सामग्री पर जाएँ

ऋग्वेदः सूक्तं २.९

विकिस्रोतः तः
← सूक्तं २.८ ऋग्वेदः - मण्डल २
सूक्तं २.९
गृत्समद (आङ्गिरसः शौनहोत्रः पश्चाद्) भार्गवः शौनकः
सूक्तं २.१० →
दे. अग्निः। त्रिष्टुप्


नि होता होतृषदने विदानस्त्वेषो दीदिवाँ असदत्सुदक्षः ।
अदब्धव्रतप्रमतिर्वसिष्ठः सहस्रम्भरः शुचिजिह्वो अग्निः ॥१॥
त्वं दूतस्त्वमु नः परस्पास्त्वं वस्य आ वृषभ प्रणेता ।
अग्ने तोकस्य नस्तने तनूनामप्रयुच्छन्दीद्यद्बोधि गोपाः ॥२॥
विधेम ते परमे जन्मन्नग्ने विधेम स्तोमैरवरे सधस्थे ।
यस्माद्योनेरुदारिथा यजे तं प्र त्वे हवींषि जुहुरे समिद्धे ॥३॥
अग्ने यजस्व हविषा यजीयाञ्छ्रुष्टी देष्णमभि गृणीहि राधः ।
त्वं ह्यसि रयिपती रयीणां त्वं शुक्रस्य वचसो मनोता ॥४॥
उभयं ते न क्षीयते वसव्यं दिवेदिवे जायमानस्य दस्म ।
कृधि क्षुमन्तं जरितारमग्ने कृधि पतिं स्वपत्यस्य रायः ॥५॥
सैनानीकेन सुविदत्रो अस्मे यष्टा देवाँ आयजिष्ठः स्वस्ति ।
अदब्धो गोपा उत नः परस्पा अग्ने द्युमदुत रेवद्दिदीहि ॥६॥

सायणभाष्यम्

।। श्रीगणेशाय नमः ।।

यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत्। ।

निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ।।

' नि होता ' इति षडृचं नवमं सूक्तं गृत्समदस्यार्षं ' नि होता ' इत्यनुक्रान्तत्वात् । अनुक्तत्वात् त्रिष्टुप् । मण्डलादिपरिभाषयाग्निर्देवता । प्रातरनुवाकाश्विनशस्त्रयोराग्नेये क्रतौ त्रैष्टुभे छन्दसि अस्य विनियोगः । ' अथैतस्याः - ' इति खण्डे सूत्रितं-' नि होता होतृषदन इति सूक्ते ' ( आश्व. श्रौ. ४.१३) इति ।। अग्निप्रणयन आद्ये ऋचौ विनियुक्ते । ' पञ्चम्यां पौर्णमास्याम् ' इति खण्डे सूत्रितं- ' नि होता होतृषदन इति द्वे ' ( आश्व श्रौ २. १७) ।।


नि होता॑ होतृ॒षद॑ने॒ विदा॑नस्त्वे॒षो दी॑दि॒वाँ अ॑सदत्सु॒दक्षः॑ ।

अद॑ब्धव्रतप्रमति॒र्वसि॑ष्ठः सहस्रम्भ॒रः शुचि॑जिह्वो अ॒ग्निः ॥१

नि । होता॑ । हो॒तृ॒ऽसद॑ने । विदा॑नः । त्वे॒षः । दी॒दि॒ऽवान् । अ॒स॒द॒त् । सु॒ऽदक्षः॑ ।

