पद्मपुराणम्/खण्डः २ (भूमिखण्डः)/अध्यायः ०८६
← अध्यायः ०८५ | पद्मपुराणम्/खण्डः २ (भूमिखण्डः) अध्यायः ०८६ अज्ञातलेखकः |
अध्यायः ०८७ → |
कुंजलशुकस्य पुत्र उज्ज्वलेन सह संवादम् |
कुंजल उवाच-
तस्यास्तु चेष्टितं वत्स दिव्या देव्या वदाम्यहम् ।
पूर्वजन्मकृतं सर्वं तन्मे निगदतः शृणु ॥१
अस्ति वाराणसी पुण्या नगरी पापनाशिनी ।
तस्यामास्ते महाप्राज्ञः सुवीरो नाम नामतः ॥२
वैश्यजात्यां समुत्पन्नो धनधान्यसमाकुलः ।
तस्य भार्या महाप्राज्ञ चित्रा नाम सुविश्रुता ॥३
कुलाचारं परित्यज्य अनाचारेण वर्तते ।
न मन्यते हि भर्तारं स्वैरवृत्त्या प्रवर्तते ॥४
धर्मपुण्यविहीना तु पापमेव समाचरेत् ।
भर्तारं कुत्सते नित्यं नित्यं च कलहप्रिया ॥५
नित्यं परगृहे वासो भ्रमते सा गृहे गृहे ।
परच्छिद्रं समापश्येत्सदा दुष्टा च प्राणिषु ॥६
साधुनिंदापरा दुष्टा सदा हास्यकरा च सा ।
अनाचारां महापापां ज्ञात्वा वीरेण निंदिता ॥७
स तां त्यक्त्वा महाप्राज्ञ उपयेमे महामतिः ।
अन्य वैश्यस्य वै कन्यां तया सह प्रवर्तते ॥८
धर्माचारेण पुण्यात्मा सत्यधर्ममतिः सदा ।
निरस्ता तेन सा चित्रा प्रचंडा भ्रमते महीम् ॥९
दुष्टानां संगतिं प्राप्ता नराणां पापिनां सदा ।
दूतीकर्म चकाराथ सा तेषां पापनिश्चया ॥१०
गृहभंगं चकाराथ साधूनां पापकारिणी ।
साध्वीं नारीं समाहूय पापवाक्यैः सुलोभयेत् ॥११
धर्मभंगं चकाराथ वाक्यैः प्रत्ययकारकैः ।
साधूनां सा स्त्रियं चित्रा अन्यस्मै प्रतिपादयेत् ॥१२
एवं गृहशतं भग्नं चित्रया पापनिश्चयात् ।
संग्रामं सा महादुष्टाऽकारयत्पतिपुत्रकैः ॥१३
मनांसि चालयेत्पापा पुरुषाणां स्त्रियः प्रति ।
अकारयच्च संग्रामं यमग्रामविवर्धनम् ॥१४
एवं गृहशतं भंक्त्वा पश्चात्सा निधनं गता।
शासिता यमराजेन बहुदंडैः सुनंदन ॥१५
अभोजयत्सुनरकान्रौरवांस्तरणेः सुतः ।
पाचिता रौरवे चित्रा चित्राः पीडाः प्रदर्शिताः ॥१६
यादृशं क्रियते कर्म तादृशं परिभुज्यते ।
तया गृहशतं भग्नं चित्रया पापनिश्चयात् ॥१७
तत्तत्कर्मविपाकोऽयं तया भुक्तो द्विजोत्तम ।
यस्माद्गृहशतं भग्नं तस्माद्दुःखं प्रभुंजति ॥१८
विवाहसमये प्राप्ते दैवं च पाकतां गतम् ।
प्राप्ते विवाहसमये भर्ता मृत्युं प्रयाति च ॥१९
यथा गृहशतं भग्नं तथा वरशतं मृतम् ।
स्वयंवरे तदा वत्स विवाहे चैकविंशतिः ॥२०
दिव्या देव्या मया ख्यातं यथा मे पृच्छितं त्वया ।
एतत्ते सर्वमाख्यातं तस्याः पूर्वविचेष्टितम् ॥२१
उज्ज्वल उवाच-
दिव्या देव्यास्त्वया ख्यातं यत्पूर्वं पूर्वचेष्टितम् ।
तथा पापं कृतं घोरं गृहभंगाख्यमेव च ॥२२
प्लक्षद्वीपस्य भूपस्य दिवोदासस्य वै सुता ।
