे कन् वा ।
यद्वा गजः हस्ती भक्षकोऽस्य ।) अस्वत्थवृक्षः ।
इति राजनिर्घण्टः ॥

गजभक्षा, स्त्री, (गजेन भक्ष्यतेऽसौ । भक्ष् + अप् +

टाप् ।) शल्लकीवृक्षः । इति शब्दरत्नावली ॥

गजभक्ष्या, स्त्री, (गजेन भक्ष्या भक्षणीया ।)

शल्लकीवृक्षः । इत्यमरः । २ । ४ । १२३ ॥

गजमाचलः, पुं, स्त्री, (मच् + भावे घञ् माचः ।

गजस्य हस्तिनः माचं दम्भं लाति आदत्ते
लुनाति वा बाहुलकात् डः ।) सिंहः । इति
हारावली ॥

गजमात्रः, त्रि, (गजेन परिमाणमस्य इति । “दघ्न-

मात्रद्वयसट् माने ।” इति परिमाणार्थे मात्र ।)
गजपरिमितः । इति मुग्धबोधम् ॥

गजमोटनः, पुं, स्त्री, (गजं हस्तिनं मोटयति

मर्द्दयतीति । मुट् मर्द्दने + कर्त्तरि ल्युः ।)
सिंहः । इति शब्दमाला ॥

गजवदनः, पुं, (गजस्य वदनमेव वदनं यस्य ।)

गणेशः । इति हलायुधः ॥

गजवल्लभा, स्त्री, (गजस्य वल्लभा प्रिया ।) गिरि-

कदली । शल्लकी । इति राजनिर्घण्टः ॥

गजसाह्वयं, क्ली, (गजनाम्ना नरपतिना सह

आह्वयो नाम यस्य ।) हस्तिनापुरम् । इति
शब्दरत्नावली ॥ (यथा, महाभारते । ३ । १ । ८ ।
“ततोद्यूतजिताः पार्थाः कोपिताश्च दुरात्मभिः ।
घार्त्तराष्ट्रैः सहामात्यैर्निर्ययुर्गजसाह्वयात् ॥”)

गजाख्यः, पुं, (गजाख्यया आख्यातः गजेन सह

आख्या यस्येति वा गजकर्णवदस्य पत्त्राकारत्वा-
त्तथात्वमिति केचित् ।) चक्रमर्द्दवृक्षः । इति
राजनिर्घण्टः ॥

गजाग्रणीः, पुं, (अग्रे नीयते इति अग्रणीः ।

गजानां अग्रणीः श्रेष्ठः ।) ऐरावतहस्ती ।
इति शब्दरत्नावली ॥

गजाजीवः, पुं, (आजीव्यतेऽस्मादनेन वा आजीवः

आ + जीव् + कर्म्मण्यप् । गजः आजीवः जीव-
नोपायोऽस्य । गजपरिचालनपालनादिकार्य्य-
मालम्ब्य आजीवतीति । जीव् + कर्त्तरि अच् वा ।)
हस्तिपालकः । तत्पर्य्याया । आधोरणः २
हस्तिपकः ३ इभपालकः ४ । इति हेमचन्द्रः ॥

गजाण्डं, क्ली, (गजस्याण्डवत् मूलमस्य ।) पिण्ड-

मूलम् । इति राजनिर्घण्टः ॥

गजाननः, पुं, (गजस्य हस्तिन आननं मुखमेव

आननं यस्य ।) गणेशः । इत्यमरः । १ । १ । ४१ ॥
(यथा, ब्रह्मवैवर्त्ते गणेशखण्डे ६ अध्याये ।
“शनिदृष्ट्या शिरश्छेदात् गजवक्त्रेण योजितः ।
गजाननः शिशुस्तेन नियतिः केन बाध्यते ॥”
पुराणान्तरे मतभेदोऽपि दृश्यते यथा, स्कान्दे
गणेशखण्डे ११ अध्याये ।
गुरुरुवाच ।
“अवतारो यदि धृतः साधुत्राणाय भो विभो !
प्रकाशयाशु वदनं सर्व्वेषां शोकनाशनम् ॥
नयस्व सर्व्वदेवानामानन्दं हृदये प्रभो ! ।
शिव उवाच ।
प्रत्युवाच गुरुं पुत्त्रः पार्व्वत्या हीनमस्तकः ॥
शिशुरुवाच ।
महेशाख्येन राज्ञा ते प्रणतौ चरणौ यदा ।
तदाशीर्या त्वया दत्ता तस्मै राज्ञे गुरो मुदा ॥
गजयोनौ जनिर्मुक्तिः शिवहस्तादुदीरिता ।
तत् सर्व्वमभवत् तस्य विद्यते चारुमस्तकः ॥
पूज्यमानः शिवेनास्ते शुण्डादण्डः सुशोभनः ।
अवतारकरोऽसौ मे गुरोऽस्ति भविता मुखम् ॥
शिव उवाच ।
आश्चर्य्यपूर्णहृदयो गुरुरूचे पुनः शिशुम् ॥
गुरुरुवाच ।
भगवत ! विश्वरूपोऽसि त्रिकालज्ञोऽखिलेश्वरः ।
मया यदुदितं तस्मै त्वया ज्ञातं यतः प्रभो ! ॥
अहमीशस्वरूपं ते परिच्छेत्तुं न च क्षमः ।
श्रुत्वैव ब्रह्मणः पुत्त्रो नारदस्तत्र चाब्रवीत् ॥
नारद उवाच ।
एवमेवावतीर्णोऽसि हीनमूर्द्धा कथं प्रभो ! ।
अथवा बालरूपस्य छिन्नं ते केन तच्छिरः ॥
एतन्मे संशयं छिन्धि कृपया परमेश्वर ! ।
शिव उवाच ।
निपीय नारदीं वाणीमुवाच शिशुरुच्चकैः ॥
शिशुरुवाच ।
सिन्दूरः कोऽपि दैत्यो मे वायुरूपधरोऽच्छिनत् ।
अष्टमे मासि सम्पूर्णे प्रविश्योमोदरं शिरः ॥
तमिदानीं हनिष्येऽहं गजास्यं साम्प्रतं द्बिज ! ।
शिव उवाच ।
श्रुत्वैव नारदः प्राह शिशुरूपिणमीश्वरम् ॥
नारद उवाच ।
अकिञ्चिज्ज्ञा वयं देव ! योजनेऽस्य मुखस्य ते ।
त्वमेव च स्वभावेन मखमेतन्नियोजय ॥
पृष्ठ २/२९२
शिव उवाच ।
वदतीत्थं मुनिर्यावत् तावत् स ददृशेऽखिलैः ।
सर्व्वावयवसम्पूर्णो गजानन उमासुतः ॥
किरीटकुण्डलधरो युगबाहुः सुलोचनः ।
वामदक्षिणभागे च सिद्धिवृद्धिविराजितः ॥
दृष्ट्वा विनायकं स्कन्द ! तथाभूतं निजेच्छया ।
हर्षेणोत्फुल्लनयना देवाः सर्व्वे तदाब्रुवन् ॥
गजानन इति ख्यातो भविताऽयं जगत्त्रये ।
एवं भाद्रचतुर्थ्यां स अवतीर्णो गजाननः ॥”)

गजारिः, पुं, (गजस्य अरिः शत्रुः । तन्नाशकत्वात्

तथात्वम् ।) वृक्षविशेषः । सिंहः । यथा,
“गजारिस्तरुसिंहयोः ।” इति हड्डचन्द्रः ॥

गजाशनः, पुं, (गजेन हस्तिना अश्यते अद्यते

इति । गज + अश् + कर्म्मणि ल्युट् ।) अश्वत्थ-
वृक्षः । इति रत्नमाला ॥ गजादनोऽपि ॥

गजाशना, स्त्री, (अश्नातीति । अश ग भोजने

+ कर्त्तरि ल्युः । गजः अशनो भक्षको यस्याः ।)
भङ्गा । इति शब्दचन्द्रिका ॥ (यस्मिन्नियं व्यवह्रि-
यते तद्यथा, --
“गजाशना-कुम्भिक-दाडिमानां
रसैः कृते तैलघृते सदध्नि ॥”
इति सुश्रुते उत्तरतन्त्रे चत्वारिंशत्तमेऽध्याये ॥)
शल्लकीवृक्षः । पद्ममूलम् । इति रत्नमाला ॥

गजास्यः, पुं, (गजस्य आस्यं मुखमेव आस्यं

अस्य ।) गणेशः । इति हेमचन्द्रः ॥ (गजस्य
आस्यम् ।) हस्तिमुखे क्ली ॥

गजाह्वं, क्ली, (गजेन गजनाम्ना आहूयते इति

गजेन सह आह्वा संज्ञा यस्य इति वा ।)
हस्तिनापुरम् । इति मेदिनी ॥

गजाह्वयं, क्ली, (गजेन गजनाम्ना आह्वयोऽस्य ।)

हस्तिनापुरम् । इति शब्दरत्नावली ॥

गजाह्वा, स्त्री, (गजस्य आह्वया संज्ञया आह्वा

संज्ञा यस्याः ।) गजपिप्पली । इति मेदिनी ॥
(पर्य्यायोऽस्या यथा, --
“करिपिप्पलीभकणा कपिवल्ली कपिवल्लिका ।
श्रेयसी वशिरश्चापि गजाह्वा गजपिप्पली ॥”
इति वैद्यकरत्नमालायाम् ॥)

गजेष्टा, स्त्री, (गजस्य इष्टा प्रिया ।) विदारी ।

इति राजनिर्घण्टः ॥ भुँइकुम्डा इति भाषा ॥

गजोषणा, स्त्री, (गजोपपदेन युता उषणा

पिप्पली ।) गजपिप्पली । इति राजनिर्घण्टः ॥

गञ्जः, पुं, (गजि भावे + घञ् ।) अवज्ञा । भाण्डा-

गारम् । खनिः । इति हेमचन्द्रः ॥ गोष्ठा-
गारम् । इति हारावली ॥ गोयालिघर इति
भाषा ॥

गञ्जः, पुं क्ली, (गजि भावे + घञ् ।) भाण्डागारम् ।

दति मेदिनी ॥

गञ्जा, स्त्री, (गञ्ज + टाप् ।) मदिरागृहम् । इत्य-

मरः । २ । २ । ८ ॥ खनिः । इति मेदिनी ॥ पामरसद्म ।
मद्यभाण्डम् । इति शब्दरत्नावली ॥

गञ्जिका, स्त्री, (गञ्जा + स्वार्थे कन् अत इत्वम् ।)

मदिरागृहम् । इति शब्दरत्नावली ॥

गड, इ गण्डे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-

अकं-सेट्-इदित् ।) इ, कर्म्मणि गण्ड्यते । गण्डे
कपोलविषयक्रियायाम् । तथा च । यत्र द्रव्य-
निर्द्देशस्तत्र तन्निष्ठक्रियाविशेषो लक्ष्यते । इति
मैत्रयवोपदेवौ ॥ रमानाथस्तु कड्ड कार्वश्य इत्य-
स्मात् कार्कश्य इत्यनुवृत्त्या कपोलकर्त्तृककार्कश्य-
मिति व्याख्याय गण्डति कपोलः पांशुना इत्युदा-
हृतवान् । केचित्तु गण्ड इति शब्दस्य व्युत्-
पत्त्यर्थमेवायं धातुर्मन्तव्यो न त्वस्यान्यत्र प्रयोगः
इत्याह । इति दुर्गादासः ॥

गड, म सेके । इति कविकल्पद्रुमः ॥ (भ्वां-परं-सकं-

सेट् । घटादिः ।) म, गडयति । सेकः क्षर-
णम् । गडयति घटात् पानीयम् । डलयोरेक-
त्वात् लस्यैव प्रायः प्रयोगः । इति रमानाथः ॥
तन्मते तु लान्तपक्षेऽपि मानुबन्धः । स्वमते तु
लान्तो वक्ष्यमाणः स त्वनुबन्धशून्यः इति
विरोधः । इति दुर्गादासः ॥

गडः, पुं, (गडति गलति हस्ताज्जालादिभ्यो वा

क्षरतीत्यर्थः । गड् + अच् ।) मत्स्यभेदः ।
गडुइ माछ् इति भाषा ॥ अन्तरायः । इति
मेदिनी ॥ परिखा । व्यवधानम् । इति शब्द-
रत्नावली ॥ देशविशेषः । राजनिर्घण्टे गडलवण-
पर्य्याये गडदेशजमिति दर्शनात् ॥

गडकः, पुं, (गड + स्वार्थे कन् ।) मत्स्यविशेषः ।

गडुइ माछ् इति भाषा । तत्पर्य्यायः । शकु-
लार्भकः २ । इत्यमरः । १ । १० । १७ ॥
गडः ३ गलः ४ गलकः ५ । इति शब्द-
रत्नावली ॥ अस्य गुणाः । मधुरत्वम् । रूक्ष-
त्वम् । कषायत्वम् । शीतलत्वम् । लघुत्वञ्च । इति
राजवल्लभः ॥

गडयन्तः, पुं, (गडयति जलमिति । गड क्षरणे +

णिच । “तभूवहिवसिभासिसाधिगडीति ।”
उणां । ३ । १२८ । इति झच् । घटादित्वात् मित्त्वे
मितां ह्रस्वः अयामन्तेति णेरयादेशः ।) मेघः ।
इति सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥

गडलवणं, क्ली, (गडदेशाज्जातं लवणम् । शाक-

पार्थिवादिवत् मध्यपदलोपिसमासः ।) संवर-
देशोद्भवलवणम् । सामरलुण इति भाषा ॥ तत्-
पर्य्यायः । शुभ्रम् २ पृथ्वीजम् ३ गडदेशजम् ४
गडोत्थम् ५ महारम्भम् ६ सांवरम् ७ संवरो-
द्भवम् ८ । अस्य गुणाः । उष्णत्वम् । लवणत्वम् ।
ईषदम्लत्वम् । मलापहत्वम् । दीपनत्वम् । कफ-
वातार्शोनाशित्वम् । कोष्ठशोधनत्वञ्च । इति
राजनिर्घण्टः ॥

गडदेशजं, क्ली, (गडदेशात् जायते इति । जन् +

डः ।) सांवरलवणम् । इति राजनिर्घण्टः ॥

गडि, पुं, (गड + इन् ।) वत्सतरः । इति राज-

निर्घण्टः ॥ अलसो गवादिः । गडिया इति
भाषा ॥ यथा, काव्यप्रकाशे ।
“गुणानामेव दौरात्म्याद्धुरि धूर्य्यो नियुज्यते ।
असं जातकिणस्कन्धः सुखं स्वपिति गौर्गडिः ॥”

गडुः, पुं, (गड + बाहुलकात् उन् ।) गलगण्डः ।

पृष्ठगुडः । स तु घाटामस्तकयोर्मध्ये मांसवृद्धिः ।
इति लिङ्गादिसंग्रहे अमरभरतौ ॥ कुब्जः ।
इति मेदिनी ॥ शल्यास्त्रम् । इति शब्दरत्ना-
वली ॥ किञ्चुलुकः । इति त्रिकाण्डशेषः ॥ विषम-
ग्रन्थिः । यथा काव्यप्रकाशे तदेतत् काव्यान्त-
र्गडुभूतमिति नास्य मेदलक्षणं कृतमित्यत्र
तट्टीकाकारः ॥ (“न च अजागलस्तनवदन्त-
र्गडुना तेन किं वेति वाच्यम् ।” इति वेदान्त-
भाष्यम् ॥)

गडुरः, त्रि, (गडुल + रस्य लत्वम् ।) कुब्जः । इति

शब्दरत्नावली ॥

गडुलः, त्रि, (गडुः स्थूलमांसपिण्डविशेषः अस्या

स्तीति । गडु + “सिध्मादिभ्यश्चेति ।” ५ । २ ।
९७ । इति लच् ।) कुब्जः । इत्यमरः । २ । ६ । ४८ ॥

गडेरः, पुं, (गड + “पतिकठिकुठिगडिगुडिदन्शिभ्य

एरक् ।” उणां । १ । ५९ । इति एरक् ।) मेघः ।
इति त्रिकाण्डशेषः ॥

गडोत्थं क्ली, (गडदेशात् उत्तिष्ठति संजायते

इति । गड + उत् + स्था + कः ।) गडलवणम् ।
इति राजनिर्घण्टः ॥

गडोलः, पुं, (गड + “कपिगडिगण्डिकटिपटिभ्य

ओलच् ।” उणां । १ । ६७ । इति ओलच् ।)
गुडः । इत्युणादिकोषः ॥ ग्रासः । इति हेम-
चन्द्रः ॥

गड्डरिका, स्त्री, (गड्डरः जलप्रवाहः सोऽस्या-

मस्तीति । यद्वा गड्डरः मेषपालः तमनुगच्छ-
तीति । ठन् टाप् च ।) अज्ञातप्रवाहागम-
मूलो धारावाही नदीविशेषः । इति केचित् ।
मेषयूथैरनुगम्वमाना मेषी । इत्यन्ये । इति
काव्यप्रकाशटीकायां महेश्वरः ॥

