कौषीतकिब्राह्मणम्/अध्यायः ११

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १० कौषीतकिब्राह्मणम्
अध्यायः ११
[[लेखकः :|]]
अध्यायः १२ →
सोमयागः( प्रातरनुवाकः)


११.१ प्रातरनुवाकः
अथातः प्रातर् अनुवाकः । यद् एव एनम् प्रातर् अन्वाह । तत् प्रातरनुवाकस्य प्रातरनुवाकत्वम् । अथ यत् प्रपदो जपति यद् आहुतीर् जुहोति । स्वस्त्ययनम् एव तत् कुरुते । हिंकृत्य प्रातरनुवाकम् अन्वाह । वज्रो वै हिंकारः । वज्रेण एव तद् यजमानस्य पाप्मानम् हन्ति । उच्चैर् निरुक्तम् अनुब्रूयात् । एतद्द् ह वा एकम् वाचो अनन्ववसितम् पाप्मना यन् निरुक्तम् । तस्मान् निरुक्तम् अनुब्रूयात् । यजमानस्य एव पाप्मनो अपहत्यै । अर्धर्चशो अनुब्रूयात् । ऋक् सम्मिता वा इमे लोकाः । अयंल् लोकः पूर्वो अर्धर्चः । असौ लोक उत्तरः । अथ यद् अर्धर्चाव् अन्तरेण तद् इदम् अन्तरिक्षम् । तद् यद् अर्धर्चशो अन्वाह । एभिर् एव तल् लोकैर् यजमानम् समर्धयति । एष्व् एव तल् लोकेषु यजमानम् दधाति ।

११.२ विविधछन्दांसि
अथ वै पङ्क्तेः पञ्च पदानि कथम् सार्धर्चशो अनुक्ता भवति इति । प्रणव उत्तरयोस् तृतीयः । तथा सार्धर्चशो अनुक्ता भवति । आग्नेयम् क्रतुम् अन्वाह । तद् इमंल् लोकम् आप्नोति । उषस्यम् अन्वाह । तद् अन्तरिक्ष लोकम् आप्नोति । आश्विनम् अन्वाह । तद् अमुंल् लोकम् आप्नोति । गायत्रीम् अन्वाह । मुखम् एव गायत्री । अनुष्टुभम् अन्वाह । वाग् अनुष्टुप् । मुखे तद् वाचम् दधाति । मुखेन वै वाचम् वदति । त्रिष्टुभम् अन्वाह । बलम् वै वीर्यम् त्रिष्टुप् । बृहतीम् अन्वाह । गो अश्वम् एव बृहती । उष्णिहम् अन्वाह । अज अविकम् एव उष्णिक् । जगतीम् अन्वाह । बलम् वै वीर्यम् जगती । बलम् वीर्यम् पुरस्तात् त्रिष्टुप् । बलम् वीर्यम् उपरिष्टाज् जगती ।

११.३ पशुग्रहणम्
मध्ये बार्हताश् च औष्णुहाश् च पशवः । बलेन एव तद् वीर्येण उभयतः पशून् परिगृह्य यजमाने दधाति । तथा यजमानात् पशवो अनुत्क्रामुका भवन्ति । तद् यथा ह वा अस्मिंल् लोके मनुष्याः पशून् अश्नन्ति । यथा एभिर् भुञ्जते । एवम् एव अमुष्मिंल् लोके पशवो मनुष्यान् अश्नन्ति । एवम् एभिर् भुञ्जते । स य एनान् इह प्रातर् अनुवाकेन अवरुन्धे । तम् इह अवरुद्धा अमुष्मिंल् लोके न अश्नन्ति । न एनेन प्रतिभुञ्जते । यथा एव एनान् अस्मिंल् लोके अश्नाति । यथा एभिर् भुङ्क्ते । एवम् एव एनान् अमुष्मिंल् लोके अश्नाति । यथा एव एनान् अस्मिंल् लोके अश्नाति । यथा एभिर् भुङ्क्ते । एवम् एव एनान् अमुष्मिंल् लोके अश्नाति । एवम् एभिर् भुङ्क्ते । पङ्क्तिम् अन्वाह । (प्रातरनुवाक) प्रतिष्ठा वै पङ्क्तिः । सर्वेष्व् एव तद् भूतेषु यजमानम् प्रतिष्ठापयति ।
 
