कौषीतकिब्राह्मणम्/अध्यायः १२
← अध्यायः ११ | कौषीतकिब्राह्मणम् अध्यायः १२ [[लेखकः :|]] |
अध्यायः १३ → |
सोमयागः |
१२.१ आपोनप्त्रीयम्
यज्ञो वा आपः । तद् यद् अपो अच्छ यन्ति । यज्ञम् एव तद् अच्छ यन्ति । अथो ऊर्ग् वा आपो रसः । और्जेन एव तद् रसेन हविः संसृजन्ति । अथो अमृतत्वम् वा आपः । (सोम अपोणप्तॄया) अमृतत्वम् एव तद् आत्मन् धत्ते । तद्द् ह स्म वै पुरा यज्ञ मुहो रक्षांसि तीर्थेष्व् अपो गोपायन्ति । (सोम अपोणप्तॄया) तद् ये के च आपो अच्छ जग्मुः । तद् एव तान्त् सर्वान् जघ्नुः । तत् एतत् कवषः सूक्तम् अपश्यत् पञ्चदशर्चम् प्र देवत्रा ब्रह्मणे गातुर् एत्व् इति । (सोम अपोणप्तॄया) तद् अन्वब्रवीत् । तेन यज्ञ मुहो रक्षांसि तीर्थेब्यो अपाहन् । (सोम अपोणप्तॄया) तत उ ह एतद् अर्वाक् स्वस्त्य् अरिष्ट्याः पुनः प्रत्यायन्ति । अथ अदो अमुत्र अप्स्व् अध्वर्युर् आहुतिम् जुहोति । ताम् सम्प्रत्य् एताम् अनुब्रूयात् । (सोम अपोणप्तॄया) हिनोता नो अध्वरम् देव यज्या इति । तस्या एव एषा याज्या देव यज्या इत्य् अभिरूपा । (सोम अपोणप्तॄया) आवर्वृततीर् अध नु द्विधारा इत्य् आवृत्तासु । प्रति यद् आपो अदृश्रमायतीर् इति प्रतिख्यातासु । (सोम अपोणप्तॄया) समन्या यन्त्य् उप यन्त्य् अन्या इति समायतीषु । आपो न देवीर् उप यन्ति होत्रियम् इति होतृ चमसे अवनीयमानासु । (सोम अपोणप्तॄया) आधेनवः पयसा तूर्ण्य् अर्था इति । (सोम अपोणप्तॄया) आपो वै धेनवः । आपो हि इदम् सर्वम् धिन्वन्ति । अथ अध्वर्युर् होतारम् अभ्यावृत्य तिष्ठति । (सोम अपोणप्तॄया) तम् होता पृच्छत्य् अध्वर्यव् ऐषीर् अप इति । ऐषीर् यज्ञम् इत्य् एव एनम् तद् आह । (सोम अपोणप्तॄया) उतेमनन्नमुर् (?) इति प्रत्याह । अविदाम तद् यद् आस्य ऐषीष्म अनंसत तस्मा इत्य् एव एनम् तद् आह । (सोम अपोणप्तॄया) प्रत्युक्तो होता एतम् निगदम् प्रतिपद्यते । ऊर्ग् वै रसो निगदः । (सोम अपोणप्तॄया) और्जम् एव तद् रसम् निगदेन हविषि दधाति ।
१२.२ आपोनप्त्रीयम्
अम्बयो यन्त्य् अध्वभिर् इति । (सोम अपोणप्तॄया) आपो वा अम्बयः । अपो हि यतीः स्तौति । एमा अग्मन् रेवतीर् जीव धन्या इत्य् आगतासु । (सोम अपोणप्तॄया) आग्मन्न् आप उशतीर् बर्हिर् एदम् इत्य् आगतवत्या परिदधाति । अभिरूपा अन्वाह । (सोम अपोणप्तॄया) यद् यज्ञे अभिरूपम् तत् समृद्धम् यज्ञस्य एव समृद्ध्यै । (सोम अपोणप्तॄया) अनूक्तः प्रातरनुवाक आसीत् । अप्राप्तान्य् उक्थान्य् आसन् । तान् एतस्मिन्त् संधाव् असुरा उपायन् । ते देवाः प्रतिबुध्य बिभ्यत एतम् त्रिह्समृद्धम् वज्रम् अपश्यन् । (सोम अपोणप्तॄया) आप इति तत् प्रथमम् वज्र रूपम् । सरस्वती इति तद् द्वितीयम् वज्र रूपम् । (सोम अपोणप्तॄया) पञ्चदशर्चम् भवति । तत् तृतीयम् वज्र रूपम् । एतेन वै देवास् त्रिः समृद्धेन वज्रेण एभ्यो लोकेभ्यो असुरान् अनुदन्त । (सोम अपोणप्तॄया) तथो एव एतद् यजमान एतेन एव त्रिः समृद्धेन वज्रेण एभ्यो लोकेभ्यो द्विषतो भ्रातृव्यान् नुदते । (सोम अपोणप्तॄया)
