ऋग्वेदः सूक्तं २.२७

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← सूक्तं २.२६ ऋग्वेदः - मण्डल २
सूक्तं २.२७
कूर्मो गार्त्समदो गृत्समदो वा
सूक्तं २.२८ →
दे. आदित्याः। त्रिष्टुप्


NarayanaTirumala11


इमा गिर आदित्येभ्यो घृतस्नूः सनाद्राजभ्यो जुह्वा जुहोमि ।
शृणोतु मित्रो अर्यमा भगो नस्तुविजातो वरुणो दक्षो अंशः ॥१॥
इमं स्तोमं सक्रतवो मे अद्य मित्रो अर्यमा वरुणो जुषन्त ।
आदित्यासः शुचयो धारपूता अवृजिना अनवद्या अरिष्टाः ॥२॥
त आदित्यास उरवो गभीरा अदब्धासो दिप्सन्तो भूर्यक्षाः ।
अन्तः पश्यन्ति वृजिनोत साधु सर्वं राजभ्यः परमा चिदन्ति ॥३॥
धारयन्त आदित्यासो जगत्स्था देवा विश्वस्य भुवनस्य गोपाः ।
दीर्घाधियो रक्षमाणा असुर्यमृतावानश्चयमाना ऋणानि ॥४॥
विद्यामादित्या अवसो वो अस्य यदर्यमन्भय आ चिन्मयोभु ।
युष्माकं मित्रावरुणा प्रणीतौ परि श्वभ्रेव दुरितानि वृज्याम् ॥५॥
सुगो हि वो अर्यमन्मित्र पन्था अनृक्षरो वरुण साधुरस्ति ।
तेनादित्या अधि वोचता नो यच्छता नो दुष्परिहन्तु शर्म ॥६॥
पिपर्तु नो अदिती राजपुत्राति द्वेषांस्यर्यमा सुगेभिः ।
बृहन्मित्रस्य वरुणस्य शर्मोप स्याम पुरुवीरा अरिष्टाः ॥७॥
तिस्रो भूमीर्धारयन्त्रीँरुत द्यून्त्रीणि व्रता विदथे अन्तरेषाम् ।
ऋतेनादित्या महि वो महित्वं तदर्यमन्वरुण मित्र चारु ॥८॥
त्री रोचना दिव्या धारयन्त हिरण्ययाः शुचयो धारपूताः ।
अस्वप्नजो अनिमिषा अदब्धा उरुशंसा ऋजवे मर्त्याय ॥९॥
त्वं विश्वेषां वरुणासि राजा ये च देवा असुर ये च मर्ताः ।
शतं नो रास्व शरदो विचक्षेऽश्यामायूंषि सुधितानि पूर्वा ॥१०॥
न दक्षिणा वि चिकिते न सव्या न प्राचीनमादित्या नोत पश्चा ।
पाक्या चिद्वसवो धीर्या चिद्युष्मानीतो अभयं ज्योतिरश्याम् ॥११॥
यो राजभ्य ऋतनिभ्यो ददाश यं वर्धयन्ति पुष्टयश्च नित्याः ।
स रेवान्याति प्रथमो रथेन वसुदावा विदथेषु प्रशस्तः ॥१२॥
शुचिरपः सूयवसा अदब्ध उप क्षेति वृद्धवयाः सुवीरः ।
नकिष्टं घ्नन्त्यन्तितो न दूराद्य आदित्यानां भवति प्रणीतौ ॥१३॥
अदिते मित्र वरुणोत मृळ यद्वो वयं चकृमा कच्चिदागः ।
उर्वश्यामभयं ज्योतिरिन्द्र मा नो दीर्घा अभि नशन्तमिस्राः ॥१४॥
उभे अस्मै पीपयतः समीची दिवो वृष्टिं सुभगो नाम पुष्यन् ।
उभा क्षयावाजयन्याति पृत्सूभावर्धौ भवतः साधू अस्मै ॥१५॥
या वो माया अभिद्रुहे यजत्राः पाशा आदित्या रिपवे विचृत्ताः ।
अश्वीव ताँ अति येषं रथेनारिष्टा उरावा शर्मन्स्याम ॥१६॥
माहं मघोनो वरुण प्रियस्य भूरिदाव्न आ विदं शूनमापेः ।
मा रायो राजन्सुयमादव स्थां बृहद्वदेम विदथे सुवीराः ॥१७॥


सायणभाष्यम्

' इमा गिरः ' इति सप्तदशर्चं पञ्चमं सूक्तं गृत्समदपुत्रस्य कूर्मस्य आर्षं गृत्समदस्यैव वा त्रैष्टुभमादित्यदेवताकम् । तथा चानुक्रान्तम्-' इमा गिरस्त्र्यूना कूर्मो गार्त्समदो हि वादित्यम् 'इति । सूक्तविनियोगो लैङ्गिकः । आदित्यदेवताके पशौ पुरोडाशस्य ' इमा गिरः ' इत्येषा अनुवाक्या । ' अग्नीषोमौ ' इति खण्डे सूत्रितम्-' इमा गिर आदित्येभ्यो घृतस्नूस्त आदित्या उरवो गभीराः ' ( आश्व. श्रौ. ३.८ ) इति ।।

इ॒मा गिर॑ आदि॒त्येभ्यो॑ घृ॒तस्नूः॑ स॒नाद्राज॑भ्यो जु॒ह्वा॑ जुहोमि ।

शृ॒णोतु॑ मि॒त्रो अ॑र्य॒मा भगो॑ नस्तुविजा॒तो वरु॑णो॒ दक्षो॒ अंशः॑ ॥१

इ॒माः । गिरः॑ । आ॒दि॒त्येभ्यः॑ । घृ॒तऽस्नूः॑ । स॒नात् । राज॑ऽभ्यः । जु॒ह्वा॑ । जु॒हो॒मि॒ ।

