पञ्चविंशब्राह्मणम्/अध्यायः १५

विकिस्रोतः तः

15.1
[१]अक्रान् समुद्रः परमे विधर्मन्न्"इति नवमस्याह्नः प्रतिपद्भवति
परमं वा एतदहर्विधर्म विधर्म वा एतदन्यैरहर्भिरहर्यन्नवमं ज्येष्ठं हि वरिष्ठम्
मत्सि वायुमिष्टये राधसे न"इति वारुण्येषा भवति यद्वै यज्ञस्य दुरिष्टं तद्वरुणो गृह्णाति तदेव तदवयजति
स्तोत्रीयस्तृचो भवति प्राणापानानामवरुध्यै
दशर्चो भवति दशाक्षरा विराट वैराजमन्नमन्नाद्यस्यावरुध्यै
सप्रभृतयो भवन्तीन्द्रियस्य वीर्यस्य रसस्यानतिचाराय यत्र वै देवा इन्द्रियं वीर्यं रसमपश्यंस्तदनुन्यतुदन्
अष्टर्चो भवति
अष्टाशफाः पशवः शफशस्तत् पशूनाप्नोति अष्टाक्षरा गायत्री तेजो ब्रह्मवर्चसं गायत्री तेज एव ब्रह्मवर्चसमवरुन्धे
षडृचा भवन्त्यृतूनां धृत्यै
चत्वारः षडृचा भवन्ति चतुर्विंशतिरर्धमासाः संवत्सरः संवत्सर एव प्रतितिष्ठति
सवानुत्तमः षडृचो भवत्युभयस्य परोक्षप्रत्यक्षस्यावरुध्यै
तृच उत्तमो भवति येनैव प्राणेन प्रयन्ति तमभ्युद्यन्ति
अष्टाचत्वारिंश एव स्तोमो भवति प्रतिष्ठायै प्रजात्यै
15.2
[२]अगन्म महा नमसा यविष्ठम्"इत्याग्नेयमाज्यं भवति
गच्छन्तीव वा एते ये नवममहर्गच्छन्ति
यो दीदाय समिद्धस्वे दुरोण"इति दीदायेव ह्येष यो नवभिरहर्भिस्तुष्टुवानःऽऽस्वाहुतम्"इति स्वाहुतो ह्येष यो नवभिरहर्भिराहुतोऽऽविश्वतः प्रत्यञ्चम्"इति विश्वतो ह्येष प्रत्यङ्
त्वं वरुण उत मित्रो अग्न"इति वारुण्येषा भवति यद्वै यज्ञस्य दुरिष्टं तद्वरुणो गृह्णति तदेव तदवयजति
[३]मित्रं हुवे पूतदक्षम्"इति राथन्तरं मैत्रावरुणम्
उग्रगाधमिव वा एतद्यच्छन्दोमास्तद्यथात उग्रगाधे व्यतिषज्य गाहन्त एवमेवैतद्रूपे व्यतिषजति छन्दोमानामसंव्याथाय
[४]महां इन्द्रो य ओजसा"इत्यैन्द्रमष्टमेन वै देवा अह्नेन्द्रमवाजयन्नवमेन पाप्मानमघ्नन्नहरेवैतेन महयन्ति
[५]ता हुवे ययोरिदम्"इति राथन्तरमैन्द्राग्नम्
उग्रगाधमिव वा एतद्यच्छन्दोमास्तद्यथात उग्रगाधे व्यतिषज्य गाहन्त एवमेवैतद्रूपे व्यतिषजति छन्दोमानामसंव्याथाय स्तोमः
15.3
[६]पवमानस्य जिघ्नतो हरेश्चन्द्रा असृक्षत"इति हरिवत्यो गायत्र्यो भवन्ति छन्दोमानामयातयामतायै
पवमानस्य जिघ्नत"इति वै बृहतो रूपंऽऽहरेश्चन्द्रा असृक्षत"इति जगत्या उभयोः सहरूपमुपैति साम्नश्च छन्दसश्च
[७]परीतो षिञ्चता सुतम्"इति परिवत्यो भवन्त्यन्तो वै नवममहस्तस्यैताः पर्याप्त्यै
[८]असावि सोमो अरुषो वृषा हरिर्"इति जगत्यस्सत्यस्त्रिष्टुभो रूपेण तस्मात् त्रिष्टुभां लोके क्रियन्ते