केन पुण्यप्रभावेण तया प्राप्तं महाकुलम् ॥२३
एतन्मे संशयं तात तदेतत्प्रब्रवीतु मे ।
एवं पापसमाचारा कथं जाता नृपात्मजा ॥२४
कुंजल उवाच-
चित्रायाश्चेष्टितं पुण्यं तत्सर्वं प्रवदाम्यहम् ।
श्रूयतामुज्ज्वल सुत चित्रया यत्कृतं पुरा ॥२५
भ्रममाणो महाप्राज्ञः कश्चित्सिद्धः समागतः ।
कुचैलो वस्त्रहीनश्च संन्यासी स च दंडधृक् ॥२६
कौपीनेन समायुक्तः पाणिपात्रो दिगंबरः ।
गृहद्वारं समाश्रित्य चित्रायाः परिसंश्रितः ॥२७
स मौनी सर्वमुंडस्तु विजितात्मा जितेंद्रियः ।
निराहारो जिताहारः सर्वतत्त्वार्थदर्शकः ॥२८
दूराध्वानपरिश्रांत आतपाकुलमानसः ।
श्रमेण खिद्यमानश्च तृषाक्रांतः सुपुत्रक ॥२९
चित्रा द्वारं समाश्रित्य च्छायामाश्रित्य संस्थितः ।
तया दृष्टो महात्मा स चित्रया श्रमपीडितः ॥३०
सेवां चक्रे च चित्रा सा तस्यैव सुमहात्मनः ।
पादप्रक्षालनं कृत्वा दत्वा आसनमुत्तमम् ॥३१
आस्यतामासने तात सुखेनापि सुकोमले ।
क्षुधापनोदनार्थं हि भुज्यतामन्नमुत्तमम् ॥३२
स्वेच्छया परितुष्टश्च शीतलं सलिलं पिब ।
एवमुक्त्वा तथा कृत्वा देववत्पूज्य तं सुत ॥३३
अंगसंवाहनं कृत्वा नाशितश्रम एव च ।
तयोक्तो हि महात्मा स भुक्त्वा पीत्वा द्विजोत्तम ॥३४
एवं संतोषितः सिद्धस्तया तत्त्वार्थदर्शकः ।
संतुष्टः सर्वधर्मात्मा किंचित्कालं स्थिरोभवत् ॥३५
स्वेच्छया स गतो विप्रो महायोगी यथागतम् ।
गते तस्मिन्महाभागे सिद्धे चैव महात्मनि ॥३६
सा चित्रा मरणं प्राप्ता स्वकर्मवशमागता ।
शासिता धर्मराजेन महादंडैः सुदुःखदैः ॥३७
सा चित्रा नरकं प्राप्ता वेदना व्रातदायकम् ।
भुंक्ते दुःखं महाराज सा वै युगसहस्रकम् ॥३८
भोगांते तु पुनर्जन्म संप्राप्तं मानुषस्य च ।
पूर्वं संपूजितः सिद्धस्तया पुण्यवतां वरः ॥३९
तस्य कर्मविपाकोयं प्राप्ता पुण्यवतां कुले ।
क्षत्रियाणां महाराज्ञो दिवोदासस्य वै गृहे ॥४०
दिव्यादेवी च तन्नाम जातं तस्या नरोत्तम ।
सा हि दत्तवती चान्नं पानं पुण्यं महात्मने ॥४१
तस्य दानस्य सा भुंक्ते महत्पुण्यफलोदयम् ।
पिबते शीतलं तोयं मिष्टान्नं च भुनक्ति वै ॥४२
दिव्यान्भोगान्प्रभुंजाना वर्तते पितृमंदिरे ।
सिद्धस्यास्य प्रभावाच्च राजकन्या व्यजायत ॥४३
पापकर्मप्रभावाच्च गृहभंगान्महीपते ।
विधवात्वं भुंजते सा दिव्यादेवी सुपुत्रक ॥४४
एतत्ते सर्वमाख्यातं दिव्यादेव्या विचेष्टितम् ।
अन्यत्किन्ते प्रवक्ष्यामि यत्त्वं पृच्छसि मामिह ॥४५
उज्ज्वल उवाच-
कथं सा मुच्यते शोकान्महादुःखाद्वदस्व मे ।
सास्याच्च कीदृशी बाला महादुःखेन पीडिता ॥४६
तत्सुखं कीदृशं तस्माद्विपाकश्च भविष्यति ।
एतन्मे संशयं तात सांप्रतं छेत्तुमर्हसि ॥४७
