सामग्री पर जाएँ

कौषीतकिब्राह्मणम्/अध्यायः १०

विकिस्रोतः तः
← अध्यायः ०९ कौषीतकिब्राह्मणम्
अध्यायः १०
[[लेखकः :|]]
अध्यायः ११ →
पशुयागः


१०.१ यूपमीमांसा-यूपोच्छ्रयणम्
वज्रो वा एष यद् यूपः । तद् यद् उपवसथे यूपम् उच्छ्रयन्ति । वज्रेण एव तद् यजमानस्य पाप्मानम् अपघ्नन्ति । स न अपनत इव स्यात् । अशनायतो वा एतद् रूपम् । अभिनत इव उदरेण । अथ आहवनीयम् पुनर् अभ्यावृत्तः । तद् वै सुहितस्य रूपम् । अनशनायुका ह अस्य भार्या भवन्ति य एवम् रूपम् यूपम् कुरुते । पालाशम् ब्रह्म वर्चस कामः कुर्वीत । बैल्वम् अन्न अद्य कामः । खादिरम् स्वर्ग कामः । त्र्य् अरत्निः स्याल् लोकानाम् रूपेण । चतुर् अरत्निः पशूनाम् रूपेण । पञ्च अरत्निः पङ्क्त्यै रूपेण । षड् अरत्निर् ऋतूनाम् (?) रूपेण । सप्त अरत्निश् छन्दसाम् रूपेण । अष्ट अरत्निर् गायत्र्यै रूपेण । नव अरत्निर् बृहत्यै रूपेन । दश अरत्निर् विराजो रूपेण । एकादश अरत्निस् त्रिष्टुभो रूपेण । द्वादश अरत्निर् जगत्यै रूपेण । एता मात्राः सम्पदो यूपस्य । तासाम् एकाम् सम्पदम् अभिसम्पाद्य यूपम् कुर्वीत । तद् उ वा आहुर् न मिनेद् यूपम् । अपरिमित एव स्यात् । मितम् ह वै मितेन जयति । अमितम् अमितेन । अपरिमितस्य अवरुद्ध्यै । यत्र एव मनसा वेलाम् मन्यते तत् कुर्वीत । तद् यूपस्य च वेदेश् च इति ह स्म आह । प्रजापतिर् वै मनः । यज्ञ उ वै प्रजापतिः । स्वयम् वै तद् यज्ञो यज्ञस्य जुषते । यन् मनो मनसः । वाजपेय यूप एव अवधृतः सप्तदश अरत्निः । सो अष्ट अश्रिर् निष्ठितो भवति । सर्वेषाम् एव कामानाम् अष्ट्यै । अथ एनम् प्रणेनिजति । तद् यद् एव इदम् परशुना क्रूरी कृत इव तष्ट इव भवति । तद् एव अस्य एतद् आप्याययति तद् भिषज्यति । अथ एनम् अभ्यञ्जति । तद् या एव इमाः पुरुषः आपः । ता एव अस्मिंस् तद् दधाति । स्वभ्यक्तम् स्वयम् एव यजमानः कुर्वीत । तथा ह यजमानो अरूक्ष इव भवति ।

१०.२ यूपसंस्कारः -
विविधपशुविचारः अञ्जन्ति त्वाम् अध्वरे देवयन्त इत्य् अक्तवतीम् अभिरूपाम् अज्यमानाय अन्वाह । उच्छ्रयस्व वनस्पते समिद्धस्य श्रयमाणः पुरस्ताज् जातो जायते सुदिनत्वे अह्नाम् ऊर्ध्व ऊ षु ण ऊतय ऊर्ध्वो नः पाह्य् अंहसो केतुना इत्य् उच्छ्रितवतीश् च उद्वतीश् च उच्छ्रीयमाणाय अन्वाह । युवा सुवासाः परिवीत आगाद् इति परिवीतवत्या परिदधाति । अभिरूपा अन्वाअह । यद् यज्ञे अभिरूपम् तत् समृद्धम् यज्ञस्य एव समृद्ध्यै । ता वै सप्त अन्वाह । सप्त वै छन्दांसि । सर्वेषाम् एव छन्दसाम् आप्त्यै । त्रिः प्रथमया त्रिर् उत्तमया एकादश सम्पद्यन्ते । एकादश अक्षरा त्रिष्टुप् । त्रैष्टुभाः पशवः पशूनाम् एव आप्त्यै । इति न्व् एक यूप एक पशौ च । अथ यद्य् एक यूप एकादशिनीम् आलभेरन् । पशौ पशाव् एव अध्वर्युः सम्प्रेष्यति । पशौ पशाव् एव युवा सुवासाः परिवीत आगाद् इति