शृ॒णोतु॑ । मि॒त्रः । अ॒र्य॒मा । भगः॑ । नः॒ । तु॒वि॒ऽजा॒तः । वरु॑णः । दक्षः॑ । अंशः॑ ॥१

इमाः । गिरः । आदित्येभ्यः । घृतऽस्नूः । सनात् । राजऽभ्यः । जुह्वा । जुहोमि ।

शृणोतु । मित्रः । अर्यमा । भगः । नः । तुविऽजातः । वरुणः । दक्षः । अंशः ॥१

[१]आदित्येभ्यः अदितेः पुत्रेभ्यः राजभ्यः राजमानेभ्यः ईश्वरेभ्यो वा मित्रादिभ्यः घृतस्नूः घृत- प्रस्राविणीः घृतं क्षरन्तीः इमा गिरः स्तुतिलक्षणा वाचः सनात्सर्वदा जुह्रा वाङ्नामैतत्वागिन्द्रियेण जुहोमि प्रयच्छामि करोमीति यावत् यद्वा जुहूस्थानीयत्वेन घृतं क्षरन्ति वाग्रूपाणि हवींषि जुहोमि आदित्यानुद्दिश्य त्यजामि मन्त्राणां पयोघृतादिक्षरणेहेतुत्वं च यदृचोधीते पयसः कुल्या अस्येत्यादिना तैत्तिरीये स्पष्टमाम्नातम् नोस्मदीयास्ता गिरः मित्रादयः प्रत्येकं शृणोतु ते च तैत्तिरीये अष्टौ पुत्रासो अदितेरित्युपक्रम्य स्पष्टमनुक्रान्ताः मित्रश्च वरुणश्च धाता चार्यमा च अंशुश्च भगश्च इन्द्रश्च विवस्वांश्चेत्येत इति मित्रः प्रमीतेस्त्रायकः यद्वा सर्वेषां स्निग्धः अरीन्यच्छति नियच्छतीत्यर्यमा भगो भजनीयो देवः तुविजातः तुवीति बहुनाम बहुषुदेशेष्वनुग्रहार्थं प्रादुर्भूतः वरुणविशेषणमेतत्पापस्य निवारणाद्वरुणः दक्षः समर्थः एतच्चांशस्य विशेषणम् ।। १ ।।

इ॒मं स्तोमं॒ सक्र॑तवो मे अ॒द्य मि॒त्रो अ॑र्य॒मा वरु॑णो जुषन्त ।

आ॒दि॒त्यास॒ः शुच॑यो॒ धार॑पूता॒ अवृ॑जिना अनव॒द्या अरि॑ष्टाः ॥२

इ॒मम् । स्तोम॑म् । सऽक्र॑तवः । मे॒ । अ॒द्य । मि॒त्रः । अ॒र्य॒मा । वरु॑णः । जु॒ष॒न्त॒ ।

आ॒दि॒त्यासः॑ । शुच॑यः । धार॑ऽपूताः । अवृ॑जिनाः । अ॒न॒व॒द्याः । अरि॑ष्टाः ॥२

इमम् । स्तोमम् । सऽक्रतवः । मे । अद्य । मित्रः । अर्यमा । वरुणः । जुषन्त ।

आदित्यासः । शुचयः । धारऽपूताः । अवृजिनाः । अनवद्याः । अरिष्टाः ॥२

इमं मे स्मदीयं स्तोमं स्तोत्रं सक्रतवः समानकर्माणः समानप्रज्ञा वा मित्रादयः अद्येदानीं जुषन्त जुषन्ताम् सेवन्ताम् कीदृशास्ते [२]आदित्यासः अदितेः पुत्राः शुचयो दीप्यमानाः धारपूताः उदकधाराभिः क्षालिता इव पूताः निर्मला इत्यर्थः अवृजिनाः वृजीवर्जने अवर्जितारः सर्वानुग्राहका इत्यर्थः अनवद्याः अवद्येन गर्ह्येण पापेन रहिताः अरिष्टाः केनाप्यहिंसिताः ।। २ ।।

त आ॑दि॒त्यास॑ उ॒रवो॑ गभी॒रा अद॑ब्धासो॒ दिप्स॑न्तो भूर्य॒क्षाः ।

अ॒न्तः प॑श्यन्ति वृजि॒नोत सा॒धु सर्वं॒ राज॑भ्यः पर॒मा चि॒दन्ति॑ ॥३

ते । आ॒दि॒त्यासः॑ । उ॒रवः॑ । ग॒भी॒राः । अद॑ब्धासः । दिप्स॑न्तः । भू॒रि॒ऽअ॒क्षाः ।

अ॒न्तरिति॑ । प॒श्य॒न्ति॒ । वृ॒जि॒ना । उ॒त । सा॒धु । सर्व॑म् । राज॑ऽभ्यः । प॒र॒मा । चि॒त् । अन्ति॑ ॥३

ते । आदित्यासः । उरवः । गभीराः । अदब्धासः । दिप्सन्तः । भूरिऽअक्षाः ।

अन्तरिति । पश्यन्ति । वृजिना । उत । साधु । सर्वम् । राजऽभ्यः । परमा । चित् । अन्ति ॥३