११.४ प्रातरनुवाकदेवताः
अथ सर्वा ह वै देवता होतारम् प्रातरनुवाकम् अनुवक्ष्यन्तम् आशंसमानाः प्रत्युपतिष्ठन्ते मया प्रतिपत्स्यते मया प्रतिपत्स्यत इति । स य एकाम् देवताम् आदिश्य प्रतिपद्येत । अथ इतराभ्यो देवताभ्यो वृश्च्येत । अनिरुक्तया प्रतिपद्यते । तेन उ न कस्यै चन देवताया आवृश्च्यते । आपो रेवतीः क्षयथा हि वस्व इति प्रतिपद्यते । आपो वै सर्वा देवताः । सर्वाभिर् एव तद् देवताभिः प्रतिपद्यते । उपरयन्तो अध्वरम् इत्य् उपसंदधाति । उप इति तद् अस्य लोकस्य रूपम् । प्रयन्त इत् तद् अमुष्य । उप इति तद् अग्ने रूपम् । प्रयन्त इति तद् अमुष्य आदित्यस्य । एवम् एव सर्वासु प्रतिपत्सु सर्वेषु ऋतुषु । आग्नेय उषस्य आश्विने पूर्वा पूर्वा एव व्याहृतिर् अग्ने रूपम् । उत्तरा अमुष्य आदित्यस्य । अथ एतद् द्वे नाना छन्दांस्य् अन्तरेण कर्ता इव । अथ एते बलिष्ठे अरिष्टे अनार्ते देवते । ताभ्याम् प्रतिपद्यते । समानेन सूक्तेन समारोहेत् । तद् अकर्तस्कद्यंल् (?) लोहस्य रूपम् स्वर्ग्यम् । यत्र वा समानस्य ऋषे स्यात् । तद् अनवानम् संक्रामेत् । अमृतम् वै प्राणः । अमृतेन तन् मृत्युम् तरति । तद् यथा वंशेन वा मत्येन (मत्स्येन?)वा कर्तम् संक्रामेद् एवम् तत् । प्रणवेन संक्रामति । ब्रह्म वै प्रणवः । ब्रह्मणा एव तद् ब्रह्म उपसंतनोति ।

११.५ प्रणवस्वरूपमीमांसा
शुद्धः प्रणवः स्यात् प्रजा कामानाम् । मकार अन्तः प्रतिष्ठा कामानाम् । मकार अन्तः प्रणवः स्याद् इति ह एक आहुः । शुद्ध इति त्व् एव स्थितः । मीमांसितः प्रणवः । अथ अत इह शुद्ध इह पूर्ण इति । शुद्ध एव प्रणवः स्यात् शस्त्र अनुवचनयोर् मध्य इति ह स्म आह कौषीतकिः । तथा संहितम् भवति । मकार अन्तो अवसान अर्थे । प्रतिष्ठा वा अवसानम् प्रतिष्ठित्या एव । अथो उभयोः कामयोर् आप्त्यै । एत उ ह वै छन्दः प्रवाहा अवरम् छन्दः परम् छन्दो अतिप्रवहन्ति । तस्य आर्तिर् न अस्ति छन्दसा छन्दो अतिप्रोढस्य । अतियन्न् एव यम् द्विष्यात् । तम् मनसा प्र इव विध्येत् छन्दसाम् कृन्तत्रेषु । द्रवति वा सम् वा शीर्यत इति ह स्म आह । समानोदर्काण्य् उत्तमानि क्रतूनाम् पाङ्क्तान्य् अन्वाह । रसो वा उदर्कः । पशवश् छन्दांसि । रसम् एव तत् छन्दांस्य् अभ्युपनिवर्तन्ते । उपनिवर्तम् इव वै पशवः । सौयवसे रमन्ते । सा एकोना विराड् द्विर् अनुक्तया । सम्प्रति विराट् त्रिर् अनूक्तया । एका विराजम् अत्येति ।

