शतपथब्राह्मणम्/काण्डम् ११/अध्यायः ८/ब्राह्मणं ३

विकिस्रोतः तः
Jump to navigation Jump to search

११.८.३ पशुदेवताविकल्पाभिधायकं ब्राह्मणम्

तदाहुः किंदेवत्य एष पशुः स्यादिति। प्राजापत्यः स्यादित्याहुः प्रजापतिर्वा एतमग्रेऽभ्यपश्यत्तस्मात्प्राजापत्य एवैष पशुः स्यादिति - ११.८.३.[१]

अथो अप्याहुः। सौर्य एवैष पशुः स्यादिति तस्मादेतस्मिन्नस्तमिते पशवो बध्यन्ते बध्नन्त्येकान्यथागोष्ठमेक उपसमायन्ति तस्मात्सौर्य एवैष पशुः स्यादिति - ११.८.३.[२]

अथो अप्याहुः। ऐन्द्राग्न एवैष पशुः स्यादित्येते वै देवते अन्वन्ये देवा यद्यार्तो यजते पारयत एव यदि महसा यजते पारयत एव तस्मादैन्द्राग्न एवैष पशुः स्यादिति - ११.८.३.[३]

प्राण एव पशुबन्धः। तस्माद्यावज्जीवति नास्यान्यः पशूनामीष्टे बद्धा ह्यस्मिन्नेते भवन्ति - ११.८.३.[४]

स ह प्रजापतिरग्निमुवाच। यजै त्वया त्वाऽऽलभा इति नेति होवाच वायुं ब्रूहीति स ह वायुमुवाच यजै त्वया त्वाऽऽलभा इति नेति होवाच पुरुषं ब्रूहीति स ह पुरुषमुवाच यजै त्वया त्वाऽऽलभा इति नेति होवाच पशून्ब्रूहीति स ह पशूनुवाच यजै युष्माभिरा वो लभा इति नेति होचुश्चन्द्रमसं ब्रूहीति स ह चन्द्रमसमुवाच यजै त्वया त्वा ऽऽलभा इति नेति होवाचादित्यं ब्रूहीति स हादित्यमुवाच यजै त्वया त्वाऽऽलभा इति तथेति होवाच य उ त एते नाचीकमन्त किमु म एतेषु स्यादिति यद्यत्कामयेथा इति तथेति तमालभत सोऽस्यायं पशुरालब्धः संज्ञप्तोऽश्वयत्तमेताभिराप्रीभिराप्रीणात्तद्यदेनमेताभिराप्रीभिराप्रीणात्तस्मादाप्रियो नाम तस्मादु पशुं संज्ञप्तं ब्रूयाच्छेतान्नु मुहूर्तमिति स यावन्तमश्वमेधेनेष्ट्वा लोकं जयति तावन्तमेतेन जयति - ११.८.३.[५]

तं प्राची दिक्। प्राणेत्यनुप्राणत्प्राणमेवास्मिंस्तददधात्तं दक्षिणादिग्व्यानेत्यनुप्राणद्व्यानमेवास्मिंस्तददधात्तं प्रतीची दिगपानेत्यनुप्राणदपानमेवास्मिंस्तददधात्तमुदीची दिगुदानेत्यनुप्राणदुदानमेवास्मिंस्तददधात्तमूर्ध्वा दिक्समानेत्यनुप्राणत्समानमेवास्मिंस्तददधात्तस्मादु पुत्रं जातमकृत्तनाभिं पञ्च ब्राह्मणान्ब्रूयादित्येनमनुप्राणितेति यद्यु तान्न विन्देदपि स्वयमेवानुपरिक्राममनुप्राण्यात्स सर्वमायुरेत्या हैव जरायै जीवति - ११.८.३.[६]

स प्राणमेवाग्नेरादत्त। तस्मादेष नानुपध्मातो नानुपज्वलितो ज्वलत्यात्तो ह्यस्य
प्राण आ ह वै द्विषतो भ्रातृव्यस्य प्राणं दत्ते य एवं वेद - ११.८.३.[७]

रूपमेव वायोरादत्त। तस्मादेतस्य लेलयत इवैवोपशृण्वन्ति न त्वेनम्पश्यन्त्यात्तं ह्यस्य रूपमा ह वै द्विषतो भ्रातृव्यस्य रूपं दत्ते य एवं वेद - ११.८.३.[८]

चित्तमेव पुरुषस्यादत्त। तस्मादाहुर्देवचित्तं त्वाऽवतु मा मनुष्यचित्तमित्यात्तं ह्यस्य चित्तमा ह वै द्विषतो भ्रातृव्यस्य चित्तं दत्ते य एवं वेद - ११.८.३.[९]

चक्षुरेव पशूनामादत्त तस्मादेते चाकश्यमाना इवैव न जानन्त्यथ यदैवोपजिघ्रन्त्यथ जानन्त्यात्तं ह्येषां चक्षुरा ह वै द्विषतो भ्रातृव्यस्य चक्षुर्द्दत्ते य एवं वेद - ११.८.३.[१०]

भामेव चन्द्रमस आदत्त। तस्मादेतयोः सदृशयोः सतोर्नतरां चन्द्रमा भात्यात्ता ह्यस्य भा आ ह वै द्विषतो भ्रातृव्यस्य भां दत्ते य एवं वेद तद्यदादत्त तस्मादादित्यः - ११.८.३.[११]