पद्मपुराणम्/खण्डः २ (भूमिखण्डः)/अध्यायः ०८५

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
← अध्यायः ०८४ पद्मपुराणम्/खण्डः २ (भूमिखण्डः)
अध्यायः ०८५
अज्ञातलेखकः
अध्यायः ०८६ →

वेन उवाच-
भगवन्देवदेवेश प्रसादाच्च मम त्वया
भार्यातीर्थं समाख्यातं पितृतीर्थमनुत्तमम् १
मातृतीर्थं हृषीकेश बहुपुण्यप्रदायकम्
प्रसादसुमुखो भूत्वा गुरुतीर्थं वदस्व मे २
श्रीभगवानुवाच-
कथयिष्याम्यहं राजन्गुरुतीर्थमनुत्तमम्
सर्वपापहरं प्रोक्तं शिष्याणां गतिदायकम् ३
शिष्याणां परमं पुण्यं धर्मरूपं सनातनम्
परं तीर्थं परं ज्ञानं प्रत्यक्षफलदायकम् ४
यस्यप्रसादाद्राजेंद्र इहैव फलमश्नुते
परलोके सुखं भुंक्ते यशः कीर्तिमवाप्नुयात् ५
प्रसादाद्यस्य राजेंद्र गुरोश्चैव महात्मनः
प्रत्यक्षं दृश्यते शिष्यैस्त्रैलोक्यं सचराचरम् ६
व्यवहारं च लोकानामाचारं नृपनंदन
विज्ञानं विंदते शिष्यो मोक्षं चैव प्रयाति च ७
सर्वेषामेव लोकानां यथा सूर्यः प्रकाशकः
गुरुः प्रकाशकस्तद्वच्छिष्याणां गतिरुत्तमा ८
रात्रावेव प्रकाशेच्च सोमो राजा नृपोत्तम
तेजसा साधयेत्सर्वमधिकारं चराचरम् ९
गृहेप्रकाशयेद्दीपः समूहं नृपसत्तम
तेजसा नाशयेत्सर्वमंधकारघनाविलम् १०
अज्ञानतमसा व्याप्तं शिष्यं द्योतयते गुरुः
शिष्यप्रकाशउद्द्योतैरुपदेशैर्महामते ११
दिवाप्रकाशकः सूर्यः शशीरात्रौ प्रकाशकः
गृहप्रकाशको दीपस्तमोनाशकरः सदा १२
रात्रौ दिवा गृहस्यांते गुरुः शिष्यं सदैव हि
अज्ञानाख्यं तमस्तस्य गुरुः सर्वं प्रणाशयेत् १३
तस्माद्गुरुः परं तीर्थं शिष्याणामवनीपते
एवं ज्ञात्वा ततः शिष्यः सर्वदा तं प्रपूजयेत् १४
गुरुं पुण्यमयं ज्ञात्वा त्रिविधेनापि कर्मणा
इत्यर्थे श्रूयते विप्र इतिहासः पुरातनः १५
सर्वपापहरः प्रोक्तश्च्यवनस्य महात्मनः
भार्गवस्य कुले जातश्च्यवनो मुनिसत्तमः १६
तस्य चिंता समुत्पन्ना एकदा तु नृपोत्तम
कदाहं ज्ञानसंपन्नो भविष्यामि महीतले १७
दिवारात्रौप्रचिंतेत्स ज्ञानार्थी मुनिसत्तमः
एवं तु चिंतमानस्य मतिरासीन्महात्मनः १८
तीर्थयात्रां प्रयास्यामि अभीष्टफलदायिनीम्
गृहक्षेत्रादिसंत्यज्य भार्यां पुत्रं धनं ततः १९
तीर्थयात्राप्रसंगेन अटते मेदिनीं तदा
लोमानुलोमयात्रां स गंगायाः कृतवान्नृप २०
स तद्वन्नर्मदायाश्च सरस्वत्या मुनीश्वरः
गोदावर्यादिसर्वासां नदीनां सागरस्य च २१
अन्येषां सर्वतीर्थानां क्षेत्राणां च नृपोत्तम
देवानां पुण्यलिगानां यात्राव्याजेन सोऽभ्रमत् २२
भ्रममाणस्य तस्यापि तीर्थेषु परमेषु च
भ्रममाणः समायातः क्षेत्राणामुत्तमं तदा
कायश्च निर्मलो जातः सूर्यतेजः समप्रभः २३
च्यवनः काशते दीप्त्या पूतात्मानेन कर्मणा २४
नर्मदा दक्षिणे कूले नाम्ना अमरकंटकम्
