कौषीतकिब्राह्मणम्/अध्यायः १३

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
← अध्यायः १२ कौषीतकिब्राह्मणम्
अध्यायः १३
[[लेखकः :|]]
अध्यायः १४ →
सोमयागः


१३.१ सदःप्रसर्पणम्

प्रजापतिर् वै यज्ञः ।
तस्मिन्त् सर्वे कामाः सर्वम् अमृतत्वम् ।
तस्य एते गोप्तारो यद् धिष्ण्याः । (सोम सदः प्रसर्पण)
तान्त् सदः पस्रप्स्यन् नमस्यति नमो नम इति ।
न हि नमस् कारम् अति देवाः ।
ते नमसिता होतारम् अतिसृजन्ते ।
स एतम् प्रजापतिम् यज्ञम् प्रपद्यते । (सोम सदः प्रसर्पण)
तद् अत्र एव यजमानः सर्वान् कामान् आप्नोति सर्वम् अमृतत्वम् । (सोम सदः प्रसर्पण)

१३.२ हविष्पङ्क्तियागः

अथ हविष् पङ्क्त्या चरन्ति ।
पशवो वै हविष् पङ्क्तिः ।
पशूनाम् एव आप्त्यै ।
तानि वै पञ्च हवींषि भवन्ति । (सोम हविष् पङ्क्ति याग)
दधि धानाः सक्तवः पुरोडाशः पयस्य इति ।
पञ्चपदा पक्तिः ।
पाङ्क्तो यज्ञः ।
पाङ्क्ताः पशवः ।
पाङ्क्तः पुरुषः ।
यज्ञस्य च पशूनाम् च आप्त्यै । (सोम हविष् पङ्क्ति याग)
सा इयम् निरुप्यते पशूनाम् एव परिग्रहाय ।
अथो सवनानाम् एव तीव्रीकाराय । (सोम हविष् पङ्क्ति याग)
अथ वै हविष् पङ्क्तिः प्राण एव ।
तस्माद् येन एव मैत्रावरुणः प्रेष्यति तेन होता यजति । (सोम हविष् पङ्क्ति याग)
समानो ह्य् अयम् प्राणः । (सोम हविष् पङ्क्ति याग)
तद् आहुर् यया वै प्रातर् यजत्य् ऋक् सा तद् अहर् यात यामा भवत्य् अथ कस्माद् एषा सर्वेषु सवनेष्व् अयात यामा इति । (सोम हविष् पङ्क्ति याग)
यद् एव सवनैर् वितारयन्न् एति ।
प्रातः प्रातः सावस्य इति तृतीय सवने । (सोम हविष् पङ्क्ति याग)
तेन अयातयामा ।
तद् आहुः कस्मात् प्रातर् एव पयस्या न माध्यंदिने न तृतीय सवन इति । (सोम हविष् पङ्क्ति याग)
यज्ञो वै मैत्रावरुणः ।
एतद् वै यज्ञो जायते यत् प्रातः सवने । (सोम हविष् पङ्क्ति याग)
पयो भाजनो वै तरुणः कुमारः ।
तद् यथा जाताय स्तनम् उपदध्याद् एवम् तत् । (सोम हविष् पङ्क्ति याग)
वृद्धो वा उत्तरयोः सवनयोः ।
यदा वै वर्धते ।
अतिस्तनो वै तदा । (सोम हविष् पङ्क्ति याग)
तस्मात् प्रातर् एव पयस्या न माध्यंदिने न तृतीय सवन इति । (सोम हविष् पङ्क्ति याग)

१३.३ पुरोडाशः

हविर् अग्रे वीहि इत्य् अनुसवनम् पुरोडाश स्विष्टकृतो यजति ।
अवत्सारोह प्राश्रवणो देवानाम् होता आस । (सोम हविष् पङ्क्ति याग)
तम् एतस्मिन् द्युम्ने मृत्युः प्रत्यालिल्ये ।
अग्निर् वै मृत्युः ।
स हविर् अग्ने वीहि इति हविषा अग्निम् प्रीत्वा अथ अतिमुमुचे । (सोम हविष् पङ्क्ति याग)
तथो एव एवम् विद्वान् होता हविर् अग्ने वीहि इत्य् एव हविषा अग्निम् प्रीत्वा अथ अतिमुच्यते । (सोम हविष् पङ्क्ति याग)
एतैर् ह वा अन्तर् आकाशैर् देवाः स्वर्गंल् लोकम् जग्मुः ।
तान् एतस्मिन् द्युम्ने मृत्युः प्रत्यालिल्ये । (सोम हविष् पङ्क्ति याग)
अग्निर् वै मृत्युः ।
ते हविर् अग्ने वीहि इति हविषा अग्निम् प्रीत्वा अथ अतिमुमुचिरे । (सोम हविष् पङ्क्ति याग)
तथो एव एवम् विद्वान् होता हविर् अग्ने वीहि इत्य् एव हविषा अग्निम् प्रीत्वा अथ अतिमुच्यते । (सोम हविष् पङ्क्ति याग)
तानि वा एतानि षड् अक्षराणि हविर् अग्ने वीहि इति ।
षड् अङ्गो अयम् आत्मा षड्विधः । (सोम हविष् पङ्क्ति याग)
तद् आत्मना एव आत्मानम् निष्क्रीय अनृणो भूत्वा अथ यजते । (सोम हविष् पङ्क्ति याग)
स एषो अवत्सारस्य प्राश्रवणस्य मन्त्रः ।
स न मन्येत केन वा नु केन वा यजामि इति ।
ऋषि कृतेन मन्त्रेण ऋचा यजामि इत्य् एव विद्यात् । (सोम हविष् पङ्क्ति याग)