गड्डकः, पुं, (गडुक इति निपातनात् द्बित्वम् ।)

जलपात्रविशेषः । इति शब्दरत्नावली ॥ गाड
इति भाषा ॥

गड्डूकः, पुं, (गड्डुक इति पृषोदरात् उकारस्य

दीर्घत्वम् ।) गड्डुकः । इति शब्दरत्नावली ॥

गण, त् क संख्याने । इति कविकल्पद्रुमः ॥

(अदन्तचुरां-परं-सकं-सेट् ।) मूर्द्धन्योपधः ।
गणयति । इति दुर्गादासः ॥

गणः, पुं, (गण्यते गणयति वा कर्म्मण्यप् । कर्त्तरि

अच् वा ।) समूहः । (यथा, हितोपदेशे
१ । ९३ ।
“न गणस्याग्रतो गच्छेत् सिद्धे कार्य्ये समं फलम् ॥”)
प्रमथः । (यथा, मेघदूते । ३५ ।
“भर्त्तुः कण्ठच्छविरितिगणैः सादरं वीक्ष्यमाणः ॥”)
रुद्रानुचरः । (यथा, गोः रामायणे । ५ । ८९ । ७ ।
“धनाध्यक्षसभां देवः प्राप्तो हि वृषभध्यजः ।
उमासहायो देवेशो गणैश्च बहुभिर्वृतः ॥”)
सेनासंख्याविशेषः । तद्यथा । गजाः २७
रथाः २७ अश्वाः ८१ पदातिकाः १३५ समु-
दायेन २७० । इत्यमरः । २ । ८ । ८१ ॥
(यथा, महाभारते ।
“त्रयो गुल्मा गणो नाम वाहिनी तु गणास्त्रयः ॥”)
पृष्ठ २/२९३
संख्या । चोरनामगन्धद्रव्यम् । इति मेदिनी ॥ * ॥
गणेशः । यथा, महानिर्व्वाणतन्त्रे ।
“गाणपस्तु महेशानि ! गणदीक्षाप्रवर्त्तकः ॥”
अश्विन्यादिजन्मनक्षत्रानुसारेण देवमानुष-
राक्षसगण इति तु पारिभाषिकम् । यथा, --
“दे म रा म दे मा दे दे रा रा म म द रा द रा ॥
दे रा रा म म दे रा रा म म देति गणत्रयम् ॥”
इति ज्योतिषरत्नमाला ॥
“पूर्ब्बोत्तरात्रयञ्चैव भरण्यार्द्रा च रोहिणी ।
इमानि मानुषाण्याहुर्नक्षत्राणि मनीषिणः ॥
ज्येष्ठाशतभिषामूलधनिष्ठाश्लेषकृत्तिकाः ।
चित्रामघाविशाखाः स्युस्तारा राक्षसदेवताः ॥
अश्विनी रेवती पुष्यः स्वाती हस्तः पुनर्व्वसुः ।
अनुराधा मृगशिरः श्रवणं देवतारकाः ॥”
इति निबन्धः ॥
(तस्य मिलनकथनं यथा, ज्योतिषे ।
“सजातौ परमा प्रीतिर्मध्यमा देवमानुषे ।
देवासुरे कनिष्ठा च मृत्युर्मानुषराक्षसे ॥”)
धातुसमूहः । यथा, मनोरमा ।
“भ्वाद्यदादिजुहोत्यादिदिवादिः स्वादिरेव च ।
तुदारुधातनुक्र्यादिश्चुरादिश्च गणा दश ॥”
(छन्दःशास्त्रोक्तपारिभाषिकाक्षरविशेषः । स तु
म-न-भ-य-ज-र-स-त-ग-लसंज्ञः । इति छन्दो-
मञ्जरी ॥ * ॥ महादेवः । यथा, महाभारते ।
१३ । १७ । ४० ।
“विश्वरूपः स्वयं श्रेष्ठो बलवीरो बलो गणः ॥”
दैत्यविशेषः । स तु अभिजिदिति नामान्तरस्य
दैत्यस्य गुणवतो भार्य्यायां गुणवत्यां सम्भूतः ।
यथा, स्कन्दपुराणे गणेशखण्डे ३ अध्याये ।
“अथ सोऽप्यभिजित् पत्न्या समुद्रस्नानमाययौ ।
पर्व्वणि श्रद्धया युक्तश्चक्रे स्नानं तया सह ॥
तृषिता सा गुणवती पपौ चाञ्जलिना जलम् ।
यद्बीर्य्यं ब्रह्मणा त्यक्तं दैवात्तदुरे गतम् ॥”
“भार्य्यागुणवती तस्य नवमासादनन्तरम् ।
पुत्त्रं प्रसूताह्नि शुंभे दिव्यरूपं गुणाद्भुतम् ॥
ज्योतिर्विद्भिरनुज्ञातो गण इत्यभिधां पिता ।
कृत्वाभ्युदयिकं चक्रे व्यत्यीते दशमेऽहनि ॥”
स च महादेवमाराध्य वरं लब्ध्वा त्रैलोक्यं
निर्जित्य च कपिलमुनेश्चिन्तामणिमपहृतवान् ।
कपिलमुनिस्तु अस्मादपराधात् जातमन्युर्गणेश-
माराधयामास । अथ प्रसन्नेन गणपतिना तद्-
गृहे अवतीर्य्य तं गणदैत्यं विनाशितवान् इत्येषा-
कथा तत्रैवाध्याये विस्तरशो द्रष्टव्या ॥)

गणकः, पुं, (गणयति शुभाशुभग्रहभोगजनितफलं

निरूपयतीति । गण त् क सङ्ख्याने + कर्त्तरि
ण्वुल् ।) दैवज्ञः । ज्योतिर्वित् । तत्पर्य्यायः । साम्बत्-
सरः २ ज्योतिषिकः ३ दैवज्ञः ३ मौहूर्त्तिकः ५
मौहूर्त्तः ६ ज्ञानी ७ कार्त्तान्तिकः ८ । इत्यमरः ।
२ । ८ । १४ ॥ ज्योतिषिकः ९ । इति तट्टीका ॥ स तु
वर्णसङ्करजातिविशेषः । देवलाद्वैश्यागर्भजातः ।
तस्य कर्म्म तिथिवारादिज्ञापनम् । इति परा-
शरपद्धतिः ॥ स तु अस्पृश्यः । यथा, --
“कलिकाले महाशानि ! पाषण्डा बहवो जनाः ।
सङ्गदोषान्महेशानि ! तत्क्षणाद्धानितां व्रजेत् ॥
तस्मात् प्रयत्नतो देवि ! संसर्गं वर्ज्जयेत् सुधीः ।
वरं चाण्डालसंस्पर्शं कुर्य्यात्तु साधकोत्तमः ॥
तथाप्यस्पृ श्यगणकं सर्व्वदा तं परित्यजेत् ॥”
इति शाक्तानन्दतरङ्गिण्यां षोडशोल्लासे महिष-
मर्द्दिनीतन्त्रवचनम् ॥ तस्य लक्षणं यथा, --
“ज्योतिःशास्त्रविशेषज्ञः सुन्दराङ्गः सभापटुः ।
कुलक्रमागतः शुद्धो गणकः स्यान्महीपतेः ॥”
इति युक्तिकल्पतरुः ॥
(यदि च शास्त्रविशेषे गणकस्य निन्दादिकं
श्रूयते तत्तु केवलं नक्षत्रजीविन एवेति
बोध्यम् । प्रकृतज्योतिःशास्त्रन्तु द्बिजातिभिरेवा-
वश्यमध्ययनीयं वेदाङ्गत्वात् । यथा, --
“संयुतोऽपीतरैः कर्णनासादिभि-
श्चक्षुषाङ्गेन हीनो न किञ्चित् करः ।
तस्माद्द्विजैरध्ययनीयमेतत्
पुण्यं रहस्यं परमञ्च तत्त्वम् ॥”
इति सिद्धान्तशिरोमणिः ॥ * ॥
प्रजापतिपुत्त्रास्ताराविशेषकेतवः । यथा, --
“ताराः पुञ्जनिकाशा गणका नाम प्रजापतेरष्टौ
पुत्त्राः ॥”
इति बृहत्संहिता । ११ । २५ ॥
संकीर्णजातिविशेषः । यथोक्तम् ।
“चर्म्मकारस्य द्वौ पुत्त्रौ गणको वाद्यपूरकः ॥”)

गणकर्णिका, स्त्री, (गणस्य गणाधिपस्य कर्णवत्

पत्रमस्याः ।) इन्द्रवारुणी । इति राजनिर्घण्टः ॥

गणकारः, पुं, (गणानां सैन्यानां कारः कर्त्ता

सेनापरिचालनदक्षः ।) भीमसेनः । इति शब्द-
रत्नावली ॥ (गणं धात्वर्थप्रकाशकग्रन्थविशेषं
करोतीति । कृ + अण् ।) धातुसंग्रहकर्त्ता ।
यथा, “गणकारवचनप्रमाणार्थमिदम् ।” इति
कातन्त्रवृत्तिः ॥

गणकी, स्त्री, (गणकस्य पत्नी इति । तत्पत्न्यामिति

ङीष् ।) गणकपत्नी । इति जटाधरः ॥

गणचक्रकं, क्ली, (गणाः धार्म्मिकगणास्तेषां चक्रं

सम्भूय भोजनमत्र इति कप् ।) धार्म्मिकाणां
सम्भूय भोजनम् । इति त्रिकाण्डशेषः ॥

गणता, स्त्री, (गणस्य धर्म्मः भावो वा इति तल् ।)

गणस्य भावः । समूहत्वम् । पक्षपातित्वम् ।
इति लोकप्रसिद्धिः ॥

गणदीक्षी, [न्] पुं, (गणान् बहुशिष्यान् दीक्ष-

यति दीक्षां कारयतीति ।) बहुयाजकः । इति
मिताक्षरा ॥ (वाच्यलिङ्गे तु गणस्य शिवस्य
गणेशस्य वा दीक्षा विद्यते अस्मिन् अस्य वा ।
दीक्षा + इनिः । शिवदीक्षितः ।) गणेशदीक्षिते
त्रि । गणस्य गणेशस्य दीक्षा गणदीक्षा । इति
महानिर्व्वाणतन्त्रम् ॥

गणदेवता, स्त्री, (गणः सङ्घः तद्रूपा देवता

सम्भूय स्थिता देवता इत्यर्थः ।) संहतदेवता-
विशेषः । यथा, --
“आदित्या विश्ववसवस्तुषिता भास्वरानिलाः ।
महाराजिकसाध्याश्च रुद्राश्च गणदेवताः ॥
आदित्या द्वादश प्रोक्ता विश्वेदेवा दश स्मृताः ।
वसवश्चाष्टसंख्याताः षट्त्रिंशत् तुषिता मताः ॥
आभास्वराश्चतुःषष्टिर्वाताः पञ्चाशदूनकाः ।
महाराजिकनामानो द्वे शते चापि विंशतिः ॥
साध्या द्वादश विख्याता रुद्राश्चैकादश स्मृताः ।
एते च संहता देवास्तत्रादित्याः स्वनामतः ॥”
इति जटाधरः ॥

गणद्रव्यं, क्ली, (गणानां साधारणानां द्रव्यम् । यद्वा

द्रव्याणां गण इति परनिपातः ।) साधारण-
द्रव्यम् । मिलितानेकस्वामिकासम्बन्धिद्रव्यम् ।
द्रव्यसमूहः । तत्र द्रव्याणां गण इति व्युत्-
पत्तिः ॥

गणनं, क्ली, (गण्यते इति । गण + भावे ल्युट् ।)

संख्यानम् । गणा ठिक् देया इति च भाषा ॥
यथा, विश्वसारतन्त्रे ।
“येनैव लिखनं कुर्य्यात्तेनैव गणनं स्मृतम् ॥”

गणना, स्त्री, (गण + युच् टाप् च ।) गणनम् ।

संख्या । (यथा, नैषधे । ३ । ४० ।
“यदि त्रिलोकी गणनापरा स्या-
त्तस्याः समाप्तिर्यदि नायुषः स्यात् ।
पारे परार्द्धं गणितं यदि स्यात्
गणेयनिःशेषगुणोऽपि स स्यात् ॥”)

गणनाथः, पुं, (गणानां विप्नकर्त्तृदेवविशेषाणां

नाथः ।) गणेशः । इति शब्दरत्नावली ॥
(गणानां प्रमथानां नाथः स्वामी इति व्युत्पत्त्या
शिवः ॥)

गणनायकः, पुं, (गणानां नायकः ।) गणेशः ।

इति शब्दरत्नावली ॥ (यथा, महाभारते ।
१ । १ । ७७ ।
“लेखको भारतस्यास्य भव त्वं गणनायक ! ॥”
गणानां देवसङ्घानां नायकः । यथा, भागवते ।
५ । १७ । १३ । “यत्र ह देवपतयः स्वैः स्वैर्गण-
नायकैर्विहितमहार्हणाः ॥” इति ॥ * ॥ गणानां
प्रमथानां नायकः । शिवः ॥)

गणनायिका, स्त्री, (गणानां नायकः शिवः तस्य

शक्तिरिति टाप् अत इत्वं च गणनेत्री इत्यर्थः ।)
दुर्गा । इति त्रिकाण्डशेषः ॥

गणनीयं, त्रि, (गण + अनीयर् ।) गणनार्हम् ।

संख्येयम् । तत्पर्य्यायः । गणेयम् २ । इत्यमरः ।
३ । १ । ६४ ॥ गणितव्यम् ३ गण्यम् ४ । इति
व्याकरणम् ॥ संख्येयम् ५ । इति जटाधरः ॥

गणपतिः, पुं, (गणानां गणसंज्ञकानां देवानां

पतिः अधीश्वरः स्वामी वा ।) गणेशः । इति
हलायुधः ॥ (यथा, पञ्चतन्त्रे । १ । १७० ।
“अत्तुं वाञ्छति शाम्भवो गणपतेराखुं क्षुधार्त्तः
फणी
तं च क्रौञ्चरिपोः शिखी गिरिसुतासिंहोऽपि
नागाशनम् ॥”
अग्रपूजनीयप्रधानदेवताविशेषः । यथा, यजु-
र्वेदीयवाजसनेयसंहितायाम् । १६ । २५ । “नमो
गणेभ्यो गणपतिभ्यश्च वो नमो नम इति ॥”
पृष्ठ २/२९४
बृहस्पतिः । यथा, ऋग्वेदे । २ । २३ । १ ।
“गणानां त्वा गणपतिं हवामहे
कविं कवीनामुपमश्रवस्तमम् ॥”
शिवः । यथा, महाभारते । १३ । १७ । ४१ ।
“गणकर्त्ता गणपतिर्दिग्वासाः काम एव च ।
मन्त्रवित् परमो मन्त्रः सर्व्वभावकरो हरः ॥”
आथर्व्वणोपनिषद्विशेषः । यथा, मौक्तिकोप-
निषदि प्रथमाध्याये ।
“त्रिपुरातपनदेवीभावनाभस्मजावालगणपति-
महावाक्यगोपालतपनकृष्णहयग्रीवेति ॥”)

गणपर्व्वतः, पुं, (गणानां प्रमथगणानां गणपत्यादि-

देवानां वा आवासरूपः पर्व्वतः । गणभूयिष्ठः
पर्व्वतो वा ।) कैलासपर्व्वतः । इति त्रिकाण्ड-
शेषः ॥

गणपीठकं, क्ली, (गणस्य शिवस्य परमेश्वर-

स्येति यावत् पीठः आसनमिव कायति प्रका-
शते इति । कै + कः ।) वृक्षः । इति शब्द-
चन्द्रिका ॥

गणरात्रं, पुं, (गणानां बह्वीनां रात्रीणां समाहारः

गणशब्दस्य सङ्ख्यावत्त्वात् तद्धितार्थेति द्विगु-
समासः । “अहः सर्व्वैकदेशसङ्ख्यातपुण्याच्च
रात्रेः ।” ५ । ४ । ७८ । इत्यच् । सङ्ख्यापूर्ब्बं रात्रं
क्लीवमिति लिङ्गानुशासने क्लीवत्वविधानात्
“रात्राह्णाहाः पुंसि ।” २ । ४ । २९ । इति
क्लीवत्वम् ।) रात्रिसमूहः । इत्यमरः । १ । ४ । ६ ॥

गणरूपः, पुं, (गणाः बहुप्रकाराणि रूपाणि

अस्य ।) अर्कवृक्षः । इत्यमरः । २ । ४ । ८० ॥

गणरूपकः, पुं, (गणरूप + संज्ञायां कन् । गण-

रूप इव कायति प्रकाशते इति वा । कै + कः ।)
राजार्कः । इति राजनिर्घण्टः ॥

गणरूपी, [न्] पुं, (गणाः बहुविधाणि रूपाणि

वर्णाकृत्यादयः सन्त्यस्य इति अस्त्यर्थे इनिः ।)
श्वेतार्कः । इति रत्नमाला ॥

गणवतीसुतः, पुं, (गणवत्याः सुतः ।) दिवोदासः ।

यथा, त्रिकाण्डशेषे ।
“धन्वन्तरिर्दिवोदासः काशिराजः सुधोद्भवः ।
पालकाख्यागणवतीकरेणुरुचिरासुतः ॥”