११.६ छन्दांसि
एकविंशस्तोमश्च त्रयो वै यज्ञे कामाः । यः सम्पन्ने यो न्यूने यो अतिरिक्ते । यद् वै यज्ञस्य सम्पन्नम् तत् स्वर्ग्यम्। यन् न्यूनम् तद् अन्नाद्यम् । यद् अतिरिक्तम् तत् प्राजात्यै । तद् अत्र एव यजमानः सर्वान् कामान् आप्नोति । अभूद् एषा रुशत् पशुर् इत्य् आशीर्वत्या परिदधाति । पशुभ्य एव तद् आशिषम् वदते । तथा ह यजमानात् पशवो अनुत्क्रामुका भवन्ति । तस्याम् वाचम् उत्सृजते । तद् एनम् अजनीति देवेभ्यो निवेदयति । अत्र हि जायते । अया वाजम् देव हितम् सनेम इति द्विपदाम् अभ्यस्यति । पशवो वा एतानि चतुर् उत्तराणि छन्दांसि । यजमान छन्दसम् द्विपदा । अधिष्ठायाम् एव तत् पशूनाम् यजमानम् दधाति । अधि इव वै पशून् पुरुषस् तिष्ठति ।

11.7 त्रिः सप्तानि क्रतूनाम् छन्दांस्य् अन्वाह । तद् एकविंशतिः । एकविंशो वै चतुष्टोमः स्तोमानाम् परमः । तत् परमम् स्तोमम् आप्नोति । यद् उ एव एकविंशतिः । द्वादश मासाः पञ्च ऋतवस् त्रय इमे लोकाः । असाव् आदित्य एवविंशः । तेन एव तस् सलोकतायाम् यजमानम् अध्यूहति ।

११.७ प्रातरनुवाके शंसनमन्त्राणां संख्या
तद् आहुर् यद् इमा हविर् यज्ञस्य वा पशोर् वा सामिधेन्यो अथ काः सौम्यस्य अध्वरस्य इति । प्रातरनुवाक इति ब्रूयात् । अक्षरैर् ह वा इतरासाम् संवत्सरम् उपेप्सति । ऋभिर् इह । शतमात्रम् अनुब्रूयात् । शत आयुर् वै पुरुषः । आयुर् एव अस्मिंस् तद् दधाति । विंशति शतम् अनुब्रूयात् । विंशति शतम् वा ऋतोर् अहानि । तद् ऋतुम् आप्नोति । ऋतुना संवत्सरम् । ये च संवत्सरे कामाः । त्रीणि षष्टि शतान्य् अनुब्रूयात् । त्रीणि वै षष्टि शतानि संवत्सरस्य अह्नाम् । तत् संवत्सरस्य अहान्य् आप्नोति । सप्तविंशति शतान्य् अनुब्रूयात् । सप्त वै विशंति शतानि संवत्सरस्य अहो रात्राणाम् । तत् संवत्सरस्य अहो रात्रान् आप्नोति । सहस्रम् अनुब्रूयात् । सर्वम् वै तद् यत् सहस्रम् । सर्वम् प्रातर् अनुवाकः । तत् सर्वेण सर्वम् आप्नोति य एवम् वेद । तद् उ ह स्म आह कौषीतकिः । प्रजापतिर् वै प्रातर् अनुवाकः । अपरिमित उ वै प्रजापतिः । कस् तम् मातुम् अर्हेद् इति । एषा ह एव स्थितिः ।