अद॑ब्धव्रतऽप्रमतिः । वसि॑ष्ठः । स॒ह॒स्र॒म्ऽभ॒रः । शुचि॑ऽजिह्वः । अ॒ग्निः ॥१

नि । होता। होतृऽसदने । विदानः । त्वेषः। दीदिऽवान् । असदत् । सुऽदक्षः ।

अदब्धव्रतऽप्रमतिः । वसिष्ठः । सहस्रंऽभरः। शुचिऽजिह्वः । अग्निः ॥१॥

गृत्समदः स्तौति । होता देवानामाह्वाता विदानो विद्वान् त्वेषः प्रवृद्धो दीदिवान् दीप्यमानः सुदक्षः शोभनबलोऽदब्धव्रत प्रमतिः ! अदब्धान्यहिंसितानि व्रतानि कर्माणि यस्याः सादब्धव्रता प्रमतिः प्रकृष्टा बुद्धिर्यस्य स तथोक्तः । वसिष्ठः सर्वस्य वासयितृतमः ॥ वासयतेस्तृजंतस्येष्ठनि रूपं ॥ सहस्रंभरः सहस्रस्यानेकविधस्य भर्ता । विहरणेन नानाविधरूपस्य धारक इत्यर्थः । यद्वा सहस्रस्य सर्वस्य भर्ता । तथा च वाजसनेयं । सर्वं वै सहस्रं सर्वंभर इत्येव तदाहेति । शुचिजिह्वः । शुचिर्दीप्ता जिह्वा ज्वाला यस्य स तथोक्तः । एवंभूतो ऽग्निर्होतृषदने । होतात्र सीदतीति होतृषदनमुत्तरा वेदी ॥ अधिकरणे ल्युट् । तत्र न्यसदत् । नितरां सीदतु ॥ उक्तार्थे ब्राह्मणं । नि होता होतृषदने विदान इत्यग्निर्वै देवानां होता तस्यैतद्धोतृषदनं यदुत्तरवेदीनाभिस्त्वेषो दीदिवां असदत्सुदक्ष इत्यासन्नो हि स तर्हि भवत्यदब्धव्रतप्रमतिर्वसिष्ठ इत्यग्निर्वै देवानां वसिष्ठः सहस्रंभरः। शुचिजिह्वो अग्निरित्येषा ह वा अस्य सहस्रंभरता यदेनमेकं संतं बहुधा विहरंति । ऐ° ब्रा° १. २८.। इति ॥


त्वं दू॒तस्त्वमु॑ नः पर॒स्पास्त्वं वस्य॒ आ वृ॑षभ प्रणे॒ता ।

अग्ने॑ तो॒कस्य॑ न॒स्तने॑ त॒नूना॒मप्र॑युच्छ॒न्दीद्य॑द्बोधि गो॒पाः ॥२

त्वम् । दू॒तः । त्वम् । ऊं॒ इति॑ । नः॒ । प॒रः॒ऽपाः । त्वम् । वस्यः॑ । आ । वृ॒ष॒भ॒ । प्र॒ऽने॒ता ।

अग्ने॑ । तो॒कस्य॑ । नः॒ । तने॑ । त॒नूना॑म् । अप्र॑ऽयुच्छन् । दीद्य॑त् । बो॒धि॒ । गो॒पाः ॥२

त्वं । दूतः । त्वं । ॐ इति । नः । परःऽपाः । त्वं । वस्यः । आ । वृषभ । प्रऽनेता।।

अग्ने । तोकस्यं । नः। तने । तनूनां । अप्रऽयुच्छन्। दीद्यत् । बोधि गोपाः ॥२॥

हे वृषभ अभिमतफलवर्षक हे अग्ने त्वं दूतोऽस्मदीये यज्ञे देवाह्वानार्थं दूतो भव । त्वम् त्वमेव नोऽस्माकं परस्पा आपद्भ्यः पारयिता पाता च भव । किंच त्वं वस्यो वसुनो धनस्य आ प्रणेतास्मदाभिमुख्येन प्रापयिता भव । अप्रयुच्छन् अप्रमाद्यन् । दीद्यत्॥ दीदयतिर्दीप्तिकर्मा ॥ शोभमानः । त्वं नोऽस्माकं तोकस्य पुत्रस्य तने तनोति विस्तारयति कुलमिति तनः पौत्रः । तस्मिन् अस्मदीयानां तनूनां गोपा गोपायिता । तथा च ब्राह्मणं । अग्निर्वै देवानां गोपा अग्निमेव तत्सर्वतो गोप्तारं परिदत्त आत्मने च यजमानाय च । ऐ० ब्रा०१.२८ ।। इति । तादृशस्त्वं च गोपायिता भवामीति बोधि । बुध्यस्व ॥


वि॒धेम॑ ते पर॒मे जन्म॑न्नग्ने वि॒धेम॒ स्तोमै॒रव॑रे स॒धस्थे॑ ।

यस्मा॒द्योने॑रु॒दारि॑था॒ यजे॒ तं प्र त्वे ह॒वींषि॑ जुहुरे॒ समि॑द्धे ॥३

वि॒धेम॑ । ते॒ । प॒र॒मे । जन्म॑न् । अ॒ग्ने॒ । वि॒धेम॑ । स्तोमैः॑ । अव॑रे । स॒धऽस्थे॑ ।

