सामग्री पर जाएँ

ऋग्वेदः सूक्तं २.३

विकिस्रोतः तः
← सूक्तं २.२ ऋग्वेदः - मण्डल २
सूक्तं २.३
गृत्समद (आङ्गिरसः शौनहोत्रः पश्चाद्) भार्गवः शौनकः
सूक्तं २.४ →
दे. आप्रीसूक्तं (१ इध्मः समिद्धोऽग्निर्वा, २ तनूनपात्, ३ इळः, ४ बर्हिः, ५ देवीर्द्वारः, ६ उषासानक्ता, ७ दैव्यौ होतारौ प्रचेतसौ, ८ तिस्रो देव्यः सरस्वतीळाभारत्यः, ९ त्वष्टा, १० वनस्पतिः, ११ स्वाहाकृतयः )।त्रिष्टुप्, ७ जगती


समिद्धो अग्निर्निहितः पृथिव्यां प्रत्यङ्विश्वानि भुवनान्यस्थात् ।
होता पावकः प्रदिवः सुमेधा देवो देवान्यजत्वग्निरर्हन् ॥१॥
नराशंसः प्रति धामान्यञ्जन्तिस्रो दिवः प्रति मह्ना स्वर्चिः ।
घृतप्रुषा मनसा हव्यमुन्दन्मूर्धन्यज्ञस्य समनक्तु देवान् ॥२॥
ईळितो अग्ने मनसा नो अर्हन्देवान्यक्षि मानुषात्पूर्वो अद्य ।
स आ वह मरुतां शर्धो अच्युतमिन्द्रं नरो बर्हिषदं यजध्वम् ॥३॥
देव बर्हिर्वर्धमानं सुवीरं स्तीर्णं राये सुभरं वेद्यस्याम् ।
घृतेनाक्तं वसवः सीदतेदं विश्वे देवा आदित्या यज्ञियासः ॥४॥
वि श्रयन्तामुर्विया हूयमाना द्वारो देवीः सुप्रायणा नमोभिः ।
व्यचस्वतीर्वि प्रथन्तामजुर्या वर्णं पुनाना यशसं सुवीरम् ॥५॥
साध्वपांसि सनता न उक्षिते उषासानक्ता वय्येव रण्विते ।
तन्तुं ततं संवयन्ती समीची यज्ञस्य पेशः सुदुघे पयस्वती ॥६॥
दैव्या होतारा प्रथमा विदुष्टर ऋजु यक्षतः समृचा वपुष्टरा ।
देवान्यजन्तावृतुथा समञ्जतो नाभा पृथिव्या अधि सानुषु त्रिषु ॥७॥
सरस्वती साधयन्ती धियं न इळा देवी भारती विश्वतूर्तिः ।
तिस्रो देवीः स्वधया बर्हिरेदमच्छिद्रं पान्तु शरणं निषद्य ॥८॥
पिशङ्गरूपः सुभरो वयोधाः श्रुष्टी वीरो जायते देवकामः ।
प्रजां त्वष्टा वि ष्यतु नाभिमस्मे अथा देवानामप्येतु पाथः ॥९॥
वनस्पतिरवसृजन्नुप स्थादग्निर्हविः सूदयाति प्र धीभिः ।
त्रिधा समक्तं नयतु प्रजानन्देवेभ्यो दैव्यः शमितोप हव्यम् ॥१०॥
घृतं मिमिक्षे घृतमस्य योनिर्घृते श्रितो घृतम्वस्य धाम ।
अनुष्वधमा वह मादयस्व स्वाहाकृतं वृषभ वक्षि हव्यम् ॥११॥


सायणभाष्यम्

' समिद्धो अग्निः ' इत्येकादशर्चं तृतीयं सूक्तं गार्त्समदं त्रैष्टुभम् । सप्तमी जगती । समिद्धोऽग्निरग्निना नराशंसतनूनपादादय एकादश प्रयाजदेवताः । ' समिद्ध एकादशाप्रं सप्तमी जगती ' इत्यनुक्रमणिका । पशौ शुनकानामिदमाप्रीसूक्तम् । गृत्समदस्यापि शुनकत्वात् । ' समिद्धो अग्निरिति शुनकानाम् ' ( आश्व. श्रौ. ३.२) इति हि सूत्रितम् ।


समि॑द्धो अ॒ग्निर्निहि॑तः पृथि॒व्यां प्र॒त्यङ्विश्वा॑नि॒ भुव॑नान्यस्थात् ।

होता॑ पाव॒कः प्र॒दिवः॑ सुमे॒धा दे॒वो दे॒वान्य॑जत्व॒ग्निरर्ह॑न् ॥१

सम्ऽइ॑द्धः । अ॒ग्निः । निऽहि॑तः । पृ॒थि॒व्याम् । प्र॒त्यङ् । विश्वा॑नि । भुव॑नानि । अ॒स्था॒त् ।

होता॑ । पा॒व॒कः । प्र॒ऽदिवः॑ । सु॒ऽमे॒धाः । दे॒वः । दे॒वान् । य॒ज॒तु॒ । अ॒ग्निः । अर्ह॑न् ॥१