गायत्रं भवति यदेव गायत्रस्य ब्राह्मणम्
भरद्वाजस्य अदारसृक् भवति
दिवोदासं वै भरद्वाजपुरोहितं नानाजनाः पर्ययतन्त स उपासीददृषे गातुं मे विन्देति तस्मा एतेन साम्ना गातुमविन्दद्गातुविद्वा एतत्सामानेन दारे नासृन्मेति तददारसृतोऽदारसृत्त्वं विन्दते गातुं न दारे धावत्यदारसृता तुष्टुवानः
सुरूपं भवति यदेव सुरूपस्य ब्राह्मणम्
हरिश्रीनिधनं भवति
पशवो वै हरिश्रियः पशूनामवरुध्यै श्रियं च हरश्चोपैति तुष्टुवानः
सैन्धुक्षितं भवति यदेव सैन्धुक्षितस्य ब्राह्मणम्
गतनिधनं वाभ्रवं भवति गत्यै
वभ्रुर्वा एतेन कौम्भ्योऽञ्जसा स्वर्गं लोकमपश्यत् स्वर्गस्य लोकस्यानुख्यात्यै स्वर्गाल्लोकान्न च्यवते तुष्टुवानः
इडानां संक्षारो भवति
पशवो वा इडा पशवश्छन्दोमाः पशुष्वेव तत् पशून् दधाति
ऋषभः पावमानो भवति
पशवो वै छन्दोमाः पशुष्वेव तन्मिथुनमप्यर्जति प्रजात्यै न ह वा अनृषभाः पशवः प्रजायन्ते
पृष्ठं भवति
पृष्ठं वा एतदह्नां यन्नवमं पृष्ठ एव तत् पृष्ठेन स्तुवते प्रतिष्ठायै
कौल्मलबर्हिषं भवति
कुल्मलबर्हिर्वा एतेन स्वर्गं लोकमपश्यत् प्रजातिं भूमानमगच्छत् प्रजायते बहुर्भवति कौल्मलबर्हिषेण तुष्टुवानः
अर्कपुष्पं भवति
अन्नं वै देवा अर्क इति वदन्ति रसमस्य पुष्पामिति सरसमेवान्नाद्यमवरुन्धेऽर्कपुष्पेण तुष्टुवानः
दैर्घ्यश्रवसं भवति
दीर्घश्रवा वै राजन्य ऋषिर्ज्योगपरुद्धोऽशनायंश्चरन् स एतद्दैर्घश्रवसमपश्यत् तेन सर्वाभ्यो दिग्भ्योऽन्नाद्यमवारुन्ध सर्वाभ्यो दिग्भ्योऽन्नाद्यमवरुन्धे दैर्घश्रवसेन तुष्टुवानः
वैयश्वं भवति यदेव वैयश्वस्य ब्राह्मणम्
अभीशवं यदाभीशवस्य
देवस्थानं भवति प्रतिष्ठायै संस्कृति भवति संंस्कृत्यै
अहर्वा एतदव्लीयत तद्देवा देवस्थाने तिष्ठन्तः संकृतिना समस्कुर्वंस्तत् संकृतेः संकृतित्वं देवस्थानेन वै देवाः स्वर्गे लोके प्रत्यतिष्ठन् स्वर्गे लोके प्रतितिष्ठामेत्येतत्
वरुणाय देवता राज्याय नातिष्ठन्त स एतद्देवस्थानमपश्यत् ततो वै तास्तस्मै राज्यायातिष्ठन्त तिष्ठन्तेऽस्मै समानाः श्रेष्ठ्याय
क्षत्रस्येवास्य प्रकाशो भवति प्रतितिष्ठति य एवं वेद
भर्गो भर्गेण तुष्टुवानो भवति यशो यशसा
वासिष्ठं भवति यदेव वासिष्ठस्य ब्राह्मणम्
दीर्घतमसोऽर्को भवत्यन्नं वा अर्कोऽन्नाद्यस्यावरुध्यै
सामराजं भवति साम्राज्यमाधिपत्यं गच्छति सामराज्ञा तुष्टुवानः
तदु संवदित्याहुः संवता वै देवाः स्वर्गं लोकं प्रायन्नुद्वतोदायन्
