ऋग्वेदः सूक्तं २.४२

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं २.४१ ऋग्वेदः - मण्डल २
सूक्तं २.४२
गृत्समद (आङ्गिरसः शौनहोत्रः पश्चाद्) भार्गवः शौनकः
सूक्तं २.४३ →
दे. शकुन्तः (कपिञ्जलरूपीन्द्रः)। त्रिष्टुप्
मण्डल २

सूक्तं २.१

सूक्तं २.२

सूक्तं २.३

सूक्तं २.४

सूक्तं २.५

सूक्तं २.६

सूक्तं २.७

सूक्तं २.८

सूक्तं २.९

सूक्तं २.१०

सूक्तं २.११

सूक्तं २.१२

सूक्तं २.१३

सूक्तं २.१४

सूक्तं २.१५

सूक्तं २.१६

सूक्तं २.१७

सूक्तं २.१८

सूक्तं २.१९

सूक्तं २.२०

सूक्तं २.२१

सूक्तं २.२२

सूक्तं २.२३

सूक्तं २.२४

सूक्तं २.२५

सूक्तं २.२६

सूक्तं २.२७

सूक्तं २.२८

सूक्तं २.२९

सूक्तं २.३०

सूक्तं २.३१

सूक्तं २.३२

सूक्तं २.३३

सूक्तं २.३४

सूक्तं २.३५

सूक्तं २.३६

सूक्तं २.३७

सूक्तं २.३८

सूक्तं २.३९

सूक्तं २.४०

सूक्तं २.४१

सूक्तं २.४२

सूक्तं २.४३



कनिक्रदज्जनुषं प्रब्रुवाण इयर्ति वाचमरितेव नावम् ।
सुमङ्गलश्च शकुने भवासि मा त्वा का चिदभिभा विश्व्या विदत् ॥१॥
मा त्वा श्येन उद्वधीन्मा सुपर्णो मा त्वा विददिषुमान्वीरो अस्ता ।
पित्र्यामनु प्रदिशं कनिक्रदत्सुमङ्गलो भद्रवादी वदेह ॥२॥
अव क्रन्द दक्षिणतो गृहाणां सुमङ्गलो भद्रवादी शकुन्ते ।
मा न स्तेन ईशत माघशंसो बृहद्वदेम विदथे सुवीराः ॥३॥


सायणभाष्यम्

' कनिक्रदत् ' इति तृचं दशमं सूक्तम् । अत्रैवमनुक्रमणिका- कनिक्रदत्तृचम् ' इति । मण्डलद्रष्टा गृत्समदोऽस्य ऋषिः । त्रिष्टुप् छन्दः । कपिञ्जलरूपीन्द्रो देवता । वयसाममनोज्ञां वाचं श्रुत्वैतत्सूक्तं जपेत् । सूत्रितं च- ' वयसाममनोज्ञां वाचः श्रुत्वा कनिक्रदज्जनुषं प्रब्रुवाण इति सूक्ते जपेत् ' (आश्व. गृ. ३.१०. ९) इति ।।


कनि॑क्रदज्ज॒नुषं॑ प्रब्रुवा॒ण इय॑र्ति॒ वाच॑मरि॒तेव॒ नाव॑म् ।

सु॒म॒ङ्गल॑श्च शकुने॒ भवा॑सि॒ मा त्वा॒ का चि॑दभि॒भा विश्व्या॑ विदत् ॥१

कनि॑क्रदत् । ज॒नुष॑म् । प्र॒ऽब्रु॒वा॒णः । इय॑र्ति । वाच॑म् । अ॒रि॒ताऽइ॑व । नाव॑म् ।

सु॒ऽम॒ङ्गलः॑ । च॒ । श॒कु॒ने॒ । भवा॑सि । मा । त्वा॒ । का । चि॒त् । अ॒भि॒ऽभा । विश्व्या॑ । वि॒द॒त् ॥१

कनिक्रदत् । जनुषम् । प्रऽब्रुवाणः । इयर्ति । वाचम् । अरिताऽइव । नावम् ।

सुऽमङ्गलः । च । शकुने । भवासि । मा । त्वा । का । चित् । अभिऽभा । विश्व्या । विदत् ॥१