त आदित्यासः अदितेः पुत्राः उरवो महान्तः गभीरा गांभीर्योपेताः अदब्धासः शत्रुभिरहिं- सिताः सन्तः दिप्सन्तः शत्रून्दंभितु हिंसितुमिच्छन्तः दंभु दंभे अस्मादिच्छासनि समीवन्तर्धेतीहभावपक्षे दंभइच्चेतीकारः दंभेर्हल्ग्रहणस्य जातिवाचकत्वात्सिद्धमिति सनः कित्त्वे अनुनासिकलोपः तथाभूर्यक्षाः भूरीणि बहून्यक्षीणि चक्षूंषि येषां ते तथोक्ताः बहुतेजसो वा बहुव्रीहौ सक्थ्यक्ष्णोरिति षच्समासान्तः एवंभूता आदित्याः अन्तः मध्ये प्राणिनां हृदिप्रेरकतया वर्तमानाः सन्तः वृजिना वृजिनानि पापानि उत अपि च साधु साधूनि पुण्यानि च प्राणिभिः कृतानि पश्यंति जान- न्ति परमा चित् परमाणि दूरदेशावस्थितान्यपि सर्वं सर्वाणि दृश्यमानानि राजभ्यः राज्ञामीश्वराणामादित्यानां अन्ति अन्तिके समीपे वर्तत इति शेषः कादिलोपो बहुलमित्यन्तिकशब्दस्य कादिलोपः ।। ३ ।।

साग्निचित्ये क्रतौ दीक्षणीयायां आदित्ययागस्य धारयन्त इत्यादिके द्वे याज्यानुवाक्ये अतएव भुवद्वद्भुवनपतिविशेषणविशिष्टादित्ययागेपि तथा च दीक्षणीयायामिति खण्डे सूत्रितम्-धारयन्त आदित्यासो जगत्स्था इति द्वे एते एव भुवद्वद्भ्यो भुवनपतिभ्यो वेति । तयोराद्यासूक्तेचतुर्थी-

धा॒रय॑न्त आदि॒त्यासो॒ जग॒त्स्था दे॒वा विश्व॑स्य॒ भुव॑नस्य गो॒पाः ।

दी॒र्घाधि॑यो॒ रक्ष॑माणा असु॒र्य॑मृ॒तावा॑न॒श्चय॑माना ऋ॒णानि॑ ॥४

धा॒रय॑न्तः । आ॒दि॒त्यासः॑ । जग॑त् । स्थाः । दे॒वाः । विश्व॑स्य । भुव॑नस्य । गो॒पाः ।

दी॒र्घऽधि॑यः । रक्ष॑माणाः । अ॒सु॒र्य॑म् । ऋ॒तऽवा॑नः । चय॑मानाः । ऋ॒णानि॑ ॥४

धारयन्तः । आदित्यासः । जगत् । स्थाः । देवाः । विश्वस्य । भुवनस्य । गोपाः ।

दीर्घऽधियः । रक्षमाणाः । असुर्यम् । ऋतऽवानः । चयमानाः । ऋणानि ॥४

जगज्जङ्गमं स्थाः स्थावरं च तिष्ठतेः कर्तर्यसुन् एतदुभयविधं भूतजातं धारयन्तः अवस्थापयन्तः देवाः दानादिगुणयुक्ताः विश्वस्य भुवनस्य सर्वस्य लोकस्य गोपाः गोपयितारो रक्षकाः दीर्घाधियः दीर्घाणि धियः कर्माणि ज्ञानानि वा येषां तादृशाः अन्येषामपि दृश्यत इति पूर्वपदस्यदीर्घः असुर्यं असवः प्राणाः तेन च तद्धेतु पूताः आपो लक्ष्यन्ते अपां तद्धेतुत्वं च छान्दोग्ये स्पष्टमाम्नातम्-आपोमयः प्राण इति असुमुदकं राति ददातीत्यसुरो मेघः तत्र भवं मेघान्तर्वर्तमानमुदकं रक्ष- माणाः तत्तत्काले वृष्ट्युत्पादनाय रक्षन्तः असुरशब्दाद्भवेछन्दसीति यत् ऋतावानः सत्यवन्तो यज्ञवन्तो वा छन्दसीव निपाविति मत्वर्थीयो वनिप् पूर्ववद्दीर्घः ऋणानि स्तोतृभिः अन्येभ्यः प्रदेया- नि हविर्द्रव्याणि चयमानाः अपगमयन्तः चय गतौ भौवादिकोनुदात्तेत् एवंगुणविशिष्टा महानुभावाः आदित्पासः आदित्याः अस्मदधीना भवन्त्विति शेषः ।। ४ ।।

वि॒द्यामा॑दित्या॒ अव॑सो वो अ॒स्य यद॑र्यमन्भ॒य आ चि॑न्मयो॒भु ।

यु॒ष्माकं॑ मित्रावरुणा॒ प्रणी॑तौ॒ परि॒ श्वभ्रे॑व दुरि॒तानि॑ वृज्याम् ॥५

वि॒द्याम् । आ॒दि॒त्याः॒ । अव॑सः । वः॒ । अ॒स्य । यत् । अ॒र्य॒म॒न् । भ॒ये । आ । चि॒त् । म॒यः॒ऽभु ।

यु॒ष्माक॑म् । मि॒त्रा॒व॒रु॒णा॒ । प्रऽनी॑तौ । परि॑ । श्वभ्रा॑ऽइव । दुः॒ऽइ॒तानि॑ । वृ॒ज्या॒म् ॥५

विद्याम् । आदित्याः । अवसः । वः । अस्य । यत् । अर्यमन् । भये । आ । चित् । मयःऽभु ।

युष्माकम् । मित्रावरुणा । प्रऽनीतौ । परि । श्वभ्राऽइव । दुःऽइतानि । वृज्याम् ॥५

हे आदित्याः अदितेः पुत्राः वो युष्माकं अस्यावसः कर्मणिषष्ठी इदं रक्षणं विद्याम लभे- म भये राक्षसादिभ्यः आ आगते सति यद्युष्मदीयं रक्षणम् चिच्छन्दश्चार्थे मयोभु मयसः सुख- स्यभावयितृ च तदिदं लभेमेत्यन्वयः हे अर्यमन्हे मित्रावरुणौ युष्माकं प्रणीतौ अस्मद्विषये प्रकृष्टे नयने सति श्वभ्रेव श्वभ्राणीव स्थातुमयोग्यानि गर्तवन्ति स्थलानीव दुरितानि पापानि परिवृज्या परित्यजेयं वृजी वर्जने बहुलंछन्दसीति विकरणस्य लुक् ।। ५ ।।