सा एव परिधानीया सा परिवीयमाणाय । इति न्व् एक यूपे । अथ कथम् यूप एकादशिन्याम् इति । एता एव सप्त सप्तादशभ्यो अनुब्रूयात् । अथ यम् उत्तमम् सम्मिन्वन्ति । तस्मिन् यत् सूक्तस्य परिशिष्येत तद् अनुवर्तयेत् । प्रगातह्स्य उपरिष्टात् तत् । शृङ्गाणि इव इत् शृङ्गिणाम् सम् ददृश्र इति सर्वान् एव अभिवदति । युवा सुवासाः परिवीत आगाद् इति सा एव परिधानीया सा परिवीयमाणाय । तम् आहुर् अनुप्रहरेत् । यजमानो वा एष यद् यूपः । स्वर्लो लोक आहवनीयः । तद् एव एनम् स्वर्गंल् लोकम् गमयति । तत् स्वर्ग्यम् इति । तद् उ वा आहुस् तिष्ठेद् एव । यद् इदम् आस्थानम् स्वरोस्तत ईश्वरा यदि न असुर रक्षसान्य् अन्ववपातोः । तस्माद् एष वज्र उद्यतो यज्ञ वास्तौ तिष्ठेद् एव असुर रक्षसान्य् अपघ्नन्न् अपबाधमानो यज्ञम् चैव यजमानम् च अभिगोपायन्न् इति । अथ यूप्य एको द्रव्य एको गर्त्य एकः । यो अवाचीनवकलः स गर्त्यः । तस्य आशाम् न इयात् । अथ य ऊर्ध्ववकलो द्रव्यः स मानुषः । कामम् तस्य अपि कुर्वीत । अथ यस्य प्रसव्य् आदित्यस्य आवृतम् अन्वावृत्ता वकलाः । स यूप्यः स स्वर्ग्यम् एकस्थो भ्रातृव्यः । यो वा अनुवृतः पलाशैर् आमूलात् स्यात् । सो अनग्नः स पशव्यः । तम् पशु कामः कुर्वीत ।

१०.३ यज्ञमहत्त्वम्
(पशुशेष भक्ष विचार)
अग्नीषोमयोर् वा एष आस्यम् आपद्यते यो दीक्षते । तद् यद् उपवसथे अग्नीषोमीयम् पशुम् आलभते । आत्म निष्क्रियणो ह एव अस्य एष तेन आत्मानम् निष्क्रीणीय अनृणो भूत्वा अथ यजते । तस्माद् उ तस्य न अश्नीयात् । पुरुषो हि स प्रतिमया । तद् उ वा आहुर् हविर् हविर् वा आत्म निष्क्रयणम् । हविषो हविषि एव स तर्हि न अश्नीयात् । य आत्म निष्क्रयणम् इति न अश्नीयात् । तस्माद् उ काम एव अशितव्यम् । अहोरात्रे वा अग्नीषोमौ । तद् यद् दिवा वपया चरन्ति । तेन अहः प्रीतम् आग्नेयम् । रात्रिम् अनु संतिष्ठते । तेन रात्रिः सौमी प्रीता । सा एषा अहो रात्रयोर् अतिमुक्तिः । अत्यहोरात्रे यज्ञेन मुच्यत् न एनम् ते आप्नुतः । य एवम् विद्वान् एतम् पशुम् आलभते । तम् आहुर् द्विरूपः स्यात् शुक्लम् च कृष्णम् च अहोरात्रयो रूपेण इति । शुक्लम् वा च लोहितम् च् अग्नीषोमयो रूपेण इति । तस्य एकादश प्रयाजा एकादश अनुयाजा एकादश उपयाजाः । तानि त्रयस्त्रिंशत् । त्रयस्त्रिंशद् वै सर्वे देवाः । सर्वेषाम् एव देवानाम् प्रीत्यै । प्राणा वै प्रयाजा अपाना अनुयाजाः । तस्मात् समा भवन्ति । समाना हि इमे प्राण अपानाः । तद् आहुः कस्माद् ऋचा प्रयाजेषु यजति प्रतीकैर् अनुयाजेष्व् इति । रेतः सिक्तिर् वै प्रयाजाः । रेतोधेयम् अनुयाजाः । तस्माद् ऋचा प्रयाजेषु यजति प्रतीकैर् अनुयाजेष्व् इति । अथ यत् सर्वम् उत्तमम् आह । स्वर्ग एव तल् लोके यजमानम् दधाति । आप्रीभिर् आप्रीणाति । सर्वेण ह वा एष आत्मना सर्वेण मनसा यज्ञम् सम्भरते