११.८ शंसनकालः स्थानं च
तद् आहुर् यत् सदस्य् उक्थानि शस्यन्ते अथ कस्माद्द् हविर्धानयोः प्रातरनुवाकम् अन्वाह इति । शिरो वै यज्ञस्य यद्द् हविर् धाने । वाक् प्रातर् अनुवाकः । वाचा एव तत् शिरः समर्धयति । उदरम् वै सदः । अन्नम् उक्थानि । उदर सचेयम् उ वा अन्नाद्यम् । तद् यथा ह वा अन एवम् यज्ञः प्रतिमया । यथा धान्यम् एवम् प्रातर् अनुवाकः । यथा पात्राण्य् एवम् उक्थानि । स यो अल्पकम् अन्वाह । यथा अल्प धान्ये पात्राणि समृच्छेरन् । एवम् तस्य उक्थाइ समृच्छन्ते । उखानाम् अनु समरम् ईश्वरो यजमानम् भ्रेषोन्वेतोः । तद् उ वा आहुर् बहुम् एव अनुब्रूयात् । उक्थानि तत् परिवृंहति (परिबृन्हति) । या यज्ञस्य समृद्धस्य आशीः सा मे समृध्यताम् इति । या वै यज्ञस्य समृद्धस्य आशीः सा यजमानस्य । अथो त्रीणि वा एतानि साहस्राण्य् अधियज्ञम् । प्रातरनुवाक आश्विनम् महा व्रतम् इति । एतद् उक्थम् महा रात्र उपाकुर्यात् पुरा वाचो विसर्गात् । यत्र एतत् पशवो मनुष्या वयांसि इति वाचम् व्यालभन्ते पुरा ततः । आपीनाम् वाचम् अव्यासिक्ताम् प्रथमत ऋध्नवानि इति । न प्रातरनुवाकम् च उपांश्व् अन्तर्यामौ च अन्तरेण वाचम् विसृजते । प्राण अपानौ वा उपांश्व् अन्तर्यामौ । वाक् प्रातर् अनुवाकः । न इत् प्राण अपानौ च वाचम् च अन्येन अन्तर् दधाति इति । तद्द् ह एके कश् छन्दसाम् योगम् आवेद धीर इति जपित्वा अथ आपो रेवतीः क्षयथा हि वस्व इति प्रतिपद्यन्ते । न आपो रेवत्यै पुरस्तात् किंचन परिहरेद् इति । तद् इह स्थितम् अनाव्रस्काय तद् इह स्थितम् अनाव्रस्काय ।  



११.१ प्रातरनुवाकः
अथातः प्रातर् अनुवाकः ।
यद् एव एनम् प्रातर् अन्वाह ।
तत् प्रातरनुवाकस्य प्रातरनुवाकत्वम् ।
अथ यत् प्रपदो जपति यद् आहुतीर् जुहोति ।
स्वस्त्ययनम् एव तत् कुरुते ।
हिंकृत्य प्रातरनुवाकम् अन्वाह ।
वज्रो वै हिंकारः ।
वज्रेण एव तद् यजमानस्य पाप्मानम् हन्ति ।
उच्चैर् निरुक्तम् अनुब्रूयात् ।
एतद्द् ह वा एकम् वाचो अनन्ववसितम् पाप्मना यन् निरुक्तम् ।
तस्मान् निरुक्तम् अनुब्रूयात् ।
यजमानस्य एव पाप्मनो अपहत्यै ।
अर्धर्चशो अनुब्रूयात् ।
ऋक् सम्मिता वा इमे लोकाः ।
अयंल् लोकः पूर्वो अर्धर्चः ।
असौ लोक उत्तरः ।
अथ यद् अर्धर्चाव् अन्तरेण तद् इदम् अन्तरिक्षम् ।
तद् यद् अर्धर्चशो अन्वाह ।
एभिर् एव तल् लोकैर् यजमानम् समर्धयति ।
एष्व् एव तल् लोकेषु यजमानम् दधाति ।

११.२ विविधछन्दांसि
अथ वै पङ्क्तेः पञ्च पदानि कथम् सार्धर्चशो अनुक्ता भवति इति ।
प्रणव उत्तरयोस् तृतीयः ।
तथा सार्धर्चशो अनुक्ता भवति ।
आग्नेयम् क्रतुम् अन्वाह ।
तद् इमंल् लोकम् आप्नोति ।
उषस्यम् अन्वाह ।
तद् अन्तरिक्ष लोकम् आप्नोति ।
आश्विनम् अन्वाह ।
तद् अमुंल् लोकम् आप्नोति ।
गायत्रीम् अन्वाह ।
मुखम् एव गायत्री ।
अनुष्टुभम् अन्वाह ।
वाग् अनुष्टुप् ।
मुखे तद् वाचम् दधाति ।
मुखेन वै वाचम् वदति ।
त्रिष्टुभम् अन्वाह ।
बलम् वै वीर्यम् त्रिष्टुप् ।
बृहतीम् अन्वाह ।
गो अश्वम् एव बृहती ।
उष्णिहम् अन्वाह ।
अज अविकम् एव उष्णिक् ।
जगतीम् अन्वाह ।
बलम् वै वीर्यम् जगती ।
बलम् वीर्यम् पुरस्तात् त्रिष्टुप् ।
बलम् वीर्यम् उपरिष्टाज् जगती ।