गणहासः, पुं, (गणान् गन्धद्रव्यगणान् हासयतीति ।

गण + हस् + णिच् + अण् ।) चोरकनामगन्ध-
द्रव्यम् । इति राजनिर्घण्टः ॥

गणहासकः, पुं, (गणहास + स्वार्थे कः ।) चोरक-

नामगन्धद्रव्यम् । इत्यमरः । २ । ४ । १२८ ॥

गणाग्रणीः, पुं, (अग्रे नीयते इति अग्रणीः ।

गणानां गणाख्यदेवविशेषाणां अग्रणीः ।)
गणेशः । इति त्रिकाण्डशेषः ॥

गणाचलः, पुं, (गणानां वासाय अचलः गणभूयिष्ठो-

ऽत्तलो वा ।) कैलासपर्व्वतः । इति जटाधरः ॥

गणाधिपः, पुं, (गणानां अधिपः अधीश्वरः ।)

गणेशः । इत्यमरः । १ । १ । ४० ॥ शिवः ।
इति हलायुधः ॥

गणिः, स्त्री, (गण + “सर्व्वद्यातुभ्य इन् ।” उणां ।

४ । ११७ । इति इन् ।) गणनम इति व्याकरणम् ॥

गणिका, स्त्री, (गणः लम्पटगणः उपपतित्वेना-

स्त्यस्याः इति ठन् ।) वेश्या । (यथा, हरिवंशे ।
८५ । ९ ।
“गणिकानां पृथङ्मञ्चाः शुभैरास्तरणाम्बरैः ॥”)
यूथिका । इत्यमरः । २ । ६ । १९ ॥ गणि-
कारिकावृक्षः । इति शब्दरत्नावली ॥ हस्तिनी ।
इति जटाधरः ॥

गणिकारिका, स्त्री, (गणिः गणनं करोतीति । कृ +

ण्वुल् + टाप् + अत इत्वञ्च । यद्वा गणिकेत्याख्यां
ऋच्छतीति । ऋ + “कर्म्मण्यण् ।” ३ । २ । १ । इत्यणु ।
स्वार्थे कन् अत इत्वञ्च ।) वृक्षविशेषः । वड
गणियारी इति भाषा ॥ तत्पर्य्यायः । श्रीपर्णम् २
अग्निमन्थः ३ कणिका ४ जया ५ । इत्यमरः । २ ।
४ । ६६ ॥ तेजोमन्थः ६ हविर्मन्थः ७ ज्योतिष्कः ८
पावकः ९ अरणिः १० वह्निमन्थः ११ मथनः १२ ।
इति रत्नमाला ॥ अग्निमथनः १३ तर्कारी १४
वैजयन्तिका १५ अरणीकेतुः १६ श्रीपर्णी १७
कर्णिका १८ नादेयी १९ विजया २० अनन्ता २१
नदीजा २२ । अस्या गुणाः । कटुत्वम् । उष्ण-
त्वम् । तिक्तत्वम् । अनिलकफशोफश्लेष्माग्नि-
मान्द्यार्शोमलबन्धश्रमनाशित्वञ्च । इति राज-
निर्घण्ट ॥ क्षुद्रगणिकारिकागुणपर्य्यायौ क्षुद्राग्नि-
मन्थशब्दे द्रष्टव्यौ ॥

गणिकारी, स्त्री, (गणिर्गणनं करोति पूजादिषु

आत्मानं गणनं कारयतीत्यर्थः । कृ + कर्म्मण्यण्
ततो ङीष् ।) पुष्पवृक्षविशेषः । गणियारी इति
भाषा । तत्पर्य्यायः । काञ्चनिका २ काञ्चन-
पुष्पी ३ वसन्तदूती ४ गन्धकुसुमा ५ अलिमोदा
६ वासन्ती ७ मदनमादिनी ८ । अस्या गुणाः ।
सुरभितरत्वम् । त्रिदोषशमनत्वम् । दाहशोष-
कामक्रीडाडम्बरसम्बरहरत्वम् । चापलप्रसर-
त्वञ्च । इति राजनिर्घण्टः ॥ (विशेषश्चास्या
गणिकारिकाग्निमन्थशब्दयोर्बोद्धव्यः ॥)

गणितं, त्रि, (गण + कर्म्मणि क्तः ।) कृतगण-

नम् । तत्पर्य्यायः । संख्यातम् २ । इत्यमरः ।
३ । १ । ६४ ॥ (चिन्तितम् । यथा, शिवपुराणे
ज्ञानसंहितायाम् । १२ । २७ ।
“दुःखं च विविधं तत्र गणितं न तया तथा ॥”)

गणितं, क्ली, (गण्यते इति । गण + क्तः ।) अङ्क-

शास्त्रम् । तत् द्बिविधं व्यक्तं पाटीगणितम् ।
अव्यक्तं बीजगणितम् । इति लीलावती ॥ गण-
नम् । यथा, नैषधे । ३ । ४० ।
“पारे परार्द्धं गणितं यदि स्यात् ॥”

गणिपिटका, स्त्री, द्वादशाङ्गी । सा तु जिनानां

विद्याविभागः । इति हेमचन्द्रः । २ । १५९ ॥

गणेयः, त्रि, (गण + एय ।) संख्येयः । गणनीयः ।

इत्यमरः । ३ । १ । ६४ ॥ (यथा, नैषधे । ३ । ४० ।
“गणेयनिःशेष गुणोऽपि स स्यात् ॥”)

गणेरुः, पुं, (गण + बाहुलकात् एरुः ।) कर्णि-

कारवृक्षः । इति मेदिनी । रे । १४८ ॥

गणेरुः, स्त्री, (गण + बाहुलकात् एरुः ।) वेश्या ।

हस्तिनी । इति मेदिनी । रे । १४८ ॥

गणेरुका, स्त्री, (गणेरूणां गणिकानां गणिकासु

वा मध्ये कायति प्रकाशते इति । कै + कः ।)
कुट्टिनी । इति त्रिकाण्डशेषः ॥

गणेशः, पुं, (गणानां प्रमथसमूहानां यद्वा

गणानां जीवजातानां ईशः ईश्वरः ।) शिवः ।
इति हारावली । ८ ॥ (यथा, महाभारते । ३ ।
कैराते । ३९ । ७८ ।
“प्रसादये त्वां भगवन् ! सर्व्वभूतमहेश्वर ! ।
गणेशं जगतः शम्भुं लोककारणकारणम् ॥”
गणानां गणाख्यदेवविशेषाणां विघ्नाख्यदेवानां
वा ईशः नियन्ता ।) शिवपुत्त्रः । (यथा, महा-
भारते । १ । १ । ७३ ।
“काव्यस्य लेखनार्थाय गणेशः स्मर्य्यतां मुने ! ॥”)
तत्पर्य्यायः । विनायकः २ विघ्नराजः ७ द्वैमा-
तुरः ४ गणाधिपः ५ एकदन्तः ६ हेरम्बः ७
लम्बोदरः ८ गजाननः ९ । इत्यमरः । १ । १ । ४० ॥
विघ्नेशः १० पर्शुपाणिः ११ गजास्यः १२
आखुगः १३ । इति हेमचन्द्रः । २ । १२१ ॥
शूर्पकर्णः १४ । इति ब्रह्मवैवर्त्तपुराणम् ॥ * ॥
तस्योत्पत्तिः । तत्र पार्व्वतीं प्रति वृद्धब्राह्मण-
रूपश्रीकृष्णवाक्यम् । यथा, --
“न भवेद्विष्णुभक्तिश्च विष्णुमाये ! त्वया विना ।
त्वद्व्रतं लोकशिक्षार्थं त्वत्तपस्तव पूजनम् ॥
सर्व्वेज्याफलदात्री त्वं नित्यरूपा सनातनी ।
गणेशरूपः श्रीकृष्णः कल्पे कल्पे तवात्मजः ॥
त्वत्क्रोडमागतः क्षिप्रमित्युक्त्वान्तरधीयत ।
कृत्वान्तर्द्धानमीशश्च बालरूपं विधाय सः ॥
जगाम पार्व्वतीतल्पं मन्दिराभ्यन्तरस्थितम् ।
तल्पस्थे शिवबीर्य्ये च मिश्रितः स बभूव ह ॥
ददर्श गेहशिखरं प्रसूतबालको यथा ।
शुद्धचम्पकवर्णाभः कोटिचन्द्रसमप्रभः ॥
सुखदृश्यः सर्व्वजनैश्चक्षूरश्मिविवर्द्धकः ।
अतीवसुन्दरतनुः कामदेवविमोहनः ॥
मुखं निरुपमं बिभ्रत् शारदेन्दुविनिन्दकम् ।
सुन्दरे लोचने बिभ्रत् चारुपद्मविनिन्दके ॥
ओष्ठाधरपुटं बिभ्रत् पक्वविम्बविनिन्दकम् ।
कपालञ्च कपोलन्तदतीव सुमनोहरम् ॥
नासाग्रं रुचिरं बिभ्रत् खगेन्द्रचञ्चुनिन्दकम् ।
त्रैलोक्येषु निरुपमं सर्व्वाङ्गं विभ्रदुत्तमम् ॥
शयानः शयने रम्ये प्रेरयन् हस्तपादकम् ॥”
तस्य शनैश्चरदर्शनात् मस्तकविनाशः विष्णु-
कर्त्तृकगजमस्तकसंयोगश्च यथा, --
“सा च देववशीभूता शनिं प्रोवाच कौतुकात् ।
पश्य मां मत्शिशुमिति नियतिः केन वार्य्यते ॥
पार्व्वतीवचनं श्रुत्वा सोऽनुमेने हृदा स्वयम् ।
पश्यामि किं न पश्यामि पार्व्वतीसुतमित्यहो ॥
बालं द्रष्टुं मनश्चक्रे न बालमातरं शानि ।
विषण्णमानसः पूर्ब्बं शुष्ककण्ठौष्ठतालुकः ॥
सव्यलोचनकोणेन ददर्श च शिशोर्मुखम् ।
शनिश्च दृष्टिमात्रेण चिच्छेद मस्तकं मुने ! ॥
विस्मितास्ते सुराः सर्व्वे चित्रपुत्तलिका यथा ।
देव्यश्च शैला गन्धर्व्वाः शिवः कैलासवासिनः ॥
पृष्ठ २/२९५
तान् सर्व्वान् मूर्च्छितान् दृष्ट्वा चारुह्य गरुडं हरिः ।
जगाम पुष्पभद्रां स उत्तरस्यां दिशि स्थिताम् ॥
पुष्पभद्रानदीतीरे ददर्श काननस्थितम् ।
गजेन्द्रं निद्रितं तत्र शयानं हस्तिनीयुतम् ॥
शीघ्रं सुदर्शनेनैव चिच्छेद तच्छिरो मुदा ।
स्थापयामास गरुडे रुधिराक्तं मनोहरम् ॥
आगत्य पार्व्वतीस्थानं बालं कृत्वा स्ववक्षसि ।
रुचिरं तच्छिरः कृत्वा योजयामास बालके ॥
ब्रह्मस्वरूपो भगवान् ब्रह्मज्ञानेन लीलया ।
जीवनं जीवयामास हूंकारोच्चारणेन च ॥”
इति ब्रह्मवैवर्त्तपुराणम् ॥ * ॥
अस्य ध्यानम् ।
“खर्व्वं स्थूलतनुं गजेन्द्रवदनं लम्बोदरं सुन्दरं
प्रस्यन्दन्मदगन्धलुब्धमधुपव्यालोलगण्डस्थलम् ।
दन्ताघातविदारितारिरुधिरैः सिन्दूरशोभाकरं
बन्देशैलसुतासुतं गणपतिं सिद्धिप्रदं कामदम् ॥”
इति पुराणम् ॥ * ॥
ध्यानान्तरं यथा, --
“सिन्दूराभं त्रिनेत्रं पृथतरजठरं हस्तपद्मैर्दधानं
दन्तं पाशाङ्कुशेष्टान्युरुकरविलसद्बीजपूराभि
रामम् ।
बालेन्दुद्योतमौलिं करिपतिवदनं दानपूरार्द्रगण्डं
भोगीन्द्राबद्धभूषं भजत गणपतिं रक्तवस्त्राङ्ग-
रागम् ॥”
इति तन्त्रसारः ॥
(तस्य नमस्कारमन्त्रो यथा, --
“देवेन्द्रमौलिमन्दारमकरन्दकणारुणाः ।
विघ्नं हरन्तु हेरम्बचरणाम्बुजरेणवः ॥”
इति पूजापद्धतिः ॥)
एकपञ्चाशद्गणेशाः । यथा, --
“विघ्नेशो विघ्नराजश्च विनायकशिवोत्तमौ ।
विघ्नकृत् विघ्नहर्त्ता च गणैकद्बिसुदन्तकाः ॥
गजवक्त्रनिरञ्जनौ कपर्द्दी दीर्घजिह्वकः ।
शङ्ककर्णश्च वृषभध्वजश्च गणनायकः ॥
गजेन्द्रः सूर्पकर्णश्च स्यात्त्रिलोचनसंज्ञकः ।
लम्बोदरमहानन्दौ चतुर्म्मूर्त्तिसदाशिवौ ॥
आमोददुर्म्मुखौ चैव सुमुखश्च प्रमोदकः ।
एकपादो द्विजिह्वश्च सुरवीरः सषण्मुखः ॥
वरदो वामदेवश्च वक्रतुण्डो द्विरण्डकः ।
सेनानीर्ग्रामणीर्म्मत्तो विमत्तो मत्तवाहनः ॥
जटौ मुण्डी तथा खड्गी वरेण्यो वृषकेतनः ।
भक्षप्रियो गणेशश्च मेघनादकसंज्ञकः ॥
व्यापी गणेश्वरः प्रोक्ताः पञ्चाशद्गणपा इमे ।
तरुणारुणसङ्काशा गजवक्त्रास्त्रिलोचनाः ॥
पाशाङ्कुशवराभीतिहस्ताः शक्तिसमन्विताः ॥” * ॥
तेषामेकपञ्चाशच्छक्तयश्च यथा, --
“ह्रीः श्रीश्च पुष्टिः शान्तिश्च स्वस्तिश्चैव सरस्वती ।
स्वाहामेधाकान्तिकामिन्यो मोहिन्यपि वैनटी ॥
पार्व्वती ज्वलिनी नन्दा सुयशाः कामरूपिणी ।
उमा तेजोवती सत्या विघ्नेशानी सुरूपिणी ॥
कामदा मदजिह्वा च भूतिः स्याद्भौतिका सिता ।
रमा च महिषी प्रोक्ता शृङ्गिणी च विकर्णपा ॥
भ्रुकुटिः स्यात्तथा लज्जा दीर्घघोणा धनुर्द्धरा ।
यामिनी रात्रिसंज्ञा च कामान्धा च शशिप्रभा ॥
लोलाक्षी चञ्चला दीप्तिः सुभगा दुर्भगा शिवा ।
भर्गा च भगिनी चैव भोगिनी सुभगा मता ॥
कालरात्रिः कालिका च पञ्चाशच्छक्तयः स्मृताः ।
सर्व्वालङ्करणोद्दीप्ताः प्रियाङ्कस्थाः सुशोभनाः ॥
रक्तोत्पलकरा ध्येया रक्तमाल्याम्बरारुणाः ॥”
इति शारदातिलकटीकायां राघवभट्टः ॥

गणेशकुसुमं, क्ली, (गणेश इव कुसुमम् । रक्त-

वर्णसादृश्यात्तथात्वम् ।) रक्तकरवीरः । इति
राजनिर्घण्टः ॥

गणेषभूषणं, क्ली, (गणेशस्य भूषणमिव ।) सिन्दू-

रम् । इति राजनिर्घण्टः ॥

गणोत्साहः, पुं, (गणाय गणार्थं वा यूथीकरणाये-

त्यर्थः उत्साहोऽस्य । यद्वा गणान् यूथान् उत्-
साहयतीति । उत् + साहि + अण् ।) गण्डकः ।
इति त्रिकाण्डशेषः ॥ गण्डार इति भाषा ॥