यो यजते । तस्य रिरिचान इव आत्मा भवति । तम् अस्य एताभिर् आप्रीभिर् आप्रीणाति । तद् यद् आप्रीणाति । तस्माद् आप्र्यो नाम । पर्यग्निम् पशुम् करोति रक्षसाम् अपहत्यै । अग्निर् वै रक्षसाम् अपहन्ता । त्रिः प्रसवि पर्यग्नि करोति । तद् यथा तिस्रो अग्नि पुरः कुर्याद् एवम् तत् । तस्मात् पुनः परीहि इत्य् अग्निधम् ब्रूयात् । यम् इच्छेन् न प्रच्यवेत इति ।

१०.४ पश्वालम्भनमन्त्राः
दैव्याः शमितार उत च मनुष्या आरभध्वम् उपनयत मेध्या दुर आशासाना मेधपतिभ्याम् मेधम् इति । तद्द् ह एक आहुः । यजमानो वै मेध पतिर् इति । को मनुष्य इति ब्रूयात् । देवता एव मेध पतिर् इति । षड्विंशतिर् अस्य वङ्क्रय इति । पर्शव उ ह वै वङ्क्रयः । उभयतो असृक् पर्यवान् इति । असृग् भाजनानि ह वै रक्षांसि भवन्ति । न इद् रक्षसाम् भागेन दैवम् भागम् प्रसजानि इति । स एषो अध्रिगुः संशासनम् एव । अङ्गानि मा परिकर्तोर् इति । यद्द् ह वा अदुष्टम् तद् देवानाम् हविः । न वै ते दुष्टम् हविर् अदन्ति । नवकृत्वो अध्रिगाव् अवान् इति । नव इमे प्राणाः । प्राणान् एव तद् यजमाने दधाति । सर्वायुत्वाय अस्मिंल् लोके । अमृतत्वाय अमुष्मिन् । त्रिः परिदधात्य् अपर अक्त्वाय । सकृत् पुरस्ताद् आह । सकृद् इव वै पितरः । पितृ देवत्य इव वै पशुर् आलभ्यमानो भवति । अथ यत् त्रिर् उपरिष्टाद् आह । त्रिर् वै देवत्याः । देव देवत्यम् एव एनम् तद् अयात यामानम् करोति । परिधाय उपांशु जपत्य् उभाव् अपापश् च इति । अपापो ह वै देवानाम् शमिता । तस्मा एव एनम् तत् सम्प्रयच्छति । स हि देवान् अनुवेद ।

१०.५ स्तोकानुवचनं, वपायागः पशुपुरोडाशश्च
अथ स्तोकीया अन्वाह । स्तोकान् एव एताभिर् अग्नये स्वदयति । एता ह वा उ तेषाम् पुरोनुवाक्या एता याज्याः । तस्माद् अभिरूपा भवन्ति । स्वाहाकृतिभिश् चरित्वा वपया चरन्ति । प्रयाजान् एव तत् पशुभाजः कुर्वन्ति । न स्वाहा कृतीश् च वपाम् च अन्तरेण वाचम् विसृजेत । प्राणा वै स्वाहा कृतयः । आत्मा वपा । न इत् प्राणांश् च आत्मानम् च अन्येन अन्तर् दधाति इति । अथ यद् अनुष्टुभो अग्नीषोमीयस्य पशोः पुरोनुवाक्या भवन्ति । गायत्री वै सा या अनुष्टुप् । गायत्रम् अग्नेश् छन्दः । अथ यत् त्रिष्टुभो याज्याः । क्षत्रस्य एतच् छन्दो यत् त्रिष्टुप् । क्षत्रम् सोमः । तद् यथाछन्दसम् देवते प्रीणाति । अथ वै पशुम् आलभ्यमानम् पुरोडाशो अनुनिरुप्यते । मेधो वा एष पशूनां यत्पुरोडाशः समेधमेवैनं तद्यज्ञियं करोति अथ यत्र पशुपुरोडाशो न निरुप्यते तत्पुरोडाशः स्विष्टकृद् अच्युतः । अग्निर् वै स्विष्टकृत् । तस्माद् अच्युतो भवति । वैश्वामित्रीम् पुरोडाशः स्विष्टकृद् अच्युतः । पुरोनुवाक्याम् अनूच्य वैश्वामित्र्या यजति । ततिर् वै यज्ञस्य पुरोडाशः । वाग् वै विश्वामित्रः । वाचा यज्ञस् तायते ।

१०.६ मनोतानुवचनम्