११.३ पशुग्रहणम्
मध्ये बार्हताश् च औष्णुहाश् च पशवः ।
बलेन एव तद् वीर्येण उभयतः पशून् परिगृह्य यजमाने दधाति ।
तथा यजमानात् पशवो अनुत्क्रामुका भवन्ति ।
तद् यथा ह वा अस्मिंल् लोके मनुष्याः पशून् अश्नन्ति ।
यथा एभिर् भुञ्जते ।
एवम् एव अमुष्मिंल् लोके पशवो मनुष्यान् अश्नन्ति ।
एवम् एभिर् भुञ्जते ।
स य एनान् इह प्रातर् अनुवाकेन अवरुन्धे ।
तम् इह अवरुद्धा अमुष्मिंल् लोके न अश्नन्ति ।
न एनेन प्रतिभुञ्जते ।
यथा एव एनान् अस्मिंल् लोके अश्नाति ।
यथा एभिर् भुङ्क्ते ।
एवम् एव एनान् अमुष्मिंल् लोके अश्नाति ।
यथा एव एनान् अस्मिंल् लोके अश्नाति ।
यथा एभिर् भुङ्क्ते ।
एवम् एव एनान् अमुष्मिंल् लोके अश्नाति ।
एवम् एभिर् भुङ्क्ते ।
पङ्क्तिम् अन्वाह । (प्रातरनुवाक)
प्रतिष्ठा वै पङ्क्तिः ।
सर्वेष्व् एव तद् भूतेषु यजमानम् प्रतिष्ठापयति ।

११.४ प्रातरनुवाकदेवताः
अथ सर्वा ह वै देवता होतारम् प्रातरनुवाकम् अनुवक्ष्यन्तम् आशंसमानाः प्रत्युपतिष्ठन्ते मया प्रतिपत्स्यते मया प्रतिपत्स्यत इति ।
स य एकाम् देवताम् आदिश्य प्रतिपद्येत ।
अथ इतराभ्यो देवताभ्यो वृश्च्येत ।
अनिरुक्तया प्रतिपद्यते ।
तेन उ न कस्यै चन देवताया आवृश्च्यते ।
आपो रेवतीः क्षयथा हि वस्व इति प्रतिपद्यते ।
आपो वै सर्वा देवताः ।
सर्वाभिर् एव तद् देवताभिः प्रतिपद्यते ।
उपरयन्तो अध्वरम् इत्य् उपसंदधाति ।
उप इति तद् अस्य लोकस्य रूपम् ।
प्रयन्त इत् तद् अमुष्य ।
उप इति तद् अग्ने रूपम् ।
प्रयन्त इति तद् अमुष्य आदित्यस्य ।
एवम् एव सर्वासु प्रतिपत्सु सर्वेषु ऋतुषु ।
आग्नेय उषस्य आश्विने पूर्वा पूर्वा एव व्याहृतिर् अग्ने रूपम् ।
उत्तरा अमुष्य आदित्यस्य ।
अथ एतद् द्वे नाना छन्दांस्य् अन्तरेण कर्ता इव ।
अथ एते बलिष्ठे अरिष्टे अनार्ते देवते ।
ताभ्याम् प्रतिपद्यते ।
समानेन सूक्तेन समारोहेत् ।
तद् अकर्तस्कद्यंल् (?) लोहस्य रूपम् स्वर्ग्यम् ।
यत्र वा समानस्य ऋषे स्यात् ।
तद् अनवानम् संक्रामेत् ।
अमृतम् वै प्राणः ।
अमृतेन तन् मृत्युम् तरति ।
तद् यथा वंशेन वा मत्येन (मत्स्येन?)वा कर्तम् संक्रामेद् एवम् तत् ।
प्रणवेन संक्रामति ।
ब्रह्म वै प्रणवः ।
ब्रह्मणा एव तद् ब्रह्म उपसंतनोति ।
११.५ प्रणवस्वरूपमीमांसा
शुद्धः प्रणवः स्यात् प्रजा कामानाम् ।
मकार अन्तः प्रतिष्ठा कामानाम् ।
मकार अन्तः प्रणवः स्याद् इति ह एक आहुः ।
शुद्ध इति त्व् एव स्थितः ।
मीमांसितः प्रणवः ।
अथ अत इह शुद्ध इह पूर्ण इति ।
शुद्ध एव प्रणवः स्यात् शस्त्र अनुवचनयोर् मध्य इति ह स्म आह कौषीतकिः ।
तथा संहितम् भवति ।
मकार अन्तो अवसान अर्थे ।
प्रतिष्ठा वा अवसानम् प्रतिष्ठित्या एव ।
अथो उभयोः कामयोर् आप्त्यै ।
एत उ ह वै छन्दः प्रवाहा अवरम् छन्दः परम् छन्दो अतिप्रवहन्ति ।
तस्य आर्तिर् न अस्ति छन्दसा छन्दो अतिप्रोढस्य ।
अतियन्न् एव यम् द्विष्यात् ।
तम् मनसा प्र इव विध्येत् छन्दसाम् कृन्तत्रेषु ।
द्रवति वा सम् वा शीर्यत इति ह स्म आह ।
समानोदर्काण्य् उत्तमानि क्रतूनाम् पाङ्क्तान्य् अन्वाह ।
रसो वा उदर्कः ।
पशवश् छन्दांसि ।
रसम् एव तत् छन्दांस्य् अभ्युपनिवर्तन्ते ।
उपनिवर्तम् इव वै पशवः ।
सौयवसे रमन्ते ।
सा एकोना विराड् द्विर् अनुक्तया ।
सम्प्रति विराट् त्रिर् अनूक्तया ।
एका विराजम् अत्येति ।