कनिक्रदत् पुनःपुनः शब्दायमानः जनुषं जनिष्यमाणमर्थं प्रब्रुवाणः सूचयन् कपिञ्ज- लः अरितेव कर्णधार इव नावं वाचमियर्ति प्रेरयति अथ प्रत्यक्षकृतः हे शकुने कपिञ्जल त्वं सुमङ्गलः प्रकृष्टकल्याणश्च भवासि भव किञ्च काचिदभिभा कोप्यग्निभवः त्वा त्वां विश्व्या विश्वतः सर्वासु दि्क्षु मा विदत् मा प्रापत् शकुनिः शक्नोत्युन्नेतुमात्मानं न्यक्रन्दीज्जन्मप्रब्रुवाणो यथास्य शब्दस्तथानामेरयति वाचमीरयितेव नावं सुमङ्गलश्च शकुने भव कल्याणमङ्गलो मङ्गलं गिरतेर्गृणात्यर्थे गिरत्यर्थानिति वेति यास्कः ।। १ ।।


मा त्वा॑ श्ये॒न उद्व॑धी॒न्मा सु॑प॒र्णो मा त्वा॑ विद॒दिषु॑मान्वी॒रो अस्ता॑ ।

पित्र्या॒मनु॑ प्र॒दिशं॒ कनि॑क्रदत्सुम॒ङ्गलो॑ भद्रवा॒दी व॑दे॒ह ॥२

मा । त्वा॒ । श्ये॒नः । उत् । व॒धी॒त् । मा । सु॒ऽप॒र्णः । मा । त्वा॒ । वि॒द॒त् । इषु॑ऽमान् । वी॒रः । अस्ता॑ ।

पित्र्या॑म् । अनु॑ । प्र॒ऽदिश॑म् । कनि॑क्रदत् । सु॒ऽम॒ङ्गलः॑ । भ॒द्र॒ऽवा॒दी । व॒द॒ । इ॒ह ॥२

मा । त्वा । श्येनः । उत् । वधीत् । मा । सुऽपर्णः । मा । त्वा । विदत् । इषुऽमान् । वीरः । अस्ता ।

पित्र्याम् । अनु । प्रऽदिशम् । कनिक्रदत् । सुऽमङ्गलः । भद्रऽवादी । वद । इह ॥२

हे शकुने त्वा त्वां श्येनः प्रबलः पक्षिविशेषो मा वधीत्मा हिंसीत् उतापि च सुपर्णः गरुडः पक्षिविशेषो मा वधीत् मा हिंसीत् तथा इषुमान् बाणवान्वीरः अस्ता शराणां क्षेप्ता धन्वी त्वा त्वां मा विदत्मा प्रापत् किञ्च पित्र्यां प्रदिशं दक्षिणां दिशमनु दक्षिणस्यां दिशीत्यर्थः कनिक्रद- त्पुनःपुनः शब्दं कुर्वन् सुमङ्गलः - कल्याणमङ्गलः भद्रवादी शोभनवादी सन् इहास्मद्विषये वद मङ्गलं सूचय ।। २ ।।


अव॑ क्रन्द दक्षिण॒तो गृ॒हाणां॑ सुम॒ङ्गलो॑ भद्रवा॒दी श॑कुन्ते ।

मा नः॑ स्ते॒न ई॑शत॒ माघशं॑सो बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑ ॥३

अव॑ । क्र॒न्द॒ । द॒क्षि॒ण॒तः । गृ॒हाणा॑म् । सु॒ऽम॒ङ्गलः॑ । भ॒द्र॒ऽवा॒दी । श॒कु॒न्ते॒ ।

मा । नः॒ । स्ते॒नः । ई॒श॒त॒ । मा । अ॒घऽशं॑सः । बृ॒हत् । व॒दे॒म॒ । वि॒दथे॑ । सु॒ऽवीराः॑ ॥३