अथ मनोताम् अन्वाह । सर्वा ह वै देवताः पशुम् आलभ्यमानम् उपसंगच्छन्ते मम नाम ग्रहीष्यति मम नाम ग्रहीष्यति इति । तासाम् सर्वासाम् पशाव् एव मनांस्य् ओतानि भवन्ति । ता अत्र प्रीणाति । तथा ह आसाम् सर्वासाम् अमोघाय एव उपसमेतम् भवति । तद् आहुर् यन् नाना देवताः पशव आलभ्यन्ते अथ कस्माद् आग्नेयम् एव अन्वाह इति । तिस्रो वै देवानाम् मनोताः । अग्निर् वै देवानाम् मनोता । तस्मिन् ह्य् एषाम् मनांस्य् ओतानि भवन्ति । अथो वाग् वै देवानाम् मनोता । तस्याम् ह्य् एषाम् मनांस्य् ओतानि भवन्ति । अथो गौर् वै देवानाम् मनोता । तस्याम् ह्य् एषाम् मनांस्य् ओतानि भवन्ति । अग्निर् सर्वा मनोताः । अग्नौ मनोताः संगच्छन्ते । तस्माद् आग्नेयम् एव अन्वाह इति । ता वै त्रयोदश भवन्ति । त्रयोदश वै पशोर् अवदानानि भवन्ति । (पशु पशोर् अवदानानि) त्रिः प्रथमया त्रिर् उत्तमया सप्तदश सम्पद्यन्ते । सप्तदशो वै प्रजापतिः । (पशु पशोर् अवदानानि) एतद् वा आर्ध्नुकम्(आर्धुकम्) कर्म यत् प्रजापति सम्मितम् । सप्तदश सामिधेनीर् अन्वाह । (पशु पशोर् अवदानानि) सप्तदशो वै प्रजापतिः । एतद् वा आर्ध्नुकम्(आर्धुकम्) कर्म यत् प्रजापति सम्मितम् । (पशु पशोर् अवदानानि) अथ यत्र पशुर् आलभ्यते । तद् वनस्पतिर् अच्युतः । अग्निर् वै वनस्पतिः । स वै देवभ्यो हविः श्रपयति । (पशु वनस्पति याग) तस्माद् अच्युतो भवति । स उ वै पयो भाजनः । अत्र अग्निः सर्वेषु हविह्षु भागी भवति । (पशु वनस्पति याग) तद् आहुर् यद् धाम भाजो देवा अथ कस्मात् पाथो भाग् वनस्पतिर् इति । (पशु वनस्पति याग) धाम वै देवा यज्ञस्य अभजन्त । पाथः पितरः । पितृ देवत्य इव वै पशुः । पितृ देवत्यम् पयः । तस्माद् इति ब्रूयात् । (पशु वनस्पति याग) तद् आहुः कस्मात् सौम्य एव अध्वरे प्रवृत आहुती जुह्वति न हविर् यज्ञ इति । (पशु प्रवृत आहुति) अकृत्स्ना एव वा एषा देव यज्या यद्द् हविर् यज्ञः । अथ एषा एव कृत्स्ना देव यज्ञा यत् सौम्यो अध्वरः । (पशु प्रवृत आहुति) तस्मात् सौम्य एव अध्वरे प्रवृत आहुती जुह्वति न हविर् यज्ञ इति । (पशु प्रवृत आहुति) जुष्टो वाचो भूयासम् जुष्टो वाचस्पतेर् देवि वाक् । यत् ते वाचो मधुमत्तमम् तस्मिन् नो अद्य धाः स्वाहा सरस्वत्या इति पुरस्तात् स्वाहा कारेण जुहोति । (पशु प्रवृत आहुति) वाचम् तद् उत्सृजते । तस्माद् वाग् अत ऊर्ध्व उत्सृष्टा यज्ञम् वहति । (पशु प्रवृत आहुति) मनसा उत्तराम् । मनहा हि मनः प्रीतम् मनः प्रीतम् । (पशु प्रवृत आहुति)




१०.१ यूपमीमांसा-यूपोच्छ्रयणम्
वज्रो वा एष यद् यूपः ।
तद् यद् उपवसथे यूपम् उच्छ्रयन्ति ।
वज्रेण एव तद् यजमानस्य पाप्मानम् अपघ्नन्ति ।
स न अपनत इव स्यात् ।
अशनायतो वा एतद् रूपम् ।
अभिनत इव उदरेण ।
अथ आहवनीयम् पुनर् अभ्यावृत्तः ।
तद् वै सुहितस्य रूपम् ।