११.६ छन्दांसि एकविंशस्तोमश्च
त्रयो वै यज्ञे कामाः ।
यः सम्पन्ने यो न्यूने यो अतिरिक्ते ।
यद् वै यज्ञस्य सम्पन्नम् तत् स्वर्ग्यम्।
यन् न्यूनम् तद् अन्नाद्यम् ।
यद् अतिरिक्तम् तत् प्राजात्यै ।
तद् अत्र एव यजमानः सर्वान् कामान् आप्नोति ।
अभूद् एषा रुशत् पशुर् इत्य् आशीर्वत्या परिदधाति ।
पशुभ्य एव तद् आशिषम् वदते ।
तथा ह यजमानात् पशवो अनुत्क्रामुका भवन्ति ।
तस्याम् वाचम् उत्सृजते ।
तद् एनम् अजनीति देवेभ्यो निवेदयति ।
अत्र हि जायते ।
अया वाजम् देव हितम् सनेम इति द्विपदाम् अभ्यस्यति ।
पशवो वा एतानि चतुर् उत्तराणि छन्दांसि ।
यजमान छन्दसम् द्विपदा ।
अधिष्ठायाम् एव तत् पशूनाम् यजमानम् दधाति ।
अधि इव वै पशून् पुरुषस् तिष्ठति । 11.7
त्रिः सप्तानि क्रतूनाम् छन्दांस्य् अन्वाह ।
तद् एकविंशतिः ।
एकविंशो वै चतुष्टोमः स्तोमानाम् परमः ।
तत् परमम् स्तोमम् आप्नोति ।
यद् उ एव एकविंशतिः ।
द्वादश मासाः पञ्च ऋतवस् त्रय इमे लोकाः ।
असाव् आदित्य एवविंशः ।
तेन एव तस् सलोकतायाम् यजमानम् अध्यूहति ।