१२.३ कवषाख्यानम्
माध्यमाः सरस्वत्याम् सत्रम् आसत । तद्द् ह अपि कवषो मध्ये निषसाद । (सोम अपोणप्तॄया) तम् ह इम उपोदुः । दास्या वै त्वम् पुत्रो असि न वयम् त्वया सह भक्षयिष्याम इति । (सोम अपोणप्तॄया) स ह क्रुद्धः प्रद्रवन्त् सरस्वतीम् एतेन सूक्तेन तुष्टाव । तम् ह इयम् अन्वियाय । (सोम अपोणप्तॄया) तत उ ह इमे निरागा इव मेनिरे । तम् ह अन्वाद्रुत्य ऊचुः । ऋचे नमस् ते अस्तु मा नो हासीः । (सोम अपोणप्तॄया) त्वम् वै नः श्रेष्ठो असि । यम् त्वा इयम् अन्वेति इति । तम् ह ज्ञपयाम् चक्रुः । (सोम अपोणप्तॄया) तस्य ह क्रोधम् विनिन्युः । स एष कवषस्य एव महिमा सूक्तस्य च अनुवेदिता । (सोम अपोणप्तॄया) अथ यत् सह पत्नीभिर् यन्ति । गन्धर्वा ह वा इन्द्रस्य सोमम् अप्सु प्रत्याहिता गोपायन्ति । त उ ह स्त्री कामाः । (सोम अपोणप्तॄया) ते ह आसु मनांसि कुर्वते । तद् यथा प्रमत्तानाम् यज्ञम् आहरेद् एवम् तत् । (सोम अपोणप्तॄया) उपनामुक उ एव एनम् यज्ञो भवति । ता वै विंशतिम् अन्वाह । ता विराजम् अभिसम्पद्यन्ते । (सोम अपोणप्तॄया) वैराजीर् वा आपः । अन्नम् विराड् अन्नम् आपः । अन्नेन तद् अन्नाद्यम् समर्धयति । त्रिः प्रथमया त्रिर् उत्तमया चतुर्विंशतिः सम्पद्यन्ते । (सोम अपोणप्तॄया) चतुर्विंशत्य् अक्षरा गायत्री । गायत्री प्रातःसवनम् वहति । तद् उ ह प्रातःसवन रूपान् न अपैति । इति न्व् आपोनप्त्रीयस्य । (सोम अपोणप्तॄया)
१२.४ उपांश्वन्तर्यामग्रहौ (सोम एकादशिनी)
अथ वा उपांशुः प्राण एव । तम् हूयमानम् अनुप्राण्यात् प्राणम् मे पाहि प्राणम् मे जिन्व स्वाहा त्वा सुभव सूर्याय इति । स एव तस्य वषट् कारः स स्वाहा कारः । न ह वै ता आहुतयो देवान् गच्छन्ति या अवषट् कृता वा अस्वाहा कृता वा भवन्ति । अन्तर्यामो अपान एव । तम् हूयमानम् अन्ववान्याद् अपानम् मे पाह्य् अपानम् मे जिन्व स्वाहा इत्वा सुभव सूर्याय इति । स एव तस्य वषट् कारः स स्वाहा कारः । न ह वै ता आहुतयो देवान् गच्छन्ति या अवषट् कृता वा अस्वाहा कृता वा भवन्ति । तौ वा एतौ प्राण अपानाव् एव यद् उपांश्व् अन्तर्यामौ । तयोर् वा उदिते अन्यम् अनुदिते अन्यम् जुह्वति । इमाव् एव तत् प्राण अपानौ वितारयति । तस्माद्द् हि इमौ प्राण अपानौ सह सन्तौ नाना इव । यद् व् एव उदिते अन्यम् अनुदिते अन्यम् जुह्वति । अहो रात्राभ्याम् एव तद् असुरान् अन्तरयन्ति । उभयतो ह्य् अमुम् आदित्यम् अहो रात्रे पाप्मानम् वा यजमान इति ह स्म आः । अथ यस्य एता उभा उदिते जुह्वत्य् उभौ वा अनुदिते । उदक याजी स न सोम याजी । यस्य एव एतौ यथा यथम् हूयेते स सोम याजी । इति न्व् आउपांश्व् अन्तर्यामयोः ।
१२.५ बहिष्पवमानस्तोत्रम् (सोम एकादशिनी)