अनशनायुका ह अस्य भार्या भवन्ति य एवम् रूपम् यूपम् कुरुते ।
पालाशम् ब्रह्म वर्चस कामः कुर्वीत ।
बैल्वम् अन्न अद्य कामः ।
खादिरम् स्वर्ग कामः ।
त्र्य् अरत्निः स्याल् लोकानाम् रूपेण ।
चतुर् अरत्निः पशूनाम् रूपेण ।
पञ्च अरत्निः पङ्क्त्यै रूपेण ।
षड् अरत्निर् ऋतूनाम् (?) रूपेण ।
सप्त अरत्निश् छन्दसाम् रूपेण ।
अष्ट अरत्निर् गायत्र्यै रूपेण ।
नव अरत्निर् बृहत्यै रूपेन ।
दश अरत्निर् विराजो रूपेण ।
एकादश अरत्निस् त्रिष्टुभो रूपेण ।
द्वादश अरत्निर् जगत्यै रूपेण ।
एता मात्राः सम्पदो यूपस्य ।
तासाम् एकाम् सम्पदम् अभिसम्पाद्य यूपम् कुर्वीत ।
तद् उ वा आहुर् न मिनेद् यूपम् ।
अपरिमित एव स्यात् ।
मितम् ह वै मितेन जयति ।
अमितम् अमितेन ।
अपरिमितस्य अवरुद्ध्यै ।
यत्र एव मनसा वेलाम् मन्यते तत् कुर्वीत ।
तद् यूपस्य च वेदेश् च इति ह स्म आह ।
प्रजापतिर् वै मनः ।
यज्ञ उ वै प्रजापतिः ।
स्वयम् वै तद् यज्ञो यज्ञस्य जुषते ।
यन् मनो मनसः ।
वाजपेय यूप एव अवधृतः सप्तदश अरत्निः ।
सो अष्ट अश्रिर् निष्ठितो भवति ।
सर्वेषाम् एव कामानाम् अष्ट्यै ।
अथ एनम् प्रणेनिजति ।
तद् यद् एव इदम् परशुना क्रूरी कृत इव तष्ट इव भवति ।
तद् एव अस्य एतद् आप्याययति तद् भिषज्यति ।
अथ एनम् अभ्यञ्जति ।
तद् या एव इमाः पुरुषः आपः ।
ता एव अस्मिंस् तद् दधाति ।
स्वभ्यक्तम् स्वयम् एव यजमानः कुर्वीत ।
तथा ह यजमानो अरूक्ष इव भवति ।

१०.२ यूपसंस्कारः - विविधपशुविचारः
अञ्जन्ति त्वाम् अध्वरे देवयन्त इत्य् अक्तवतीम् अभिरूपाम् अज्यमानाय अन्वाह ।
उच्छ्रयस्व वनस्पते समिद्धस्य श्रयमाणः पुरस्ताज् जातो जायते सुदिनत्वे अह्नाम् ऊर्ध्व ऊ षु ण ऊतय ऊर्ध्वो नः पाह्य् अंहसो केतुना इत्य् उच्छ्रितवतीश् च उद्वतीश् च उच्छ्रीयमाणाय अन्वाह ।
युवा सुवासाः परिवीत आगाद् इति परिवीतवत्या परिदधाति ।
अभिरूपा अन्वाअह ।
यद् यज्ञे अभिरूपम् तत् समृद्धम् यज्ञस्य एव समृद्ध्यै ।
ता वै सप्त अन्वाह ।
सप्त वै छन्दांसि ।
सर्वेषाम् एव छन्दसाम् आप्त्यै ।
त्रिः प्रथमया त्रिर् उत्तमया एकादश सम्पद्यन्ते ।
एकादश अक्षरा त्रिष्टुप् ।
त्रैष्टुभाः पशवः पशूनाम् एव आप्त्यै ।
इति न्व् एक यूप एक पशौ च ।
अथ यद्य् एक यूप एकादशिनीम् आलभेरन् ।
पशौ पशाव् एव अध्वर्युः सम्प्रेष्यति ।
पशौ पशाव् एव युवा सुवासाः परिवीत आगाद् इति सा एव परिधानीया सा परिवीयमाणाय ।
इति न्व् एक यूपे ।
अथ कथम् यूप एकादशिन्याम् इति ।
एता एव सप्त सप्तादशभ्यो अनुब्रूयात् ।
अथ यम् उत्तमम् सम्मिन्वन्ति ।
तस्मिन् यत् सूक्तस्य परिशिष्येत तद् अनुवर्तयेत् ।
प्रगातह्स्य उपरिष्टात् तत् ।
शृङ्गाणि इव इत् शृङ्गिणाम् सम् ददृश्र इति सर्वान् एव अभिवदति ।
युवा सुवासाः परिवीत आगाद् इति सा एव परिधानीया सा परिवीयमाणाय ।
तम् आहुर् अनुप्रहरेत् ।
यजमानो वा एष यद् यूपः ।