कथं सा लभते मोक्षं तंचोपायं वदस्व मे ।
एकाकिनी महाभागा महारण्ये प्ररोदिति ॥४८
विष्णुरुवाच-
पुत्रवाक्यं महच्छ्रुत्वा क्षणमेकं विचिंत्य सः ।
प्रत्युवाच महाप्राज्ञः कुंजलः पुत्रकं प्रति ॥४९
शृणु वत्स महाभाग सत्यमेतद्वदाम्यहम् ।
पापयोनिं तु संप्राप्य पूर्वकर्मसमुद्भवाम् ॥५०
तिर्यक्त्वेन च मे ज्ञानं नष्टं संप्रति पुत्रक ।
अस्य वृक्षस्य संगाच्च प्रयतस्य महात्मनः ॥५१
रेवायाश्च प्रसादेन विष्णोश्चैव प्रसादतः ।
येन सा लभते ज्ञानं मोक्षस्थानं निवर्तते ॥५२
उपदेशं प्रवक्ष्यामि मोक्षमार्गमनुत्तमम् ।
यास्यते कल्मषान्मुक्ता यथा हेम हुताशनात् ॥५३
शुद्धं च जायते वत्स संगाद्वह्नेः स्वरूपवत् ।
हरेर्ध्यानान्महाप्राज्ञ शीघ्रं तस्य महात्मनः ॥५४
जपहोमव्रतात्पापं नाशं याति हि पापिनाम् ।
मदं त्यजेद्यथा नागो भयात्सिंहस्य सर्वदा ॥५५
नामोच्चारेण कृष्णस्य तत्प्रयाति हि किल्बिषम् ।
तेजसा वैनतेयस्य विषहीना इवोरगाः ॥५६
ब्रह्महत्यादिकाः पापाः प्रलयं यांति नान्यथा ।
नामोच्चारेण तस्यापि चक्रपाणेः प्रयांति ते ॥५७
यदा नामशतं पुण्यमघराशिविनाशनम् ।
सा जपेत स्थिरा भूत्वा कामक्रोधविवर्जिता ॥५८
सर्वेंद्रियाणि संयम्य आत्मज्ञानेन गोपयेत् ।
तस्य ध्यानप्रविष्टा सा एकभूता समाहिता ॥५९
सा जपेत्परमं ज्ञानं तदा मोक्षं प्रयाति च ।
तन्मनास्तत्पदे लीना योगयुक्ता यदा भवेत् ॥६०
उज्ज्वल उवाच-
वद तात परं ज्ञानं परमं मम सांप्रतम् ।
पश्चाद्ध्यान व्रतं पुण्यं नाम्नां शतमिहैव च ॥६१
कुंजल उवाच-
परं ज्ञानं प्रवक्ष्यामि यन्न दृष्टं तु केनचित् ।
श्रूयतां पुत्र कैवल्यं केवलं मलवर्जितम् ॥६२
सूत उवाच-
यथा दीपो निवातस्थो निश्चलो वायुवर्जितः।
प्रज्वलन्नाशयेत्सर्वमंधकारं महामते ॥६३
तद्वद्दोषविहीनात्मा भवत्येव निराश्रयः ।
निराशो निर्मलो वत्स न मित्रं न रिपुः कदा ॥६४
न शोको न च हर्षश्च न लोभो न च मत्सरः ।
एको विषादहर्षैश्च सुखदुःखैर्विमुच्यते ॥६५
विषयैश्चापि सर्वैश्च इंद्रियाणि स संहरेत् ।
तदा स केवलो जातः केवलत्वं प्रजायते ॥६६
अग्निकर्मप्रसंगेन दीपस्तैलं प्रशोषयेत् ।
वर्त्याधारेण राजेंद्र निःसंगो वायुवर्जितः ॥६७
कज्जलं वमते पश्चात्तैलस्यापि महामते ।
कृष्णासौ दृश्यते रेखा दीपस्याग्रे महामते ॥६८
स्वयमाकृष्यते तैलं तेजसा निर्मलो भवेत् ।
कायवर्तिस्थितस्तद्वत्कर्मतैलं प्रशोषयेत् ॥६९
विषयान्कज्जलीकृत्य प्रत्यक्षं संप्रदर्शयेत् ।
जनयेन्निर्मलोभूत्वा स्वयमेव प्रकाशयेत् ॥७०
क्रोधादिभिः क्लेशसंज्ञैर्वायुभिः परिवर्जितः ।
निःस्पृहो निश्चलो भूत्वा तेजसा स्वयमुज्ज्वलेत् ॥७१
