कौषीतकिब्राह्मणम्/अध्यायः ०९

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०८ कौषीतकिब्राह्मणम्
अध्यायः ०९
[[लेखकः :|]]
अध्यायः १० →
सोमयागः


९.१ अग्निप्रणयनम्
ब्रह्म वै अग्निः ।
तद् यद् उपवसथे अग्निम् प्रणयति ।
ब्रह्मणा एव तद् यजमानस्य पाप्मानम् अपघ्नन्ति ।
पुरस्ताद् आहवनीयेन ।
पश्चाद् गार्हपत्येन ।
उत्तरत आग्नीध्रियेण ।
दक्षिणतो मार्जालीयेन ।
ये अन्तः सदसम् तैर् मध्यतः ।
तस्माद् उपवसथे प्राञ्चम् अग्निम् प्रणयन्ति ।
वि धिष्ण्यान् हरन्ति ।
यजमानस्य एव पाप्मनो अपहत्यै ।
देवा वै दीक्षिष्यमाणा वाचम् अपासादयन्त ।
बहु त्वम् उच्च अवचम् निगच्छसि ।
ताम् देवास् तत्र न अभाजन्त ।
सा प्रायणीये ताम् उ तत्र नो भव ।
सा क्रये ताम् उ तत्र नो भव ।
सा आतिथ्ये ताम् उ तर नो भव ।
सो वा एतद् उपसदो नाचन (?) आगच्छन् निर्विद्य एव ।
तस्माद् उ तत्र उपांशु चरेयुः ।
यथा एव एव मिथः संशृण्वीरन् ।
सो वा एतद् उपवसथे अग्नौ प्रणीयमान आगच्छत् ।
ताम् देवास् तत्र अभजन्त ।
तस्माद् उ तत्र प्रथमत एव उच्चैर् अनुब्रूयात् ।
यथा एनाम् आगताम् अनुबुध्येरन् न अभक्ताम् यज्ञे ।

९.२ प्रणयनमन्त्राः
प्र देवम् देव्या धिया इति प्रवन्तम् तृचम् प्रह्रियमाणाय अन्वाह ।
इडायास् त्वा पदे वयम् इति ।
इयम् वा इडा ।
अस्याम् हि इदम् सर्वम् ईट्टे ।
जातवेदो निधीमहि इति निहितवता अर्धर्चेन निधीयमानम् अनुस्तौति ।
अग्ने विश्वेभिः स्वनीक देवैः सीद होतः स्व उ लोके चिकित्वान् निहोता होतृ षदने विदान इति सन्नवतीभिः सन्नम् अनुस्तौति ।
त्वम् दूतस् त्वम् उ नः परस्पा इति दूतवत्या परिदधाति ।
अभिरूपा अन्वाह ।
यद् यज्ञे अभिरूपम् तत् समृद्धम् यज्ञस्य एव समृद्ध्यै ।
ता वा अष्टौ भवन्ति ।
एताभिर् वै देवाः सर्वा अष्टीर् आश्नुवत ।
तथो एव एतद् यजमान एताभिर् एव सर्वा अष्टीर् अश्नुते ।
त्रिः प्रथमया त्रिर् उत्तमया द्वादश सम्पद्यन्ते ।
द्वादश वै मासाः संवत्सरः ।
संवत्सरस्य एव आप्त्यै ।
ताः समनूक्ता अष्टादश गायत्र्यः सम्पद्यन्ते ।
आग्नेयम् एव छन्दोभिः ।
यस्य ह कस्य च षट् समानस्य (?) छन्दसस् ता गायत्रीम् अभिसम्पद्यन्ते ।
यस्य सप्त ता उष्णिहम् ।
यस्य अष्टौ ता अनुष्टुभम् ।
यस्य नव ता बृहतीम् ।
यस्य दश ताः पङ्क्तिम् ।
यस्य एकादश तास् त्रिष्टुभम् ।
यस्य द्वादश ता जगतीम् ।