अनूत्थेयः पवमानो न इति । न अनूत्थेय इत्य् आहुः । ऋच एतद् आयतनम् यत्र एतद्द् ह उत आस्ते । अथ अदः साम्नो यत्र अमी साम गायन्ति । स यो अनूत्तिष्ठति । ऋचम् स स्वाद आयतनाच् च्यवयति । ऋचम् स साम्नो अनुवर्त्मानम् करोति । तस्माद् उ न अनूत्तिष्ठेत् । न इद् ऋचम् स्वाद आयतनाच् च्यवयानि इति । (सोम एकादशिनी) न इद् ऋचम् साम्नो अनुवर्त्मानम् करवाणि इति । यदि तु स्वयम् होता स्यात् । अनूत्तिष्ठेत् । औपगात्रम् ह्य् अस्य भवति । स्वर्गो वै लोकः स्वरः साम । स्वर्गे लोके स्वरे सामन्य् आत्मानम् अतिसृजा इति । अथ पवमाने ह वा उ प्रातः सर्वा देवताः संतृप्यन्ति । कथम् तत्र अपरिभक्षितो भवति इति । स स्तुते पवमान एतम् जपम् जपेत् । उपहूता देवा अस्य सोमस्य पवमानस्य विचक्षणस्य भक्ष उप माम् देवा ह्वयन्ताम् अस्य सोमस्य पवमानस्य विचक्षणस्य भक्षे मनसा त्वा भक्षयामि वाचा त्वा भक्षयामि प्राणेन त्वा भक्षयामि चक्षुषा त्वा भक्षयामि श्रोत्रेण त्वा भक्षयामि इति । स एष देवैः समुपहवः । तथा ह अस्य असौ सोमो राजा विचक्षणश् चन्द्रमा भक्षो भक्षितो भवति । यम् अमुम् देवा भक्षम् भक्षयन्ति ।
१२.६ पशुभाजनाः (सोम एकादशिनी)
सोमभाजनाश्च देवताः अथ पशुः । सोम एव एष प्रत्यक्षम् यत् पशुः । उदक पेयम् इव हि स्याद् यद् एष न आलभ्येत । सवनान्य् एतेन तीव्री करोति । तद् यद् वपया चरन्ति । तेन प्रातःसवनम् तीव्री कृतम् । यत् श्रपयन्ति यत् पशु पुरोडाशेन चरन्ति । तेन माध्यंदिनम् सवनम् तीव्री कृतम् । अथ यद् एनेन तृतीय सवने प्रचरन्ति । तेन तृतीय सवनम् तीवृई कृतम् । स एष सवनानाम् एव तीव्री कारः । याश् च सोमपा देवताः । याश् च पशु भाजनाः । त्रयस् त्रिंशद् वै सोमपा देवताः । याः सोम आहुतीर् अन्वायत्ताः । अष्टौ वसव एकादश रुद्रा द्वादश आदित्या इन्द्रो द्वात्रिंशः । प्रजापतिस् त्रयस् त्रिंशः । त्रयस् त्रिंशत् पशु भाजनाः । ता उभय्यः प्रीता भवन्ति यद् एष आलभ्यते । तम् एतम् ऐन्द्राग्नः स्याद् इति ह एक आहुः । इन्द्राग्नी वै सर्वे देवाः । तद् एनेन सर्वान् देवान् प्रीणाति इति वदन्तः । तद् उ वा आहुर् अति तद् इन्द्रम् भाजयन्ति । अग्नेर् वै प्रातःसवनम् । प्रातःसवन एष आलभ्यते । अग्नेर् वा एतम् सन्तम् अन्यस्मै हरन्ति ये अन्य देवत्यम् कुर्वन्ति । तद् यथा अन्यस्य सन्तम् अन्यस्मै हरेद् एवम् तत् । अपि केवलम् संवत्सरम् संवत्सर सदाम् आग्नेय एव न च्यवेत इति । तद्विहा एक आहुः । शिक्षायाम् एव अवधृत आग्नेयः ।
१२.७ सवनीयः पशुः (सोम एकादशिनी)