गण्डः, पुं, (गडि आस्यैकदेशे + अच् । यद्बा गम

गतौ + “ञमन्ताड्डः ।” उणां । १ । ११३ । इति
डः ।) हस्तिकपोलः । (यथा, पञ्चतन्त्रे । १ । ३५६ ।
“प्रमाणाभ्यधिकस्यापि गण्डश्याममदच्युतेः ।
पदं मूर्द्ध्नि समाधत्ते केशरी मत्तदन्तिनः ॥”)
तत्पर्य्यायः । कटः २ । इत्यमरः । २ । ८ । ३७ ॥
करटः ३ । इति तट्टीका ॥ कटकः ४ हस्ति-
गण्डकः ५ । इति शब्दरत्नावली ॥ कपोलः ।
इत्यमरः । २ । ६ । ९० ॥ गाल इति भाषा ॥
(यथा, कुमारे । ७ । ८२ ।
“तदीषदार्द्रारुणगण्डलेखं
उच्छासिकालाञ्जनरागमक्ष्णोः ॥”)
खड् गी । वीथ्यङ्गम् । पिटकः । चिह्नम् ।
वीरः । हयभूषणम् । वुद्वुदः । इति मेदिनी ॥
स्फोटकः । ग्रन्थिः । इत्यमरटीकायां रमानाथः ॥
विष्कुम्भादिसप्तविंशतियोगान्तर्गतदशमयोगः ।
(यथा, ज्योतिषवचने ।
“गण्डो वृद्बिर्ध्रुवश्चैव व्याघातो हर्षणस्तथा ॥”)
तत्र जातफलम् ।
“स्वकार्य्यकर्त्ता परकार्य्यहर्त्ता
गण्डोद्भवः स्यादतिगण्डवाक्यः ।
अत्यन्तधूर्त्तः पुरुषः कुरूपः
सुहृद्गणानामतितापदाता ॥”
इति कोष्ठीप्रदीपः ॥ * ॥
दोषजनकोऽश्विन्यादिनक्षत्राणां भागविशेषः ।
यथा, --
“अश्विनीमघमूलानां तिस्रो गण्डाद्यनाडिकाः ।
अन्त्याः पौष्णोरगेन्द्राणां पञ्चैव जवना जगुः ॥
मूलेन्द्रयोर्दिवा गण्डो निशायां पितृसर्पयोः ।
सन्ध्याद्वये तथा ज्ञेयो रेवतीतुरगर्क्षयोः ॥” * ॥
तत्र जातस्य दोषो यथा, --
“सन्ध्यारात्रिदिवाभागे गण्डयोगोद्भवः शिशुः ।
आत्मानं मातरं तातं विनिहन्ति यथाक्रमम् ॥”
तस्य शान्तिर्यथा, --
“सर्व्वेषां गण्डजातानां परित्यागो विधीयते ।
तातेनादर्शनं वापि यावत् पाण्मासिको भवेत् ॥
कुङ्कुमं चन्दनं कुष्ठं गोरोचनमथापि वा ।
घृतैरेवान्वितं कृत्वा चतुर्भिः कलसैर्ब्बुधः ॥
सहस्राक्षेण मन्त्रेण बालकं स्नापयेत्ततः ।
पितृयुक्तं दिवाजातं मातृयुक्तञ्च रात्रिजम् ॥
स्नापयेत् पितृमातृभ्यां सन्ध्ययोरुभयोरपि ।
कांस्यपात्रं घृतैः पूर्णं गण्डदोषोपशान्तये ॥
दद्याद्धेनुं हिरण्यञ्च ग्रहांश्चापि प्रपूजयेत् ।
मूलायाः प्रथमे पादे पितुर्व्वपुर्व्विनश्यति ॥
द्वितीये नियतां पीडां मातुः कुर्य्यात् पितुस्तथा ।
तृतीये धननाशाय चतुर्थे सर्व्वसम्पदः ॥
व्यत्ययेन फलं ज्ञेयमश्लेषास्वपि पूर्ब्बवत् ।
वल्मीकमृत्तिकां नद्यास्तूभयतटमृत्तिकाम् ॥
गोविषाणमृदञ्चापि दन्तिमृदञ्च निःक्षिपेत् ।
तीर्थाम्भःपञ्चगव्येन स्नानं मातुः पितुः शिशोः ॥
दिवा जाता तु या कन्या निशि जातस्तु यः पुमान् ।
नोभयोर्गण्डदोषः स्यात् नाचलो हन्ति पर्व्वतम् ॥”
इति ज्योतिषतत्त्वम् ॥

गण्डकः, पुं, (गण्ड + स्वार्थे कन् ।) खड्गी । इत्य-

मरः । १ । १० । १७ ॥ गण्डार इति भाषा ॥
खड्गः । संख्याप्रभेदः । गण्डा इति भाषा ।
विद्याविशेषः । अवच्छेदः । अन्तरायः । इति
मेदिनी । के ८२ ॥ (देशविशेषः । यथा, महा-
भारते । २ । २९ । ४ ।
“ततः स गण्डकान् शूरो विदेहान् भरतर्षभः ॥”
भूषणम् । यथा, कादम्बर्य्याम् । “व्याघ्रनखपङ्क्ति-
मण्डिता गण्डकाभरणा च ॥” ग्रन्थिः । यथा,
तत्रैव । “गोरोचनालिखितभूर्ज्जपत्रगर्भान् मन्त्र-
गण्डकान् ॥” स्फोटकरोगविशेषः । यथा, तत्रैव ।
“अनेकवेत्राघातनिर्म्मितबहुगात्रगण्डकम् ॥”)

गण्डकारी, स्त्री, (गण्डं भग्नास्थिग्रन्थिमित्यर्थः

करोति संयोजयतीति ।) खदिरीवृक्षः । इति
शब्दचन्द्रिका ॥ वराहक्रान्ता । इति रत्नमाला ॥

गण्डकाली, स्त्री, (गण्ड + कृ + “कर्म्मण्यण् ।”

३ । २ । १ । इत्यण् ततो ङीप् । रस्य लत्वं यद्बा
गण्डेषु ग्रन्थिषु काली यस्याः ।) खदिरीवृक्षः ।
इत्यमरः । २ । ४ । १४१ ॥
(“गण्डकालीनमस्कारी समङ्गा खदिरी क्वचित् ॥”
इति वैद्यकरत्नमालायाम् ॥)

गण्डकी, स्त्री, (गण्डक + स्त्रियां जातौ ङीष् ।) स्वनाम-

ख्याता नदी । इति मेदिनी । ८२ ॥ यथा, स्मृतिः ।
“गण्डक्याश्चैकदेशे च शालग्रामस्थलं स्मृतम् ।
पाषाणं तद्भवं यत्तत् शालग्राममिति स्मृतम् ॥”
तत्र शालग्रामोत्पत्तिकारणं यथा, --
“गण्डक्यापि पुरा तप्तं वर्षाणामयुतं विधेः ।
शीर्णपर्णाशनं कृत्वा वायुभक्षाप्यनन्तरम् ॥
दिव्यं वर्षशतं तेपे विष्णुं चिन्तयती तदा ।
ततः साक्षाज्जगन्नाथो हरिर्भक्तजनप्रियः ॥
उवाच मधुरं वाक्यं प्रीतः प्रणतवत्सलः ।
गण्डकि ! त्वां प्रसन्नोऽस्मि तपसा विस्मितोऽनघे ! ॥
अनवच्छिन्नया भक्त्या वरं वरय मुव्रते ! ।
किं देयं तद्वदस्वाशु प्रीतोऽस्मि वरवर्णिनि ! ॥
पृष्ठ २/२९६
गण्डक्यपि पुरो दृष्ट्वा शङ्खचक्रगदाधरम् ।
दण्डवत् प्रणता भूत्वा ततः स्तोतुं प्रचक्रमे ॥
अहो देव ! मया दृष्टो दुर्द्दर्शो योगिनामपि ।
त्वया सर्व्वमिदं सृष्टं जगत् स्थावरजङ्गमम् ॥
तदनु त्वं प्रविष्टोऽसि पुरुषस्तेन त्तोच्यते ।
त्वल्लीलोन्मीलिते विश्वे कः स्वतन्त्रोऽस्ति वै पुमान् ॥
अनाद्यन्तमपर्य्यन्तं यद्ब्रह्म श्रुतिबोधितम् ।
तदेव त्वं महाविष्णो ! यस्त्वां वेद स वेदवित् ॥
तवैवाद्या जगन्माता या शक्तिः परमा स्मृता ।
तां योगमायां प्रकृतिप्रधानमिति वक्ष्यते ॥
निर्गुणः पुरुषोऽव्यक्तश्चित्स्वरूपी निरञ्जनः ।
आनन्दरूपः शुद्धात्मा ह्यकर्त्ता निर्विकारकः ॥
स्वां योगमायामाविश्य कर्त्तृत्वं प्राप्तवानसि ।
प्रकृत्या सृज्यमानेऽस्मिन् द्रष्टा साक्षी निगद्यते ॥
प्रकृतेस्त्रिगुणैरस्मिन् सृज्यमानेऽपि नान्यथा ।
सान्निध्यमात्रतो देव ! त्वयि स्पुरति कारणे ॥
स्फटिके हि यथा स्वच्छे जवाकुसुमरागतः ।
प्रकाशते त्वत्प्रकाशात् ज्योतीरूप ! नतास्मि ते ॥
ब्रह्मादयोऽपि कवयो न विन्दन्ति ययार्थतः ।
तत् कथं वेद्म्यहं मूढा तव रूपं निरञ्जनम् ॥
मूढस्य जगतो मध्ये स्थिता किञ्चिदजानती ।
त्वया धृष्टा कृता चास्मि योग्यायोग्यमविन्दती ॥
तेन लोके महत्त्वञ्च त्वत्प्रसादेन चेच्छती ।
यदयाचे तत्तपोदार ! तन्मे दातुं त्वमहसि ॥
दयालुरसि दीनेषु नेति मां न वद प्रभो ! ।
ततः प्रोवाच भगवान् देवि ! यद्यत्त्वमिच्छसि ॥
तद्याचय वरारोहे ! अदेयमपि सर्वथा ।
यद्दुर्लभं मनुष्याणां शीघ्रं याचय मां प्रति ॥
मद्दर्शनमनुप्राप्य कोवाऽपूर्णमनोरथः ।
ततो हिमांशो ! सा देवी गण्डकी लोकतारिणी ॥
प्राञ्जलिः प्रणता भूत्वा मधुरं वाक्यमब्रवीत् ।
यदि देव ! प्रसन्नोऽसि देयो मे वाञ्छितो वरः ॥
मम गर्भगतो भूत्वा विष्णो ! मत्पुत्त्रतां व्रज ।
ततः प्रसन्नो भगवान् चिन्तयामास गोपते ! ॥
किं याचितं निम्नगया नित्यं मत्सङ्गलुब्धया ।
दास्यामि याचितं येन लोकानां भवमोक्षणम् ॥
इत्येवं कृपया देवो निश्चित्य मनसा स्वयम् ।
गण्डकीमवदत् प्रीतः शृणु देवि ! वचो मम ॥
शालग्रामशिलारूपी तव गर्भगतः सदा ।
तिष्ठामि तव पुत्त्रत्वे भक्तानुग्रहकारणात् ॥
मत्सान्निध्यात् नदीनां त्वमतिश्रेष्ठा भविष्यसि ।
दर्शनात् स्पर्शनात् स्नानात् पानाच्चैवावगाहनात्
हरिष्यसि महापापं वाङ्मनःकायसम्भवम् ।
यः स्नास्यति विधानेन देवर्षिपितृतर्पकः ॥
तर्पयेत् स्वपितॄंश्चापि तारयित्वा दिवं नयेत् ।
स्वयं मम प्रियो भूत्वा ब्रह्मलोकं गमिष्यति ॥
यदि त्वय्युत्सृजेत् प्राणान् मम कर्म्मपरायणः ।
सोऽपि याति परं स्थानं यत्र गत्वा न शोचति ॥
एवं दत्त्वा वरान देव्यै तत्रैवान्तरधीयत ।
ततः प्रभृति तिष्ठामः क्षेत्रेऽस्मिन् शशलाञ्छन ! ॥”
इति वराहपुराणे सोमेश्वरादिलिङ्गमहिमा-
ऽविमुक्तक्षेत्रत्रिवेण्यादिमहिमनामाध्यायः ॥

गण्डकुसुमं, क्ली, (गण्डेषु गजानां कपोलदेशेषु

कुसुममिव । हस्तिनां हि कटदेशात् कपोलयो-
रेव मदवारि क्षरति ।) हस्तिमदः । तत्-
पर्य्यायः । उत्कटः २ । इति हारावली । १६१ ॥

गण्डकूपः, पुं, (गण्डे गिरेरूर्द्ध्वदेशे कूप इव ।) पर्व्व-

तस्योच्चस्थानम् । (यथा, --
“उद्देशो गण्डकूपस्तु पर्व्वतस्याभिधीयते ॥”
इति हारावली । ५१ ॥)

गण्डगात्रं, क्ली, (गण्डः स्फोटक इव बन्धुरत्वं उच्च-

नीचत्वं गात्रेऽस्य ।) फलविशेषः । इति शब्द-
चन्द्रिका ॥ आता इति भाषा ॥

गण्डदूर्व्वा, स्त्री, (गण्डा ग्रन्थिला दूर्व्वेति कर्म्म-

धारयः ।) दूर्व्वाविशेषः । गाँटिया दूर्व्वा इति
भाषा ॥ तत्पर्य्यायः । गण्डाली २ अतितीव्रा ३
मत्स्याक्षी ४ वारुणी ५ मीनपर्णी ९ सूची-
नेत्रा ६ श्यामग्रन्थिः ७ ग्रन्थिला ८ ग्रन्थि-
पर्णी ९ सूचीपत्रा १० श्यामकाण्डा ११ जलस्था
१२ शकुलाक्षी १३ कलाया १४ चित्रा १५ ।
अस्या गुणाः । मधुरत्वम् । वातपित्तज्वरभ्रम-
तृष्णाश्रमद्वन्द्वदोषनाशित्वम् । शिशिरत्वञ्च । इति
राजनिर्घण्टः ॥ यथा, भावप्रकाशे ।
“गण्डदूर्व्वा तु गण्डाली मत्स्याक्षी शकुलाक्षकः ।
गण्डदूर्व्वा हिमा लोहद्राविणी ग्राहिणी लघुः ॥
तिक्ता कषाया मधुरा वातकृत् कटुपाकिनी ।
दाहतृष्णावलाशास्रकुष्ठपित्तज्वरापहा ॥”