स्वर्लो लोक आहवनीयः ।
तद् एव एनम् स्वर्गंल् लोकम् गमयति ।
तत् स्वर्ग्यम् इति ।
तद् उ वा आहुस् तिष्ठेद् एव ।
यद् इदम् आस्थानम् स्वरोस्तत ईश्वरा यदि न असुर रक्षसान्य् अन्ववपातोः ।
तस्माद् एष वज्र उद्यतो यज्ञ वास्तौ तिष्ठेद् एव असुर रक्षसान्य् अपघ्नन्न् अपबाधमानो यज्ञम् चैव यजमानम् च अभिगोपायन्न् इति ।
अथ यूप्य एको द्रव्य एको गर्त्य एकः ।
यो अवाचीनवकलः स गर्त्यः ।
तस्य आशाम् न इयात् ।
अथ य ऊर्ध्ववकलो द्रव्यः स मानुषः ।
कामम् तस्य अपि कुर्वीत ।
अथ यस्य प्रसव्य् आदित्यस्य आवृतम् अन्वावृत्ता वकलाः ।
स यूप्यः स स्वर्ग्यम् एकस्थो भ्रातृव्यः ।
यो वा अनुवृतः पलाशैर् आमूलात् स्यात् ।
सो अनग्नः स पशव्यः ।
तम् पशु कामः कुर्वीत ।

१०.३ यज्ञमहत्त्वम्
(पशुशेष भक्ष विचार)
अग्नीषोमयोर् वा एष आस्यम् आपद्यते यो दीक्षते ।
तद् यद् उपवसथे अग्नीषोमीयम् पशुम् आलभते ।
आत्म निष्क्रियणो ह एव अस्य एष तेन आत्मानम् निष्क्रीणीय अनृणो भूत्वा अथ यजते ।
तस्माद् उ तस्य न अश्नीयात् ।
पुरुषो हि स प्रतिमया ।
तद् उ वा आहुर् हविर् हविर् वा आत्म निष्क्रयणम् ।
हविषो हविषि एव स तर्हि न अश्नीयात् ।
य आत्म निष्क्रयणम् इति न अश्नीयात् ।
तस्माद् उ काम एव अशितव्यम् ।
अहोरात्रे वा अग्नीषोमौ ।
तद् यद् दिवा वपया चरन्ति ।
तेन अहः प्रीतम् आग्नेयम् ।
रात्रिम् अनु संतिष्ठते ।
तेन रात्रिः सौमी प्रीता ।
सा एषा अहो रात्रयोर् अतिमुक्तिः ।
अत्यहोरात्रे यज्ञेन मुच्यत्
न एनम् ते आप्नुतः ।
य एवम् विद्वान् एतम् पशुम् आलभते ।
तम् आहुर् द्विरूपः स्यात् शुक्लम् च कृष्णम् च अहोरात्रयो रूपेण इति ।
शुक्लम् वा च लोहितम् च् अग्नीषोमयो रूपेण इति । (पशु पशौ प्रयाज अनुयाजाः)
तस्य एकादश प्रयाजा एकादश अनुयाजा एकादश उपयाजाः । (पशु पशौ प्रयाज अनुयाजाः)
तानि त्रयस्त्रिंशत् ।
त्रयस्त्रिंशद् वै सर्वे देवाः ।
सर्वेषाम् एव देवानाम् प्रीत्यै । (पशु पशौ प्रयाज अनुयाजाः)
प्राणा वै प्रयाजा अपाना अनुयाजाः ।
तस्मात् समा भवन्ति ।
समाना हि इमे प्राण अपानाः । (पशु पशौ प्रयाज अनुयाजाः)
तद् आहुः कस्माद् ऋचा प्रयाजेषु यजति प्रतीकैर् अनुयाजेष्व् इति ।
रेतः सिक्तिर् वै प्रयाजाः । (पशु पशौ प्रयाज अनुयाजाः)
रेतोधेयम् अनुयाजाः ।
तस्माद् ऋचा प्रयाजेषु यजति प्रतीकैर् अनुयाजेष्व् इति । (पशु पशौ प्रयाज अनुयाजाः)
अथ यत् सर्वम् उत्तमम् आह ।
स्वर्ग एव तल् लोके यजमानम् दधाति । (पशु पशौ प्रयाज अनुयाजाः)
आप्रीभिर् आप्रीणाति ।
सर्वेण ह वा एष आत्मना सर्वेण मनसा यज्ञम् सम्भरते यो यजते । (पशु पशौ प्रयाज अनुयाजाः)
तस्य रिरिचान इव आत्मा भवति ।
तम् अस्य एताभिर् आप्रीभिर् आप्रीणाति । (पशु पशौ प्रयाज अनुयाजाः)
तद् यद् आप्रीणाति ।
तस्माद् आप्र्यो नाम । (पशु पशौ प्रयाज अनुयाजाः)