यस्मा॑त् । योनेः॑ । उ॒त्ऽआरि॑थ । यजे॑ । तम् । प्र । त्वे इति॑ । ह॒वींषि॑ । जु॒हु॒रे॒ । सम्ऽइ॑द्धे ॥३

विधेम । ते । परमे । जन्मन्। अग्ने । विधेम । स्तोमैः । अवरे । सधऽस्थे ।

यस्मात्। योनेः। उत्ऽआरिथ। यजे । तं। प्र। त्वे इति । हवींषि । जुहुरे। संऽइद्धे ॥३॥

हे अग्ने परम उत्कृष्टे जन्मन्। जायते प्रादुर्भवत्यस्मिन्निति जन्मस्थानं द्यौः । तस्मिन् द्युलोकेऽवस्थिताय ते तुभ्यं विधेम । स्तुतिभिः परिचरेम । अवरे द्युलोकादधस्तने सधस्थें ऽतरिक्षे स्थिताय तुभ्यं स्तोमैः स्तोत्रैर्विधम् ।। परिचरेम । यस्माद्योनेः पृथिवीरूपात्स्थानात् त्वमुदारिथ उद्गतोऽसि प्रादुर्भूतोऽसि तं पृथिवीप्रदेशं यजे। पूजयामि । तत्र हि समिद्धे समिद्भिः समिध्यमाने त्वे त्वयि हवींषि पुरोडाशादीनि प्रजुहुरे । अध्वय्वादयः प्रजुह्वति ॥ जुहोतेर्लिटि रूपं ।


अग्ने॒ यज॑स्व ह॒विषा॒ यजी॑याञ्छ्रु॒ष्टी दे॒ष्णम॒भि गृ॑णीहि॒ राधः॑ ।

त्वं ह्यसि॑ रयि॒पती॑ रयी॒णां त्वं शु॒क्रस्य॒ वच॑सो म॒नोता॑ ॥४

अग्ने॑ । यज॑स्व । ह॒विषा॑ । यजी॑यान् । श्रु॒ष्टी । दे॒ष्णम् । अ॒भि । गृ॒णी॒हि॒ । राधः॑ ।

त्वम् । हि । असि॑ । र॒यि॒ऽपतिः॑ । र॒यी॒णाम् । त्वम् । शु॒क्रस्य॑ । वच॑सः । म॒नोता॑ ॥४

अग्ने । यजस्व । हविषा। यजीयान् । श्रुष्टी। देष्णं । अभि । गृणीहि । राधः।।

त्वं । हि। असि। रयिऽपर्तिः । रयीणां । त्वं । शुक्रस्य । वर्चसः । मनोता ॥४॥

हे अग्ने यजीयान् यष्टृतमस्त्वं हविषास्मद्दत्तेन यजस्व । देवान् संयोजय । देष्णं देयं राधोऽन्नं श्रुष्टी ॥ श्रुष्टीति क्षिप्रनाम ॥ क्षिप्रमभिगृणीहि । देवानां पुरत इदं स्वादुतरमिदं स्वादुतरमिति ब्रूहि । यद्वा श्रुष्टी क्षिप्रकारी त्वं देष्णं देयं राधो धनमभिगृणीहि । अस्मदाभिमुख्येन ब्रूहि । प्रयच्छेत्यर्थः । दानसामर्थ्यं दर्शयति । त्वं रयीणां धनानां मध्ये रयिपतिरुत्तमस्य धनस्य पतिरसि हि। यद्वा रयीणां रयिपतिरित्यत्रैको रयिशब्दो ऽनुवादः । त्वं शुक्रस्य दीप्तस्य वचसोऽस्मदीयस्य स्तोत्रस्य मनोता प्रज्ञाता भवसि । यद्वा मानयिता ॥


उ॒भयं॑ ते॒ न क्षी॑यते वस॒व्यं॑ दि॒वेदि॑वे॒ जाय॑मानस्य दस्म ।

कृ॒धि क्षु॒मन्तं॑ जरि॒तार॑मग्ने कृ॒धि पतिं॑ स्वप॒त्यस्य॑ रा॒यः ॥५

उ॒भय॑म् । ते॒ । न । क्षी॒य॒ते॒ । व॒स॒व्य॑म् । दि॒वेऽदि॑वे । जाय॑मानस्य । द॒स्म॒ ।

कृ॒धि । क्षु॒ऽमन्त॑म् । ज॒रि॒तार॑म् । अ॒ग्ने॒ । कृ॒धि । पति॑म् । सु॒ऽअ॒प॒त्यस्य॑ । रा॒यः ॥५