तस्य भुवो यज्ञस्य रजसश् च नेता इति वपायै याज्या । प्र वः शुक्राय भानवे भरध्वम् इति शुक्रवती पुरोडाशस्य । प्र कारवो मनना वच्यमाना इति हविष्मती हविषः । एकादशिनीस् त्व् एव अन्वायातयेयुर् इति सा स्थितिः । यदि पृष्ठ उपायम् भवति । अथ आवाहने । आवह देवान् यजमानाय । अग्निम् अग्न आवह वनस्पतिम् आवह इन्द्रम् वसुमन्तम् आवह इति । तत् प्रातःसवनम् आवाहयति । इन्द्रम् रुद्रवन्तम् आवह इति । तन् माध्यंदिनम् सवनम् आवाहयति । इन्द्रम् आदित्यवन्तम् ऋभुमन्तम् विभुमन्तम् वाजवन्तम् बृहस्पतिवन्तम् विश्व देव्या वन्तम् आवह इति । तत् तृतीय सवनम् आवाहयति । अत उ ह एके वनस्पतिम् आवाहयन्ति। अन्तत आवाह्यः । तृतीय सवने ह्य् एनम् यजन्ति इति वदन्तः । तद् उ वा आहुर् आत्मा वै पशुः । प्राणो वनस्पतिः । यस् तम् तत्र ब्रूयात् । प्राणाद् आत्मानम् अन्तरगान् न जीविष्यति इति तथा ह स्यात् । तस्मात् पशुम् एव उपसंधाय वनस्पतिर् आवाह्यः । मीमांसितः पशुः ।
१२.८(सवनीयः पशुः) (सोम एकादशिनी)
प्रजापतिः प्रजा सृष्ट्वा रिरिचान इव अमन्यत । स ह ऐक्षत । कथम् नु तेन यज्ञ क्रतुना यजेय येन इष्ट्वा उप कामान् आप्नुयाम् अव अन्नाद्यम् रुन्धीय इति । स ताम् एकादशिनीम् अपश्यत् । ताम् आहरत् तया अयजत । तया इष्ट्वा उप कामान् आप्नोद् अव अन्नाद्यम् अरुन्धत । तथो एवैतद् यजमान एतया एव एकादशिन्या इष्ट्वा उप कामान् आप्नोत्य् अव अन्नाद्यम् रुन्धे । तस्यै वा एतस्या एकादशिन्यै याज्या पुरोनुवाक्याश् चैव नाना । मनोतायै च हविषः । अथ इतरत् समानम् । आग्नेयः प्रथमः । ब्रह्म वा अग्निः । ब्रह्म यशसस्य अवरुद्ध्यै । सारस्वतो द्वितीयः । वाग् वै सरस्वती । वाचा वा इदम् स्वदितम् अन्नम् अद्यते अन्न अद्यस्य उपाप्त्यै । सौम्यस् तृतीयः । क्षत्रम् वै सोमः । क्षत्र यशसस्य अवरुद्ध्यै । पौष्णश् चतुर्थः । अन्नम् वै पूषा । अन्न अद्यस्य उपाप्त्यै । बार्हस्पत्यः पञ्चमः । ब्रह्म वै बृहस्पतिः । ब्रह्म यशसस्य अवरुद्ध्यै । वैश्वदेवः षष्ठः । विश्व रूपम् वा इदम् अन्नम् अद्यते अन्न अद्यस्य उपाप्त्यै । ऐन्द्रः सप्तमः । क्षत्रम् वा इन्द्रः । क्षत्र यशसस्य अवरुद्ध्यै । मारुतो अष्टमः । आपो वै मरुतः । ब्रह्म क्षत्रे वा इन्द्राग्नी । ब्रह्म यशसस्य च क्षत्र यशसस्य च अवरुद्ध्यै । सावित्रो दशमः । सवितृ प्रसूतम् वा इदम् अन्नम् अद्यते अन्न अद्यस्य उपाप्त्यै । वारुण एकादशः । (सोम एकादशिनी) क्षत्रम् वै वरुणः । क्षत्र यशसस्य अवरुद्ध्यै । एवम् वै प्रजापतिर् ब्रह्मणा च क्षत्रेण च क्षत्रेण च ब्रह्मणा च उभयतो अन्नाद्यम् परिहृह्णानो अवरुन्धान ऐत् । तथो एव एतद् यजमान एवम् एव ब्रह्मणा च क्षत्रेण च क्षत्रेण च ब्रह्मणा च उभयतो अन्नाद्यम् परिगृह्णानो अवरुन्धान एत्य् अवरुन्धान एति ।
१२.१ आपोनप्त्रीयम्
यज्ञो वा आपः ।
तद् यद् अपो अच्छ यन्ति ।
यज्ञम् एव तद् अच्छ यन्ति ।
अथो ऊर्ग् वा आपो रसः ।
और्जेन एव तद् रसेन हविः संसृजन्ति ।
अथो अमृतत्वम् वा आपः । (सोम अपोणप्तॄया)
अमृतत्वम् एव तद् आत्मन् धत्ते ।
तद्द् ह स्म वै पुरा यज्ञ मुहो रक्षांसि तीर्थेष्व् अपो गोपायन्ति । (सोम अपोणप्तॄया)
तद् ये के च आपो अच्छ जग्मुः ।