अव । क्रन्द । दक्षिणतः । गृहाणाम् । सुऽमङ्गलः । भद्रऽवादी । शकुन्ते ।

मा । नः । स्तेनः । ईशत । मा । अघऽशंसः । बृहत् । वदेम । विदथे । सुऽवीराः ॥३

शकुन्ते हे कपिञ्जल त्वं सुमङ्गलो भद्रवादी च सन् गृहाणां दक्षिणतः दक्षिणस्यां दिशि अवक्रन्द शब्दं कुरु दक्षिणतः शब्दायमानः शकुन्तो मङ्गलसूचको हि नोस्माकं स्तेनस्तस्करो मा ईशत मा ईशिष्ट अघशंसः अनर्थकानां शंसकोपि मे शिष्ट उत्तमः पादो व्याख्यातचरः ।। ३ ।।



[सम्पाद्यताम्]

स्तुतिं तु पुनरेवेच्छन्न् इन्द्रो भूत्वा कपिञ्जलः । ऋषेर्जिगमिषोराशां ववाशास्थाय दक्षिणाम् । । ९३ । ।

स तमार्षेण संप्रेक्ष्य चक्षुषा पक्षिरूपिणम् । पराभ्यामभितुष्टाव सूक्ताभ्यां तु कनिक्रदत् ।।बृहद्देवता ४.९४ ।।


पुराणेषु कपिञ्जलस्य उल्लेखाः


टिप्पणी

कपिञ्जल॥

पद्मपुराणे कुञ्जल शुकस्य चत्वार्यः पुत्राः सन्ति( २.८५ )। तेषां नामधेयानि उज्ज्वल, समुज्ज्वल, विज्वल एवं कपिञ्जल एवं सन्ति। ते दिवसस्य अवसाने स्वपितरं आगत्य दिवसे दृष्टानि अपूर्वाणि वृत्तान्तानि कथयन्ति एवं निहितार्थानि ज्ञातुं इच्छन्ति। पद्मपुराणे २.१०१ चतुर्थः पुत्रः कपिञ्जलः स्वदृष्टं अपूर्वं एवं कथयति यत् एका स्त्री नद्या तटे यदा शोकतः अश्रूणि विमुञ्चति, ते यदा नद्यां पतन्ति, तेभ्यः रक्तवर्णानि पद्मानि जायन्ते। यदा सा हर्षेण अश्रूणि विमुञ्चति, तदा तेभ्यः श्वेतवर्णानि पद्मानि जायन्ते। तस्या स्त्र्याः नामधेयं कामोदा अस्ति। तस्याः उत्पत्तिः पार्वत्याः कल्पवृक्षस्य परीक्षाकाले अभवत्। कालान्तरे तस्याः नामधेयं अशोकसुन्दरी अभवत् एवं सा नहुषस्य भार्या अभवत्। कुञ्जलोपरि एका संक्षिप्त टिप्पणी पूर्वमेव वर्तते। कुञ्जल, उज्ज्वल, विज्वल, कपिञ्जल एषु चत्वार्येषु अपि ज्वलनम् महत्त्वपूर्णमस्ति। कपिञ्जल शब्दस्य परोक्षरूपं कपिञ्ज्वलनम् भवितुमर्हति। यः कपिं ज्वालयति, सः कपिञ्जलः अस्ति। पुराणेषु कपि शब्दस्य तात्पर्यं जडे पदार्थे कंपनोत्पन्नम् अस्ति। जडे पदार्थे जीवनस्य संचारम्। अतः यः जड पदार्थे जीवनस्य संचरणस्य प्रक्रियां उज्वालयति, सः कपिञ्जलः अस्ति। सूक्ष्म दृष्ट्या जडे द्रव्ये जीवनस्य संचारं केन - केन प्रकारेण भवितुं शक्यते। यदा वयं अन्येषां जीवानां दुःखेभ्यः द्रवीभूता भवन्ति, अयं स्थिति अपि कपि शब्दान्तर्गतं भवति। अतः अन्येषां जीवानां दुःखानां अनुभवं वयं कति सीमातः कर्तुं शक्नुमः, अयं कपिञ्जल शब्दस्य भावं भविष्यति। कपिञ्जलरूपी इन्द्रस्य सूक्तं गृत्समदस्य सूक्तेषु अन्तिमं - अनन्तिमं अस्ति। अयं संकेतमस्ति यत् पद्मपुराणे कुञ्जल शुकस्य उज्ज्वल, समुज्ज्वल एवं विज्वल पुत्रत्रयेभ्यः द्रष्टानि अपूर्वणानि गृत्समदस्य दृष्टेषु अन्येषु सूक्तेषु कथितानि भवन्ति।