ददर्श सुमहालिगं सर्वेषां गतिदायकम् २५
नत्वा स्तुत्वा तु संपूज्य सिद्धनाथं महेश्वरम्
ज्वालेश्वरं ततो दृष्ट्वा दृष्ट्वा चाप्यमरेश्वरम् २६
ब्रह्मेशं कपिलेशं च मार्कंडेश्वरमुत्तमम्
एवं यात्रां ततः कृत्वा ॐकारं समुपागतः २७ **
वटच्छायां समाश्रित्य शीतलां श्रमनाशिनीम्
सुखेन संस्थितो विप्रश्च्यवनो भृगुनंदनः २८
तत्र स्वनं स शुश्राव समुक्तं पक्षिणा तदा
दिव्यभाषा समायुक्तं ज्ञानविज्ञानसंयुतम् २९
शुकश्च एकस्तत्रास्ते बहुकालप्रजीवकः
कुंजलोनाम धर्मात्मा चतुःपुत्रः सभार्यकः ३०
आसंस्तस्य हि पुत्राश्च चत्वारः पितृनंदनाः
तेषां नामानि राजेंद्र कथयिष्ये तवाग्रतः ३१
ज्येष्ठस्तु उज्ज्वलो ना मद्वितीयस्तु समुज्ज्वलः
तृतीयो विज्वलोनाम चतुर्थश्च कपिंजलः ३२
एवं पुत्रास्तु चत्वारः कुंजलस्य महामते
शुकस्य तस्य पुण्यस्य पितृमातृपरायणाः ३३
भ्रमंति गिरिकुंजेषु द्वीपेषु च समाहिताः
भोजनार्थं तु संक्षुब्धाः क्षुधया परिपीडिताः ३४
स्वोदरस्थां क्षुधां सौम्य फलैरमृतसन्निभैः
अमृतस्वादुतोयेन शमयंति नृपोत्तम ३५
फलं पक्वं रसालं तु आहारार्थं सुपुत्रकाः
दत्वा फलानि दंपत्योर्निक्षिपंति प्रयत्नतः ३६
मातुरर्थे महाभागा भक्तिभावसमन्विताः
तुष्टा आहारमुत्पाद्य भक्षयंति पठंति च ३७
तत्र क्रीडारताः सर्वे विलसंति रमंति च
संध्याकालं समाज्ञाय पितुरंतिकमुत्तमम् ३८
आयांति भक्ष्यमादाय गुर्वर्थं तु प्रयत्नतः
पश्यतस्तस्य विप्रस्य च्यवनस्य महात्मनः ३९
आगतास्त्वंडजाः सर्वेपि तुर्नीडं सुशोभनम्
पितरं मातरं चोभौ प्रणेमुस्ते महामते ४०
ताभ्यां भक्ष्यं समासाद्य उपतस्थुस्तयोः पुरः
सर्वे संभाषिताः पित्रा मानितास्ते सुतोत्तमाः ४१
मात्रा च कृपया राजन्वचनैः प्रीतिसंमितैः
पक्षवातेन शीतेन मातापित्रोश्च ते तदा ४२
तेषामाप्यायनं तौ द्वौ चक्राते पक्षिणौ नृप
आशीर्भिरभिनंद्यैव द्वाभ्यामपि सुपुत्रकान् ४३
तैश्च दत्तं सुसंपुष्टमाहारममृतोपमम्
तावेव हि सुसंप्रीतिं चक्राते द्विजसत्तम ४४
पिबतो निर्मलं तोयं तीर्थकोटिसमुद्भवम्
स्वस्थानं तु समाश्रित्य सुखसंतुष्टमानसौ ४५
चक्राते च कथां दिव्यां सुपुण्यां पापनाशिनीम्
विष्णुरुवाच-
पित्रा तु कुंजलेनापि पृष्ट उज्ज्वल आत्मजः ४६
क्वगतोऽस्यद्य पुत्र त्वं किमपूर्वं त्वया पुनः
तत्र दृष्टं श्रुतं पुण्यं तन्मे कथय नंदन ४७
कुंजलस्य पितुर्वाक्यं समाकर्ण्य स उज्ज्वलः
पितरं प्रत्युवाचाथ भक्त्या नमितकंधरः ४८
प्रणाममकरोन्मूर्ध्ना कथां चक्रे मनोहराम्
उज्ज्वल उवाच-
प्लक्षद्वीपं महाभाग नित्यमेव व्रजाम्यहम् ४९
महता उद्यमेनापि आहारार्थं महामते
प्लक्षेद्वीपे महाराज संति देशा अनेकशः ५०
पर्वताः सरिदुद्यान वनानि च सरांसि च