संऽइद्धः । अग्निः । निऽहितः। पृथिव्यां। प्रत्यङ्। विश्वानि। भुवनानि। अस्थात् ।

होता। पावकः । प्रऽदिवः। सुऽमेधाः । देवः । देवान् यजतु । अग्निः । अर्हन् ॥१॥

पृथिव्यां वेदिलक्षणायां समिद्धः सम्यक्दीप्तः एतन्नामकोग्निः निहितः स्थापितः सन् विश्वानि सर्वाणि भुवनानि भूतजातानि प्रत्यङ् अभिमुखः सन् अस्थात् तिष्ठति यथा सर्वे जनाः पश्यन्ति तथा प्रवृद्धोभवदित्यर्थ: किञ्च सोग्निर्होता होमनिष्पादको देवानामाह्वाता वा पावकः शोधकः प्रदिवः पुराणः सुमेधाः शोभनप्रज्ञो देवो द्योतमानः एवं महानुभावोग्निः अर्हन् यागयोग्यः सन् देवान्यजतु अत्र यष्टव्यानिन्द्रादीन्पूजयतु ॥ १ ॥


नरा॒शंस॒ः प्रति॒ धामा॑न्य॒ञ्जन्ति॒स्रो दिव॒ः प्रति॑ म॒ह्ना स्व॒र्चिः ।

घृ॒त॒प्रुषा॒ मन॑सा ह॒व्यमु॒न्दन्मू॒र्धन्य॒ज्ञस्य॒ सम॑नक्तु दे॒वान् ॥२

नरा॒शंसः॑ । प्रति॑ । धामा॑नि । अ॒ञ्जन् । ति॒स्रः । दिवः॑ । प्रति॑ । म॒ह्ना । सु॒ऽअ॒र्चिः ।

घृ॒त॒ऽप्रुषा॑ । मन॑सा । ह॒व्यम् । उ॒न्दन् । मू॒र्धन् । य॒ज्ञस्य॑ । सम् । अ॒न॒क्तु॒ । दे॒वान् ॥२

नराशंसः। प्रतिं । धामानि । अंजन्। तिस्रः। दिवः। प्रति । मह्ना। सुऽअर्चिः।

घृतऽप्रुषा। मनसा। हव्यं । उंदन् । मूर्धन् । यज्ञस्य । सं । अनक्तु । देवान् ॥२॥

नराशंसः नरैर्नेतृभिर्ऋत्विग्भिः शंसनीय एतन्नामकोग्निः स्वर्चिः शोभनज्वालः सन् धामानि स्थानानि आहुत्यधिकरणानि तेजांसि प्रति प्रत्येकं मह्ना स्वमहिम्ना अञ्जन् व्यक्तीकुर्वन् तिस्रो दिवः द्योतमानांस्त्रीन्भूम्यादिलोकांश्च प्रति प्रत्येकमञ्जन् स्थित्या भूमिं प्रकाशेनान्तरिक्षं हविः प्रापणे न दिवमित्यभिप्रायः यद्वा लोकानां प्रत्येकं त्रित्वोपेतत्वात् तिस्रो दिव इत्यविरुद्धं तिस्रो दिवः पृथिवीस्तिस्र इत्यादि मन्त्रवर्णात । त्रयो वा इमे त्रिवृतो लोका इति ब्राह्मणाच्च । तथा घृतप्रुषा घृतंसिञ्चता मनसा हव्यं उन्दन् क्लेदयन् स्निग्धीकुर्वन् यज्ञस्य मूर्धन् मूर्धनि मुखे होमसमये देवान्यष्टव्यान् समनक्तु सम्यक् व्यक्तीकरोतु तर्पयत्वित्यर्थः ॥ २ ॥


ई॒ळि॒तो अ॑ग्ने॒ मन॑सा नो॒ अर्ह॑न्दे॒वान्य॑क्षि॒ मानु॑षा॒त्पूर्वो॑ अ॒द्य ।

स आ व॑ह म॒रुतां॒ शर्धो॒ अच्यु॑त॒मिन्द्रं॑ नरो बर्हि॒षदं॑ यजध्वम् ॥३

ई॒ळि॒तः । अ॒ग्ने॒ । मन॑सा । नः॒ । अर्ह॑न् । दे॒वान् । य॒क्षि॒ । मानु॑षात् । पूर्वः॑ । अ॒द्य ।

सः । आ । व॒ह॒ । म॒रुता॑म् । शर्धः॑ । अच्यु॑तम् । इन्द्र॑म् । न॒रः॒ । ब॒र्हि॒ऽसद॑म् । य॒ज॒ध्व॒म् ॥३