पद्मपुराणे कपिञ्जलेन दृष्टे अपूर्वाख्याने यः कामोदा स्त्री अस्ति, सा सात्त्विकगुणयुक्ता प्रकृतिः भवितुं शक्यते। तस्याः यानि अश्रूणि नद्याः जले पतित्वा रक्त एवं श्वेत पुष्कराणि भवन्ति, अयं संकेतमस्ति यत् यदा वयं शोकस्य अथवा हर्षस्य अनुभवं कुर्वामः, तत् शोकं अथवा हर्षं व्यर्थं न भवेत्। तत् चेतनाप्रवाहस्य जले पतित्वा पुष्कररूपं धारयेत् एवं अन्ततोगत्वा तत् ईश्वरारर्पणं कर्तुं योग्यं भवेत्।

व्यवहारे परेषां दुःखानां ज्ञाने कः प्रक्रिया भवितुं शक्यते, अस्मिन् संदर्भे कपिवरस्य हनुमानस्य कथा पर्याप्तं भविष्यति। हनुमानः सूक्ष्मशरीरं धारयित्वा सुरसायाः मुखं प्रविशति, तदनन्तरं बहिरागच्छति(वा.रामायणम् ५.१.१४५)। सूक्ष्मशरीरस्य धारणप्रक्रिया शुनक, शौनक शब्दान्तर्गतं भवति, अयं प्रतीयते। यथा शौनकोपरि टिप्पण्यां उल्लिखितमस्ति - अथ यस्माच्छुनासीर्येण यजेत । या वै देवानां श्रीरासीत्साकमेधैरीजानानां विजिग्यानानां तच्छुनमथ यः संवत्सरस्य प्रजितस्य रस आसीत्तत्सीरं सा या चैव देवानां श्रीरासीत्साकमेधैरीजानानां विजिग्यानानां य उ च संवत्सरस्य प्रजितस्य रस आसीत्तमेवैतदुभयं परिगृह्यात्मन् कुरुते तस्माच्छुनासीर्येण यजते – शतपथ २.६.३.[२] चातुर्मास्य कर्मकाण्डानुसारेण शुनम्, शून्या अवस्थात् अग्रिमं स्थितिः सीरं अस्ति। संवत्सरस्य स्थितिः चेतनायाः व्यापनस्य स्थितिः प्रतीयते। योगादृष्ट्या अस्मिन् संदर्भे श्रीरजनीश महोदयस्य कुण्डलिनी और सात शरीर व्याख्यानमाला पठनीयमस्ति।

पद्मपुराणे उल्लेखमस्ति यत् कुञ्जलशुकस्य चत्वार्येभ्यः स्वपुत्रेभ्यः साकं संवादं ओंकारक्षेत्रे अभवत्। अयं संकेतमस्ति यत् कपिञ्जलस्य सम्बन्धं ओंकारस्य चतुर्थ मात्रा, यस्य नामोल्लेखं ग्रन्थेषु अर्धमात्रा भवति, सह भवितुं शक्यते। चतुर्थमात्रायाः गुणं अस्ति यत् अस्मिन् काले प्रकृत्याः विकासं तां स्थितिं प्रापयति यत्र प्रकृतिः पुरुषस्य नियन्त्रणे समर्थं भवति। अन्यथा, सार्वत्रिक रूपेण पुरुषः एव प्रकृत्याः नियन्त्रणं करोति।

पुराणेषु यदा ऋषयः मुक्त्यर्थं अव्यभिचारिण्याः भक्त्याः रहस्यं ज्ञातुमिच्छन्ति, ते शौनकं प्रति आगच्छन्ति एवं शौनकः तान् रोमहर्षणस्य पुत्रं सूतं प्रति नयति। वैदिकभाषायां रौमहर्षणिः सूतः ऋग्वेदस्य २.४२ सूक्तस्य देवता कपिञ्जलः प्रतीयते।


कुञ्जलोपरि टिप्पणी

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_२.४२&oldid=208882" इत्यस्माद् पुनः प्राप्तिः