ग्रामाश्च पत्तनाश्चान्ये सुप्रजाभिः प्रमोदिताः ५१
सदा सुखेन संतुष्टा लोका हृष्टा वसंति ते
दानपुण्यजपोपेताः श्रद्धाभावसमन्विताः ५२
प्लक्षद्वीपे महाराज आसीत्पुण्यमतिः सदा
दिवोदासस्तु धर्मात्मा तत्सुतासीदनूपमा ५३
गुणरूपसमायुक्ता सुशीला चारुमंगला
दिव्यादेवीति विख्याता रूपेणाप्रतिमा भुवि ५४
पित्रा विलोकिता सा तु रूपतारुण्यमंगला
प्रथमे वयसि सा च वर्त्तते चारुमंगला ५५
स तां दृष्ट्वा दिवोदासो दिव्यां देवीं सुतां तदा
कस्मै प्रदीयते कन्या सुवराय महात्मने ५६
इति चिंतापरो भूत्वा समालोक्य नरोत्तमः
रूपदेशस्य राजानं समालोक्य महीपतिः ५७
चित्रसेनं महात्मानं समाहूय नरोत्तमः
कन्यां ददौ महात्मासौ चित्रसेनाय धीमते ५८
तस्या विवाहकाले तु संप्राप्ते समये नृप
मृतोसौ चित्रसेनस्तु कालधर्मेण वै किल ५९
दिवोदासस्तु धर्मात्मा चिंतयामास भूपतिः
सुब्राह्मणान्समाहूय पप्रच्छ नृपनंदनः ६०
अस्या विवाहकाले तु चित्रसेनो दिवं गतः
अस्यास्तु कीदृशं कर्म भविष्यति वदंतु मे ६१
ब्राह्मणा ऊचुः-
विवाहो दृश्यते राजन्कन्यायास्तु विधानतः
पतिर्मृत्युं प्रयात्यस्या नोचेत्संगं करोति च ६२
महाधिव्याधिना ग्रस्तस्त्यागं कृत्वा प्रयाति च
प्रव्राजितो भवेद्राजन्धर्मशास्त्रेषु दृश्यते ६३
अनुद्वाहितायाः कन्याया उद्वाहः क्रियते बुधैः
न स्याद्रजस्वला यावदन्यः पतिर्विधीयते ६४
विवाहं तु विधानेन पिता कुर्यान्न संशयः
एवं राजन्समादिष्टं धर्मशास्त्रं बुधैर्जनैः ६५
विवाहः क्रियतामस्या इत्यूचुस्ते द्विजोत्तमाः
दिवोदासस्तु धर्मात्मा द्विजवाक्यप्रणोदितः ६६
विवाहार्थं महाराज उद्यमं कृतवान्नृप
पुनर्दत्ता तु दानेन दिव्यादेवी द्विजोत्तम ६७
रूपसेनाय पुण्याय तस्मै राज्ञे महात्मने
मृत्युधर्मं गतो राजा विवाहे तु महीपतिः ६८
यदा यदा महाभाग दिव्यादेव्याश्च भूपतिः
भर्ता च म्रियते काले प्राप्ते लग्नस्य सर्वदा ६९
एकविंशतिभर्तारः काले काले मृताः पितः
ततो राजा महादुःखी संजातः ख्यातविक्रमः ७०
समालोच्य समाहूय समामंत्र्य स मंत्रिभिः
स्वयंवरे महाबुद्धिं चकार पृथिवीपतिः ७१
प्लक्षद्वीपस्य राजानः समाहूता महात्मना
स्वयंवरार्थमाहूतास्तथा ते धर्मतत्पराः ७२
तस्यास्तु रूपसंमुग्धा राजानो मृत्युनोदिताः
संग्रामं चक्रिरे मूढास्ते मृताः समरांगणे ७३
एवं तात क्षयो जातः क्षत्रियाणां महात्मनाम्
दिव्यादेवी सुदुःखार्ता गता सा वनकंदरम् ७४
रुरोद करुणं बाला दिव्यादेवी मनस्विनी
एवं तात मया दृष्टमपूर्वं तत्र वै तदा ७५
तन्मे सुविस्तरं तात तस्याः कथय कारणम् ७६

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थे च्यवनोपाख्याने पंचाशीतितमोऽध्यायः ८५

संदर्भाः[सम्पाद्यताम्]