ईळितः । अग्ने। मनसा। नः । अर्हन्। देवान् । यक्षि । मानुषात् । पूर्वः। अद्य।

सः । आ। वह । मरुतां । शर्धः। अच्युतं । इंद्रं। नरः । बर्हिऽसदं। यजध्वं ॥३॥

हे अग्ने ईळितोस्माभिः स्तुतः सन् मनसा स्मदनुरक्तेन देवानां यागबुद्ध्या वा अर्हन यागयोग्यः सन् मानुषाद्धोतुः पूर्वः पूर्वभावी नो स्मदर्थमद्यास्मिन्दिने देवान्यष्टव्यान्यक्षि त्वमेव यजसि स तादृशो यष्टा त्वमावह आकारय कान् मरुतां शर्धोगणं अच्युतमक्षीणमिन्द्रं तदविंनाभूतमिन्द्रमपि यद्वा मरुद्बलोपेतमिन्द्रं अनन्तरं हे नरो नेतार ऋत्विजः बर्हिषदं बर्हिषि सीदन्तं तमिन्द्रं यजध्वं पूजयध्वम् ॥ ३ ॥


देव॑ बर्हि॒र्वर्ध॑मानं सु॒वीरं॑ स्ती॒र्णं रा॒ये सु॒भरं॒ वेद्य॒स्याम् ।

घृ॒तेना॒क्तं व॑सवः सीदते॒दं विश्वे॑ देवा आदित्या य॒ज्ञिया॑सः ॥४

देव॑ । ब॒र्हिः॒ । वर्ध॑मानम् । सु॒ऽवीर॑म् । स्ती॒र्णम् । रा॒ये । सु॒ऽभर॑म् । वेदी॒ इति॑ । अ॒स्याम् ।

घृ॒तेन॑ । अ॒क्तम् । व॒स॒वः॒ । सी॒द॒त॒ । इ॒दम् । विश्वे॑ । दे॒वाः॒ । आ॒दि॒त्याः॒ । य॒ज्ञिया॑सः ॥४

देव। बर्हिः। वर्धमानं । सुऽवीरं। स्तीर्णं। राये । सुऽभरं। वेदी इति । अस्यां । घृतेन । अक्तं । वसवः । सीदत । इदं । विश्वे । देवाः । आदित्याः । यज्ञियासः ॥ ४॥

हे बर्हिः देव एतदभिमानिन्नग्ने वर्धमानं सुवीरं शोभन वीरसंपादकं सुभरं सुपूर्णंस्तीर्णं अस्मदीयैर्ऋत्विग्भिरास्तृतं भव किमर्थं राये धनाय अस्यां वेदी वेद्यां सप्तम्यर्थे प्रगृह्यसंज्ञा संहितायां यणादेशश्छान्दसः घृतेनाज्येनाक्तमिदं स्निग्धं बर्हिः सीदत के हे वसवः एतन्नामकाः हे विश्वे सर्वे देवाः हे आदित्याः यज्ञियासो यज्ञार्हास्ते यूयमिदं बर्हिः सीदत अस्मिन्बर्हिषि निषीदतेत्यर्थः॥४॥


वि श्र॑यन्तामुर्वि॒या हू॒यमा॑ना॒ द्वारो॑ दे॒वीः सु॑प्राय॒णा नमो॑भिः ।

व्यच॑स्वती॒र्वि प्र॑थन्तामजु॒र्या वर्णं॑ पुना॒ना य॒शसं॑ सु॒वीर॑म् ॥५

वि । श्र॑यन्ताम् । उ॒र्वि॒या । हू॒यमा॑नाः । द्वारः॑ । दे॒वीः । सु॒प्र॒ऽअ॒य॒नाः । नमः॑ऽभिः ।

व्यच॑स्वतीः । वि । प्र॒थ॒न्ता॒म् । अ॒जु॒र्याः । वर्ण॑म् । पु॒ना॒नाः । य॒शस॑म् । सु॒ऽवीर॑म् ॥५

वि । श्रयंतां । उर्विया । हूयमानाः । द्वारः । देवीः। सुप्रऽअयनाः। नमःऽभिः।

व्यचस्वतीः। वि। प्रथंतां । अजुर्याः । वर्णं। पुनानाः । यशसं। सुऽवीरं ॥५॥

द्वारोदेवीः अग्नेर्द्वाराभिमानिन्यो देव्यो विश्रयन्तां विविच्यश्रयन्तां विवृतापिधाना भवन्तु कीदृशस्ताः उर्विया उर्व्यः महत्यः नमोभिर्नमस्कारोपेतैः स्तोत्रैर्हूयमानाः सुप्रायणाः सुष्ठु प्रकर्षेण गन्तव्याः ईदृश्यो देव्यो विश्रयन्तां किञ्च व्यचस्वतीः व्याप्तिमत्यः अजुर्याः अहिंस्याः अजननावा सुवीरं शोभनपुत्राद्युपेतं यशसं यशोयुक्तं वर्णं वर्णनीयं रूपविशेषं पुनानाः यजमानाय शोधयित्र्यः संपादयित्र्यो देव्यो विप्रथन्तां विशेषेण प्रख्याता भवन्तु ॥ ५ ॥


सा॒ध्वपां॑सि स॒नता॑ न उक्षि॒ते उ॒षासा॒नक्ता॑ व॒य्ये॑व रण्वि॒ते ।

तन्तुं॑ त॒तं सं॒वय॑न्ती समी॒ची य॒ज्ञस्य॒ पेशः॑ सु॒दुघे॒ पय॑स्वती ॥६

सा॒धु । अपां॑सि । स॒नता॑ । नः॒ । उ॒क्षि॒ते इति॑ । उ॒षसा॒नक्ता॑ । व॒य्या॑ऽइव । र॒ण्वि॒ते इति॑ ।