सु॒गो हि वो॑ अर्यमन्मित्र॒ पन्था॑ अनृक्ष॒रो व॑रुण सा॒धुरस्ति॑ ।

तेना॑दित्या॒ अधि॑ वोचता नो॒ यच्छ॑ता नो दुष्परि॒हन्तु॒ शर्म॑ ॥६

सु॒ऽगः । हि । वः॒ । अ॒र्य॒म॒न् । मि॒त्र॒ । पन्थाः॑ । अ॒नृ॒क्ष॒रः । व॒रु॒ण॒ । सा॒धुः । अस्ति॑ ।

तेन॑ । आ॒दि॒त्याः॒ । अधि॑ । वो॒च॒त॒ । नः॒ । यच्छ॑त । नः॒ । दुः॒ऽप॒रि॒हन्तु॑ । शर्म॑ ॥६

सुऽगः । हि । वः । अर्यमन् । मित्र । पन्थाः । अनृक्षरः । वरुण । साधुः । अस्ति ।

तेन । आदित्याः । अधि । वोचत । नः । यच्छत । नः । दुःऽपरिहन्तु । शर्म ॥६

हे अर्यमन्मित्र वरुण वो युष्माकं सुगः सुखेन गन्तव्यः अनृक्षरः ऋक्षरः कण्टकऋच्छते- रिति तद्रहितः साधुः साधकः शोभनो वा एवंगुणविशिष्टः पन्था मार्गोस्ति हि विद्यते खलु अ- तस्ते पथा अस्मान्शोभन नयतेति शेषः हे आदित्याः नोस्माकं अधिवोचत अधिवचनं पक्षपातेन वचनं कुरुत अपि नोस्मभ्यं दुष्परिहन्तु दुःखेन परिहन्तुं विनाशयितुमशक्यं शर्म सुखं यच्छत दत्त दाण् दाने शपिपाघ्रेत्यादिना यच्छादेशः ।। ६ ।।

पिप॑र्तु नो॒ अदि॑ती॒ राज॑पु॒त्राति॒ द्वेषां॑स्यर्य॒मा सु॒गेभिः॑ ।

बृ॒हन्मि॒त्रस्य॒ वरु॑णस्य॒ शर्मोप॑ स्याम पुरु॒वीरा॒ अरि॑ष्टाः ॥७

पिप॑र्तु । नः॒ । अदि॑तिः । राज॑ऽपु॒त्रा । अति॑ । द्वेषां॑सि । अ॒र्य॒मा । सु॒ऽगेभिः॑ ।

बृ॒हत् । मि॒त्रस्य॑ । वरु॑णस्य । शर्म॑ । उप॑ । स्या॒म॒ । पु॒रु॒ऽवीराः॑ । अरि॑ष्टाः ॥७

पिपर्तु । नः । अदितिः । राजऽपुत्रा । अति । द्वेषांसि । अर्यमा । सुऽगेभिः ।

बृहत् । मित्रस्य । वरुणस्य । शर्म । उप । स्याम । पुरुऽवीराः । अरिष्टाः ॥७

राजपुत्रा राजानो राजमाना मित्रादयः पुत्रा यस्याः तादृशी अदितिरदीना अखण्डनीया वा देवी नोस्मान् द्वेषांसि द्वेष्टृणि रक्षांसि अतिपिपर्तु अतिपारयतु अतिक्रम्य तद्रहितं देशं प्रापयत्वित्यर्थः अर्यमा च सुगेभुः सुष्ट्वगन्तव्यैर्मार्गैरस्मान्पारयतु अपि च वयं पुरुवीराः बहुभिः वीरैः पुत्रादिभिरुपेताः अरिष्टा केनाप्यहिंसिताश्च सन्तः मित्रस्य वरुणस्य च बृहत्परिवृढं शर्म सुखं उपस्याम उपगता भवेम ।। ७ ।।

ति॒स्रो भूमी॑र्धारय॒न्त्रीँरु॒त द्यून्त्रीणि॑ व्र॒ता वि॒दथे॑ अ॒न्तरे॑षाम् ।

ऋ॒तेना॑दित्या॒ महि॑ वो महि॒त्वं तद॑र्यमन्वरुण मित्र॒ चारु॑ ॥८

ति॒स्रः । भूमीः॑ । धा॒र॒य॒न् । त्रीन् । उ॒त । द्यून् । त्रीणि॑ । व्र॒ता । वि॒दथे॑ । अ॒न्तः । ए॒षा॒म् ।

ऋ॒तेन॑ । आ॒दि॒त्याः॒ । महि॑ । वः॒ । म॒हि॒ऽत्वम् । तत् । अ॒र्य॒म॒न् । व॒रु॒ण॒ । मि॒त्र॒ । चारु॑ ॥८

तिस्रः । भूमीः । धारयन् । त्रीन् । उत । द्यून् । त्रीणि । व्रता । विदथे । अन्तः । एषाम् ।