९.३ हविर्धानयोः प्रवर्तनम्
वाक् च वै मनश् च हविर् धाने ।
वाचि च वै मनसि च इदम् सर्वम् हितम् ।
तद् यद्द् हविर् धाने प्रवर्तयन्ति ।
सर्वेषाम् एव कामानाम् आप्त्यै ।
द्वे हविर् धाने भवतः ।
छदिस् तृतीयम् अभिनिदधति ।
तैर् यत् किंच त्रिविधम् अधिदैवतम् अध्यात्मम् तत् सर्वम् आप्नोति ।
प्रेताम् यज्ञस्य शम्भुवा इति प्रवतीम् प्रवर्त्यमानाभ्याम् अन्वाह ।
द्यावा नः पृथिवी इमम् तयोर् इद् घृतवत् पय इति ।
आशीर्वती पूर्वा ।
अथो द्विदेवत्या द्वयोर् हविर्धानयोः ।
याम् अध्वर्युर् वर्त्मन्य् आहुतिम् जुहोति ताम् पूर्वया अनुवदति ।
यद्द् हविर्धाने प्रवर्तयन्ति तद् उत्तरया ।
यमे इव यतमाने यदा एतम् इत्य् अभिरूपया हविर् धाने अनुस्तौति ।
प्र वाम् भरन् मानुषा देवयन्त इति ।
बहवो ह्य् एते हरन्ति ।
अधि द्वयोर् अदधा उक्थ्यम् वचो विश्वा रूपाणि प्रति मुञ्चते कविर् इति ।
यच् छदिस् तृतीयम् अभिनिदधति तत् पूर्वया अनुवदति ।
यद्द् हविर् धाने परिश्रयन्ते तद् उत्तरया ।

९.४ हविर्धानयोः प्रवर्तनम्
अथो रराट्याम् एव उत्तरया ।
ते यदा मन्येत अत्र न इङ्गयिष्यन्ति इति ।
यदा एने नभ्यस्थे कुर्युः ।
अथा ऽऽवाम् उपस्थम् अद्रुहा इति ।
यदा वै क्षेमो अथ उपस्थः ।
परि त्वा गिर्वणो गिर इति परिवत्या परिदधाति ।
अभिरूपा अन्वाह ।
यद् यज्ञे अभिरूपम् तत् समृद्धम् यज्ञस्य एव समृद्ध्यै ।
ता वा अष्टौ भवन्ति ।
एताभिर् वै देवाः सर्वा अष्टीर् आश्नुवत ।
तथो एव एतद् यजमान एताभिर् एव सर्वा अष्टीर् अश्नुते ।
त्रिः प्रथमया त्रिर् उत्तमया द्वादश सम्पद्यन्ते ।
द्वादश वै मासाः संवत्सरः ।
संवत्सरस्य एव आप्त्यै ।
यद् व् एव त्रिः प्रथमाम् त्रिर् उत्तमाम् ।
यज्ञस्य एव तद् बर्सौ नह्यति स्थेम्ने अविस्रंसाय ।
तद् उ होतारम् अभिभाषन्ते यथा होतर् अभयम् असत् तथा कुर्व् इति ।
सम्प्रेषितः पुरर्चः प्रतिपदनाद् दक्षिणस्य पादस्य प्रपदेन प्रत्यञ्चंल् लोकम् अपास्यति ।
अपेतो जन्यम् (?) भयम् अन्य जन्यम् च वृत्रहन् ।
अप चक्रा अवृत्सत इति ।
अत उ ह चक्राणाम् अभ्याचारः ।
तत उ ह तस्मा अर्धाय अभयम् भवति ।
स प्राच्यं दक्षिणस्य हविर्धानस्य उत्तरम् वर्त्म उपनिश्रयीत ।
अयम् वै लोको दक्षिणम् हविर्धानम् ।
प्रतिष्ठा वा अयं लोकः ।
प्रतिष्ठायां अनुच्छिन्नो असानि इति ।
यत्र तिष्ठन् परिदध्यात् ।
च्योष्यत इति तथा ह स्यात् ।
तस्मात् परिधाय दक्षिणम् बाहुम् अन्वावृत्य वाचम् यमो यथेतम् (?) प्रत्येत्य ।
यत्र तिष्ठन्न् प्रथमामन्ववोचत् ।
तत् स्थित्वा अत्र च अग्निः प्रहरणे च ।
अथ यथा आवसथम् अभ्युपेयात् ।