निधनान्ताः पवमाना भवन्त्यह्नो धृत्यै स्तोमः
15.4
[९]श्रायन्त इव सूर्यम्"इति सूर्यवत्यो भवन्ति
आदित्यदेवत्यं ह्येतदहरन्तो वै सूरोऽन्त एतन्नवममह्नामन्त एव तदन्तेन स्तुवते प्रतिष्ठायै
[१०]यत इन्द्र भयावहे ततो नो अभयं कृधि। मघवञ्छग्धि तव तन्न ऊतये विद्विषो विमृधो जहि"इति द्विषश्चैव मृधश्च नवमेनाह्ना विहत्य दशमेनाह्नोत्तिष्ठन्ति
श्रीर्वै श्रायन्तीयं श्रीर्नवममहः श्रियमेव तच्छ्रियां प्रतिष्ठापयति
समन्तं भवति
समन्तेन पशुकामः स्तुवीत पुरोधाकामः समन्तेन स्तुवीत
आग्नेयी पृथिव्याग्नेयो ब्राह्मण ऐन्द्री द्यौरैन्द्रो राजन्योऽन्तरिक्षेण द्यावापृथिवी समन्ते अन्तरिक्षेणैवैनं समन्तं करोति विन्दते पशून् प्र पुरोधामाप्नोति य एवं विद्वान् समन्तेन स्तुवते स्तोमः
15.5
[११]त्वं सोमासि धारयुर्"इति गायत्री भवत्यह्नो धृत्यै त्वमिति बृहतो रूपं बार्हतं ह्येतदहः
[१२]त्वं ह्यङ्ग दैव्येति त्वमिति बृहतो रूपं बार्हतं ह्येतदहः
[१३]पवस्व देव वीतय"इति बृहतो रूपं बार्हतं ह्येतदहः
[१४]परित्यं हर्यतं हरिम्"इति परिवत्यो भवन्त्यन्तो वै नवममहस्यैताः पर्याप्त्यै
[१५]पवस्व सोम महे दक्षाय"इत्यक्षरपङ्क्तिः स्तोमानां प्रभूतिरथो एतद्ध्येवैतर्हि छन्दोऽयातयाम यदक्षरपङ्क्तिस्तेन छन्दोमा अयातयामानः क्रियन्ते ब्रह्मवादिनो वदन्ति यत् षडहे स्तोमाश्छन्दांस्याप्यन्ते किं छन्दसश्छन्दोमा इत्येतच्छन्दसो यदेता अक्षरपङ्क्तय इति ब्रूयात्
[१६]उपोषु जातमप्तुरम्"इति गायत्र्यस्सत्यो जगत्यो रूपेण तस्मात् जगतीनां लोके क्रियन्ते
गायत्रं भवति यदेव गायत्रस्य ब्रह्मणम्
आश्वसूक्तं भवति
अग्निं वै पूर्वैरहर्भिराजुहोत्यथैतदादित्यदैवत्यमहः शुक्र आहुत इत्यसौ वा आदित्यः शुक्रस्तमेवैतेनाजुहोति
शाम्मदं भवति
शम्मद्वा एतेनाङ्गिरसोऽञ्जसा स्वर्गं लोकमपश्यत् स्वर्गस्य लोकस्यानुख्यात्यै स्वर्गाल्लोकान्न च्यवते तुष्टुवानः
दावसुनिधनं भवति
आशिषमेवास्मा एतेनाशास्ते साम हि सत्याशीः
दावसुर्वा एतदाङ्गिरसः पशुकामः सामापश्यत् तेन सहस्रं पशूनसृजत् यदेतत् साम भवति पशूनां पुष्ट्यै
प्रतीचीनेडं काशीतं भवति
पराचीभिर्वा अन्याभिरिडाभी रेतो दधदथैतत् प्रतीचीनेडं काशीतं प्रजात्यै तस्मात् पराञ्चो गर्भाः सम्भवन्ति प्रत्यञ्चः प्रजायन्ते तस्मादुतेऽवाचीनबिलेभ्यो नावपद्यन्त एतेन ह्येव ते धृताः
हाविष्कृतं भवति प्रतिष्ठायै कृतानुवाद एव सः