१३.४ सोममीमांसा

अथ सोम इति वै पशुम् अवोचाम ।
एवम् पुरोडाशान् । (सोम हविष् पङ्क्ति याग)(त्त्त्)
दश त्वा एते सोम अंशवः ।
प्रत्नो अंशुर् यम् एतम् अभिषुण्वन्ति ।
तृप्तो अंशुर् आपः ।
रसो अंशुर् व्रीहिः ।
वृषो अंशुर् यवः ।
शुक्रो अंशुः पयः ।
जीवो अंशुः पशुः ।
अमृतो अंशुर् हिरण्यम् ।
ऋग् अंशुर् यजुर् अंशुः साम अंशुर् इति ।
एत वा उ दश सोम अंशवः ।
यदा वा एते सर्वे संगच्छन्ते ।
अतः सोमो अतः सुतः ।

१३.५ द्विदैवत्यग्रहाः

पुरोडाशैर् चरित्वा द्विदेवत्यश् चरन्ति ।
आत्मा वै यजमानस्य पुरोडाशाः ।
प्राणा द्विदेवत्याः ।
तद् यत् पुरोडाशैश् चरित्वा द्विदेवत्यैश् चरन्ति ।
तथा ह यजमानः सर्वम् आयुर् अस्मिंल् लोक एत्य आप्नोत्य् अमृतत्वम् अक्षितिम् स्वर्गे लोके ।
ते वा एते प्राणा एव यद् द्विदेवत्याः ।
वाग् एव इन्द्रः ।
प्राणो वायुः ।
चक्षुर् मैत्रावरुणः ।
श्रोत्रम् आश्विनः ।
तस्माद् अनवानम् यजति प्राणानाम् संतत्यै ।
संतता इव हि इमे प्राणाः ।
न अनुवषट् करोति ।
प्राणा वै द्विदेवत्याः ।
संस्था अनुवषट् कारः ।
न इत् पुरा कालात् प्राणान्त् संस्थापयानि इति ।
यक्ता ( युक्ता ?) इव हि इमे प्राणाः ।
ऐन्द्रावायवम् पूर्व अर्धम् सादयति ।
पूर्व अर्ध्यो ह्य् एष एषाम् प्राणाम् अभिधानतम इव ।
अभित इतरौ पश्चाद् उपनिदधाति ।
अभित इव हि इदम् चक्शुश् च श्रोत्रम् च ।
तान् अवगृह्य आस्ते ।
न इत् प्रवृत्त अन्ता इति ।
न अपिदधाति ।
प्राणा वै द्विदेवत्याः ।
न इत् प्राणान् अपिदधानि इति ।

१३.६ होतृभागः

इदम् ते सोम्यम् मध्व् इति प्रस्थितानाम् याज्या मधु श्चुताम् मधुमती ।
अनुवषट् करोत्य् आहुतीनाम् एव शान्त्यै ।
आहुतीनाम् प्रतिष्ठित्यै ।
अथ होत्राः सम्यजन्ति ।
यजमानम् एव तद् अनृणतायै सम्प्रमुञ्चन्ति ।
द्विदेवत्यानाम् प्रथमो भक्षः ।
अथ इडा अथ होतृ चमस्ह ।
आत्मा वै यजमानस्य पुरोडाशाः ।
प्राणा द्विदेवत्याः ।
अन्नम् पशव इडा ।
अन्नेन वै प्राणाश् च आत्मा च संहितः ।
तस्माद् द्विदेवत्यानाम् प्रथमो भक्षः ।
अथ इडा अथ होतृ चमसः ।
तान् अध्वर्यवे प्रयच्छति ।
न अनुसृजत्या शेषस्य अवनयनात् ।
प्राणा वै द्विदेवत्याः ।
न इत् प्राणान् अनुसृजानि इति ।
द्विर् ऐन्द्रवायवस्य भक्षयति ।
द्विर् हि तस्य वष्टक् करोति ।
सकृन् मैत्रावरुणस्य ।
सकृद् आश्विनस्य ।
सर्वतः परिहारम् आश्विनस्य भक्षयति ।
सर्वतो ह्य् अनेन श्रोत्रेण शृणोति ।
संस्रवान् होतृ चमसे अवनयति ।
इडा भाज एव एनांस् तत् करोति ।