तद् एव तान्त् सर्वान् जघ्नुः ।
तत् एतत् कवषः सूक्तम् अपश्यत् पञ्चदशर्चम् प्र देवत्रा ब्रह्मणे गातुर् एत्व् इति । (सोम अपोणप्तॄया)
तद् अन्वब्रवीत् ।
तेन यज्ञ मुहो रक्षांसि तीर्थेब्यो अपाहन् । (सोम अपोणप्तॄया)
तत उ ह एतद् अर्वाक् स्वस्त्य् अरिष्ट्याः पुनः प्रत्यायन्ति ।
अथ अदो अमुत्र अप्स्व् अध्वर्युर् आहुतिम् जुहोति ।
ताम् सम्प्रत्य् एताम् अनुब्रूयात् । (सोम अपोणप्तॄया)
हिनोता नो अध्वरम् देव यज्या इति ।
तस्या एव एषा याज्या देव यज्या इत्य् अभिरूपा । (सोम अपोणप्तॄया)
आवर्वृततीर् अध नु द्विधारा इत्य् आवृत्तासु ।
प्रति यद् आपो अदृश्रमायतीर् इति प्रतिख्यातासु । (सोम अपोणप्तॄया)
समन्या यन्त्य् उप यन्त्य् अन्या इति समायतीषु ।
आपो न देवीर् उप यन्ति होत्रियम् इति होतृ चमसे अवनीयमानासु । (सोम अपोणप्तॄया)
आधेनवः पयसा तूर्ण्य् अर्था इति । (सोम अपोणप्तॄया)
आपो वै धेनवः ।
आपो हि इदम् सर्वम् धिन्वन्ति ।
अथ अध्वर्युर् होतारम् अभ्यावृत्य तिष्ठति । (सोम अपोणप्तॄया)
तम् होता पृच्छत्य् अध्वर्यव् ऐषीर् अप इति ।
ऐषीर् यज्ञम् इत्य् एव एनम् तद् आह । (सोम अपोणप्तॄया)
उतेमनन्नमुर् (?) इति प्रत्याह ।
अविदाम तद् यद् आस्य ऐषीष्म अनंसत तस्मा इत्य् एव एनम् तद् आह । (सोम अपोणप्तॄया)
प्रत्युक्तो होता एतम् निगदम् प्रतिपद्यते ।
ऊर्ग् वै रसो निगदः । (सोम अपोणप्तॄया)
और्जम् एव तद् रसम् निगदेन हविषि दधाति ।
१२.२ आपोनप्त्रीयम्
अम्बयो यन्त्य् अध्वभिर् इति । (सोम अपोणप्तॄया)
आपो वा अम्बयः ।
अपो हि यतीः स्तौति ।
एमा अग्मन् रेवतीर् जीव धन्या इत्य् आगतासु । (सोम अपोणप्तॄया)
आग्मन्न् आप उशतीर् बर्हिर् एदम् इत्य् आगतवत्या परिदधाति ।
अभिरूपा अन्वाह । (सोम अपोणप्तॄया)
यद् यज्ञे अभिरूपम् तत् समृद्धम् यज्ञस्य एव समृद्ध्यै । (सोम अपोणप्तॄया)
अनूक्तः प्रातरनुवाक आसीत् ।
अप्राप्तान्य् उक्थान्य् आसन् ।
तान् एतस्मिन्त् संधाव् असुरा उपायन् ।
ते देवाः प्रतिबुध्य बिभ्यत एतम् त्रिह्समृद्धम् वज्रम् अपश्यन् । (सोम अपोणप्तॄया)
आप इति तत् प्रथमम् वज्र रूपम् ।
सरस्वती इति तद् द्वितीयम् वज्र रूपम् । (सोम अपोणप्तॄया)
पञ्चदशर्चम् भवति ।
तत् तृतीयम् वज्र रूपम् ।
एतेन वै देवास् त्रिः समृद्धेन वज्रेण एभ्यो लोकेभ्यो असुरान् अनुदन्त । (सोम अपोणप्तॄया)
तथो एव एतद् यजमान एतेन एव त्रिः समृद्धेन वज्रेण एभ्यो लोकेभ्यो द्विषतो भ्रातृव्यान् नुदते । (सोम अपोणप्तॄया)
१२.३ कवषाख्यानम्
माध्यमाः सरस्वत्याम् सत्रम् आसत ।
तद्द् ह अपि कवषो मध्ये निषसाद । (सोम अपोणप्तॄया)
तम् ह इम उपोदुः ।
दास्या वै त्वम् पुत्रो असि न वयम् त्वया सह भक्षयिष्याम इति । (सोम अपोणप्तॄया)
स ह क्रुद्धः प्रद्रवन्त् सरस्वतीम् एतेन सूक्तेन तुष्टाव ।
तम् ह इयम् अन्वियाय । (सोम अपोणप्तॄया)
तत उ ह इमे निरागा इव मेनिरे ।