गण्डमाला, स्त्री, (गण्डानां ग्रीवाजातस्फोट-

विशेषाणां माला समूहोऽस्याम् ।) गलरोग-
विशेषः । तत्पर्य्यायः । गलगण्डः २ । इति
हेमचन्द्रः । ३ । १३१ ॥ तस्यौषधं यथा, --
“अजमोदः ससिन्दूरो हरितालनिशाद्बयम् ।
क्षारद्वयं फेनयुतमार्द्रकं शरलोद्भवम् ॥
इन्द्रवारुण्यपामार्गकदलैः कन्दलैः समैः ।
एभिः सर्षपजं तैलमजामूत्रैश्च योजितम् ॥
मृद्वग्निना पचेदेतदर्कक्षीरेण संयुतम् ।
अजमोदादिकं तैलं गण्डमालां व्यपोहति ॥
विदग्धस्तु पचेत् पक्वं पक्वञ्चैव विशोधयेत् ।
रोपणं मृदुभावञ्च तैलेनानेन कारयेत् ॥
अजमोदादिकं तैलं महावीर्य्यञ्च रोगनुत् ॥”
इति गारुडे १७८ अध्यायः ॥
अपि च । तत्रैव १९० अध्याये ।
“द्विजयष्ट्याश्च वै मूलं पिष्ट्वं तण्डुलवारिणा ।
गण्डमालां हरेल्लेपात् कुरुण्डगलगण्डकम् ॥”
अपि च । तत्रैव १९४ अध्याये ।
“अपराजिताया मूलञ्च गोमूत्रेण समन्वितम् ।
पीतञ्चापि हरत्येव गण्डमालां न संशयः ॥”
अपि च ।
“बिल्वाग्निमन्थश्योनाकपाटलापारिभद्रकम् ।
प्रशारण्यश्वगन्धा च बृहती कण्टकारिका ॥
बला चातिबला रास्ना प्रदंष्ट्रा च पुनर्नवा ।
एरण्डशारिवा पर्णी गुडूची कपिकच्छुरा ॥
एषां दशपलिकान् भागान् क्वाथयेत् सलिले-
ऽमले ।
तेन पादावशेषेण तैलं पात्रे विपाचयेत् ॥
आजं वा यदि वा गव्यं क्षीरं दत्त्वा चतुर्गुणम् ।
शतावरीरसञ्चैव तैलतुल्यं प्रदापयेत् ॥
द्रव्याणि यानि पेव्याणि तानि वक्ष्यामि तत् शृणु ।
शतपुष्पा देवदारु शालपर्णी वचागुरु ॥
कुष्ठं मांसी सैन्धवञ्च पलमेकं पुनर्नवा ।
पाने नस्ये तथाभ्यङ्गे तैलमेतत् प्रदापयेत् ॥
हृच्छूलं पार्श्वशूलञ्च गण्डमालाञ्च नाशयेत् ।
अपस्मारं वातरक्तमायुष्मांश्च पुमान् भवेत् ॥
गर्भमश्वतरी विन्द्यात् किं पुनर्मानुषी शिव ! ।
अश्वानां वातभग्नानां कुञ्जराणां नृणां तथा ॥
तैलमेतत् प्रदातव्यं सर्व्ववातविकारिणाम् ॥”
इति गारुडे १९८ अध्यायः ॥ * ॥
अन्यच्च ।
अथ गण्डमालाया लक्षणमाह ।
“कर्कन्धुकोलामलकप्रमाणैः
कक्षांसमत्या गलवंक्षणेषु ।
मेदःकफाभ्यां चिरमन्दपाकैः
स्याद्गण्डमाला बहुभिस्तु गण्डैः ॥”
कर्कन्धुः क्षुद्रवदरी । कोलं बृहद्बदरम् । चिर-
मन्दपाकैः चिरेण मन्दोऽल्पः पाको येषां तैः ॥ * ॥
अथ गण्डमालाया एवावस्थाविशेषमपचीमाह ।
“ते ग्रन्थयः केचिदवाप्तपाकाः
स्रवन्ति नश्यन्ति भवन्ति चान्ये ।
कालानुबन्धं चिरमादधाति
सैवापचीति यवदन्ति केचित् ॥”
ते ग्रन्थयः गण्डमालाया एवं गण्डाः केचिद-
वाप्तपाकाः सन्तः स्रवन्ति केचित् नश्यन्ति अन्ये
भवन्ति च । कालानुबन्धाच्चिरमादधाति या
गण्डमाला चिरं तिष्ठति सैवापची इति
केचिद्वदन्ति ॥ * ॥
अपच्याः साध्यत्वादिकमाह ।
“साध्या स्मृता पीनसपार्श्वशूल-
काशज्वरच्छर्द्दियुता त्वसाध्या ॥” * ॥
अथ ग्रन्थिः । ग्रन्थेर्लक्षणमाह ।
“वातादयो मांसमसृक् च दुष्टा
संदूष्य मेदश्च तथा शिराश्च ।
वृत्तोन्नतं विग्रथितन्तु शोथं
कुर्व्वन्त्यतो ग्रन्थिरिति प्रदिष्टः ॥”
विग्रथितं ग्रन्थिरूपम् । अतो ग्रन्थिः ॥ * ॥
अस्या निदानादिपूर्ब्बलिखितम् । अथ गण्ड-
मालायाश्चिकित्सा ।
“काञ्चनारत्वचः क्वाथः शुण्ठीचूर्णेन संयुतः ।
माक्षिकाढ्यः सकृत्पीतः क्वाथो वरुणमूलजः ॥
गण्डमालां हरत्याशु चिरकालानुबन्धिनीम् ।
पलमद्धपलं वापि पिष्ट्वा तण्डुलवारिणा ॥
काञ्चनारत्वचं पीत्वा गण्डमालां व्यपोहति ।
काञ्चनारस्य गृह्णीयात् त्वचं पञ्चपलीन्मितम् ॥
नागरस्य कणायाश्च मरीचस्य पलं पलम् ।
पथ्याविभीतधात्रीणां पलमर्द्धं पृथक् पृथक् ॥
वरुणस्याक्षमेकञ्च पत्रकैलात्वचं पुनः ।
टङ्कं टङ्कं समादाय सर्व्वाण्येकत्र चूर्णयेत् ॥
पृष्ठ २/२९७
यावच्चूर्णमिदं सर्व्वं तावानेवात्र गुग्गुलुः ॥
सङ्कुट्य सर्व्वमेकत्र पिण्डं कृत्वा विधारयेत् ।
गुटिकाः शाणिकाः कृत्वा प्रभाते भक्षयेन्नरः ॥
गण्डमालां जयत्युग्रामपचीमर्व्वुदानि च ।
ग्रन्थ्यर्व्वुदानि गुल्मांश्च कुष्ठानि च भगन्दरम् ॥
प्रदेयश्चानुपानार्थं क्वाथो मुण्डितिकाभवः ।
क्वाथः खदिरसारस्य क्वाथः कोष्णोऽभयाभवः ॥”
इति काञ्चनारगुग्गुलुः ॥ * ॥
“चक्रमर्द्दकमूलस्य कल्कं दत्त्वा विपाचयेत् ।
केशराजरसे तैलं कटुकं मृदुनाग्निना ॥
पादशेषे विनिःक्षिप्य सिन्दूरमवतारयेत् ।
एततैलं निहन्त्याशु गण्डमालां सुदारुणाम् ॥”
इति चक्रमर्द्दतैलम् ॥ * ॥
“गुञ्जामूलफलैस्तैलं विपक्वं द्बिगुणाम्भसा ।
हरेदभ्यङ्गनस्याभ्यां गण्डमालां सुदारुणाम् ॥”
इति गुञ्जतैलम् ॥ * ॥ अथापच्याश्चिकित्सा ।
“चन्दनं साभया लाक्षा वचा कटुकरोहिणी ।
एभिस्तैलं शृतं पीतं समूलामपचीं हरेत् ॥”
इति चन्दनादितैलम् ॥ * ॥
“व्योषं विडङ्गं मधुकं सैन्धवं देवदारु च ।
तैलमेभिः शृतं नस्यात् सकृच्छ्रामपचीं हरेत् ॥”
व्योषादितैलम् ॥ * ॥ अथ ग्रन्थिचिकित्सा ।
“सर्ज्जिकामूलकक्षारशङ्खचूर्णसमन्वितम् ।
एतेन सहितो लेपो हन्ति ग्रन्थिं तथार्व्वुदम् ॥
ग्रन्थिर्न यो नश्यति भेषजेन
निष्काश्य तं शस्त्रचिकित्सकेन ।
जात्यादिपक्वेन घृतेन वैद्यो
व्रणेन चान्येन च संचिकित्सेत् ॥
ग्रन्थिमुत्कृत्य पश्चात्तु व्रणोक्तं क्रममाचरेत् ।
शिराग्रन्थिं व्रिहायान्ये शेषे शस्त्रं प्रयुज्यते ॥”
इति भावप्रकाशः ॥
(यथास्याः सकारणलक्षणचिकित्सितानि ।
“दुष्टाम्बुपानसकदन्ननिषेवणाच्च
सञ्जायते च क्रिमिसम्भवगण्डमाला ।
सा मारुतेन कफपित्तभवे विकारे
संसर्पते क्रिमिजदोषगणश्च गण्डात् ॥
वातेन वातसदृशानि च लक्षणानि
पित्तेनु दाहसरुजव्रणशोषतापाः ।
सा श्लेष्मणा च घनशीतलसम्प्रयोगात्
स्यात् सन्निपातविहिता च समस्तलिङ्गैः ॥
तस्य चेमं प्रतीकारं वक्ष्यामि शृणु पुत्त्रक ! ।
रोहिणी विशदा चैव विजया च विभेदिनी ॥
कान्तारी वज्रपुष्पा च तथा चेन्द्रायुधा परा ।
इति सप्तविधा लूताः शृणु पश्चात् पृथक् पृथक् ॥
रक्तमुण्डा भवेद्रक्ता रक्तस्थाने च रोहिणी ।
विशदा मांसल त्थाने श्वेतवर्णा च दीर्घिका ॥
विजया च शिरो मध्ये पीतवर्णा यवप्रभा ।
भेदिनी मेदसः स्थाने श्वेता च नीलरेखिका ॥
कान्तारी च वस्तिमध्ये श्वेताङ्गा रक्तमुण्डिका ।
बज्रपुष्पा चास्थिमध्ये श्वेताकृष्णा शिरा मता ॥
बज्रायुधा शिरान्ते च धूम्रा कृष्णा शिरा मता ।
रोहिण्यङ्गुलिमात्रेण मूत्रेण विशदा समा ॥
विजया च यवाकारा वर्त्तुला विजया तथा ।
अन्या नणाञ्च विज्ञेया तण्डुली कण्टकानिभा ॥
रोहिणी विजया विंशा मांसस्थानसमाश्रिता ।
गुल्फे वा चास्थिसन्धौ च दृश्यते भेदिनी नरे ॥
कुक्षौ कर्णान्तरेऽपाङ्गे कान्तारी विद्धि पुत्त्रक ! ।
वज्रपुष्पा शिरसि च शिरान्तार्त्तिप्रदा मता ॥
अतो वक्ष्यामि भैषज्यं शृणु पुत्त्र ! प्रयत्नतः ।
सान्द्रपूयविस्रावञ्च गण्डीरञ्च व्रणं विदुः ॥
अन्यञ्च सरुजञ्चैव पक्वजम्बूसमप्रभम् ।
लूताव्रणानाञ्चैतानि अपक्वं यदि दृश्यते ॥
त्यक्त्वा सन्धिस्थमर्म्मस्थां लूताञ्चैव हि तद्व्रणम् ।
तदा तप्तेन तैलेन दाहश्चाशु विधीयते ॥
अङ्कोलश्चैवमद्यानि पारिभद्रदलानि च ।
गृहधूमं कृष्णजीरं गोमूत्रेण तु पेषितम् ॥
लेपनञ्च प्रशस्तञ्च लूतानां मारणे परम् ।
पिण्डीतकं विडङ्गानि तथा चेङ्गुदिमूलकम् ॥
बीजपूरकमूलानि पेषितानि विलेपयेत् ।
गण्डमालां तथा घोरां हन्ति शीघ्रं प्रकण्टकाम् ।
स्नुहीक्षीरञ्चार्कक्षीरं लूतारन्ध्रे नियोजयेत् ॥
तेन कीटस्तु तन्मध्ये म्रियते नात्र संशयः ।
आस्यतो गिरिकर्णीञ्च चन्दनञ्च समांशकम् ॥
पिष्ट्वा लेपः प्रयोक्तव्यो लूतां हन्ति सुदारुणाम् ।
करवीरञ्चार्कदुग्धं तथा च कटुतुम्बिकाम् ॥
निशाद्वयं जाङ्गलिकां तिलतैले विपाचयेत् ।
लूतामभ्यञ्जने हन्ति गण्डमालाञ्च दारुणाम् ॥
घृतं जात्यादिकं नाम तथा चात्र प्रयोजयेत् ।
अन्यान्यपि व्रणे यानि प्रोक्तानि च यथाविधि ॥”
इति महर्ष्यात्रेयभाषिते हारीतोत्तरे तृतीय-
स्थाने लूतागण्डमालाचिकित्सा नाम सप्तत्रिंशो-
ऽध्यायः ॥
“गलस्य पार्श्वे गलगण्ड एकः
स्याद्गण्डमाला बहुभिस्तु गण्डैः ।
साध्याः स्मृताः पीनसपार्श्वशूल-
कासज्वरच्छर्द्दियुतास्त्वसाध्याः ॥
तेषां सिरा-काय-शिरो-विरेको
धूमः पुराणस्य घृतस्य पानम् ॥”
इति चरके चिकित्सास्थाने सप्तदशेऽध्याये ॥)

गण्डमालिका, स्त्री, (गण्डानां ग्रन्थीनां मालाऽस्या

अस्यां वा इति कप् । ततष्टाप् अत इत्वच्च ।)
लज्जालुवृक्षः । इति रत्नमाला ॥

गण्डशैलः, पुं, (गण्ड इव शैलः स्खलितस्थूलोपलः ।

शैलशब्दोऽत्र शैलावयवे वर्त्तते । “विशेषणं
विशेष्येण बहुलम् ।” २ । १ । ५७ । इति
समासः । यद्वा शैलस्य पर्व्वतस्य गण्ड इव ।
राजदन्तादित्वात् पूर्ब्बनिपातः ।) गिरेश्च्युतः
स्थूलोपलः । भूकम्पादिना पर्व्वतात् गलितो
महान् प्रस्तरः । इत्यमरः । २ । ३ । ६ ॥ (यथा,
आर्य्यासप्तशत्याम् । १७९ ।
“किं पुत्त्रि ! गण्डशैलभ्रमेण नवनीरदेषुनिद्रासि ।
अनुभव चपलाविलसितगर्ज्जितदेशान्तर-
भ्रान्तीः ॥”)
ललाटम् । इति हेमचन्द्रः । ४ । १०२ ॥

गण्डाङ्गः, पुं, (गण्ड इव उच्छ्रयमङ्गमस्य ।)

खड्गी । इति शब्दचन्द्रिका ॥

गण्डारिः, पुं, (गण्डस्य रोगविशेषस्य अरिः । तन्ना-

शकत्वात्तथात्वम् ।) कोविदारवृक्षः । (यथा, --
“काञ्चनाल ! काञ्चनकीगण्डारिः शोणपुष्पकः ॥”
इति भावप्रकाशः ॥)

गण्डाली, स्त्री, (गण्डं अलतीति । अल् + “कर्म्म-

ण्यण् ।” ३ । २ । १ । इत्यण् । गण्डेन ग्रन्थिना
आल्यते भूष्यते वा । अल् + घञ् स्त्रियां
ङीष् ।) श्वेतदूर्व्वा । इत्यमरः । २ । ४ । १५९ ॥
सर्पाक्षी । इति भावप्रकाशः ॥ गण्डदूर्व्वा ।
इति राजनिर्घण्टः ॥

गण्डिः, पुं, (गडि + इन् ।) वृक्षस्य मूलाच्छाखा-

वधिभागः । इति हेमचन्द्रः । ४ । १८६ ॥ गुँडि
इति भाषा ॥

गण्डीरः, पुं, (गण्ड + ईरन् ।) समष्ठिला । शसा

इति ख्यातः । समठ इति ख्यातः । अनूप-
देशजं शाकम् । इति केचित् । गुण्ठिया इति
ख्यातशाकम् । इति सर्व्वानन्दः । इत्यमरटीकायां
भरतः ॥ (“गण्डीरः शाकविशेषो गण्डीनीति
लोके गण्डारी मञ्जिष्ठा च ।” इति भावप्रकाशस्य
पूर्ब्बखण्डे द्वितीये भागे ॥ अस्य गुणा यथा, चरके
सूत्रस्थाने २७ अध्याये ।
“वायुं वत्सादनी हन्यात् कफङ्गण्डीरचित्रकौ ॥”)
वीरः । इति जटाधरः ॥

गण्डीरी, स्त्री, (गण्डीर + गौरादित्वात् ङीष् ।

यद्बा गण्डं रोगविशेषं ईरयति दूरीकरोति
स्वनिर्जासादिभिरिति शेषः ।) सेहुण्डवृक्षः ।
इति राजनिर्घण्टः ॥ सिज इति भाषा ॥

गण्डुः, पुं स्त्री, (गण्ड्यते शिरोभागः स्थाप्यतेऽत्र ।

गडि + अधिकरणे उन् ।) उपधानम् । इति
जटाधरः ॥

गण्डुपदः, पुं, (गण्ड्वः ग्रन्थयः ताभिरन्वितानि

पदानि यस्य । शाकपार्थिवादित्वात् समासः ।)
किञ्चुलुकः । इत्यमरः । १ । १० । २२ ॥
(“गण्डूपदस्य रूपाणि पिच्छिलानि मृदूनि च ॥”
इति वैद्यकमाधवकररोगविनिश्चये अर्शोऽधि-
कारे ॥)

गण्डूपदभवं, क्ली, (गण्डूपद इव भवति उत्पद्यते इति ।

भू + अच् ।) सीसकम् । इति हेमचन्द्रः । ३ । १०७ ॥

गण्डूपदी, स्त्री, (गण्डूपद + स्त्रियां अल्पार्थे ङीप् ।)

किञ्चुलुकपत्नी । तत्पर्य्यायः । शिली २ । इत्य-
मरः । १ । १० । २४ ॥ सिली ३ क्षुद्रकिञ्चुलुक-
जातिः । इत्यमरटीकायां भरतः ॥ छोटजाति
केँचुया इति भाषा ॥

गण्डूषः, पुं, (गडि + “गण्डेश्च ।” उणां । ४ । ७८ ।

इति ऊषन् ।) मुखपूरणम् । (यथा, भागवते ।
९ । १५ । ३ ।
“भीमस्तु विजयस्याथ काञ्चनो होत्रकस्ततः ।
तस्य जह्रुः सुतो गङ्गां गण्डषीकृत्य योऽपिबत् ॥”)
हस्तिशुण्डाग्रभागः । प्रसृतिपरिमितम् । इति
मेदिनी । षे ३५ ॥ (यदाह कश्चित् ।
पृष्ठ २/२९८
“अगाधजलसञ्चारी विकारी न च रोहितः ।
गण्डूषजलमात्रेण शफरी फर्फरायते ॥”)

गण्डूषा, पुं, (गण्डूष + टाप् ।) गण्डूषः । इति

लिङ्गादिसंग्रहे अमरः । “मुखपूर्णतोयमिति
भगी ॥ रायमुकुटस्तु गण्डूषाशब्दो मुखपूरणे
स्त्रीलिङ्गः । पुंलिङ्गस्तु गण्डूषशब्दश्चुलुकपरि-
माण इति । यथा, --
अपां द्बादशगण्डूषैर्मुखशुद्धिर्विधीयते ॥”
इति तट्टीकासारसुन्दरी ॥

गण्डोलः, पुं, (गडि + “कपिगडिगण्डिकटीति ।”

उणां १ । ६७ । इति ओलच् ।) गुडः । ग्रासः ।
इति हेमचन्द्रः । ३ । ९० ॥

गण्यं, त्रि, (गणं लब्धा इति । “धनगणं लब्धा ।”