सौपर्णं भवति यदेव सौपर्णस्य ब्राह्मणम्
वैश्वमनसं भवति
विश्वमनसं वा ऋषिमध्यायमुद्व्रजितं रक्षोऽगृह्णात् तमिन्द्रोऽचायदृषिं वै रक्षोऽग्रहीदिति तमभ्यवददृषे कस्त्वैष इति, स्थाणुरिति ब्रूहीति रक्षोऽब्रवीत्, स स्थाणुरित्यब्रवीत् तस्मै वा एतेन प्रहरेत्यस्मा इषीकां वज्रं प्रयच्छन्नब्रवीत् तेनास्य सीमानमभिनत् सैषेन्द्रेणतेषीका पाप्मा वाव स तमगृह्णात् तं वैश्वमनसेनापाहतापपाप्मानं हते वैश्वमनसेन तुष्टुवानः
गौरीवितं भवति यदेव गौरीवितस्य ब्राह्मणम्
निहवो भवत्यन्नाद्यस्यावरुध्यै
हीति वा अन्नं प्रदीयत ईत्यग्निरन्नमत्ति
ऋषयो वा इन्द्रं प्रत्यक्षं नापश्यन् स वसिष्ठोऽकामयत कथमिन्द्रं प्रत्यक्षं पश्येयमिति स एतन्निहवमपश्यत् ततो वै स इन्द्रं प्रत्यक्षमपश्यत्, स एनमब्रवीद्ब्राह्मणं ते वक्ष्यामि यथा त्वत्पुरोहिता भरताः प्रजनिष्यन्तेऽथ मान्येभ्य ऋषिभ्यो मा प्रवोच इति तस्मा एतान् स्तोमभागानब्रवीत् ततो वै वसिष्ठपुरोहिता भरताः प्राजायन्त सेन्द्रं वा एतत् साम यदेतत् साम भवति सेन्द्रत्वाय
यद्वाहिष्ठीयं भवति
ब्रह्मयशसं वा एतानि सामान्यृचा श्रोत्रीयाणि ब्रह्मयशसी भवति यद्वाहिष्ठीयेन तुष्टुवानः
आसितं भवति यदेवासितस्य ब्राह्मणम्
साध्रं भवति सिद्ध्यै
आकूपारं भवति
अकूपारो वा एतेन कश्यपो जेमानं महिमानमगच्छज्जेमानं महिमानं गच्छत्याकूपारेण तुष्टुवानः
विधर्म भवति धर्मस्य विधृत्यै
ब्रह्मवादिनो वदन्ति यत् षडहे स्तोमाश्छन्दांस्याप्यन्ते किं छन्दसश्छन्दोमा इति पुरुषच्छन्दस इति ब्रूयात् पुरुषो वै पाङ्क्तः पुरुषो द्विपदा छन्दोमानामयातयामतायै
श्रुध्यं भवति
पशवो वै श्रुध्यं पशूनामवरुध्यै
प्रजापतिः पशूनसृजत तेऽस्मात् सृष्टा अपाक्रामंस्तानेतेन साम्ना श्रूधिया एहियेत्यन्वह्वयत् त एनमुपावर्तन्त यदेतत् साम भवति पशूनामुपावृत्यै
उपैनं पशव आवर्तन्ते य एवं वेद
गायत्रीषु स्तुवन्ति प्रतिष्ठायै ब्रह्मवर्चसाय येनैव प्राणेन प्रयन्ति तमभ्युद्यन्तीडान्ताः पवमाना भवन्ति पशवो वा इडा पशवश्छन्दोमाः पशुष्वेव तत् पशून् दधाति स्तोमः
15.6
आग्नेयीषु पूर्वेषामह्नामुक्थानि प्रणयन्त्यथैतस्याह्न आग्नेय्यैन्द्रयां प्रणयन्त्युभयोरेव रूपयोः प्रतितिष्ठति
ऐध्मवाहं भवति
आग्नेय्यैन्द्रीषु स्तुवन्ति ब्रह्म चैव तत् क्षत्रं च सयुजीकरोति ब्रह्मैव क्षत्रस्य पुरस्तान्निदधाति ब्राह्मणे क्षत्रं च विशं चानुगे करोति
त्रैककुभं भवति