तन्तु॑म् । त॒तम् । सं॒वय॑न्ती॒ इति॑ स॒म्ऽवय॑न्ती । स॒मी॒ची इति॑ स॒म्ऽई॒ची । य॒ज्ञस्य॑ । पेशः॑ । सु॒दुघे॒ इति॑ सु॒ऽदुघे॑ । पय॑स्वती॒ इति॑ ॥६

साधु । अपांसि। सनता। नः। उक्षिते इति। उषसानक्ता। वय्याऽइव । रण्विते इति।

तंतुं । ततं । संवयंती इति संऽवयंती । समीची इति संऽईची। यज्ञस्य । पेशः । सुदुघे इति सुऽदुघे । पयस्वती इति ॥६॥

साधु साधूनि नोस्मदीयानि अपांसि कर्माणि उद्दिश्य सनता सनातनेन अविच्छिन्न प्रवृत्तिकेन स्तोत्रादिना उक्षिते पूजिते यद्वा पुराणवाची विभक्तयन्तः सनच्छब्दोस्ति तस्य प्रथमाद्विवचनस्याकारः सनातने नित्ये इत्यर्थः अस्मिन्पक्षे उक्षिते फलस्य सेचयित्र्यौ कर्तरिनिष्ठा उषासानक्ता अहोरात्रदेवते वय्या इव कुशले इव रण्विते शब्दिते स्तुते परस्परं गच्छन्त्यौ वा ततं विस्तृतं तन्तुं तन्तुस्थानीयं यज्ञावयवं संवयन्ती सम्यक् चित्रं सहवा वयन्त्यौ उत्पादयित्र्यौ समीची सम्यक्प्रवृतिके, परस्परानुकूले किमर्थं संवयन्ती यज्ञस्यानुष्ठीयमानस्य पेशेो रूपं निमातुमिति शेषः यज्ञं निवर्तयितुं तदवयवानुक्रमेणानुष्ठापयित्र्यावित्यर्थः अहोरात्राभ्यां हि यज्ञास्तन्यन्ते सुदुघे सुष्ठु फलस्य दोग्ध्र्यौ पयस्वती उदकवत्यौ अहोरात्राभ्यां खलु वृष्टिर्जायते एवं महानुभावे अहोरात्रदेवते अस्मद्यज्ञं निर्वहतामित्यर्थः ॥ ६ ॥


दैव्या॒ होता॑रा प्रथ॒मा वि॒दुष्ट॑र ऋ॒जु य॑क्षत॒ः समृ॒चा व॒पुष्ट॑रा ।

दे॒वान्यज॑न्तावृतु॒था सम॑ञ्जतो॒ नाभा॑ पृथि॒व्या अधि॒ सानु॑षु त्रि॒षु ॥७

दैव्या॑ । होता॑रा । प्र॒थ॒मा । वि॒दुःऽत॑रा । ऋ॒जु । य॒क्ष॒तः॒ । सम् । ऋ॒चा । व॒पुःऽत॑रा ।

दे॒वान् । यज॑न्तौ । ऋ॒तु॒ऽथा । सम् । अ॒ञ्ज॒तः॒ । नाभा॑ । पृ॒थि॒व्याः । अधि॑ । सानु॑षु । त्रि॒षु ॥७

दैव्या। होतारा। प्रथमा। विदुःऽतरा। ऋजु । यक्षतः । सं । ऋचा । वपुःऽतरा।

देवान्। यजंतौ।ऋतुऽथा।सं। अंजतः। नाभा। पृथिव्याः। अधि। सानुषु। त्रिषु ॥७॥

दैव्या दिविभवो दिव्योग्निः तस्माद्दिव्यादग्नेर्जातौ होतारा आह्वातारौ देवानां होमनिष्पादकौवाग्नी पार्थिवान्तरिक्ष्यौ प्रथमा प्रथमं यष्टव्यौ विदुष्टरा विद्वत्तमौ वपुष्टरा प्रकृष्टवपुषौ देवावृचा मन्त्रेण ऋजु अविकलं यथा तथा सम्यक्यक्षतः पूजयतः ऋतुथा तत्तदृतौ तत्र तत्र काले देवान् यष्टव्यान्यजन्तौ देवौ पृथिव्याः नाभा नाभौ उत्तरवेद्या अधि उपरि त्रिषु सानुषु समुच्छ्रितेषु प्रदेशेषु गार्हपत्यादिषु समञ्जतः समांक्तां अञ्जतेर्लेटयडागमः ॥ ७ ॥