पर्यग्निम् पशुम् करोति रक्षसाम् अपहत्यै ।
अग्निर् वै रक्षसाम् अपहन्ता । (पशु पर्यग्निकरण)
त्रिः प्रसवि पर्यग्नि करोति ।
तद् यथा तिस्रो अग्नि पुरः कुर्याद् एवम् तत् । (पशु पर्यग्निकरण)
तस्मात् पुनः परीहि इत्य् अग्निधम् ब्रूयात् ।
यम् इच्छेन् न प्रच्यवेत इति । (पशु पर्यग्निकरण)

१०.४ पश्वालम्भनमन्त्राः
दैव्याः शमितार उत च मनुष्या आरभध्वम् उपनयत मेध्या दुर आशासाना मेधपतिभ्याम् मेधम् इति । (पशु अध्रिगु प्रैष)
तद्द् ह एक आहुः ।
यजमानो वै मेध पतिर् इति ।
को मनुष्य इति ब्रूयात् । (पशु अध्रिगु प्रैष)
देवता एव मेध पतिर् इति ।
षड्विंशतिर् अस्य वङ्क्रय इति ।
पर्शव उ ह वै वङ्क्रयः ।
उभयतो असृक् पर्यवान् इति । (पशु अध्रिगु प्रैष)
असृग् भाजनानि ह वै रक्षांसि भवन्ति ।
न इद् रक्षसाम् भागेन दैवम् भागम् प्रसजानि इति । (पशु अध्रिगु प्रैष)
स एषो अध्रिगुः संशासनम् एव ।
अङ्गानि मा परिकर्तोर् इति ।
यद्द् ह वा अदुष्टम् तद् देवानाम् हविः । (पशु अध्रिगु प्रैष)
न वै ते दुष्टम् हविर् अदन्ति ।
नवकृत्वो अध्रिगाव् अवान् इति ।
नव इमे प्राणाः । (पशु अध्रिगु प्रैष)
प्राणान् एव तद् यजमाने दधाति ।
सर्वायुत्वाय अस्मिंल् लोके । (पशु अध्रिगु प्रैष)
अमृतत्वाय अमुष्मिन् ।
त्रिः परिदधात्य् अपर अक्त्वाय ।
सकृत् पुरस्ताद् आह । (पशु अध्रिगु प्रैष)
सकृद् इव वै पितरः ।
पितृ देवत्य इव वै पशुर् आलभ्यमानो भवति । (पशु अध्रिगु प्रैष)
अथ यत् त्रिर् उपरिष्टाद् आह ।
त्रिर् वै देवत्याः ।
देव देवत्यम् एव एनम् तद् अयात यामानम् करोति । (पशु अध्रिगु प्रैष)
परिधाय उपांशु जपत्य् उभाव् अपापश् च इति ।
अपापो ह वै देवानाम् शमिता । (पशु अध्रिगु प्रैष)
तस्मा एव एनम् तत् सम्प्रयच्छति ।
स हि देवान् अनुवेद । (पशु अध्रिगु प्रैष)

१०.५ स्तोकानुवचनं, वपायागः पशुपुरोडाशश्च
अथ स्तोकीया अन्वाह ।
स्तोकान् एव एताभिर् अग्नये स्वदयति ।
एता ह वा उ तेषाम् पुरोनुवाक्या एता याज्याः । (पशु स्तोक अनुवचन)
तस्माद् अभिरूपा भवन्ति । (पशु स्तोक अनुवचन)
स्वाहा कृतिभिर्श् चरित्वा वपया चरन्ति ।
प्रयाजान् एव तत् पशु भाजः कुर्वन्ति ।
न स्वाहा कृतीश् च वपाम् च अन्तरेण वाचम् विसृजेत । (पशु वपा याग)
प्राणा वै स्वाहा कृतयः ।
आत्मा वपा ।
न इत् प्राणांश् च आत्मानम् च अन्येन अन्तर् दधाति इति । (पशु वपा याग)
अथ यद् अनुष्टुभो अग्नीषोमीयस्य पशोः पुरोनुवाक्या भवन्ति ।
गायत्री वै सा या अनुष्टुप् । (पशु वपा याग)
गायत्रम् अग्नेश् छन्दः ।
अथ यत् त्रिष्टुभो याज्याः ।
क्षत्रस्य एतच् छन्दो यत् त्रिष्टुप् ।
क्षत्रम् सोमः ।
तद् यथा छन्दसम् देवते प्रीणाति । (पशु वपा याग)
अथ वै पशुम् आलभ्यमानम् पुरोडाशो अनुनिरुप्यते ।
अथ यत्र पुरोडाशो निरुप्यते । (पशु पशु पुरोडाश)
तत् पुरोडाश स्विष्टकृद् अच्युतः ।