ओजस्येव तद्वीर्ये प्रतितिष्ठत्योजो वीर्यं त्रैककुभम्
उद्वंशीयं भवति यदेवोद्वंशीयस्य ब्राह्मणम्
अष्टाचत्वारिंशं एव स्तोमो भवति प्रतिष्ठायै प्रजात्यै
15.7
गायत्रं वै सप्तममहस्त्रैष्टुभमष्टमं जागतं नवममथैतदानुष्टुभमहर्यद्दशमम्
तदाहुर्यदानुष्टुभं स्तोम्यां प्रत्यक्षमुपेयुः परां परावतं यजमानो गच्छेन्न प्रतितिष्ठेदिति या वै चतुर्विंशतिर्गायत्र्यस्ता अष्टादशानुष्टुभोऽनुष्टुभमेव तत् स्तोम्यां परोक्षमुपयन्ति प्रतिष्ठायै प्रतितिष्ठति
प्रजापतिं वा एतेनाह्ना परिवेविषति तत्र व्यववद्यं यद्वै श्रेष्ठे परिविष्यमाणो वदत्यन्नाद्यस्य सोऽवग्रहस्तस्मान्न व्यववद्यमन्नाद्यस्यानवग्राहाय
तदु व्यववद्यं यथा श्रेष्ठाय बलिं ह्रियमाणं पन्थानं पर्यनुवेदयति गत्यै तथा तत्
यावत्यनुष्टुप्तावतीं वाचं सम्पाद्य विब्रूयुस्तद्वनतिरिक्तं स्वस्यो चैव यज्ञस्यारिष्ट्यै
अभि वा एते देवानारोहन्तीत्याहुर्ये दशभिरहर्भिः स्तुवत इति पञ्चानामह्नामनुरूपैः प्रत्यवयन्ति यथाभ्यारुह्य प्रत्यवरोहेत् तथा तन्नवर्चो भवति या एवामूः प्रयच्छन् या अवदधाति ता एता उदस्यति
वारुण्येषा भवति यद्वै यज्ञस्य दुरिष्टं तद्वरुणो गृह्णाति तदेव तदवयजत्यादित्यैषा भवतीयं वा अदितिरस्यामेव प्रतितिष्ठति
चतुर्विंश एव स्तोमो भवति तेजसे ब्रह्मर्चसाय
15.8
[१७]सुषमिद्धो न आवह"इत्याप्रिय आज्यानि भवन्ति
प्रजापतिः प्रजा असृजत स दुग्धो रिरिचानामन्यत स एतान्याप्रिय आज्यान्यपश्यत् तैरात्मानमाप्रीणात् दुग्ध इव वा एष रिरिचानो यो दशभिरहर्भिस्तुष्टुवानो यदेतान्याप्रिय आज्यानि भवन्त्यात्मानमेवैतैराप्रीणाति
[१८]यदद्य सूर उदित"इति सूरवन्मैत्रावरुणम्
अन्तो वै सूरोऽन्त एतद्दशममह्नामन्त एव तदन्तेन स्तुवते प्रतिष्ठायै
[१९]उ त्वा मदन्तु सोमा"इत्युद्वदैन्द्रमुत्थानस्य रूपम्
[२०]इन्द्राग्नी आगतं सुतम्"इति येनैव रूपेण प्रयन्ति तदभ्युद्यन्ति स्तोमः
15.9
[२१]उच्चा ते जातमन्धस"इत्युद्वत्यो गायत्र्यो भवन्त्युत्थानस्य रूपम्
[२२]पुनानस्सोम धारय"इति पन्थानमेव तत् पर्यवयन्ति
[२३]आ जागृविर्विप्र ऋतं मतीनाम्"इति यदाप्ते प्रवतीः कुर्युरतिपद्येरन्यदावत्यो भवन्त्यनतिपादाय
गायत्रं भवति यदेव गायत्रस्य ब्राह्मणम्
आमहीयवं भवति कॢप्तिश्चान्नाद्यं च कॢप्तिं चैवैतेनान्नाद्यं चाभ्युत्तिष्ठन्ति
आजिगं भवत्याजिजित्यायै
आजिर्वा एष प्रततो यत् द्वादशाहस्तस्यैतदुज्जित्यै
आभीकं भवत्यभिक्रान्त्यै