सर॑स्वती सा॒धय॑न्ती॒ धियं॑ न॒ इळा॑ दे॒वी भार॑ती वि॒श्वतू॑र्तिः ।

ति॒स्रो दे॒वीः स्व॒धया॑ ब॒र्हिरेदमच्छि॑द्रं पान्तु शर॒णं नि॒षद्य॑ ॥८

सर॑स्वती । सा॒धय॑न्ती । धिय॑म् । नः॒ । इळा॑ । दे॒वी । भार॑ती । वि॒श्वऽतू॑र्तिः ।

ति॒स्रः । दे॒वीः । स्व॒धया॑ । ब॒र्हिः । आ । इ॒दम् । अच्छि॑द्रम् । पा॒न्तु॒ । श॒र॒णम् । नि॒ऽसद्य॑ ॥८

सरस्वती । साधयंती । धियं । नः । इळा । देवी। भारती। विश्वऽतूर्तिः ।

तिस्रः। देवीः । स्वधया । बर्हिः। आ। इदं। अच्छिद्रं । पांतु । शरणं । निऽसद्य ॥८॥

नोस्मदीयां धियं बुद्धिं यागं वा साधयन्ती निवर्तयन्ती सरस्वती इळा एतन्नामिका देवी भारती च विश्वतूर्तिर्विश्वानि तूर्णानि यस्याः सा तादृशी सर्वविषयगता वाक् एतदुभयविशेषणं तिस्रोदेवीः एतास्तिस्रोदेव्यः स्वधया अस्मद्दत्तहविषा निमित्तेनेदं बर्हिर्यज्ञं अच्छिद्रं यथा तथा पान्तु किं कृत्वा शरणं यागगृहं आानिषद्य अाश्रित्य यद्वा स्वधयेदं बर्हिरिमं यज्ञमागत्यास्मदीयं शरणं गृहं निषद्याच्छिद्रं यथा तथा पान्तु ॥ ८ ॥


अथ पिशङ्गरूप इति नवमी त्वाष्ट्रेपशौ पुरोडाशस्य याज्या पिशङ्गरूपः सुभरो वयोधाः प्रथमभाजं यशसं वयोधामिति सूत्रितत्वात् ।

पि॒शङ्ग॑रूपः सु॒भरो॑ वयो॒धाः श्रु॒ष्टी वी॒रो जा॑यते दे॒वका॑मः ।

प्र॒जां त्वष्टा॒ वि ष्य॑तु॒ नाभि॑म॒स्मे अथा॑ दे॒वाना॒मप्ये॑तु॒ पाथः॑ ॥९

पि॒शङ्ग॑ऽरूपः । सु॒ऽभरः॑ । व॒यः॒ऽधाः । श्रु॒ष्टी । वी॒रः । जा॒य॒ते॒ । दे॒वऽका॑मः ।

प्र॒ऽजाम् । त्वष्टा॑ । वि । स्य॒तु॒ । नाभि॑म् । अ॒स्मे इति॑ । अथ॑ । दे॒वाना॑म् । अपि॑ । ए॒तु॒ । पाथः॑ ॥९

पिशंगऽरूपः । सुऽभरः। वयः ऽधाः । श्रुष्टी । वीरः। जायते । देवऽकामः ।

प्रजां। त्वष्टा । वि। स्यतु। नाभिं । अस्मे इति । अथ । देवानां । अपि। एतु। पाथः॥९॥

पिशङ्गरूपः सुवर्णवर्ण: नानारूपो वा सुभरः शोभनयज्ञः शोभनभरणो वा वयोधा वयसोन्नस्य धारयिता दाता वा श्रुष्टी क्षिप्रगुणः वीरो विविधमीरयिता देवकामः देवाः काम्यन्ते येन तादृशः पुत्रो जायते जायतामुत्पाद्यतां त्वष्टुरनुग्रहात् स च त्वष्टा एतनामको देवो स्मेस्मभ्यं नाभिं कुलस्यबन्धिकां प्रजां पुत्रादिरूपां विष्यतु विमुञ्चतु वितरत्वित्यर्थः अथ अपि च देवानां संबन्धि पाथोन्नमप्यस्मानेतु गच्छतु अपिःक्रियया वा संबध्यते गच्छत्वित्यर्थः ॥ ९ ॥


वन॒स्पति॑रवसृ॒जन्नुप॑ स्थाद॒ग्निर्ह॒विः सू॑दयाति॒ प्र धी॒भिः ।

त्रिधा॒ सम॑क्तं नयतु प्रजा॒नन्दे॒वेभ्यो॒ दैव्यः॑ शमि॒तोप॑ ह॒व्यम् ॥१०

वन॒स्पतिः॑ । अ॒व॒ऽसृ॒जन् । उप॑ । स्था॒त् । अ॒ग्निः । ह॒विः । सू॒द॒या॒ति॒ । प्र । धी॒भिः ।

त्रिधा॑ । सम्ऽअ॑क्तम् । न॒य॒तु॒ । प्र॒ऽजा॒नन् । दे॒वेभ्यः॑ । दैव्यः॑ । श॒मि॒ता । उप॑ । ह॒व्यम् ॥१०