४ । ४ । ८४ । इति यत् । यद्वा गण्यते इति ।
कर्म्मणि यत् । गणे भवः । “दिगादिभ्यो यत् ।”
४ । ३ । ५४ । इति यदित्येके ।) गणनीयम् । गणि-
तव्यम् । तत्पर्य्यायः । गणेयम् २ संख्येयम् ३ ।
इति हेमचन्द्रः । ३ । ३३६ ॥ (यथा, ऋग्वेदे । ३ । ७ । ५ ।
“दिवौ रुचः सुरुचो रोचमाना इला येषां
गण्या माहिना गीः ॥”)

गतं, त्रि, (गच्छति जानाति यातीति वा ।

“गत्यर्थाऽकर्म्मकेति ।” ३ । ४ । ७२ । इति
कर्त्तरि क्तः ।) विज्ञातम् । यातम् । इति मेदिनी ।
ते १५ ॥ (यथा, किरातार्ज्जुणीये । ४ । ५ ।
“नुनोद तस्य स्थलपद्मिनीगतं
वितर्कमाविष्कृतफेनसन्तति ॥”
गम्यते इति । भावे क्ते तु गमने क्ली ॥ यथा,
माघे । १ । २ ।
“गतं तिरश्चीनमनूरुसारथेः
प्रसिद्धमूर्द्ध्वज्वलनं हबिर्भुजः ॥”)

गतनासिकः, त्रि, (गता विरहिता नासिका अस्य ।)

नासिकारहितः । तत्पर्य्यायः । विग्रः २ । इत्य-
मरः । २ । ३ । ४६ ॥ विख्रः ३ । छिन्ननासिकः ४ ।
इति शब्दरत्नावली ॥ विनासिकः ५ विनसः ६ ।
इति जटाधरः ॥

गतसन्नकः, पुं, (गतं सन्नं सादहेतुको मदो यस्मात्

यस्य वा इति कप् ।) निर्म्मदहस्ती । इति शब्द-
चन्द्रिका ॥

गतागतं, क्ली, (गतं ऊर्द्धगमनं आगतं अधोगमनं

यत्र ।) पक्षिगतिविशेषः । इति जटाधरः ॥
(गतञ्च आगतञ्च द्वयोः समाहारः ।) यातायातम् ।
यथा, रसमञ्जर्य्याम् ।
“गतागतकुतूहल नयनयारपाङ्गावधि ॥”
(तथा च भगवदगीतायाम् । ९ । २१ ।
“ते तं भुक्त्वा स्वर्गलोकं विशालं
क्षीणे पुण्ये मर्त्त्यलोकं विशन्ति ।
एवं त्रयीधर्म्ममनुप्रपन्ना
गतागतं कामकामा लभन्ते
गतं विनष्टं आगतं पुनः संसारागमन यस्मात् ।
यं प्राप्य जीवो न पुनर्निवर्त्तते इति वाक्यात्
तथात्वम् । पुं, महादेवः । यथा, महाभारते ।
१३ । १७ । ७९ ।
“नीतिर्ह्यनीतिः शुद्धात्मा शुद्धो मान्यो गतागतः ॥”)

गतार्त्तवा, स्त्री, (गतं निवृत्तं आर्त्तवं रजोऽस्याः ।)

वृद्धा । (गतं दुष्टं आर्त्तवमस्या इति ।) बन्ध्या ।
इति राजनिर्घण्टः ॥

गतिः, स्त्री, (गम् + भावे क्तिन् ।) गमनकर्म्म ।

(यथा, रघुवंशे । १ । ४ ।
“अथवा कृतवाग्द्वारे वंशेऽस्मिन् पूर्ब्बसूरिभिः ।
मणौ बज्रसमुत्कीर्णे सूत्रस्येवास्ति मे गतिः ॥”)
तत्पर्य्यायः । वर्त्तते १ अयते २ लोटते ३
लोठते ४ स्यन्दते ५ कसति ६ सर्पति ७ स्यमति ८
स्रवति ९ स्रंशते १० अवति ११ श्चोतति १२
ध्वंसति १३ वेनति १४ मार्ष्टि १५ गुरण्यति १६
शवति १७ कालयति १८ पेलयति १९ कण्टति २०
पिस्यति २१ विस्यति २२ मिस्यति २३
प्रवते २४ प्लवते २५ च्यवते २६ कवते २७
गवते २८ नवते २९ क्षोदति ३० नक्षति ३१
सक्षति ३२ म्यक्षति ३३ सचति ३४ ऋच्छति ३५
तुरीयति ३६ चतति ३७ अतति ३८ गाति ३९
इयक्षति ४० सश्चति ४१ सरति ४२ रंहति ४३
यतते ४४ भ्रमति ४५ धजति ४६ रजति ४७
लजति ४८ क्षियति ४९ घमति ५० मिनाति ५१
ऋण्वति ५२ ऋणोति ५३ स्वरति ५४ सिसर्त्ति ५५
वेषिष्टिः ५६ योषिष्टिः ५७ ऋणाति ५८ ऋयते ५९
तेजति ६० दध्यति ६१ दध्नोति ६२ युध्यति ६३
घन्वति ६४ अरुषति ६५ आर्य्यन्ति ६६ डीयते ६७
तकति ६८ टीयते ६९ इषति ७० फणति ७१
हनति ७२ अर्द्धति ७३ मर्द्दति ७४ ससृते ७५
नसते ७६ हर्षति ७७ इयर्त्ति ७८ ईर्त्ते ७९
ईङ्खते ८० ज्रयति ८१ स्वात्रति ८२ गन्ति ८३
आगनीगन्ति ८४ जंगन्ति ८५ जिन्वति ८६
जसति ८७ गमति ८८ ध्रति ८९ ध्नाति ९०
ध्रयति ९१ वहते ९२ रथर्य्यति ९३ जेहते ९४
स्वःकति ९५ क्षुम्पति ९६ प्साति ९७ वाति ९८
याति ९९ दृयति १०० द्राति १०१ डूलति १०२
एजति १०३ जमति १०४ जवति १०५ वञ्चति १०६
अनिति १०७ पवते १०८ हन्ति १०९ सेधति ११०
अगन् १११ अजगन् ११२ जिगाति ११३ पतति
११४ इन्वति ११५ द्रमति ११६ द्रवति ११७ वेति
११८ हयन्तात् ११९ एति १२० जगायात् १२१
अयुथुः १२२ । इति द्वाविंशं शतं गतिकर्म्म ।
इति वेदनिघण्टौ २ अध्यायः ॥ (गम्यतेऽस्या-
मिति । गम् + अधिकरणे क्तिन् ।) मार्गः ।
(यथा, भगवद्गीतायाम् । ८ । २६ ।
“शुक्लकृष्ण गती ह्येते जगतः शाश्वते मते ।
एकया यात्यनावृत्तिमन्यया वर्त्तते पुनः ॥”)
दशा । (यथा, तत्रैव । ६ । ३७ ।
“अयतिः श्रद्धयोपेतो योगाच्चलितमानसः ।
अप्राप्य योगसंसिद्धिं कां गतिं कृष्ण ! गच्छति ॥”
गम्यते ज्ञायतेऽनया । करणे क्तिन् ।) ज्ञानम् ।
(यथा, श्रीमद्भागवते । ७ । ५ । ३१ ।
“न ते विदुः स्वार्थगतिं हि विष्णुं
दुराशया ये बहिरर्थमानिनः ।
अन्धा यथान्धैरुपणीयमाना
स्तेऽपीशतन्त्र्यामुरुदाम्नि बद्धाः ॥”
“स्वस्मिन्नेव आत्मन्येव अर्थः प्रयोजनं येषां ते
स्वार्थास्तत्त्वविदस्तेषां गतिर्ज्ञानस्वरूपं विष्णुं
दुराशया वहिरर्थमानिनो न विदुः जानन्ति ।”
इति तट्टीकायां स्वामी ॥) यात्रा । (गम्यते
प्राप्यतेऽनया इति । गम् + करणे क्तिन् ।)
अभ्युपायः । (यथा, महाभारते । १३ । १४९ । ६१ ।
“यज्ञ इज्यो महेज्यश्च क्रतुः सत्रं सतां गतिः ॥”)
नाडीव्रणम् । सरणी । इति मदिनी । १४ ॥
(गम् + भावे क्तिन् । परिणति । यथा, किराता-
र्जुनीये । १० । ४० ।
“मदनमुपदधे स एव तासा
दुरधिगमा हि गतिः प्रयोजनानाम् ॥”
“गतिः प्ररिणतिः ।” इति तट्टीकाकृन्मल्लि-
नाथः ॥ प्रमाणम् । यथा, तत्रैव । १४ । १५ ।
कृपेति चेदस्तु मृगः क्षतः क्षणा-
दनेन पूर्ब्बं न मयेति का गतिः ॥
“मया नेत्यत्र का गतिः किं प्रमाणम् ।” इति
तट्टीकायां मल्लिनाथः ॥ मन्यते इति । गम् +
कर्म्मणि क्तिन् । स्वरूपम् । यथा, तत्रैव । ६ । ३६ ।
चरतस्तपस्तव वनेषु सहा
न वयं निरूपयितुमस्य गतिम् ।”
“तव वनेषु तपश्चरतोऽस्य गतिं स्वरूप निरू-
पयितुम् ।” इति मल्लिनाथः ॥ विषयः । यथा,
कुमारे । ५ । ६४ ।
“तपः किलेदं तदवाप्तिसाधनं
मनोरथानामगतिर्न विद्यते ।”
“मनोरथानां कामानां अगतिः अविषयः
इति मल्लिनाथः ॥ कर्म्मफलम् । यथा, भगव-
द्गीतायाम् । । ९ । १८ ।
“गतिर्भर्त्ता प्रभुः साक्षी निवासः शरणं सुहृत् ॥”
“गतिः कर्म्मफलम् ।” इति शाङ्करभाष्यम्
ग्रहभेदेन गतिभेदो यथा, --
“अदृश्यरूपा कालस्य मूर्त्तयो भगणाश्रिताः ।
शीघ्रमन्दोच्चपाताख्या ग्रहाणां गतिहेतवः ॥”
इति सूर्य्यसिद्धान्तः ॥
तत्र तु नक्षत्रभेदेन बुधग्रहस्य गतिभेदो यथा,
बृहत्संहितायाम् । ७ अध्याये ।
“नोत्पातपरित्यक्तः कदाचिदपि चन्द्रजो व्रज-
त्युदयम् ।
जलदहनपवनभयकृत् धान्यार्घक्षयविवृद्ध्यै वा ॥
विचरच्छ्रवणधनिष्ठा प्राजापत्येन्दुविश्वदैवानि ।
मृद्नन् हिमकरतनयः करोत्यवृष्टिं सरोगभयाम् ॥
रौद्रादीनि मघान्तान्युपाश्रिते चन्द्रजे प्रजापीडा ।
शस्त्रनिपातक्षुद्भयरोगानावृष्टिसन्तापैः ॥
हस्तादीनि विचरन् षडृक्षाण्युपपीडयन् गवा-
मशुभः ।
स्नेहरसार्घविवृद्धिं करोति चोर्व्वीं प्रभूतान्नाम् ॥
आर्य्यम्णं हौतभुजं भद्रपदामुत्तरां यमेशञ्च ।
चन्द्रस्य सुतो निघ्नन प्राणभृतां धातुसङ्क्षयकृत् ॥
आश्विनवारुणमूलान्युपमृद्नन् रेवतीञ्च चन्द्रसुतः ।
पृष्ठ २/२९९
पण्यभिषग्नौजीविकसलिलजतुरगोपघातकरः ॥
पूर्ब्बाद्यृक्षत्रितयादेकमपीन्दोः सुतोऽभिमृद्नी-
यात् ॥
क्षुच्छस्त्रतस्करामयभयप्रदायी चरन् जगतः ॥
प्राकृतविमिश्रसङ्क्षिप्ततीक्ष्णयोगान्तघोर-
पापाख्याः ।
सप्तपराशरतन्त्रे नक्षत्रैः कीर्त्तिता गतयः ॥
प्राकृतसंज्ञा वायव्ययाम्यपैतामहानि बहुलाश्च ।
मिश्रा गतिः प्रदिष्टा शशिशिवपितृभुजगदैवानि ॥
सङ्क्षिप्तायां पुष्यः पुनर्वसुः फल्गुनीद्वयं चेति ।
तीक्ष्णायां भद्रपदाद्वयं सशाक्राश्वयुक् पौष्णम् ॥
योगान्तिकेति मूलं द्वे चाषाढे गतिः सुतस्येन्दोः ।
घोराश्रवणस्त्वाष्ट्रं वसुदेवं वारुणं चैव ॥
पापाख्या सावित्रं मैत्रं शक्राग्निदैवतं चेति ।
उदयप्रवासदिवसैः स एव गतिलक्षणं प्राह ॥
चत्वारिंशत्त्रिंशद्द्बिसमेता विंशतिर्द्विनवकञ्च ।
नव मासार्द्धं दश चैकसंयुताः प्राकृताद्यानाम् ॥
प्राकृतगत्यामारोग्यवृष्टिसस्यप्रवृद्धयः क्षेमम् ।
सङ्क्षिप्तमिश्रयोर्मिश्रमेतदन्यासु विपरीतम् ॥
ऋज्व्यतिवक्रा वक्रा विकला च मतेन देवल-
स्यैताः ।
पञ्च चतुर्द्ब्येकाहा ऋज्व्यादीनां षडभ्यस्ताः ॥
ऋज्वी हिता प्रजानामतिवक्रार्थं गतिर्वि-
नाशयति ।
शस्त्रभयदा च वक्रा विकला भयरोगसञ्जननी ॥
पौषाषाढश्रावणवैशाखेष्विन्दजः समाघेषु ।
दृष्टो भयाय जगतः शुभफलकृत् प्रोषितस्तेषु ॥
कार्त्तिकेऽश्वयजि वा यदि मासे
दृश्यते तनुभवः शिशिरांशोः ।
शस्त्रचौरहुतभुग्गदतोय-
क्षुद्भयानि च तदा विदधाति ॥
रुद्धानि सौम्येऽस्तमिते पुराणि
यान्युद्गते तान्युपयान्ति मोक्षम् ।
अन्ये तु पश्चादुदिते वदन्ति
लाभः पुराणां भवतीति तज्ज्ञाः ॥
हेमकान्तिरथवा शुकवर्णः
सम्यकेन मणिना सदृशो वा ।
स्निग्धमूर्त्तिरलघुश्च हिताय
व्यत्यये न शुभकृच्छशिपुत्रः ॥”
अन्येषामपि ग्रहाणां गतिस्तत्रव क्रमशो विशे-
षतो द्रष्टव्या ॥)

गतिला, स्त्री, (गम् + “मिथिलादयश्च ।” उणां ।

१ । ५८ । इति इलच् मलोपे तुक् च ।) नदी-
विशेषः । परम्पराभेदः । इत्युणादिकोषः ॥ (वेत्र-
लता । इत्युज्ज्वलदत्तः ॥)

गत्वरः, त्रि, (गच्छतीति । गम् + “इन्नशजि-

सर्त्तिभ्यः क्वरप् ।” ३ । २ । १६३ । इति क्वरप् ।)
गमनशीलः । इति व्याकरणम् ॥ (यथा, शान्ति-
शतके । १ । २० ।
“वीभतसा विषया जुगुप्सिततमः कायो वयो
गत्वरं
सर्व्वैर्बन्धुभिरध्वनीव पथिकैर्योगे वियोगावहः ॥”)

गद, त् क अभ्रध्वनौ । इति कविकल्पद्रुमः ॥ (अदन्त-

चुरां-परं-अकं-सेट् ।) अभ्रध्वनौ मेघकर्त्तृक-
शब्दे । गदयति मेघः । इति दुर्गादासः ॥

गद, भाषे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-सकं-

सेट् ।) गदति । सारङ्गं कतिचिच्च संजगदिरे
इति गणकृतानित्यत्वात् । इति दुर्गादासः ॥

गदं, क्ली, (गद्यते पीड्यतेऽस्मादनेन वा । गद +

अपादाने करणे वा अप् ।) विषम् । इति राज-
निर्घण्टः ॥

गदः, पुं, (गद्यते रुज्यतेऽनेन गदयति वा । गद +

करणे अप् । कर्त्तरि णिच् अच् वा ।) रोगः ।
(यथा, हारीते चिकित्सितस्थाने द्बितीयेऽध्याये ।
“शत्रुः स्थानबलं प्राप्य विक्रमं कुरुते बली ।
तथा धान्वन्तरं प्राप्य विक्रमं कुरुते गदः ॥
“यावत् स्थानं समाश्रित्य विकारं कुरुते गदः ।
तावत्तस्य प्रतीकारः स्थानत्यागाद्बलीयसः ॥”)
श्रीकृष्णभ्राता । इति हेमचन्द्रः । ३ । १२७ ॥
(यथा, भागवते । १ । १४ । २८ ।
“हृदीकः ससुतोऽक्रूरो जयन्तगदशारणाः ॥”)
भाषणञ्च । (औषधम् । यथा, महाभारते । १ ।
४३ । २१ ।
“अथ श्रुश्राव गच्छन् स तक्षको जगतीपतिम् ।
मन्त्रैर्गदैर्विषहरै रक्ष्यमाणं प्रयत्नतः ॥”
असुरविशेषः । यथा, वायुपुराणे ५ अध्याये
“गदो नामासुरो ह्यासीत् वज्राद्वज्रतरो दृढः ॥”)