आङ्गिरसस्तपस्तेपानाः शुचमशोचंस्त एतत् सामापश्यंस्तानभीकेऽभ्यवर्षत् तेन शुचमशमयन्त यदभीकेऽभ्यवर्षत् तस्मादाभीकं यामेव पूर्वैरहर्भिः शुचं शोचन्ति तामेतेनान्न शमयित्वोत्तिष्ठन्ति
उत्सेधो भवति
उत्सेधेन वै देवाः पशूनुदसेधन्निषेधेन पर्यगृह्णन्
अन्तरोत्सेधनिषेधौ यज्ञायज्ञीयम्
पशवोऽन्नाद्यं यज्ञायज्ञीयं पशूनेव तदन्नाद्यमुत्सेधनिषेधाभ्यां परिगृह्णाति
माध्यन्दिने वै पवमाने देवा यज्ञायज्ञीयेन यज्ञं संस्थाप्य स्वर्गं लोकमारोहंस्तद्य एवं वेद माध्यन्दिन एवैतत् पवमाने यज्ञायज्ञीयेन यज्ञं संस्थाप्य स्वर्गं लोकमारोहति
अथो परोक्षमनुष्टुभं सम्पद्यतेऽहरेषा वै प्रत्यक्षमनुष्टुप्यद्यज्ञायज्ञीयं तद्यत् तृतीयसवने कुर्युः प्रत्यक्षमनुष्टुभमृच्छेयुस्तस्मान्माध्यन्दिने कुर्वन्ति तेन परोक्षमनुष्टुभमुपयन्ति
गौरीवितं भवति
एतद्वै यज्ञस्य श्वस्तनं यद्गौरीवितमेतदायतनो यजमानो यन्मध्यन्दिनो यद्गौरीवितं मध्यन्दिने भवति श्वस्तनमेव तद्यजमान आत्मन् धत्ते स्तोमः
15.10
कया नश्चित्र आभुवद्"इति कवत्यस्तेन प्राजापत्याः को हि प्रजापतिः प्रजापतेराप्त्यै
मा चिदन्यद्विशंसत"इत्युत्थानमेव तदाशिषो ह्येतर्हि
उदु त्ये मधुमत्तमा"इत्युद्वत्य उदयनीयेऽहन्येतदाशिषो ह्येवैतर्हि
तरोभिर्वो विदद्वसुम्"इति स्तोमो वै तरो यज्ञो विदद्वसुः स्तोमेन वै यज्ञो युज्यते यत् तरोभिर्वो विदद्वसुमित्याह यज्ञमेव तद्युनक्ति
वामदेव्यस्यर्क्षु रथन्तरं पृष्ठं भवति
गायत्री वै रथन्तरस्य योनिः स्वायामेव तद्योनौ रथन्तरं प्रतिष्ठापयति
तेजो वै गायत्री छन्दसा तेजो रथन्तरं साम्ना तेजश्चतुर्विंशस्तोमानां तेज एव तत् सम्यक्संदधात्यपि ह पुत्रस्य पुत्रस्तेजस्वी भवति
अष्टाक्षरेण प्रथमाया ऋचः प्रस्तौत्यष्टाशफांस्तत्पशूनवरुन्धे
द्य्वक्षरेणोत्तरयोरृचोः प्रस्तौति द्विपाद्यजमानो यजमानमेव यज्ञे पशुषु प्रतिष्ठापयति
गायत्रं वै रथन्तरं गायत्रच्छन्दो यद्गायत्रीषु रथन्तरं भवति तेन स्वायां जनतायामृध्नोतीमे वै लोका गायत्री यद्गायत्रीषु रथन्तरं भवतीमानेव तल्लोकान् समाप्योत्तिष्ठन्ति
मैधातिथं भवति
एतेन वै मेधातिथिः काण्वो विभिन्दुकाद्व्यूध्नीर्गा उदसृजत पशूनामवरुध्यै मैधातिथं क्रियते
अभीवर्तो ब्रह्मसाम भवत्येकाक्षरनिधनः प्रतिष्ठायै
एकाक्षरा वै वाग्वाच्येव प्रतिष्ठायोत्तिष्ठन्ति
कालेयमच्छावाकसाम भवति
समानलोके वै कालेयं च रथन्तरं चेयं वै रथन्तरं पशवः कालेयमस्यां चैव पशुषु च प्रतिष्ठायोत्तिष्ठन्ति स्तोमः