वनस्पतिः । अवऽसृजन्। उप। स्थात् । अग्निः। हविः । सूदयाति । प्र। धीभिः।।

त्रिधा। संऽअक्तं । नयतु । प्रऽजानन् । देवेभ्यः। दैव्यः । शमिता । उप। हव्यं॥१०॥

वनस्पति यूपाभिमानी एतन्नामकोग्निः अवसृजन् अस्मदीयकर्मानुजानन् उपास्मत्समीपे स्थात्तिष्ठतु अग्निः पाकाधारोग्निश्च हविः पशुरुपं धीभिः कर्मविशेषैःपाकसाधनैः प्र प्रकर्षेण सूदयाति क्षारयति अपाकाधिकपाकादिराहित्येन हविः पचतीत्यर्थः किञ्च दैव्यौ देवसंबन्धीआहुत्यधिकरणभूतोग्निः शमिता हविषः संस्कर्ता यद्वा दैव्यः शमिता एतन्नामकोग्निः अग्निर्वै देवानां शमितेति श्रूयते । त्रिधा त्रिप्रकारं उपस्तरणावदानाभिघारणैः समक्तं सम्यक्सिक्तं हव्यं हविः प्रजानन् विद्वान्नयनप्रकाराभिज्ञः सन् देवेभ्य उपनयतु समीपं प्रापयतु ॥ १० ॥


घृ॒तं मि॑मिक्षे घृ॒तम॑स्य॒ योनि॑र्घृ॒ते श्रि॒तो घृ॒तम्व॑स्य॒ धाम॑ ।

अ॒नु॒ष्व॒धमा व॑ह मा॒दय॑स्व॒ स्वाहा॑कृतं वृषभ वक्षि ह॒व्यम् ॥११

घृ॒तम् । मि॒मि॒क्षे॒ । घृ॒तम् । अ॒स्य॒ । योनिः॑ । घृ॒ते । श्रि॒तः । घृ॒तम् । ऊं॒ इति॑ । अ॒स्य॒ । धाम॑ ।

अ॒नु॒ऽस्व॒धम् । आ । व॒ह॒ । मा॒दय॑स्व । स्वाहा॑ऽकृतम् । वृ॒ष॒भ॒ । व॒क्षि॒ । ह॒व्यम् ॥११

घृतं । मिमिक्षे । घृतं । अस्य । योनिः । घृते । श्रितः। घृतं । ऊं इति । अस्य। धाम ।

अनुऽस्वधं । आ। वह । मादयस्व । स्वाहाऽकृतं । वृषभ । वक्षि । हव्यं ॥११॥

अस्याग्नेर्घृतमाज्यं मिमिक्षे सिञ्चामि यतोस्य घृतं योनिःकारणं उत्पन्नोपि घृते श्रितः आश्रितः अस्याग्नेर्घृ तमेव धाम तेजः घृतेन ह्ययं दीप्यते इदानीं संबोध्योच्यते- हे अग्ने वृषभ फलस्य वर्षितस्त्वं अनुष्वधं प्रति हविः सर्वेष्वपि हविःषु दीयमानेषु आवह देवान् आहूय तान्माद्यस्व प्रीणय ततस्त्वं स्वाहाकृतं स्वाहाकारेण दत्तं हव्यं चरुपुरोडाशादि वक्षि वह ॥ ११ ॥