१३.७ इळाह्वानम्

अथ इडाम् उपह्वयते ।
उपोद्यच्छन्ति चमसान् ।
होतृ चमसम् अन्वारभते ।
असंस्पर्शन्न् उपह्वयत इडाम् ।
वज्रो वा आज्यम् ।
रेतः सोमः ।
न इद् वज्रेण रेतो हिनसानि इति ।
तस्याम् न सुन्वद् आह ।
न आशिषो निराह ।
उपहूय इडाम् अवघ्राय अवस्यति ।
प्राश्नात्य् उत्तरा इडाम् ।
अथ अप आचम्य होतृ चमसम् भक्षयति ।
एतद् वै परमम् अन्नाद्यम् यत् सोमः ।
परमम् एव एतद् अन्नाद्यम् सर्वे समुपहूय भक्षयन्ति ।

१३.८ अच्छावाकप्रचारः

अथ वै प्रत्युपहवो अच्छावाकस्य ।
प्रत्येता वामा सूक्तायम् (?) सुन्वन् यजमानो अग्रभीत् ।
उत पतिष्ठा उत उपवक्तर् उत नो गाव उपहूता इति ।
यदि न उपजुहूषति ।
उत उपहूत इत्य् अभ्यस्यति यद्य् उपजुहूषते ।
प्रत्युपहूतो अच्छावाको निवर्तध्वम् मा अनुगाता इत्य् एतस्य सूक्तस्य यावतीः पर्याप्नुयात् तावतीर् अनुद्रवेत् ।
होता वा अच्छावाकम् अप्रतिकामिनम् ।
सो तत्र प्रायश् चित्तिः ।

१३.९ ऋतुयाजाः

प्राणा वा ऋतु याजाः ।
तद् यद् ऋतु याजैश् चरन्ति ।
प्राणान् एव तद् यजमाने दधति ।
स वा अयम् त्रेधा विहितः प्राणः प्राणो अपानो व्यान इति ।
षड् ऋतुना इति यजन्ति ।
प्राणम् एव तद् यजमाने दधति ।
चत्वार ऋतुभिर् इति यजन्ति ।
अपानम् एव तद् यजमाने दधति ।
द्विर् ऋतुना इत्य् उपरिष्टात् ।
व्यानम् एव तद् यजमाने दधाति ।
तथा ह यजमानः सर्वम् आयुर् अस्मिंल् लोक एत्य आप्नोत्य् अमृतत्वम् अक्षितिम् स्वर्गे लोके ।
ते वा एते प्राणा एव यद् ऋतु याजाः ।
तस्माद् अनवानम् यजन्ति प्राणानाम् संतत्यै ।
संतता इव हि इमे प्राणाः ।
न अनुवषट् कुर्वन्ति ।
प्राणा वा ऋतु याजाः ।
संस्था अनुवषट् कारः ।
न इत् पुरा कालात् प्राणान्त् संस्थापयाम इति ।
युक्ता इव हि इमे प्राणाः ।
तद् आहुः कस्माद्द् होता यक्षद्द् होता यक्षद् इत्य् एव सर्वेभ्यः प्रेष्यति इति ।
वाग् वै होता ।
वाग् यक्षद् वाग् यक्षद् इत्य् एव तद् आह ।
अथो सर्वे वा एते सप्त होतारः ।
अपि वा ऋचा अभ्युदितम् ।
सप्त होतार ऋतुषो यजन्ति इति ।
अथ यद् द्विर् उपरिष्टाद् व्यादिशत्य् अजामितायै ।
ते वै द्वादश भवन्ति ।
द्वादश वै मासाः संवत्सरः ।
संवत्सरस्य एव आप्त्यै ।
स यो अत्र भक्षयेत् ।
यस् तम् तत्र ब्रूयात् ।
अशान्तो भक्षो अननुवषट् कृतः ।
प्राणान् अस्य व्यगान् न जीविष्यति इति तथा ह स्यात् ।
य उ वै न भक्षयेत् ।
यस् तम् तर ब्रूयात् ।
प्राणो भक्षः ।
प्राणाद् आत्मानम् अन्तरगान् न जीविष्यति इति तथा ह एव स्यात् ।
लिम्पेद् इव एव अव इव जिघ्रेद् अत्र च द्विदेवत्येषु चैति ।
तद् उ तत्र शासनम् वेदयन्ते ।
अथ यद् अमू व्यतिचरतः ।
न अन्योन्यम् अनुप्रपद्येते अध्वर्यू ।
तस्माद् ऋतुर् ऋतुम् न अनुप्रपद्यत ऋतुर् ऋतुम् न अनुप्रपद्यते ।

[सम्पाद्यताम्]

  • १३.४ प्रत्नम् - पुराणनाम, सनातनम्(शतपथ ६.४.४.१७), असौ लोकः( मै.सं. १.५.५), स्वर्गः(तै.सं. १.५.७.१)