गदयित्नुः, पुं, (गदयति कामयुक्तं करोतीति ।

“स्तनिहृषिपुषिगदिमदिभ्यो णेरित्नुच् ।” उणां ।
३ । २९ । इति इत्नुच् णेरयादेशश्च ।) कन्दर्पः ।
इति मेदिनी । १८२ ॥

गदयित्नुः, त्रि, (गदयति वाचालं वावदूकं काम-

युक्तं वा करोतीति । “स्तनिहृषीति ।” उणां ।
३ । २९० । इति इत्नुच् णेरयादेशश्च ।)
जल्पाकः । कामुकः । इति मेदिनी । १८२ ॥

गदा, स्त्री, (गदयति पीडयत्यनया विपक्षमितिशेषः ।

गद् + णिच् + करणे अप + टाप् च । गदयतीति
णिच् अच् वा ।) स्वनामख्यातलौहमयास्त्रम् ।
इति मेदिनी । दे । ४ ॥ (यथा महाभारते । ९ ।
५६ । ४५ ।
“तं महात्मा महात्मातं गदामद्यम्य पाण्डवः ।
आमदुद्राव वेगेन धार्त्तराष्ट्र वृकादरः ॥
गदायुद्धस्य गतिप्रहारादिभेदो यथा तत्रैव ।
९ । ५७ । १७--२० ।
“अचरद्भीमसेनस्तु मागान् बहुविधांस्तथा
मण्डलानि विचित्राणि गतप्रत्यागतानि च ॥
अस्त्रयन्त्राणि चित्राणि स्थानानि विविधानि च ।
परिमोक्षं प्रहराणां वर्ज्जनं परिवारणम् ॥
अभिद्रवणमाक्षेपमवस्थानं सविग्रहम् ।
परिवर्त्तनसंवर्त्तमवप्लुतमुपप्लुतम् ॥
उपन्यस्तमपन्यस्तं गदायुद्धविशारदौ ।
एवं तौ विचरन्तौ तु न्यघ्नतां वै परस्परम् ॥”
भगवतो विष्णोर्गदा तु गदसंज्ञकस्यासुरविशेष-
स्यास्थ्ना देवशिल्पिना विश्वकर्म्मणा निर्म्मिता ।
अतएवासौ गदेति नाम्ना प्रसिद्धा अपरा गदा
तु एतदुपलक्षणेनैव सिद्धेति बोध्यम् । यथा, वायु-
पुराणे गयामाहात्म्ये ५ अध्याये ।
“गदो नामासुरो ह्यासीत् वज्राद्वज्रतरो दृढः ।
प्रार्थितो ब्रह्मणे प्रादात् स्वशरीरास्थि दुस्त्यजम् ।
ब्रह्मोक्तो विश्वकर्म्मापि गदां चक्रेऽद्भतां तदा ॥”
योगविशेषः । यथा, लघुजातकप्रकरणे । १० । ३ ।
“अनन्तरयोः केन्द्रयोर्यदा सर्व्वे ग्रहा भवन्ति ।
तदा गदानाम योगो भवति ॥”)
पाटलावृक्षः । इति शब्दचन्द्रिका ॥

गदाख्यं, क्ली, (गदत्वेन रोगनाशकतया आख्या-

यते विश्रूयते इति गद इत्याख्याऽस्येति वा ।)
कुष्ठम् । इति रत्नमाला ॥ कुड् इति भाषा ॥

गदागदौ, पुं, (गदं रोगं आगदयतः नाशयतः

इति । आ + गद + णिच् + अच् । यद्वा गदं रोगं
आगच्छति प्राप्नोतीति गदागं रुग्नं दायतः
विशोधयतः इति । दैप शोधने + कः ।) अश्विनी-
कुमारौ । इति त्रिकाण्डशेषः ॥ द्बिवचनान्तोऽयं
शब्दः ॥

गदाग्रजः, पुं, (गदस्य वसुदेवपुत्त्रभेदस्य अग्रजः ।)

श्रीकृष्णः । इति त्रिकाण्डशेषः ॥ (यथा, भागवते ।
४ । २३ । १२ ।
“तावन्न योगगतिभिर्यतिरप्रमत्तो
यावन्न गदाग्रजकथासु रतिं न कुर्य्यात् ॥”)

गदाग्रणीः, पुं, (अग्रे नीयते । अग्र + नी + क्विप्

गदानां रोगाणां गदेषु वा अग्रणीः ज्यायान् ।
अचिरात् संहारकत्वात् तथात्वम् ।) क्षय-
रोगः । इति राजनिर्घण्टः ॥

गदाधरः, पुं, (गदां धरति धारयति वा । धृ + अच् ।

यद्बा धरति इति धरः गदायाः धरः । धृ +
अन्तर्णिजन्तात् अजित्येके ।) विष्णुः । इति
हलायुधः ॥ (यथा, भागवते । १ । ८ । ३९ ।
“नेयं शोभिष्यते तत्र यथेदानीं गदाधर ! ।
त्वत्पदैरङ्किता भाति स्वलक्षणविलक्षितैः ॥”
अस्य गदाधारणकथा यथा, वायुपुराणे गया-
माहात्म्ये ५ अध्याये ।
“अथ कालेन महता मनौ स्वायम्भुवेऽन्तरे ।
हेतिरक्षो ब्रह्मपुत्त्रस्तपस्तेपे सुदारुणम् ॥
दिव्यवर्षसहस्राणां शतं वायुमभक्षयत् ।
उम्मुखश्चाद्ध्वबाहुश्च पादाङ्गुष्ठभरेण हि ॥
एकेनातिष्ठदव्यग्रः शीर्णपर्णानिलाशनः ।
ब्रह्मादींस्तपसा तुष्टान् वरं वव्रे वरप्रदान् ॥
देवैर्दैत्यैश्च शस्त्रास्त्रैर्विविधैर्मनुजादिभिः ।
कृष्णेशानस्य चक्राद्यैरवध्यः स्यां महाबलः ॥
तथेत्युक्त्वान्तर्हितास्ते हेतिर्देवानथाऽजयत् ।
इन्द्रत्वमकरोद्धेतिर्भीता ब्रह्महरादयः ॥
हरिन्त शरणं जग्मुरूचुर्हेतिं जहीति तान् ।
ऊचे हरिरवध्योऽयं हेतिर्देवासुरैः सुराः ॥
महास्त्रं मे प्रयच्छध्वं हेतिं हन्मि हि येन तम् ।
इत्युक्तास्ते ततो देवा गदान्तां हरये ददुः ॥
दधार तां गदामादौ देवैरुक्तो गदाधरः ।
गदया हेतिमाहत्य देवेभ्यस्त्रिदिवं ददौ ॥”
पृष्ठ २/३००
बुद्धितत्त्वात्मिकैव भगवतो विष्णोः कौमुदीनाम
गदेति अध्यात्मशास्त्रेषु परिदृश्यते । तथाच
विष्णुसहस्रनामभाष्ये ।
“मनस्तत्त्वात्मकं चक्रं बुद्धितत्त्वात्मिकां गदाम् ।
धारयन् लोकरक्षार्थमुक्तश्चक्रगदाधरः ॥”
महादेवः । स तु गयातीर्थे वर्त्तते । यथा,
महालिङ्गेश्वरतन्त्रे शिवशतनामस्तोत्रे ।
“भोजपुरे भोजनाथो गयायाञ्च गदाधरः ॥”
गदाधारिणि त्रि ॥)

गदाभृत्, पुं, (गदां बिभर्त्ति इति । गदा + भृ +

क्विप् । तुक् च ।) विष्णुः । इति हेमचन्द्रः ।
२ । १३३ ॥ (यथा, भागवते । १ । १३ । १० ।
“भवद्विधा भागवतास्तीर्थीभूता स्वयं विभो ! ।
तीर्थीकुव्वन्ति तीर्थानि स्वान्तःस्थेन गदाभृता ॥”)

गदाम्बरः, पुं, (गदं सशब्दं अम्बरं यस्मात् ।)

मेघः । इति त्रिकाण्डशेषः ॥

गदारातिः, पुं, (गदस्य रोगस्य अरातिः शत्रुः

तन्नाशकत्वात् ।) औषधम् । इति राजनिर्घण्टः ॥

गदाह्वं, क्ली, (गद एव आह्वा आख्या यस्य ।)

कुष्ठम् । इति शब्दरत्नावली ॥ कुड् इति भाषा ॥

गदी, [न्] पुं, (गदा विद्यते अस्ति वास्य । गदा +

इनिः ।) विष्णुः । इति हारावली । ९ ॥ (यथा,
भगवद्गीतायाम् । ११ । १७ ।
“किरीटिनं गदिनं चक्रिणञ्च
तेजोराशिं सर्व्वतो दीप्तिमन्तम् ॥”)
गदाविशिष्टे रोगयुक्ते च त्रि ॥

गद्गदः, पुं, लुप्तपदव्यञ्जनाभिधायी । अत्यस्पष्टवक्ता ।

तस्य सम्प्राप्तिपूर्ब्बकलक्षणं यथा, --
“आवृत्य वायुः सकफो धमनीः शब्दवाहिनीः ।
नरान् करोत्यक्रियकान् मूकमिन्मिनगद्गदान् ॥”
इति माधवकरः ॥
(अस्पष्टोक्ते त्रि । यथा, अमरुशतके । ५३ ।
“खेदोऽस्मासु न मेऽपराध्यति भवान् सर्व्वेऽप-
राधा मयि ।
तत् किं रोदिषि गद्गदेन वचसा कस्याग्रतो
रुद्यते ॥”)

गद्गदध्वनिः, पुं, (गद्गदेन वायुपरिचालितश्लेष्मा-

दिना योऽस्पष्टीकृतो ध्वनिः । गद्गदरूपो ध्वनिः
वा ।) हर्षशोकादिना अस्पष्टध्वनिः । तत्-
पर्य्यायः । मन्मनः २ । इति त्रिकाण्डशेषः ॥

गद्यं, क्ली, (गव्यते च्छन्दसा विना केवलं कथाप्रबन्धै-

रेव विरच्यत इति । गद + “गदमदचरयमश्चानुप-
मर्गे ।” ३ । १ । १०० । इति पत् ।) पद्यभिन्नम् ।
कविकृतम् । अपादः पदसन्तानः । इत्यमरः ।
३ । ५ । ३१ ॥ कविकृतभिन्ने त्रि । यथा गद्यो
व्यवहारः गद्या वाक् गद्यं वचः । इति तट्टी-
काया भरतः ॥ (यथा, महाभारते । ३ । २६ । ३ ।
“यजषामृचा साम्नाञ्च गद्यानाञ्चैव सर्व्वशः ।
आसीदुच्चाय्यमाणानां निस्वनो हृदयङ्गमः ॥”)
“अपादः पदसन्तानो गद्यमाख्यायिका कथा ॥
इति दण्डी ॥
आस्यायिका तु आचष्टे प्रातपादयति अत्यर्थं
आख्यायिका अत्र नायकेन स्वयमुपलब्धोऽर्थ
आख्यायते इत्येके । ज्ञातायां सत्यार्थायां कथाया-
माख्यायिका । सा च माधविका-वासवदत्ता-
हर्षचरितादिः । कथा तु । प्रबन्धस्य कल्पना
रचना बह्वनृता स्तोकसत्या कथा ।
प्रबन्धकल्पनां स्तोकसत्यां प्राज्ञाः कथां विदुः ।
परम्पराश्रया यस्मात् सा मताख्यायिका क्वचित् ॥
इति कोलाहलाचार्य्यः ॥
कथा कादम्बर्य्यादिः ।” इत्यमरटीकायां भरतः ॥
(गद्यन्तु त्रिधा विभक्तं यथा छन्दोमञ्जर्य्याम् ।
“अपादं पदसन्तानं गद्यं तत्तु त्रिधा मतम् ।
वृत्तकोत्कलिकाप्रायवृत्तगन्धिप्रभेदतः ॥”
एतेषामपि लक्षणं यथा तत्रैव ।
“अकठोराक्षरं स्वल्पसमासं वृत्तकं सतम् ।
तत्तु वैदर्भरीतिस्थं गद्यं हृद्यतरं भवेत् ॥
भवेदुत्कलिकाप्रायं समासाढ्यं दृढाक्षरम् ।
वृत्तैकदेशसम्बन्धात् वृत्तगन्धि पुनः स्मृतम् ॥”
मतभेदेनैतत् क्वचित् चतुर्द्धापि दृश्यते । यथा,
साहित्यदर्पणे । ६ । २९५ ।
“वृत्तबन्धोज्झितं गद्यं मुक्तकं वृत्तगन्धि च ।
भवेदुत् कलिकाप्रायं चूर्णकञ्च चतुर्व्विधम् ॥
आद्यं समासरहितं वृत्तभागयुतं परम् ।
अन्यद्दीर्घसमासाढ्यं तुर्य्यञ्चाल्पसमासकम् ॥”)

गद्यानकं, क्ली, (गद्येन औषधादिपरिमाणभेदेन

आनीयते इति । आ + नी + डः । ततः स्वार्थे
कन् ।) अष्टचत्वारिंशत्रक्तिकापरिमाणम् ।
(“तुल्या यवाभ्यां कथिताऽत्र गुञ्जा
वल्लस्त्रिगुञ्जो धरणं गतेऽष्टौ ।
गद्यानकन्तद्द्बयमिन्द्रतुल्यै-
र्वल्लैस्तथैको घटकः प्रदिष्टः ॥”
इति लीलावती ॥)
चतुःषष्टिगुञ्जापरिमाणम् । इति वैद्यकम् ॥
गद्यालकमिति कुत्रचित् पाठः ॥

गन्ता, [ऋ] त्रि, (गच्छतीति । गम् + कर्त्तरि तृच् ।)

गमनकर्त्ता । इति व्याकरणम् । (यथा, नलोपा-
ख्याने । २४ । ३३ ।
“न ह्येकाह्ना शतं गन्तात्वामृतेऽन्यः पुमानिह ॥”
गच्छति प्राप्नोतीति शीलार्थे भाविकाले तृन् ।
यथा, भगवद्गीतायाम् । २ । ५२ ।
“यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति ।
तदा गन्ताऽसि निर्व्वेदं श्रोतव्यस्य श्रुतस्य च ॥”
अत्र शीलार्थ तृनन्तत्वात् न कर्म्मणि षष्ठीति
बोध्यम् ॥)

गन्तुः, पुं, (गच्छतीति । गम् + “सितनिगमीति ।”

उणां १ । ७० । इति तुन् ।) पथिकः । इत्यु-
णादिकोषः ॥ (यथा, ऋग्वेदे । ३ । ५४ । १८ ।
“युयोत नो अनपत्यानि गन्तोः प्रजावान्नः
पशुमाँ अस्तुगातुः ॥”)

गन्त्री, स्त्री, (गम्यतेऽनया इति । गम् + “सर्व्वधा-

स्तुभ्यः ष्ट्रन् ।” उणां ४ । १५८ । इति करणे
ष्ट्रन् । ततो ङीष् ।) वृषवहनीयशकटम् । गरुर
गाडि इति भाषा । इत्यमरः । २ । ८ । ५२ ॥
(गच्छतीति । गम् + कर्त्तरि तृन् + स्त्रियां ङीप् ।
गमनशीला गमनकरिणी वा । यथा, याज्ञ-
वल्क्ये । ३ । १० ।
“गन्त्री वसुमतीनाशमुदधिर्दैवतानि च ।
फेनप्रख्यः कथं नाशं मर्त्यलोको न यास्यति ॥”)

गन्त्रीरथः, पुं, (गन्त्रीणां गच्छन्तीनां स्त्रीणां गम-

नाय यो रथः ।) शकटम् । तत्पर्य्यायः । मठः २ ।
इति हारावली । १४९ ॥

गन्ध, क ङ द्रुहि । इति कविकल्पद्रुमः ॥ (चुरां-

आत्मं-सकं-सेट् ।) क ङ, गन्धयते । द्रुहि
हिंसायाम् । गतिहिंसायाचनेष्विति रमानाथः ।
इति दुर्गादासः ॥