॥ इतिद्वितीयस्य पञ्चमे त्रयोविंशोवर्गः ॥ २३ ॥


टिप्पणी

आप्रीसूक्त- (हौ०) पशुयज्ञेषु ऐन्द्राग्नप्रकृतिके निरूढपशुबन्धप्रकरणे अग्नीषोमीये तत्प्रकृतिकेषु सौमिकेषु पशुषु च १. एकादशानां प्रयाजानां दश प्रयाजयाज्यारूपाणि सूक्तानि आप्रीसूक्तानि भवन्ति । तेषां विधाने चत्वारः पक्षा विद्यन्ते । तत्र २. पक्षः‘समिद्धो आग्निर्निहितः' (ऋ० २।३) इति, शुनकगोत्रिणां यजमानां आप्रीसूक्तं भवति । ‘जुषस्व न सामिधमग्ने' (ऋ० ७ ।२) इति वसिष्ठगोत्रिगोत्रिणां आप्रीसूक्तम् । ‘समिद्धो अद्य' (ऋ० १० ॥११०) इति जामदग्न्यं शुनकवसिष्ठशिष्टानां सर्वेषां गोत्रिणां आप्रीसूक्तम् । (तु०- आ०श्रौ० ३ ।२।६ नारायणः) । श्रौ०प०नि पृ० १४४ यथा ऋषिपक्षः- यस्य यस्य यजमानस्य यो य ऋषिः (गौत्रर्षिः) स तद्ऋषिदृष्टं आप्रीसूक्तं गृह्णीयात् । तद्विवेकार्थं भगवता शौनकेन अक्रमण्यां ‘कण्वाङ्गिरोऽगस्त्यशुनका विश्वामित्रोऽत्रिरेव च । वसिष्ठः कश्यपो वाध्र्यश्वो जमदग्निरथोत्तमः ॥ इति श्लोक उक्तः । तत्र कण्वादयो जमदग्न्यन्ता दश ऋषयोऽभिहिता: । तेषां सूक्तान्यपि दशैव । तत्र दशानां सूक्तानां प्रथमं ‘सुसमिद्धो न आ वह' (ऋ० १।१३) इति कण्वानां आप्रीसूक्तम् । द्वितीयं ‘समिद्धो अग्न आवह' (ऋ० १ ॥१४२) इत्यङ्गिरसाम् । तृतीयं ‘समिद्धो अद्य राजसि' (ऋ० १।१८८) इत्यगस्तीनाम् । चतुर्थं ‘समिद्धो अग्निर्निहितः’ (ऋ० २।३) इति शुनकानाम् । पञ्चमं समित् समित् समनाः' (ऋ० ३ ।४) इति विश्वामित्राणाम् । षष्ठं ‘सु समिद्धाय शोचिषे’ (ऋ० ५ ।५) इत्यत्रीणाम् । सप्तमं जुषस्व न: समिधम् (ऋ० ७ ।२) इति वसिष्ठानाम् । अष्टमं ‘समिद्धौ विश्वतस्पति:’ (ऋ० ९ ॥५) इति कश्यपानाम् नवमं ‘इमां मे अग्ने समिधम्’ (ऋ० १० ॥७०) इति वाध्र्यश्वानाम् । दशमं ‘समिद्धो अद्य मनुषो दुरेणे' (ऋ० १० ।११०) इति शुनकवाध्र्यश्ववर्जितानां भृगूणां (जमदग्नीनाम्। इति यथर्षिपक्षः ।) ३. यः अनुक्तगोत्राणामन्येषां यजमानानामिदमेवाप्रीसूक्तं ग्रहीतव्यम् । ४. अग्निचयने प्राजापत्ये पशौ तु वसिष्ठशुनकसहितानां सर्वेषां यजमानानामिदमेव आप्रीसूक्तं बोध्यम्। (तु०-आ०श्रौ० ३ ॥६॥७-८ नारायणः) प्रेषितो मैत्रावरुणः यथोक्तैः समित्प्रैषादिप्रैषैः होतारं प्रेषयति । होता पूर्वोक्तयजमानगोत्रानुसारेण तत्तत्सूक्तगता आप्रीसंज्ञकयाज्याः पठति द्र० श्रौ०प०नि० पृ० ११ ४४-४५ तथा २. प्रयाजसंबन्धिन्यो याज्या ऋचो यत्र पठितास्तानि सूक्तान्याप्रीसूक्तानीति गीयन्ते । तत्र होत्रा प्रशास्त्रे दण्डप्रदानानन्तरं प्रशास्ता दण्डं प्रतिगृह्य उत्तरेण होतारमतिव्रजेत् । दक्षिणेन दण्डं हरेत्, न चानेन क्वचिदपि संस्पृशेत् आप्रैषवचनात् । होतृषदनात् दक्षिणतः प्रह्वोऽवस्थाय वेद्यां दण्डमवष्टव्यं ब्रूयात् ।। प्रैषांश्चादेशं. .. .. उपविश्य अन्यत् पठेत् । होता तु दण्डप्रदानानन्तरे होतृषदनस्य पश्चादवस्थाय अहेर्दौधषव्य' इत्यादिमन्त्रेण होतृषदनाभिमन्त्रेणादि स्रुगादापनान्तं प्रकृतिवत् करोति । अध्वर्युप्रैषितो मैत्रावरुणः समित्प्रैषादिप्रैषैर्होतारं प्रेष्यति । होता यजमानगोत्रानुसारेण तत्तत्सूक्तागता आप्रीसंज्ञकयाज्याः पठति (आगूर्वषट्कारजपसहिताः) इति प्रयोगविशेषोऽवगन्तव्यः । तत्र शौनकगोत्रस्य यजमानस्य ‘समिद्धो अग्निर्निहितः पृथिव्याम्’ इत्याप्रीसूक्तं भवति । वासिष्ठगोत्रस्य ‘जुषस्व नः समिधम्’ इति सूक्तम् । अन्येषां सर्वेषां ‘समिद्धो अद्य मनुषो दुरोणे’ इति सूक्तम् । इत्येकः पक्षः। ‘सुसमिद्धो न आवह’ इति काण्वगोत्रस्याप्रीसूक्तम् । ‘समिद्धो अग्न आवह' इत्याङ्गिरसगोत्रस्य ‘समिद्धो अद्य राजसि’ इत्यागस्त्यगोत्रस्य । ‘समित्समित्सगना' इति विश्वामित्राणाम् । ‘समिद्धोऽद्यशो त्रिषे’ इत्यात्रेयस्य। ‘समिद्धो विश्वतस्परि इति काश्यपगोत्रस्य। ‘इमां मे अग्ने समिद्धं जुषस्व' इति वाध्र्यश्व गोत्रस्य।’ समिद्धो अद्य मनुषो दुरोणे इति जामदग्न्यगोत्रस्य अनुक्तानां च। इति द्वितीय: पक्षः । द्र० श्रौ०प०नि० पृ० १४३-४५ । ३. दाशतमीषु दशैवाप्रीसूक्तानि (तु०- शा०श्रौ० ५ ॥१६ ६ भाष्यम्) । द्र० आप्रीसूक्त--।। - श्रौतयज्ञप्रक्रिया-पदार्थानुक्रमकोषः। प्रणेता – पण्डित पीताम्बरदत्त शास्त्री(राष्ट्रियसंस्कृतसंस्थानम्, नवदेहली)