९.५ अग्नीषोमप्रणयनमन्त्राः
ब्रह्म वा अग्निः क्षत्रम् सोमः ।
तद् यद् उपवसथे अग्नीषोमौ प्रणयन्ति ।
ब्रह्म क्षत्राभ्याम् एव तद् यजमानस्य पाप्मानम् अपघ्नन्ति ।
तद् उ वा आहुर् आसीन एव होता एताम् प्रथमाम् अनुब्रूयात् ।
सर्वाणि ह वै भूतानि सोमम् राजानम् प्रणीयमानम् अनु प्रच्यवन्ते ।
तद् यद् आसीनो होता एताम् ऋचम् अन्वाह ।
तद् एव सर्वाणि भूतानि यथा आयतनम् नियच्छति इति ।
सावीर् (?) हि देव प्रथमाय पित्र इति सावित्रीम् प्रथमाम् अन्वाह ।
सवितृ प्रसूततायै ।
सवितृ प्रसूतस्य ह वै न काचन रिष्टिर् भवत्य् अरिष्ट्यै ।
उत्तिष्ठ ब्रह्मणस्पत इत्य् उत्थापयति प्रैतु ब्रह्मणस्पतिर् इति प्रणयति ब्राह्मणस्पत्ये अभिरूपे अन्वाह ।
ब्रह्म वै ब्रह्मणस्पतिः ।
ब्रह्मणा एव तद् ब्रह्म समर्धयति ।
होता देवो अमर्त्य उप त्वा अग्ने दिवे दिव इति केवल आग्नेयौ तृचाव् अन्वाह ।
अग्निम् हि पूर्वम् हरन्ति ।
तौ वा इतवन्तौ भवतः ।
ह्रियमाणम् ह्य् अग्निम् स्तौति ।
स यत्र उपाधिगच्छेद् भूतानाम् गर्भम् आदध इति ।
तद् गर्भ कामायै गर्भम् ध्यायात् ।
लभते ह गर्भम् ।
अथ अग्नीध्रे अग्निम् निदधति ।
तद् अध्वर्युर् आहुतिम् जुहोति ।
ताम् सम्प्रत्य् एताम् अनुब्रूयाद् अग्ने जुषस्व पति हर्य तद् वच इति ।
तस्या एव एषा याज्या जुषस्व प्रति हर्या इत्य् अभिरूपा ।

९.६ अग्नीषोमप्रणयनमन्त्राः
अथ केवलम् सोमम् प्राञ्चम् हरन्ति ।
तस्मात् केवलीः सौमीर् अन्वाह ।
सोमो जिगाति गातुविद् इति इतवत् तृचम् अनुब्रुवन्न् अनुसमेति ।
अथ अध्वर्युर् आहवनीये पुनर् आहुतिम् जुहोति ।
ताम् सम्प्रत्य् एताम् अनुब्रूयाद् उप प्रियम् पनिप्नतम् इति ।
तस्या एव एषा याज्या आहुती वृधम् इत्य् अभिरूपा ।
अथ पूर्वया द्वारा राजानम् प्रपादयन्ति ।
तस्मिन् प्रपाद्यमाने तम् अस्य राजा वरुणस् तम् अश्विना इति ।
व्रजम् च विष्णुः सखिवाम् अपोर्णुत इत्य् अभिरूपाम् प्रपाद्यमानाय अन्वाह ।
अन्तश् च प्रागा अदितिर् भवासि इति प्रपन्नवतीम् प्रपन्नाय ।
श्येनो न योनिम् सदनम् धिया कृतम् गणानाम् त्वा गण पतिम् हवामहे अस्तभ्नाद् द्याम् असुरो विश्व देवा इति सन्नवतीभिः सन्नम् अनुस्तौति ।
एवा वन्दस्व वरुणम् बृहन्तम् इत्य् आशीर्वत्या परिदधाति ।
अभिरूपा अन्वाह ।
यद् यज्ञे अभिरूपम् तत् समृद्धम् यज्ञस्य एव समृद्ध्यै ।
ता वै विंशतिम् अन्वाह ।
ता विराजम् अभिसम्पद्यन्ते ।
वैराजः सोमः ।
अन्नम् विराड् अन्नम् सोमः ।
अन्नेन तद् अन्नाद्यम् समर्धयति ।
त्रिः प्रथमया त्रिरु उत्तमया चतुर्विंशतिः सम्पद्यन्ते ।
चतुर्विंशतिर् वै संवत्सरस्य अर्ध मासाः ।
संवत्सरस्य एव आप्त्यै ।
एवम् नु यदि पूर्वया द्वारा राजानम् प्रपादयेयुः ।
यद्य् उ वा अपरया ।
तेन एव होता अनुसमियात् ।
आत्मा वै यज्ञस्य होता ।
प्राणः सोमः ।
न इत् प्राणाद् आत्मानम् अपादधानि इति ।
उत्तरतो दक्षिणा तिष्ठन् परिदधाति ।
यशो वै सोमो राजा अन्नाद्यम् ।
अमुत एव तद् अर्वाग् आत्मन् यशो धत्ते यशो धत्ते ।