गन्धं, क्ली, (गन्धो विद्यतेऽस्य । अर्श आदित्वादच् ।

कृष्णागुरु । इति राजनिर्घण्टः ॥

गन्धः, पुं, (गन्ध + पचाद्यच् ।) आमोदः । इति

विश्वः । स तु घ्राणग्राह्यपृथिवीगुणः । यथा, --
“घ्राणग्राह्यो भवेद्गन्धो घ्राणस्यैवोपकारकः ।
सौरभश्चासौरभश्च स द्वेधा परिकीर्त्तितः ॥”
इति भाषापरिच्छेदे । १०३ ॥
(अस्य लक्षणान्तरं यथा, घ्राणमात्रग्राह्यगुणत्व-
व्याप्यजातिमत्वं गन्धत्वं यद्वा पृथिवीवृत्तिमात्र-
वृत्तिगुणत्वसाक्षाद्व्याप्यजातिमत्वमिति ॥) स तु
दशविधः । (यथा, महाभारते । १४ । ५० । ४०-४२ ।
“शब्दः स्पर्शस्तथारूपं रसो गन्धश्च पञ्चमः ।
एते पञ्च गुणा भूमेर्विज्ञेया द्विजसत्तमाः ॥
पार्थिवश्च सदागन्धो गन्धश्च बहुधा स्मृतः ।
तस्य गन्धस्य वक्ष्यामि विस्तरेण बहून् गुणान् ॥
इष्टश्चानिष्टगन्धश्च मधुरोऽम्नः कटुस्तथा ।
निर्हारी संहतः स्निग्धो रूक्षो विशद एव च ।
एवं दशविधो ज्ञेयः पार्थिवो गन्ध इत्युत ॥”
एतेषामपि केषु को गन्ध इत्येतद्विवृतिमाह ।)
इष्टः १ कस्तूरिकादौ । अनिष्टः २ शवादौ ।
मधुरः ३ मधुपुष्पादौ । अम्लः ४ आम्रा-
तकादौ । कटुः ५ मरिचादौ । निर्हारी ६
हिङ्ग्वादौ । संहतः ७ चित्रगन्धः अनेककल्क-
गतः । स्निग्धः ८ सद्यस्तप्तघृतादौ । रूक्षः ९
सार्षपतैलादौ । विशदः १० शाल्यन्नादौ ॥ * ॥
सौरभम् । तत्तु पञ्चविधम् । यथा, --
“गन्धञ्च सम्यक् शृणुतं पुत्त्र वेतालभैरव ! ।
चूर्णीकृतो वा घृष्टो वा दाहाकर्षित एव वा ॥
रसः सम्मर्द्दजो वापि प्राण्यङ्गोद्भव एव वा ।
गन्धः पञ्चविधः प्रोक्तो देवानां प्रीतिदायकः ॥
गन्धचूर्णं गन्धपत्रं चूर्णं सुमनसां तथा ।
प्रशस्तगन्धयुक्तानां पत्रचूर्णानि यानि च ॥
तानि गन्धाह्वयानि स्युः स गन्धः प्रथमः स्मृतः । १
घृष्टो मलयजो गन्धः शरलश्च नमेरुणा ॥
अगुरुप्रभृतिश्चापि यस्य पङ्कः प्रदीयते ।
घृष्ट्वा स घृष्टो गन्धोऽयं द्वितीयः परिकीर्त्तितः ॥ २ ॥
देवदार्व्वगुरुब्रह्मशालसारान्तचन्दनाः ।
प्रियादीनाञ्च यो दग्ध्वा गृह्यते दाहजो रसः ॥
स दाहाकर्षितो गन्धस्तृतीयः परिकीर्त्तितः । ३ ।
सगन्धकरवीविल्वगन्धिनीतिलकं तथा ॥
पृष्ठ २/३०१
प्रभृतीनां रसो योऽसौ निष्पीड्य परिगृह्यते ।
स संमर्द्दोद्गतो गन्धः संमर्द्दज इतीष्यते ॥ ४ ॥
मृगनाभिसमुद्भूतस्तत्कोषोद्भव एव वा ।
गन्धः प्राण्यङ्गजः प्रोक्तो मोददः स्वर्गवासि-
नाम् ॥ ५ ॥
कर्पूरगन्धसाराद्याः क्षोदे घृष्टे च संस्थिताः ।
चन्द्रभागादयश्चापि रसे पङ्के च सङ्गताः ॥
गन्धसारस्तु सर्व्वत्र संसर्गादौ प्रयुज्यते ।
मृगनाभिर्भवेद्घृष्टश्चूर्णोऽप्यन्यस्य योगतः ॥
एवं सर्व्वस्तु सर्व्वत्र गन्धो भवति पञ्चघा ।
घृष्टादिभावादन्योन्यं गन्धः प्रीतिकरः परः ॥
गन्धस्य विस्तरो भेदः प्रोक्तः कालीयकादयः ।
सर्व्वः पञ्चविधेष्वेव प्रविष्टो भवति क्षणात् ॥” * ॥
“गन्धो मलयजो यस्तु दैवे पैत्र्ये च सम्मतः ।
तत्पङ्को वा रसो वापि चूर्णो वा विष्णुतुष्टिदः ॥
सर्व्वेषु गन्धजातेषु प्रशस्तो मलयोद्भवः ।
तस्मात् सर्व्वप्रयत्नेन दद्यान्मलयजं सदा ॥
कृष्णागुरुः सकर्पूरः सहितो मलयोद्भवैः ।
वैष्णवीप्रीतिदो गन्धः कामाख्यायाश्च भैरव ! ॥
कुङ्कमागुरुकस्तूरीचन्द्रभागैः समीकृतैः ।
त्रिपुराप्रीतिदो गन्धस्तथा चण्ड्याश्च शम्भुना ॥
दैवतोद्देशपूर्ब्बेण गन्धान् सम्पूज्य साधकः ।
देवायेज्याय वितरेत् सर्व्वसाध्येषु पूजकः ॥
गन्धेन लभते कामं गन्धो धर्म्मप्रदः सदा ।
अर्थानां साधको गन्धो गन्धे मोक्षः प्रतिष्ठितः ॥
अयं वां कथितो गन्धः पुत्त्रौ वेतालभैरवौ ! ॥
इति कालिकापुराणे ६८ अध्यायः ॥
प्रतिवेशी । लेशः । सम्बन्धः । गन्धकः । इति
मेदिनी ॥ (यथा, प्रयोगामृते ।
“शोधितो यस्तु गन्धः स्यात् जरामृत्युरुजापहः ।
अग्निसन्दीपनः श्रेष्ठो वीर्य्यवृद्धिकरोऽस्थिकृत् ॥”)
गर्व्वः । इति हेमचन्द्रः ॥ शोभाञ्जनः । इति
शब्दरत्नावली ॥ घृष्टचन्दनम् । यथा, “घृष्टो
मलयजो गन्धः ।” इति शुद्धितत्त्वम् ॥

गन्धकः, पुं, (उग्रो गन्धोऽस्यास्तीति । “अर्श आदि-

भ्योऽच् ।” ५ । २ । १२७ । इत्यच् ततः स्वार्थे कन् ।)
शोभाञ्जनवृक्षः । इति शब्दरत्नावली ॥ उपधातु-
विशेषः । तत्पर्य्यायः । गन्धाश्मा २ सौग-
न्धिकः ३ । इत्यमरः । २ । ९ । १०२ ॥ गन्धिकः ४
सुगन्धिकः ५ । इति तट्टीका ॥ गन्धपाषाणः ६
पामाघ्नः ७ । इति रत्नमाला ॥ गन्धमोदनः ८
पूतिगन्धः ९ अतिगन्धः १० वरः ११ सुगन्धः १२
दिव्यगन्धः १३ गन्धः १४ रसगन्धकः १५
कुष्ठारिः १६ क्रूरगन्धः १७ कीटघ्नः १८ शर-
भूमिजः १९ गन्धी २० । इति शब्दरत्नावली ॥
अस्य गुणाः । कटुत्वम् । उष्णत्वम् । तीव्र-
गन्धत्वम् । अतिवह्निकारित्वम् । विषकुष्ठकण्डूति-
खजुत्वगदोषनाशित्वश्च । इति राजनिर्घण्टः ॥
कृमिप्लीहनेत्ररोगनाशित्वम् । इति राजवल्लभः ॥
तस्य भेदाः ।
“श्वेतो रक्तश्च पीतश्च नीलश्चति चतुर्व्विधः ।
गन्धको वर्णतो ज्ञेयो भिन्नभिन्नगुणाश्रयः ॥
श्वेतः कुष्ठापहारी स्याद्रक्तो लोहप्रयोगकृत् ।
पीतो रसे प्रयोगार्हो नीलो वर्णान्तरोचितः ॥”
इति राजनिर्घण्टः ॥ * ॥
अथ गन्धकस्योत्पत्तिनामलक्षणगुणाः ।
“श्वेतद्वीपे पुरा देव्याः क्रीडन्त्या रजसाप्लुतम् ।
दुकूलं तेन वस्त्रेण स्नातायाः क्षीरनीरधौ ।
प्रसृतं यद्रजस्तस्माद्गन्धकः समजायत ॥
गन्धको गन्धिकश्चापि गन्धपाषाण इत्यपि ।
सौगन्धिकश्च कथितो वलिर्वलबसापि च ॥
चतुर्द्धा गन्धकः प्रोक्तो रक्तः पीतः सितोऽसितः ।
रक्तो हेमक्रियासूक्तः पीतश्चैव रसायने ।
व्रणविलेपने श्वेतः कृष्णः श्रेष्ठः सुदुर्ल्लभः ॥”
श्रेष्ठो हेमक्रियादिषु सर्व्वत्र प्रशस्ततरः ॥ * ॥
“गन्धकः कटुकस्तिक्तो वीर्य्योष्णस्तुवरः सरः ।
पित्तलः कटुकः पाके कण्डू वीसर्पजन्तुजित् ॥
हन्ति कुष्ठक्षयप्लीहकफवातान् रसायनः ।
अशोधितो गन्धक एष कुष्ठं
करोति तापं विषमं शरीरे ।
सौख्यञ्च रूपञ्च बलं तथौजः
शुक्रं निहन्त्येव करोति चास्रम् ॥” * ॥
तस्य शोधनविधिर्यथा, --
“लोहपात्रे विनिःक्षिप्य घृतमग्नौ प्रतापयेत् ।
तप्ते घृते तत् समानं क्षिपेद्गन्धकजं रजः ॥
विद्रुतं गन्धकं दृष्ट्वा तनुवस्त्रे विनिःक्षिपेत् ।
यथा वस्त्राद्विनिःसृत्य दुग्धमध्येऽखिलं क्षिपेत् ॥
एवं स गन्धकः शुद्ध्व्येत् सर्व्वकर्म्मोचितो भवेत् ॥”
इति भावप्रकाशः ॥
“शोधितो यस्तु गन्धः स्यात् जरामृत्युरुजापहः ।
अग्निसन्दीपनः श्रेष्ठो वीर्य्यवृद्धिकरोऽस्थिकृत् ॥”
इति प्रयोगामृतम् ॥

गन्धकन्दकः, पुं, (गन्धमूलः गन्धप्रधानो वा कन्दो

ऽस्य ततः कप् स्वार्थे कन् वा ।) कशेरु ।
इति वैद्यकम् ॥

गन्धकारिका, स्त्री, (गन्धं सुरभिप्रधानं मण्डनं

करोतीति । गन्ध + कृ + ण्वुल् ततष्टाप् कापि
अत इत्वञ्च ।) सैरिन्ध्री । सा तु परवेश्मस्था
स्ववशा शिल्पकारिका । इति हलायुधः ॥

गन्धकालिका, स्त्री, (गन्धं प्रशस्तगन्धं पराशर-

मुनेर्ब्बरप्रभावेन दूरवाहिगात्रसौरभं कलयति
धारयतीति । कल + णिच् + अच् ङीष्च । ततः
स्वार्थे कन् टाप् च पूर्ब्बह्रस्वः ।) व्यासमाता ।
इति हेमचन्द्रः ॥

गन्धकाली, स्त्री, (गन्धं प्रशस्तदूरवाहिगात्र-

सौरभं कलयतीति । कल् + णिच् अच् ङीष्च ।
यद्वा, गन्धवती काली । मध्यपदलोपि-
समासः ।) व्यासमाता । इति शब्दरत्नावली ॥
(इयं हि दाशराजकन्या पुरा बाल्यसमये मत्स्य-
गन्धा कालीत्येतन्नाम्ना ख्यातासीत् । ततः
कदाचित् नदीपरपारं जिगमिषुणा मुनि-
प्रवरपराशरेण सङ्गता तस्यैव ऋषेर्वरप्रभा-
वेन निजगात्रे पद्मपुष्पवत् सौरभमवाप्य
ततः प्रभृति पद्मगन्धा गन्धकालीति नाम्ना
च विश्रुताऽभवत् । परं तस्यामेव कन्यायां तदा
पराशरौरसात् कानीनपुत्त्रो महर्षिर्व्यासः
सञ्जातः । ततो गच्छति काले महात्मनां
भीष्मेण राज्यं दारपरिग्रहञ्च न करिष्या-
मीति निदारुणं प्रतिश्रुत्य दाशराजसकाशात्
समानीता भुवनविश्रुता सा पद्मगन्धाढ्या गन्ध-
काली तत्कामुकाय पित्रे शान्तवे समर्पिता ।
एतद्विवरणं महाभारते १ । सम्भवे । ९९-१०० ।
अध्याययोर्विशेषतो दर्शनीयम् ॥ अस्या हेतो-
रेव नरपतिरुग्रायुधः समरे भीष्मेणे निहतः ।
यथा, हरिवंशे । २० । ४७-५० ।
“स चाप्युग्रायुधस्तात ! दुर्ब्बुद्धिरभवत्तदा ।
प्रदीप्तचक्रो बलवान् नीपान्तकरणोऽभवत् ॥
स दर्पपूर्णो हत्वाजौ नीपानन्यांश्च पार्थिवान् ।
पितर्य्युपरते मह्यं श्रावयामास किल्विषम् ॥
माममात्यैः परिवृतं शयानं धरणीतले ।
उग्रायुधस्य राजेन्द्र ! दूतोऽभ्येत्य वचोऽब्रवीत् ॥
अद्यत्वं जननीं भीष्म ! गन्धकालीं यशस्विनीम् ।
स्त्रीरत्नं मम भार्य्यार्थे प्रयच्छ कुरुनन्दन ! ॥”
ईदृशं जुगुप्सितवाक्यं दूतमुखादाकर्ण्यामित-
प्रतापो महात्मा भीष्मः अशौचान्ते तं दुरा-
त्मानं समराङ्गणे समाहूय निपात्य च राज्ञे
काम्पिल्याय तत् पैतृकं राज्यं समर्पयत् । अस्मि-
न्नेवाध्याये एतत् सर्व्वं वृत्तं सविशेषं द्रष्टव्यम् ॥)

गन्धकाष्ठं, क्ली, (गन्धप्रधानं सुगन्धसमन्बितं

काष्ठमस्य । कर्म्मधारयो वा ।) अगुरुकाष्ठम् ।
इति त्रिकाण्डशेषः ॥ शम्बरचन्दनम् । इति राज-
निर्घण्टः ॥

गन्धकुटी, स्त्री, (गन्धस्य सुगन्धस्य कुटी आलय

इव गन्धबाहुल्यात् तथात्वम् ।) मुरानाम-
गन्धद्रव्यम् । इत्यमरः । २ । ४ । १२३ ॥

गन्धकुसुमा, स्त्री, (गन्धं सुरभियुक्तं कुसुमं

यस्याः ।) गणिकारीवृक्षः । इति राजनिर्घण्टः ॥

गन्धकेलिका, स्त्री, (गन्धं केलयति गमयति

प्रापयति सन्निकर्षस्थानिति । गन्ध + केल + णिच्
+ अच् ततः स्वार्थे कन् अत इत्वञ्च । गन्धं केल-
तीति ण्वुल् वा ।) कस्तूरी । इति राजनिर्घण्टः ॥

गन्धकोकिला, स्त्री, (गन्धमूलिका गन्धप्रधाना

वा कोकिला ।) गन्धद्रव्यविशेषः । अस्या
गुणाः । स्निग्धत्वम् । उष्णत्वम् । कफनाशित्वम् ।
तिक्तत्वम् । सुगन्धित्वम् । इति भावप्रकाशः ।

गन्धखेडं, क्ली, (गन्धस्य खेडः खेलोऽत्र । डलयो-

रैक्यात्तथात्वम् ।) गन्धवीरणम् । गन्धबेणा इति
भाषा । तत्पर्य्यायः । भूतृणम् २ रौहिषम ३
गोमयप्रियम् ४ । इति रत्नमाला ॥

गन्धखेडकं, क्ली, (गन्धेन खेडति खेलतीति ।

खेल् + ण्वुल् । गन्धस्य खेडः खेलोऽत्र इति
कप् वा ।) गन्धतृणम् । इति शब्दरत्नावली ॥

गन्धचेलिका, स्त्री, (गन्धं चेलति गच्छतीत । चेल

+ ण्वुल् + टाप् अत इत्वञ्च ।) कस्तूरी । इति
त्रिकाण्डशेषः ॥ (कस्तूरीशब्दऽस्या विवृति-
र्वर्णिता ॥)
"https://sa.wikisource.org/w/index.php?title=शब्दकल्पद्रुमः/ग&oldid=140951" इत्यस्माद् प्रतिप्राप्तम्