आप्री
१. आप्रीभिराप्नुवन् । तदाप्रीणामाप्रित्वम् । तैब्रा २,२, ८, ६
२. आप्रीभिराप्रीणाति (तद्यदाप्रीणाति तस्मादाप्रियो नाम [कौ) । ऐ २,४

  • सर्वेण ह वा एष आत्मना सर्वेण मनसा यज्ञम् सम्भरते यो यजते । तस्य रिरिचान इव आत्मा भवति । तम् अस्य एताभिर् आप्रीभिर् आप्रीणाति । - कौ १०,३

३. तद्यदेनम् (मृतपशुम्) एताभिराप्रीभिराप्रीणात्तस्मादाप्रियो नाम । माश ११,८, ३,५
४. तमेताभिराप्रीभिराप्याययन्ति तद्यदाप्याययन्ति तस्मादाप्रियो नाम । माश ३,८, १,२
५. ताभिः (आप्रीभिः) स (प्रजापतिः) मुखत आत्मानमाऽप्रीणीत । तैसं ५,१, ८, ३-४
६. तेजो वै ब्रह्मवर्चसमाप्रियः । ऐ.ब्रा. २,४
७. प्राणा वा आप्रियः । कौ १८,१२
८. मेध आप्रीषु । काठ ३४,१५ ।
९. यदाप्रियो भवन्ति यज्ञमेवाप्रीणाति । काठ २२,१ ।
१०. यदेता आप्रियो भवन्ति यज्ञमेवैताभिर्यजमान आप्रीणीते । मै ३,९,६ ।
११. यदेतान्याप्रिय आज्यानि भवन्त्यात्मानमेवैतैराप्रीणाति । तां १५,८, २, १६,५,२३

प्रियव्रतोपरि टिप्पणी

According to Sayana (RV I.13), there are 12 āprī sukta. Of the ten āprī sukta, R̥gveda commented by Gargya Narayana, RV I.13 and I.142 invoke Narāśaṁsa and Tanūnapāt manifestations of Agni. RV I.188, III.4, IX.5 and X.110 invoke only Tanūnapāt manifestation. RV II.3, V.5, VII.2 and X.70 invoke only Narāśaṁsa manifestation.

२.३.१ समिद्धो अग्निः इति
इध्मः
ध्मा प्रपूरणशब्दो य इध्मा नाम प्रकीर्त्यते ।
पूरितस्यागतिर्येन तेनेध्मस्त्वं भविष्यसि ।। वराहपुराणम् १८.२६ ।।
ध्मा शब्दस्य विनियोजनं प्रायः अयसः ध्मानाय एव भवति। किन्तु अत्र प्रपूरणे अस्ति। यथा उल्लिखितमस्ति, इध्मस्य उन्नतं रूपं समित् अस्ति। समित् अर्थात् समिति, सममिति। अस्मिन् जगते सममितेः ह्रासं अस्ति, येन कारणेन सममितेः प्रपूरणाय वयं भोजनं कुर्वामः। सममितेः आधुनिकं व्याख्या श्री गोवान कृतमस्ति। विष्णु पुराणस्य १.८.१९ कथनमस्ति - लक्ष्मी इध्मा, विष्णुः कुशः। कुशोपरि टिप्पणी


२.३.११ घृतं मिमिक्षे इति
त्रिधा हितं पणिभिर्गुह्यमानं गवि देवासो घृतमन्वविन्दन् । इन्द्र एकं सूर्य एकं जजान वेनादेकं स्वधया निष्टतक्षुः ॥ - ऋ. ४.५८.४

घृतोपरि टिप्पणी

मण्डल २

सूक्तं २.१

सूक्तं २.२

सूक्तं २.३

सूक्तं २.४

सूक्तं २.५

सूक्तं २.६

सूक्तं २.७

सूक्तं २.८

सूक्तं २.९

सूक्तं २.१०

सूक्तं २.११

सूक्तं २.१२

सूक्तं २.१३

सूक्तं २.१४

सूक्तं २.१५

सूक्तं २.१६

सूक्तं २.१७

सूक्तं २.१८

सूक्तं २.१९

सूक्तं २.२०

सूक्तं २.२१

सूक्तं २.२२

सूक्तं २.२३

सूक्तं २.२४

सूक्तं २.२५

सूक्तं २.२६

सूक्तं २.२७

सूक्तं २.२८

सूक्तं २.२९

सूक्तं २.३०

सूक्तं २.३१

सूक्तं २.३२

सूक्तं २.३३

सूक्तं २.३४

सूक्तं २.३५

सूक्तं २.३६

सूक्तं २.३७

सूक्तं २.३८

सूक्तं २.३९

सूक्तं २.४०

सूक्तं २.४१

सूक्तं २.४२

सूक्तं २.४३


"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_२.३&oldid=301997" इत्यस्माद् प्रतिप्राप्तम्