ऋतेन । आदित्याः । महि । वः । महिऽत्वम् । तत् । अर्यमन् । वरुण । मित्र । चारु ॥८

तिस्रो भूमीः अत्र भूमि शब्दो लोकत्रये वर्तते योद्वितीयस्यां तृतीयस्यां पृथिव्यामित्यत्र यथा पृथिवीशब्दः भूम्यन्तरिक्षस्वर्गांस्त्रीन्लोकान् आदित्याः धारयन् वृष्टिप्रदानादिना धारयन्ति उत अपि च द्यून्दीप्तान्त तउपरितनान्महरादिकानपि त्रीन्लोकान्धारयन्ति यद्वा दीप्तान् अग्निं वायुं सूर्यं च धारयन्ति अपि चैषामादित्यानां विदथे यज्ञे अन्तर्मध्ये त्रीणि व्रता सवनत्रयनिष्पाद्यानि त्रीणि कर्मा- णि सन्ति यद्वा एषां लोकानामंतर्मध्ये विदथे यज्ञे निमित्तभूते सति एषामादित्यानां त्रीणि कर्माणिर- सादानधारणविसर्जनलक्षणानि सन्ति उत्तरोर्धर्चः प्रत्यक्षकृतः हे आदित्याः ऋतेन सत्येन यज्ञेन वा महिमहत्प्रभूतं वो युष्माकं महित्वं महत्त्वं यन्महाभाग्यं हे अर्यमन् वरुण मित्र तन्महाभाग्यं चारुशोभनं सर्वोत्कृष्टमित्यर्थः ।। ८ ।।

त्री रो॑च॒ना दि॒व्या धा॑रयन्त हिर॒ण्यया॒ः शुच॑यो॒ धार॑पूताः ।

अस्व॑प्नजो अनिमि॒षा अद॑ब्धा उरु॒शंसा॑ ऋ॒जवे॒ मर्त्या॑य ॥९

त्री । रो॒च॒ना । दि॒व्या । धा॒र॒य॒न्त॒ । हि॒र॒ण्ययाः॑ । शुच॑यः । धार॑ऽपूताः ।

अस्व॑प्नऽजः । अ॒नि॒ऽमि॒षाः । अद॑ब्धाः । उ॒रु॒ऽशंसाः॑ । ऋ॒जवे॑ । मर्त्या॑य ॥९

त्री । रोचना । दिव्या । धारयन्त । हिरण्ययाः । शुचयः । धारऽपूताः ।

अस्वप्नऽजः । अनिऽमिषाः । अदब्धाः । उरुऽशंसाः । ऋजवे । मर्त्याय ॥९

त्री रोचना त्रीणि रोचनानि रोचमानान्यग्न्यादीनि तेजांसि दिव्या दिव्यानि दिविभवानि धारयन्त आदित्या अवस्थापयन् किमर्थं ऋजवे ऋजीकाय उपार्जकाय स्तोत्राणां मर्त्याय मनुष्याय भोगसिद्यर्थमिति यावत् कीदृशा आदित्याः हिरण्यया: हिरण्मयाः हिरण्यालंकृतसर्वाङ्गाः यद्वा हितरमणीयवेषाः शुचयो दीप्यमानाः धारपूताः उदकधारया क्षालिता इव निर्मलाः अस्वप्नजः असञ्जातस्वप्नाः सुपांसुलुगिति जसः सुः अपरआह अस्वप्नजः अस्वपन्तः विगतनिद्राः स्वपितृषोर्नजिङितिनजिङ्गप्रत्यय इति तदेतत्पदकारस्यानभिमतम्, अनिमिषाः निमेषरहिताः अदब्धाः असुरादिभिरहिंसिताः उरुशंसाः उरुभिर्बहुभिः शंसनीयाः स्तोतव्याः एवंगुणविशिष्टा अधारयन्तेत्यन्वयः॥ ९॥

त्वं विश्वे॑षां वरुणासि॒ राजा॒ ये च॑ दे॒वा अ॑सुर॒ ये च॒ मर्ताः॑ ।

श॒तं नो॑ रास्व श॒रदो॑ वि॒चक्षे॒ऽश्यामायूं॑षि॒ सुधि॑तानि॒ पूर्वा॑ ॥१०

त्वम् । विश्वे॑षाम् । व॒रु॒ण॒ । अ॒सि॒ । राजा॑ । ये । च॒ । दे॒वाः । अ॒सु॒र॒ । ये । च॒ । मर्ताः॑ ।

श॒तम् । नः॒ । रा॒स्व॒ । श॒रदः॑ । वि॒ऽचक्षे॑ । अ॒श्याम॑ । आयूं॑षि । सुऽधि॑तानि । पूर्वा॑ ॥१०

त्वम् । विश्वेषाम् । वरुण । असि । राजा । ये । च । देवाः । असुर । ये । च । मर्ताः ।

शतम् । नः । रास्व । शरदः । विऽचक्षे । अश्याम । आयूंषि । सुऽधितानि । पूर्वा ॥१०

हे असुर शत्रूणां क्षेपक वरुण त्वं विश्वेषां सर्वेषां राजासि केषां ये च देवाः देवजनाः ये च मर्ता मरणधर्माणो मनुष्याः तेषामित्यर्थः अतस्त्वं नोस्मभ्यं शतं शरदः शतसंख्याकान्संवत्सरान्विचक्षे विशेषेण दर्शनाय रास्व प्रयच्छ रा दाने व्यत्ययेनात्मनेपदम् वयं च पूर्वा पूर्वैर्देवैः सुधितानि सुष्ठु हितानि शतसंवत्सरलक्षणान्यायूंषि अश्याम व्याप्नुयाम सुधितवसुधितनेमधितधिष्वधिषीयचेतिनिपात्यते गतिरनन्तर इति गतेः प्रकृतिस्वरत्वम् सुपांसुलुगिति तृतीयायाडादेशः ॥ १० ॥

न द॑क्षि॒णा वि चि॑किते॒ न स॒व्या न प्रा॒चीन॑मादित्या॒ नोत प॒श्चा ।

पा॒क्या॑ चिद्वसवो धी॒र्या॑ चिद्यु॒ष्मानी॑तो॒ अभ॑यं॒ ज्योति॑रश्याम् ॥११

न । द॒क्षि॒णा । वि । चि॒कि॒ते॒ । न । स॒व्या । न । प्रा॒चीन॑म् । आ॒दि॒त्याः॒ । न । उ॒त । प॒श्चा ।