15.11
स्वादिष्ठया मदिष्ठया"इति गायत्री भवति मदवद्वै रसवत् तृतीयसवनं मदमेव तद्रसं दधाति
गायत्रं भवति यदेव गायत्रस्य ब्राह्मणम्
संहितं भवति द्व्यक्षरणिधनं प्रतिष्ठायै प्रतिष्ठायैवोत्तिष्ठन्ति
सफं भवति
सफेन वै देवा इमान् लोकान् समाप्नुवन्त् सामाप्नुवंस्तत् सफस्य सफत्वमिमानेवैतेन लोकान् समाप्योत्तिष्ठन्ति
रोहितकूलीयं भवति यदेव रोहितकूलीयस्य ब्राह्मणम्
श्यावाश्व आन्धीगवे भवतः समीच्यौ विराजौ दधात्यन्नाद्याय
पिपीलिकामध्यासु स्तुवन्ति
इन्द्रो वृत्रं हत्वा नास्तृषीति मन्यमानः परां परावतमगच्छत् स एतामनुष्टुभं व्यौहत् तां मध्ये व्यवासर्पदिन्द्रगृहे वा एषोऽभये यजते अभय उत्तिष्ठति य एवं विद्वानेतासु स्तुवते
यज्ञायज्ञीयनिधनं सौहविषं भवति यज्ञायज्ञीयादेव तत् तृतीयसवेने न यन्ति
वाजजिद्भवति
सर्वस्याप्त्यै सर्वस्य जित्यै सर्वं वा एते वाजं जयन्ति ये दशममहरागच्छन्त्यन्नं वै वाजोऽन्नाद्यस्यावरुध्यै
दशाक्षरं निधनमुपयन्ति दशरात्रस्य धृत्यै दशाक्षरा विराड्वैराजमन्नमन्नाद्यस्यावरुध्यै
सूर्यवतीषु स्तुवन्त्यन्तो वै सूरोऽन्त एतद्दशममह्नामन्त एव तदन्तेन स्तुवते प्रतिष्ठायै
उपवत्यो भवन्ति प्रतिष्ठायै परिवत्यो भवन्ति सर्वस्य पर्याप्त्यै
चतुर्विंश एव स्तोमो भवति तेजसे ब्रह्मवर्चसाय
15.12
विराट्सु वामदेव्यमग्निष्टोमसाम भवति शान्त्यै कॢप्त्यै
सद्वै वामदेव्यं साम्नां सद्विराट्छन्दसां सत् त्रयस्त्रिंशः स्तोमानां सतामन्तान् संधायोत्तिष्ठन्त्यपि ह पुत्रस्य सत्त्वमश्नुते
ब्रह्मवादिनो वदन्ति यतस्सत्त्रादुदस्थाता३ स्थिता३ इति यद्यत इति ब्रूयुरप्रतिष्ठाना अप्रजसो भविष्यन्तीत्येनान् ब्रूयाद्यत् स्थितादिति ब्रूयुः स्थायुकैषां श्रीर्भविष्यति न वसीयांसो भविष्यन्तीत्येनान् ब्रूयात् पूर्णादेव पूर्णमभ्युदस्थामेति ब्रूयुः
एते वै पूर्णात् पूर्णमभ्युत्तिष्ठन्ति ये वामदेव्येन स्तुत्वोत्तिष्ठन्ति
अन्तरिक्षं वै वामदेव्यमन्तरिक्षेणेदं सर्वं पूर्णम्
एष वै समृद्धः स्तोमो यत् त्रयस्त्रिंशस्त्रयस्त्रिंशदक्षरासु समृद्धावेव प्रतितिष्ठन्ति
सर्वेषां वा एताश्छन्दसां रूपं यात् त्रिपदास्तेन गायत्र्यो यदेकादशाक्षराणि पदानि तेन त्रिष्टुभो यत् द्वादशाक्षरं पदं तेन जगत्यो यत् त्रयस्त्रिंशदक्षरास्तेन विराजस्तेनैव चानुष्टुभो न ह्येकस्मादक्षराद्विराधयन्ति
त्रयस्त्रिंश एव स्तोमो भवति प्रतिष्ठायै देवतासु वा एष प्रतिष्ठितः