त्रैलोक्यं पश्यते सर्वं स्वस्थानस्थः स्वतेजसा ।
केवलज्ञानरूपोऽयं मया ते परिकीर्तितः ॥७२
ध्यानं तस्य प्रवक्ष्यामि द्विविधं तस्य चक्रिणः ।
केवलज्ञानरूपेण दृश्यते ज्ञानचक्षुषा ॥७३
योगयुक्ता महात्मानः परमार्थपरायणाः ।
यं पश्यंति विनिद्रास्तु यत्तपः सर्वदर्शकम् ॥७४
हस्तपादविहीनं च सर्वत्र परिगच्छति ।
सर्वं गृह्णाति त्रैलोक्यं स्थावरं जंगमं सुत ॥७५
नासामुखविहीनस्तु घ्राति जक्षिति पुत्रक ।
अकर्णः शृणुते सर्वं सर्वसाक्षी जगत्पतिः ॥७६
अरूपो रूपसंबद्धः पंचवर्गवशंगतः ।
सर्वलोकस्य यः प्राणः पूजितः स चराचरैः ॥७७
अजिह्वो वदते सर्वं वेदशास्त्रानुगं सुत ।
अत्वचः स्पर्शनं चापि सर्वेषामेव जायते ॥७८
सदानंदो विरक्तात्मा एकरूपो निराश्रयः ।
निर्जरो निर्ममो न्यायी सगुणो निर्ममोमलः ॥७९
अवश्यः सर्ववश्यात्मा सर्वदः सर्ववित्तमः ।
तस्य धाता न चैवास्ति स वै सर्वमयो विभुः ॥८०
एवं सर्वमयं ध्यानं पश्यते यो महात्मनः ।
स याति परमं स्थानममूर्तममृतोपमम् ॥८१
द्वितीयं तु प्रवक्ष्यामि अस्य ध्यानं महात्मनः ।
मूर्ताकारं तु साकारं निराकारं निरामयम् ॥८२
ब्रह्माण्डं सर्वमतुलं वासितं यस्य वासना ।
स तस्माद्वासुदेवेति उच्यते मम नंदन ॥८३
वर्षमाणस्य मेघस्य यद्वर्णं तस्य तद्भवेत् ।
सूर्यतेजःप्रतीकाशं चतुर्बाहुं सुरेश्वरम् ॥८४
दक्षिणे शोभते शंखो हेमरत्नविभूषितः ।
सूर्यबिंबसमाकारं चक्रं पद्मप्रतिष्ठितम् ॥८५
कौमोदकी गदा तस्य महासुरविनाशिनी ।
वामे च शोभते वत्स हस्ते तस्य महात्मनः ॥८६
महापद्मं सुगंधाढ्यं तस्य दक्षिणहस्तगम् ।
शोभमानः सदैवास्ते सायुधः कमलाप्रियः ॥८७
कंबुग्रीवं वृत्तमास्यं पद्मपत्रनिभेक्षणम् ।
राजमानं हृषीकेशं दशनै रत्नसन्निभैः ॥८८
गुडाकेशाः सन्ति यस्य अधरो विद्रुमाकृतिः ।
शोभते पुंडरीकाक्षः किरीटेनापि पुत्रक ॥८९
विशालेनापि रूपेण केशवस्तु सुवर्चसा ।
कौस्तुभेनांकितेनैव राजमानो जनार्दनः ॥९०
सूर्यतेजः प्रतीकाश कुंडलाभ्यां प्रभाति च ।
श्रीवत्सांकेन पुण्येन सर्वदा राजते हरिः ॥९१
केयूरकंकणैर्हारैर्मौक्तिकैरृक्षसन्निभैः ।
वपुषा भ्राजमानस्तु विजयो जयतां वरः ॥९२
भ्राजते सोपि गोविंदो हेमवर्णेन वाससा ।
मुद्रिकारत्नयुक्ताभिरंगुलीभिर्विराजते ॥९३
सर्वायुधैः सुसंपूर्णैर्दिव्यैराभरणैर्हरिः ।
वैनतेयसमारूढो लोककर्ता जगत्पतिः ॥९४
एवंतं ध्यायते नित्यमनन्यमनसा नरः ।
मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति ॥९५
एतत्ते सर्वमाख्यातं ध्यानमेव जगत्पतेः ।
व्रतं चैव प्रवक्ष्यामि सर्वपापनिवारणम् ॥९६
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थवर्णने षडशीतितमोऽध्यायः ८६