पा॒क्या॑ । चि॒त् । व॒स॒वः॒ । धी॒र्या॑ । चि॒त् । यु॒ष्माऽनी॑तः । अभ॑यम् । ज्योतिः॑ । अ॒श्या॒म् ॥११

न । दक्षिणा । वि । चिकिते । न । सव्या । न । प्राचीनम् । आदित्याः । न । उत । पश्चा ।

पाक्या । चित् । वसवः । धीर्या । चित् । युष्माऽनीतः । अभयम् । ज्योतिः । अश्याम् ॥११

हे आदित्याः दक्षिणा दक्षिणोभागः न विचिकिते मया न विज्ञायते सव्या सव्यो वामभागोपि न ज्ञायते उभयत्रसुपांसुलुगितिसोराजादेशः तथा प्राचीन पुरस्तादपि न ज्ञायते विभाषाञ्चेरदिक् स्त्रियामिति स्वार्थे स्वः उत अपि च पश्चा पश्चात्पृष्ठभागेपि न ज्ञायते नैशेन तमसा आवृतत्वात् आन्तरादज्ञानाद्वा पश्च पश्चाचच्छन्दसीतिनिपात्यते किं बहुना पाक्याचित् पाक्यः पक्तव्यो परिपक्वज्ञानोपि हुपचष्पाके ऋहलोर्ण्यत् तित्स्वरितः धीर्याचित् धीरेनेतव्यत्वेन भवो धीर्यः कातरः भवेछन्दसीति यत् कातरोपि उभयत्र सुपांसुलुगितिआकारः हे वसवो वासयितार आदित्याः युष्मानीतः युष्माभिनींतः शोभनेन मार्गेण प्रापितः सन् अभयं भयरहितं ज्योतिः सौरं तेजः आन्तरं वा ज्ञानात्मकं अश्यां प्राप्नुयाम् ॥ ११ ॥

यो राज॑भ्य ऋत॒निभ्यो॑ द॒दाश॒ यं व॒र्धय॑न्ति पु॒ष्टय॑श्च॒ नित्याः॑ ।

स रे॒वान्या॑ति प्रथ॒मो रथे॑न वसु॒दावा॑ वि॒दथे॑षु प्रश॒स्तः ॥१२

यः । राज॑ऽभ्यः । ऋ॒त॒निऽभ्यः॑ । द॒दाश॑ । यम् । व॒र्धय॑न्ति । पु॒ष्टयः॑ । च॒ । नित्याः॑ ।

सः । रे॒वान् । या॒ति॒ । प्र॒थ॒मः । रथे॑न । व॒सु॒ऽदावा॑ । वि॒दथे॑षु । प्र॒ऽश॒स्तः ॥१२

यः । राजऽभ्यः । ऋतनिऽभ्यः । ददाश । यम् । वर्धयन्ति । पुष्टयः । च । नित्याः ।

सः । रेवान् । याति । प्रथमः । रथेन । वसुऽदावा । विदथेषु । प्रऽशस्तः ॥१२

यो यजमानः राजभ्यो राजमानेभ्यः ऋतनिभ्यः ऋतस्य यज्ञस्य सत्यस्य वा नेतृभ्यः अादित्येभ्यो ददाश चरूपुरोडाशादिकं ददाति यं यजमानं पुष्टयः पोषकाः नित्याः शाश्वताः आादित्याश्च वर्धयन्ति स यजमानो रेवान् धनवान्प्रथमः प्रथितः प्रख्यातः वसुदावा वसूनां धनानां दाता सन्प्रशस्तः सर्वैः प्रशस्यमानः विदथेषु वेद्येषु लब्धव्येषु गृहेषु रथेन वाहनेन याति गच्छति॥१२॥

शुचि॑र॒पः सू॒यव॑सा॒ अद॑ब्ध॒ उप॑ क्षेति वृ॒द्धव॑याः सु॒वीरः॑ ।

नकि॒ष्टं घ्न॒न्त्यन्ति॑तो॒ न दू॒राद्य आ॑दि॒त्यानां॒ भव॑ति॒ प्रणी॑तौ ॥१३

शुचिः॑ । अ॒पः । सु॒ऽयव॑साः । अद॑ब्धः । उप॑ । क्षे॒ति॒ । वृ॒द्धऽव॑याः । सु॒ऽवीरः॑ ।

नकिः॑ । तम् । घ्न॒न्ति॒ । अन्ति॑तः । न । दू॒रात् । यः । आ॒दि॒त्याना॑म् । भव॑ति । प्रऽनी॑तौ ॥१३

शुचिः । अपः । सुऽयवसाः । अदब्धः । उप । क्षेति । वृद्धऽवयाः । सुऽवीरः ।

नकिः । तम् । घ्नन्ति । अन्तितः । न । दूरात् । यः । आदित्यानाम् । भवति । प्रऽनीतौ ॥१३

स यजमानः शुचिर्दीप्यमानः शुद्धो वा अदब्धः सपत्नैरबाधितः वृद्धवयाः प्रभूतान्नः सुवीरः शोभनपुत्रश्च सन् सूयवसाः शोभनसस्यान्यपः वृष्टिलक्षणान्युदकानि उपक्षेति उपनिवसति सर्वदा सुसस्यानामपांचसमीपे निवसतीत्यर्थ: तथा नकिर्न च तं घ्नन्ति हिंसन्ति अंतितो न अन्तिकात्समीपदेशाच्चदूराद्विप्रकृष्टाच्च देशादागता बाधकाः अन्तिकस्य तसिलादिलोप इति लोपः यो यजमानः आादित्यानां अदितेःपुत्राणां मित्रादीनां प्रणीतैौ प्रकृष्टे नयने प्रापणे भवति वर्तते स इति पूर्वत्रसंबन्धः॥ १३ ॥