तम् ह अन्वाद्रुत्य ऊचुः ।
ऋचे नमस् ते अस्तु मा नो हासीः । (सोम अपोणप्तॄया)
त्वम् वै नः श्रेष्ठो असि ।
यम् त्वा इयम् अन्वेति इति ।
तम् ह ज्ञपयाम् चक्रुः । (सोम अपोणप्तॄया)
तस्य ह क्रोधम् विनिन्युः ।
स एष कवषस्य एव महिमा सूक्तस्य च अनुवेदिता । (सोम अपोणप्तॄया)
अथ यत् सह पत्नीभिर् यन्ति ।
गन्धर्वा ह वा इन्द्रस्य सोमम् अप्सु प्रत्याहिता गोपायन्ति ।
त उ ह स्त्री कामाः । (सोम अपोणप्तॄया)
ते ह आसु मनांसि कुर्वते ।
तद् यथा प्रमत्तानाम् यज्ञम् आहरेद् एवम् तत् । (सोम अपोणप्तॄया)
उपनामुक उ एव एनम् यज्ञो भवति ।
ता वै विंशतिम् अन्वाह ।
ता विराजम् अभिसम्पद्यन्ते । (सोम अपोणप्तॄया)
वैराजीर् वा आपः ।
अन्नम् विराड् अन्नम् आपः ।
अन्नेन तद् अन्नाद्यम् समर्धयति ।
त्रिः प्रथमया त्रिर् उत्तमया चतुर्विंशतिः सम्पद्यन्ते । (सोम अपोणप्तॄया)
चतुर्विंशत्य् अक्षरा गायत्री ।
गायत्री प्रातःसवनम् वहति ।
तद् उ ह प्रातःसवन रूपान् न अपैति ।
इति न्व् आपोनप्त्रीयस्य । (सोम अपोणप्तॄया)
१२.४ उपांश्वन्तर्यामग्रहौ
अथ वा उपांशुः प्राण एव ।
तम् हूयमानम् अनुप्राण्यात् प्राणम् मे पाहि प्राणम् मे जिन्व स्वाहा त्वा सुभव सूर्याय इति । (सोम एकादशिनी)
स एव तस्य वषट् कारः स स्वाहा कारः ।
न ह वै ता आहुतयो देवान् गच्छन्ति या अवषट् कृता वा अस्वाहा कृता वा भवन्ति । (सोम एकादशिनी)
अन्तर्यामो अपान एव ।
तम् हूयमानम् अन्ववान्याद् अपानम् मे पाह्य् अपानम् मे जिन्व स्वाहा इत्वा सुभव सूर्याय इति । (सोम एकादशिनी)
स एव तस्य वषट् कारः स स्वाहा कारः ।
न ह वै ता आहुतयो देवान् गच्छन्ति या अवषट् कृता वा अस्वाहा कृता वा भवन्ति । (सोम एकादशिनी)
तौ वा एतौ प्राण अपानाव् एव यद् उपांश्व् अन्तर्यामौ ।
तयोर् वा उदिते अन्यम् अनुदिते अन्यम् जुह्वति । (सोम एकादशिनी)
इमाव् एव तत् प्राण अपानौ वितारयति ।
तस्माद्द् हि इमौ प्राण अपानौ सह सन्तौ नाना इव । (सोम एकादशिनी)
यद् व् एव उदिते अन्यम् अनुदिते अन्यम् जुह्वति ।
अहो रात्राभ्याम् एव तद् असुरान् अन्तरयन्ति । (सोम एकादशिनी)
उभयतो ह्य् अमुम् आदित्यम् अहो रात्रे पाप्मानम् वा यजमान इति ह स्म आः । (सोम एकादशिनी)
अथ यस्य एता उभा उदिते जुह्वत्य् उभौ वा अनुदिते ।
उदक याजी स न सोम याजी । (सोम एकादशिनी)
यस्य एव एतौ यथा यथम् हूयेते स सोम याजी ।
इति न्व् आउपांश्व् अन्तर्यामयोः । (सोम एकादशिनी)
१२.५ बहिष्पवमानस्तोत्रम्
अनूत्थेयः पवमानो न इति ।
न अनूत्थेय इत्य् आहुः ।
ऋच एतद् आयतनम् यत्र एतद्द् ह उत आस्ते । (सोम एकादशिनी)
अथ अदः साम्नो यत्र अमी साम गायन्ति ।
स यो अनूत्तिष्ठति । (सोम एकादशिनी)
ऋचम् स स्वाद आयतनाच् च्यवयति ।
ऋचम् स साम्नो अनुवर्त्मानम् करोति । (सोम एकादशिनी)
तस्माद् उ न अनूत्तिष्ठेत् ।
न इद् ऋचम् स्वाद आयतनाच् च्यवयानि इति । (सोम एकादशिनी)