उभयं । ते । न। क्षीयते । वसव्यं । दिवेऽदिवे । जायमानस्य । दस्म।

कृधि । क्षुऽमंतं । जरितारं । अग्ने । कृधि । पतिं । सुऽअपत्यस्य । रायः ॥५॥

दस्म दर्शनीयं हे अग्ने दिवेदिवे प्रतिदिनमग्निहोत्रकाले जायमानस्य ते तवोभयं वसव्यं दिव्यं भौमं च वसु । वस्वादित्वात्स्वार्थिको यत्प्रत्ययः । पा° ५.४.३०. ४. ॥ तादृशमुभयं वसु न क्षीयते । न हीयते । अस्योभयविधधनसद्भावे मंत्रवर्णः त्वं ह्यग्ने दिव्यस्य राजसि त्वं पार्थिवस्येत्यत्रोक्तः । अतस्त्वं जरितारं तव स्तोत्रं कुर्वाणमिमं यजमानं क्षुमंतमन्नवंतं कीर्तिमंतं वा कृधि । कुरु । किंच स्वपत्यस्य शोभनापत्ययुक्तस्य रायो धनस्य पतिं स्वामिनं कुरु ॥


सैनानी॑केन सुवि॒दत्रो॑ अ॒स्मे यष्टा॑ दे॒वाँ आय॑जिष्ठः स्व॒स्ति ।

अद॑ब्धो गो॒पा उ॒त नः॑ पर॒स्पा अग्ने॑ द्यु॒मदु॒त रे॒वद्दि॑दीहि ॥६

सः । ए॒ना । अनी॑केन । सु॒ऽवि॒दत्रः॑ । अ॒स्मे इति॑ । यष्टा॑ । दे॒वान् । आऽय॑जिष्ठः । स्व॒स्ति ।

अद॑ब्धः । गो॒पाः । उ॒त । नः॒ । प॒रः॒ऽपाः । अग्ने॑ । द्यु॒ऽमत् । उ॒त । रे॒वत् । दि॒दी॒हि॒ ॥६

सः। एना। अनीकेन। सुऽविदत्रः। अस्मे इति। यष्टा। देवान्। आऽयजिष्ठः । स्वस्ति।

अदब्धः। गोपाः । उत । नः । परःऽपाः । अग्ने । द्युऽमत् । उत । रेवत् । दिदीहि ॥६॥

हे अग्ने स तादृशस्त्वमेनानेनानीकेन युक्तस्त्वं सुविदत्रः सुप्रतिज्ञः सुधनो वास्मे अस्माकं भव । देवान्यष्टा देवानां हविष्प्रदानेन पूजक आयजिष्ठो यष्टृतमोऽदब्धः केनाप्यतिरस्कृतो गोपा देवानां गोपायिता । उत अपि च नोऽस्माकं परस्पा दुरितेभ्यः पारयिता पाता च त्वं द्युमत् कांतियुक्तं उत अपि च रेवत् धनयुक्तं यथा भवति तथा स्वस्ति दिदीहि । क्षेमेण सर्वतो दिदीहि । क्षेमेण सर्वतो दीप्यस्व ॥ ॥१॥

मण्डल २

सूक्तं २.१

सूक्तं २.२

सूक्तं २.३

सूक्तं २.४

सूक्तं २.५

सूक्तं २.६

सूक्तं २.७

सूक्तं २.८

सूक्तं २.९

सूक्तं २.१०

सूक्तं २.११

सूक्तं २.१२

सूक्तं २.१३

सूक्तं २.१४

सूक्तं २.१५

सूक्तं २.१६

सूक्तं २.१७

सूक्तं २.१८

सूक्तं २.१९

सूक्तं २.२०

सूक्तं २.२१

सूक्तं २.२२

सूक्तं २.२३

सूक्तं २.२४

सूक्तं २.२५

सूक्तं २.२६

सूक्तं २.२७

सूक्तं २.२८

सूक्तं २.२९

सूक्तं २.३०

सूक्तं २.३१

सूक्तं २.३२

सूक्तं २.३३

सूक्तं २.३४

सूक्तं २.३५

सूक्तं २.३६

सूक्तं २.३७

सूक्तं २.३८

सूक्तं २.३९

सूक्तं २.४०

सूक्तं २.४१

सूक्तं २.४२

सूक्तं २.४३


"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_२.९&oldid=196908" इत्यस्माद् प्रतिप्राप्तम्