११.७ प्रातरनुवाके शंसनमन्त्राणां संख्या
तद् आहुर् यद् इमा हविर् यज्ञस्य वा पशोर् वा सामिधेन्यो अथ काः सौम्यस्य अध्वरस्य इति ।
प्रातरनुवाक इति ब्रूयात् ।
अक्षरैर् ह वा इतरासाम् संवत्सरम् उपेप्सति ।
ऋभिर् इह ।
शतमात्रम् अनुब्रूयात् ।
शत आयुर् वै पुरुषः ।
आयुर् एव अस्मिंस् तद् दधाति ।
विंशति शतम् अनुब्रूयात् ।
विंशति शतम् वा ऋतोर् अहानि ।
तद् ऋतुम् आप्नोति ।
ऋतुना संवत्सरम् ।
ये च संवत्सरे कामाः ।
त्रीणि षष्टि शतान्य् अनुब्रूयात् ।
त्रीणि वै षष्टि शतानि संवत्सरस्य अह्नाम् ।
तत् संवत्सरस्य अहान्य् आप्नोति ।
सप्तविंशति शतान्य् अनुब्रूयात् ।
सप्त वै विशंति शतानि संवत्सरस्य अहो रात्राणाम् ।
तत् संवत्सरस्य अहो रात्रान् आप्नोति ।
सहस्रम् अनुब्रूयात् ।
सर्वम् वै तद् यत् सहस्रम् ।
सर्वम् प्रातर् अनुवाकः ।
तत् सर्वेण सर्वम् आप्नोति य एवम् वेद ।
तद् उ ह स्म आह कौषीतकिः ।
प्रजापतिर् वै प्रातर् अनुवाकः ।
अपरिमित उ वै प्रजापतिः ।
कस् तम् मातुम् अर्हेद् इति ।
एषा ह एव स्थितिः ।

११.८ शंसनकालः स्थानं च
तद् आहुर् यत् सदस्य् उक्थानि शस्यन्ते अथ कस्माद्द् हविर्धानयोः प्रातरनुवाकम् अन्वाह इति ।
शिरो वै यज्ञस्य यद्द् हविर् धाने ।
वाक् प्रातर् अनुवाकः ।
वाचा एव तत् शिरः समर्धयति ।
उदरम् वै सदः ।
अन्नम् उक्थानि ।
उदर सचेयम् उ वा अन्नाद्यम् ।
तद् यथा ह वा अन एवम् यज्ञः प्रतिमया ।
यथा धान्यम् एवम् प्रातर् अनुवाकः ।
यथा पात्राण्य् एवम् उक्थानि ।
स यो अल्पकम् अन्वाह ।
यथा अल्प धान्ये पात्राणि समृच्छेरन् ।
एवम् तस्य उक्थाइ समृच्छन्ते ।
उखानाम् अनु समरम् ईश्वरो यजमानम् भ्रेषोन्वेतोः ।
तद् उ वा आहुर् बहुम् एव अनुब्रूयात् ।
उक्थानि तत् परिवृंहति (परिबृन्हति) ।
या यज्ञस्य समृद्धस्य आशीः सा मे समृध्यताम् इति ।
या वै यज्ञस्य समृद्धस्य आशीः सा यजमानस्य ।
अथो त्रीणि वा एतानि साहस्राण्य् अधियज्ञम् ।
प्रातरनुवाक आश्विनम् महा व्रतम् इति ।
एतद् उक्थम् महा रात्र उपाकुर्यात् पुरा वाचो विसर्गात् ।
यत्र एतत् पशवो मनुष्या वयांसि इति वाचम् व्यालभन्ते पुरा ततः ।
आपीनाम् वाचम् अव्यासिक्ताम् प्रथमत ऋध्नवानि इति ।
न प्रातरनुवाकम् च उपांश्व् अन्तर्यामौ च अन्तरेण वाचम् विसृजते ।
प्राण अपानौ वा उपांश्व् अन्तर्यामौ ।
वाक् प्रातर् अनुवाकः ।
न इत् प्राण अपानौ च वाचम् च अन्येन अन्तर् दधाति इति ।
तद्द् ह एके कश् छन्दसाम् योगम् आवेद धीर इति जपित्वा अथ आपो रेवतीः क्षयथा हि वस्व इति प्रतिपद्यन्ते ।
न आपो रेवत्यै पुरस्तात् किंचन परिहरेद् इति ।
तद् इह स्थितम् अनाव्रस्काय तद् इह स्थितम् अनाव्रस्काय ।