न इद् ऋचम् साम्नो अनुवर्त्मानम् करवाणि इति ।
यदि तु स्वयम् होता स्यात् । (सोम एकादशिनी)
अनूत्तिष्ठेत् ।
औपगात्रम् ह्य् अस्य भवति ।
स्वर्गो वै लोकः स्वरः साम । (सोम एकादशिनी)
स्वर्गे लोके स्वरे सामन्य् आत्मानम् अतिसृजा इति ।
अथ पवमाने ह वा उ प्रातः सर्वा देवताः संतृप्यन्ति ।
कथम् तत्र अपरिभक्षितो भवति इति । (सोम एकादशिनी)
स स्तुते पवमान एतम् जपम् जपेत् ।
उपहूता देवा अस्य सोमस्य पवमानस्य विचक्षणस्य भक्ष उप माम् देवा ह्वयन्ताम् अस्य सोमस्य पवमानस्य विचक्षणस्य भक्षे मनसा त्वा भक्षयामि वाचा त्वा भक्षयामि प्राणेन त्वा भक्षयामि चक्षुषा त्वा भक्षयामि श्रोत्रेण त्वा भक्षयामि इति । (सोम एकादशिनी)
स एष देवैः समुपहवः ।
तथा ह अस्य असौ सोमो राजा विचक्षणश् चन्द्रमा भक्षो भक्षितो भवति । (सोम एकादशिनी)
यम् अमुम् देवा भक्षम् भक्षयन्ति ।
१२.६ पशुभाजनाः सोमभाजनाश्च देवताः
अथ पशुः ।
सोम एव एष प्रत्यक्षम् यत् पशुः । (सोम एकादशिनी)
उदक पेयम् इव हि स्याद् यद् एष न आलभ्येत ।
सवनान्य् एतेन तीव्री करोति । (सोम एकादशिनी)
तद् यद् वपया चरन्ति ।
तेन प्रातःसवनम् तीव्री कृतम् । (सोम एकादशिनी)
यत् श्रपयन्ति यत् पशु पुरोडाशेन चरन्ति ।
तेन माध्यंदिनम् सवनम् तीव्री कृतम् । (सोम एकादशिनी)
अथ यद् एनेन तृतीय सवने प्रचरन्ति ।
तेन तृतीय सवनम् तीवृई कृतम् । (सोम एकादशिनी)
स एष सवनानाम् एव तीव्री कारः ।
याश् च सोमपा देवताः । (सोम एकादशिनी)
याश् च पशु भाजनाः ।
त्रयस् त्रिंशद् वै सोमपा देवताः । (सोम एकादशिनी)
याः सोम आहुतीर् अन्वायत्ताः ।
अष्टौ वसव एकादश रुद्रा द्वादश आदित्या इन्द्रो द्वात्रिंशः । (सोम एकादशिनी)
प्रजापतिस् त्रयस् त्रिंशः ।
त्रयस् त्रिंशत् पशु भाजनाः ।
ता उभय्यः प्रीता भवन्ति यद् एष आलभ्यते । (सोम एकादशिनी)
तम् एतम् ऐन्द्राग्नः स्याद् इति ह एक आहुः ।
इन्द्राग्नी वै सर्वे देवाः । (सोम एकादशिनी)
तद् एनेन सर्वान् देवान् प्रीणाति इति वदन्तः ।
तद् उ वा आहुर् अति तद् इन्द्रम् भाजयन्ति । (सोम एकादशिनी)
अग्नेर् वै प्रातःसवनम् ।
प्रातःसवन एष आलभ्यते ।
अग्नेर् वा एतम् सन्तम् अन्यस्मै हरन्ति ये अन्य देवत्यम् कुर्वन्ति । (सोम एकादशिनी)
तद् यथा अन्यस्य सन्तम् अन्यस्मै हरेद् एवम् तत् ।
अपि केवलम् संवत्सरम् संवत्सर सदाम् आग्नेय एव न च्यवेत इति । (सोम एकादशिनी)
तद्विहा एक आहुः ।
शिक्षायाम् एव अवधृत आग्नेयः ।
१२.७ सवनीयः पशुः
तस्य भुवो यज्ञस्य रजसश् च नेता इति वपायै याज्या । (सोम एकादशिनी)
प्र वः शुक्राय भानवे भरध्वम् इति शुक्रवती पुरोडाशस्य ।
प्र कारवो मनना वच्यमाना इति हविष्मती हविषः । (सोम एकादशिनी)
एकादशिनीस् त्व् एव अन्वायातयेयुर् इति सा स्थितिः ।
यदि पृष्ठ उपायम् भवति । (सोम एकादशिनी)
अथ आवाहने ।
आवह देवान् यजमानाय ।