अदि॑ते॒ मित्र॒ वरु॑णो॒त मृ॑ळ॒ यद्वो॑ व॒यं च॑कृ॒मा कच्चि॒दागः॑ ।

उ॒र्व॑श्या॒मभ॑यं॒ ज्योति॑रिन्द्र॒ मा नो॑ दी॒र्घा अ॒भि न॑श॒न्तमि॑स्राः ॥१४

अदि॑ते । मित्र॑ । वरु॑ण । उ॒त । मृ॒ळ॒ । यत् । वः॒ । व॒यम् । च॒कृ॒म । कत् । चि॒त् । आगः॑ ।

उ॒रु । अ॒श्या॒म् । अभ॑यम् । ज्योतिः॑ । इ॒न्द्र॒ । मा । नः॒ । दी॒र्घाः । अ॒भि । न॒श॒न् । तमि॑स्राः ॥१४

अदिते । मित्र । वरुण । उत । मृळ । यत् । वः । वयम् । चकृम । कत् । चित् । आगः ।

उरु । अश्याम् । अभयम् । ज्योतिः । इन्द्र । मा । नः । दीर्घाः । अभि । नशन् । तमिस्राः ॥१४

उत अपि च हे अदिते मित्र वरुण आमत्रितं पूर्वमविद्यमानवदिति पूर्व पूर्वस्यामन्त्रितस्याविद्यमानवद्भावात्सर्वेषां षाष्ठिकमामन्त्रितस्येत्याद्युदात्तत्वम् यूयं प्रत्येकं मृळ अस्माकमुपरि दयां कुरु रक्षेत्यर्थः यंत्यद्यपि वयं वो युष्माकं कच्चित् किञ्चिदागोपराधं चकृम अकर्म तथापि मृळेत्यर्थः हे इन्द्र परमैश्वर्योपेतादित्य उरु विस्तीर्ण अक्षयं भयरहितं ज्योतिस्त्वदीयं प्रकाशं ज्ञानात्मकं वा अश्यां अहं प्राप्नुयाम् दीर्घा विस्तृतास्तमिस्रास्तमसायुक्ता निशाः ज्योत्स्ना तमिस्रा शृङ्गिणेति निपात्यते ता नोस्मान् माभिनशन् आभिमुख्येन व्याप्नुवन्तु॥ १४ ॥

उ॒भे अ॑स्मै पीपयतः समी॒ची दि॒वो वृ॒ष्टिं सु॒भगो॒ नाम॒ पुष्य॑न् ।

उ॒भा क्षया॑वा॒जय॑न्याति पृ॒त्सूभावर्धौ॑ भवतः सा॒धू अ॑स्मै ॥१५

उ॒भे इति॑ । अ॒स्मै॒ । पी॒प॒य॒तः॒ । स॒मी॒ची इति॑ स॒म्ऽई॒ची । दि॒वः । वृ॒ष्टिम् । सु॒ऽभगः॑ । नाम॑ । पुष्य॑न् ।

उ॒भा । क्षयौ॑ । आ॒ऽजय॑न् । या॒ति॒ । पृ॒त्ऽसु । उ॒भौ । अर्धौ॑ । भ॒व॒तः॒ । सा॒धू इति॑ । अ॒स्मै॒ ॥१५

उभे इति । अस्मै । पीपयतः । समीची इति सम्ऽईची । दिवः । वृष्टिम् । सुऽभगः । नाम । पुष्यन् ।

उभा । क्षयौ । आऽजयन् । याति । पृत्ऽसु । उभौ । अर्धौ । भवतः । साधू इति । अस्मै ॥१५

य आदित्यानां भवति प्रणीताविति व्यवहितोप्यत्रेदं शब्देन परामृश्यते अस्मै यजमानाय समीची सङ्गच्छमाने उभे द्यावापृथिव्यैौ पीपयतः प्याययतः कामान्वर्धयतः प्यायीवृद्धौ अस्माण्ण्यन्ताच्छान्दसोलुङ् व्यत्ययेनतसस्तामादेशाभावः धातोः पीभावश्च स च सुभगः शोभनधनः दिवो द्युलोकादागतां वृष्टिं पुष्यन्वर्धयन्भवति नामेति प्रसिद्धिर्द्योत्यते किञ्च पृत्सु पृतनासु सङ्ग्रामेषु आाजयन्शत्रूनाभिमुख्येनाभिभवन् उभाक्षया उभौ निवासौ क्षियंति निवसन्त्यस्मिन्निति क्षयो निवासस्थानं पुंसि संज्ञायां घ: प्रायणेति अधिकरणे घः क्षयो निवासे इत्याद्युदात्तत्वं तौ परैरनाकान्तं स्वकीयं निवासस्थानम् आत्मनापहृतं परकीयं निवासस्थानं च याति गच्छति तथास्मै यजमानाय उभावर्धौ जगतोभागौ चराचरात्मकौ मर्त्यामर्त्यात्मकौ वा साधूसाधकौ भवतः ॥१५॥

या वो॑ मा॒या अ॑भि॒द्रुहे॑ यजत्रा॒ः पाशा॑ आदित्या रि॒पवे॒ विचृ॑त्ताः ।

अ॒श्वीव॒ ताँ अति॑ येषं॒ रथे॒नारि॑ष्टा उ॒रावा शर्म॑न्स्याम ॥१६

याः । वः॒ । मा॒याः । अ॒भि॒ऽद्रुहे॑ । य॒ज॒त्राः॒ । पाशाः॑ । आ॒दि॒त्याः॒ । रि॒पवे॑ । विऽचृ॑त्ताः ।

अ॒श्वीऽइ॑व । तान् । अति॑ । ये॒ष॒म् । रथे॑न । अरि॑ष्टाः । उ॒रौ । आ । शर्म॑न् । स्या॒म॒ ॥१६