अग्निर् वै स्विष्टकृत् ।
तस्माद् अच्युतो भवति । (पशु पशु पुरोडाश)
वैश्वामित्रीम् पुरोडाश स्विष्टकृद् अच्युतः ।
पुरोनुवाक्याम् अनूच्य वैश्वामित्र्या यजति ।
ततिर् वै यज्ञस्य पुरोडाशः । (पशु पशु पुरोडाश)
वाग् वै विश्वामित्रः ।
वाचा यज्ञस् तायते । (पशु पशु पुरोडाश)

१०.६ मनोतानुवचनम्
अथ मनोताम् अन्वाह ।
सर्वा ह वै देवताः पशुम् आलभ्यमानम् उपसंगच्छन्ते मम नाम ग्रहीष्यति मम नाम ग्रहीष्यति इति ।
तासाम् सर्वासाम् पशाव् एव मनांस्य् ओतानि भवन्ति ।
ता अत्र प्रीणाति ।
तथा ह आसाम् सर्वासाम् अमोघाय एव उपसमेतम् भवति ।
तद् आहुर् यन् नाना देवताः पशव आलभ्यन्ते अथ कस्माद् आग्नेयम् एव अन्वाह इति ।
तिस्रो वै देवानाम् मनोताः ।
अग्निर् वै देवानाम् मनोता ।
तस्मिन् ह्य् एषाम् मनांस्य् ओतानि भवन्ति ।
अथो वाग् वै देवानाम् मनोता ।
तस्याम् ह्य् एषाम् मनांस्य् ओतानि भवन्ति ।
अथो गौर् वै देवानाम् मनोता ।
तस्याम् ह्य् एषाम् मनांस्य् ओतानि भवन्ति ।
अग्निर् सर्वा मनोताः ।
अग्नौ मनोताः संगच्छन्ते ।
तस्माद् आग्नेयम् एव अन्वाह इति ।
ता वै त्रयोदश भवन्ति ।
त्रयोदश वै पशोर् अवदानानि भवन्ति । (पशु पशोर् अवदानानि)
त्रिः प्रथमया त्रिर् उत्तमया सप्तदश सम्पद्यन्ते ।
सप्तदशो वै प्रजापतिः । (पशु पशोर् अवदानानि)
एतद् वा आर्ध्नुकम्(आर्धुकम्) कर्म यत् प्रजापति सम्मितम् ।
सप्तदश सामिधेनीर् अन्वाह । (पशु पशोर् अवदानानि)
सप्तदशो वै प्रजापतिः ।
एतद् वा आर्ध्नुकम्(आर्धुकम्) कर्म यत् प्रजापति सम्मितम् । (पशु पशोर् अवदानानि)
अथ यत्र पशुर् आलभ्यते ।
तद् वनस्पतिर् अच्युतः ।
अग्निर् वै वनस्पतिः ।
स वै देवभ्यो हविः श्रपयति । (पशु वनस्पति याग)
तस्माद् अच्युतो भवति ।
स उ वै पयो भाजनः ।
अत्र अग्निः सर्वेषु हविह्षु भागी भवति । (पशु वनस्पति याग)
तद् आहुर् यद् धाम भाजो देवा अथ कस्मात् पाथो भाग् वनस्पतिर् इति । (पशु वनस्पति याग)
धाम वै देवा यज्ञस्य अभजन्त ।
पाथः पितरः ।
पितृ देवत्य इव वै पशुः ।
पितृ देवत्यम् पयः ।
तस्माद् इति ब्रूयात् । (पशु वनस्पति याग)
तद् आहुः कस्मात् सौम्य एव अध्वरे प्रवृत आहुती जुह्वति न हविर् यज्ञ इति । (पशु प्रवृत आहुति)
अकृत्स्ना एव वा एषा देव यज्या यद्द् हविर् यज्ञः ।
अथ एषा एव कृत्स्ना देव यज्ञा यत् सौम्यो अध्वरः । (पशु प्रवृत आहुति)
तस्मात् सौम्य एव अध्वरे प्रवृत आहुती जुह्वति न हविर् यज्ञ इति । (पशु प्रवृत आहुति)
जुष्टो वाचो भूयासम् जुष्टो वाचस्पतेर् देवि वाक् ।
यत् ते वाचो मधुमत्तमम् तस्मिन् नो अद्य धाः स्वाहा सरस्वत्या इति पुरस्तात् स्वाहा कारेण जुहोति । (पशु प्रवृत आहुति)
वाचम् तद् उत्सृजते ।
तस्माद् वाग् अत ऊर्ध्व उत्सृष्टा यज्ञम् वहति । (पशु प्रवृत आहुति)
मनसा उत्तराम् ।
मनहा हि मनः प्रीतम् मनः प्रीतम् । (पशु प्रवृत आहुति)