अग्निम् अग्न आवह वनस्पतिम् आवह इन्द्रम् वसुमन्तम् आवह इति । (सोम एकादशिनी)
तत् प्रातःसवनम् आवाहयति ।
इन्द्रम् रुद्रवन्तम् आवह इति । (सोम एकादशिनी)
तन् माध्यंदिनम् सवनम् आवाहयति ।
इन्द्रम् आदित्यवन्तम् ऋभुमन्तम् विभुमन्तम् वाजवन्तम् बृहस्पतिवन्तम् विश्व देव्या वन्तम् आवह इति । (सोम एकादशिनी)
तत् तृतीय सवनम् आवाहयति ।
अत उ ह एके वनस्पतिम् आवाहयन्ति। (सोम एकादशिनी)
अन्तत आवाह्यः ।
तृतीय सवने ह्य् एनम् यजन्ति इति वदन्तः ।
तद् उ वा आहुर् आत्मा वै पशुः । (सोम एकादशिनी)
प्राणो वनस्पतिः ।
यस् तम् तत्र ब्रूयात् ।
प्राणाद् आत्मानम् अन्तरगान् न जीविष्यति इति तथा ह स्यात् ।
तस्मात् पशुम् एव उपसंधाय वनस्पतिर् आवाह्यः ।
मीमांसितः पशुः ।
१२.८(सवनीयः पशुः)
प्रजापतिः प्रजा सृष्ट्वा रिरिचान इव अमन्यत । (सोम एकादशिनी)
स ह ऐक्षत ।
कथम् नु तेन यज्ञ क्रतुना यजेय येन इष्ट्वा उप कामान् आप्नुयाम् अव अन्नाद्यम् रुन्धीय इति । (सोम एकादशिनी)
स ताम् एकादशिनीम् अपश्यत् ।
ताम् आहरत् तया अयजत । (सोम एकादशिनी)
तया इष्ट्वा उप कामान् आप्नोद् अव अन्नाद्यम् अरुन्धत ।
तथो एवैतद् यजमान एतया एव एकादशिन्या इष्ट्वा उप कामान् आप्नोत्य् अव अन्नाद्यम् रुन्धे । (सोम एकादशिनी)
तस्यै वा एतस्या एकादशिन्यै याज्या पुरोनुवाक्याश् चैव नाना । (सोम एकादशिनी)
मनोतायै च हविषः ।
अथ इतरत् समानम् ।
आग्नेयः प्रथमः । (सोम एकादशिनी)
ब्रह्म वा अग्निः ।
ब्रह्म यशसस्य अवरुद्ध्यै ।
सारस्वतो द्वितीयः । (सोम एकादशिनी)
वाग् वै सरस्वती ।
वाचा वा इदम् स्वदितम् अन्नम् अद्यते अन्न अद्यस्य उपाप्त्यै । (सोम एकादशिनी)
सौम्यस् तृतीयः ।
क्षत्रम् वै सोमः । (सोम एकादशिनी)
क्षत्र यशसस्य अवरुद्ध्यै ।
पौष्णश् चतुर्थः ।
अन्नम् वै पूषा । (सोम एकादशिनी)
अन्न अद्यस्य उपाप्त्यै ।
बार्हस्पत्यः पञ्चमः ।
ब्रह्म वै बृहस्पतिः । (सोम एकादशिनी)
ब्रह्म यशसस्य अवरुद्ध्यै ।
वैश्वदेवः षष्ठः ।
विश्व रूपम् वा इदम् अन्नम् अद्यते अन्न अद्यस्य उपाप्त्यै । (सोम एकादशिनी)
ऐन्द्रः सप्तमः ।
क्षत्रम् वा इन्द्रः ।
क्षत्र यशसस्य अवरुद्ध्यै । (सोम एकादशिनी)
मारुतो अष्टमः ।
आपो वै मरुतः ।
ब्रह्म क्षत्रे वा इन्द्राग्नी । (सोम एकादशिनी)
ब्रह्म यशसस्य च क्षत्र यशसस्य च अवरुद्ध्यै ।
सावित्रो दशमः । (सोम एकादशिनी)
सवितृ प्रसूतम् वा इदम् अन्नम् अद्यते अन्न अद्यस्य उपाप्त्यै ।
वारुण एकादशः । (सोम एकादशिनी)
क्षत्रम् वै वरुणः ।
क्षत्र यशसस्य अवरुद्ध्यै ।
एवम् वै प्रजापतिर् ब्रह्मणा च क्षत्रेण च क्षत्रेण च ब्रह्मणा च उभयतो अन्नाद्यम् परिहृह्णानो अवरुन्धान ऐत् । (सोम एकादशिनी)
तथो एव एतद् यजमान एवम् एव ब्रह्मणा च क्षत्रेण च क्षत्रेण च ब्रह्मणा च उभयतो अन्नाद्यम् परिगृह्णानो अवरुन्धान एत्य् अवरुन्धान एति । (सोम एकादशिनी)