याः । वः । मायाः । अभिऽद्रुहे । यजत्राः । पाशाः । आदित्याः । रिपवे । विऽचृत्ताः ।

अश्वीऽइव । तान् । अति । येषम् । रथेन । अरिष्टाः । उरौ । आ । शर्मन् । स्याम ॥१६

हे यजत्राः यष्टव्या आदित्याः वो युष्माकं या: मायाः अभिद्रुहे अभिद्रोहं कुर्वते राक्षसादये निर्मिताः ये च पाशाः रिपवे शत्रवे विवृत्ताः चृती हिंसाग्रन्थनयोः प्रसारिता इत्यर्थः तान्पाशान् मायाश्च रथेन अतियेषं अतीत्य प्रयतेयं अतितरेयमित्यर्थः तत्र दृष्टान्तः - अश्वीव यथा शोभनाश्वः कश्चित्पुरुषः दुस्तरान्मार्गान्शीघ्रमतिक्रामति तद्वत् येष्टॄ प्रयत्ने भैौवादिकोनुदात्तेत् छान्दसो लङ् व्यत्ययेन परस्मैपदम् तथा वयं अरिष्टाः शत्रुभिरहिंसिताः सन्तः उरौ विस्तीर्णे शर्मन् शर्मेति गृहनाम त्वया दत्ते सुखे गृहे वा आसमन्तात्स्याम वर्तमाना भवेम॥ १६॥

माहं म॒घोनो॑ वरुण प्रि॒यस्य॑ भूरि॒दाव्न॒ आ वि॑दं॒ शून॑मा॒पेः ।

मा रा॒यो रा॑जन्सु॒यमा॒दव॑ स्थां बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑ ॥१७

मा । अ॒हम् । म॒घोनः॑ । व॒रु॒ण॒ । प्रि॒यस्य॑ । भू॒रि॒ऽदाव्नः॑ । आ । वि॒द॒म् । शून॑म् । आ॒पेः ।

मा । रा॒यः । रा॒ज॒न् । सु॒ऽयमा॑त् । अव॑ । स्था॒म् । बृ॒हत् । व॒दे॒म॒ । वि॒दथे॑ । सु॒ऽवीराः॑ ॥१७

मा । अहम् । मघोनः । वरुण । प्रियस्य । भूरिऽदाव्नः । आ । विदम् । शूनम् । आपेः ।

मा । रायः । राजन् । सुऽयमात् । अव । स्थाम् । बृहत् । वदेम । विदथे । सुऽवीराः ॥१७

हे वरुण मघोनो धनवतः प्रियस्यानुकूलस्य भूरिदावः भूरेर्बहुलस्य दातुरहं मा आविदं मा आवेद्यानि अविद्नं विज्ञापनं मा करवाणि किंतदनावेद्यं आपेर्ज्ञातेः शूनं शून्यं दारिद्र्यम् वर्णलोपश्छान्दसः यद्वा शूनं गतं प्राप्तं दारिद्र्यम् टुओश्विगतिवृद्योः श्वीदितोनिष्ठायामितीट्प्रतिषेधः यजादित्वात्संप्रसारणम् ओदितश्चेति नकारः वृषादित्वादाद्युदात्तत्वम् एतदुक्तं भवति अस्मदीयाः पुत्राद्यः क्षुधिता इति प्रभुसमीपेभिधाय याचमानो मा भूवमिति हे राजन्सुयमात् सुष्ठु नियम्यतेनेन पुरुषो गृह इति सुयमः ईषद्दुःसुष्वितिखल् तादृशाद्रायो धनान्मावस्थां अवयुत्य स्थितो मा भूवं वयं सुवीराः शोभनपुत्रा विदथे यज्ञे गृहे वा वर्तमानाः सन्तो बृहत् प्रौढं स्तोत्रं वदेम उच्चारयाम॥१७॥


[सम्पाद्यताम्]


मण्डल २

सूक्तं २.१

सूक्तं २.२

सूक्तं २.३

सूक्तं २.४

सूक्तं २.५

सूक्तं २.६

सूक्तं २.७

सूक्तं २.८

सूक्तं २.९

सूक्तं २.१०

सूक्तं २.११

सूक्तं २.१२

सूक्तं २.१३

सूक्तं २.१४

सूक्तं २.१५

सूक्तं २.१६

सूक्तं २.१७

सूक्तं २.१८

सूक्तं २.१९

सूक्तं २.२०

सूक्तं २.२१

सूक्तं २.२२

सूक्तं २.२३

सूक्तं २.२४

सूक्तं २.२५

सूक्तं २.२६

सूक्तं २.२७

सूक्तं २.२८

सूक्तं २.२९

सूक्तं २.३०

सूक्तं २.३१

सूक्तं २.३२

सूक्तं २.३३

सूक्तं २.३४

सूक्तं २.३५

सूक्तं २.३६

सूक्तं २.३७

सूक्तं २.३८

सूक्तं २.३९

सूक्तं २.४०

सूक्तं २.४१

सूक्तं २.४२

सूक्तं २.४३


  1. आदित्योपरि टिप्पणी
  2. वैदिकवाङ्मये आदित्यशब्दस्य कतिपयाः सूक्ष्मभेदाः सन्ति। प्रथमतः, ये प्राणाः बाह्यजगततः शक्त्याः आदानं कुर्वन्ति – कर्णः, नासिका, चक्षु आदि, तेषां संज्ञा आदित्यासः अस्ति। यदा चित्तवृत्तीनां निरोधः भवति, चित्तस्य वृत्तिः बाह्यतः अन्तःप्रवेशात्मिका भवति, तदा आदित्यासः आदित्याः भवन्ति। अन्ततः एकल आदित्यस्य अस्तित्वं एव शेषः वर्तते। - फतहसिंह
"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_२.२७&oldid=369829" इत्यस्माद् प्रतिप्राप्तम्