१५.१.१ बहिष्पवमान प्रतिपत्तृचः

ऽऽअक्रान्समुद्रः परमे विधर्मन्न्ऽऽ इति नवमस्याह्नः प्रतिपद्भवति

१५.१.२ नवमाहः सङ्गतिः

परमं वा एतदहर्विधर्म विधर्म वा एतदन्यैरहर्भिरहर्यन्नवमं ज्येष्ठं हि वरिष्ठम्

१५.१.३ द्वितीयानुवाद स्तुतिः

ऽऽमत्सि वायुं इष्टये राधसे नऽऽ इति वारुण्येषा भवति यद्वै यज्ञस्य दुरिष्टं तद्वरुणो गृह्णति तदेव तदवयजति

१५.१.४ द्वितीयानुवाद स्तुतिः

स्तोत्रीयस्तृचो भवति प्राणापानानां अवरुध्यै

१५.१.५ दशस्तोत्रीयविधानं

दशर्चो भवति दशाक्षरा विराट वैराजं अन्नं अन्नाद्यस्यावरुध्यै

१५.१.६ तस्य स्तुतिः

सप्रभृतयो भवान्तीन्द्रियस्य वीर्यस्य रसस्यानतिचाराय यत्र वै देवा इन्द्रियं वीर्यं रसं अपश्यंस्तदनुन्यतुदन्

१५.१.७ अष्टर्च्चस्तोत्रीय विधानं

अष्टर्चो भवति

१५.१.८ अष्ट संख्यास्तवनं

(अष्टाशफाः पशवः शफशस्तत्पशूनाप्नोति) अष्टाक्षरा गायत्री तेजो ब्रह्मवर्चसं गायत्री तेज एव ब्रह्मवर्चसं अवरुन्धे

१५.१.९ चतुः षड्ऋच विधानं

षडृचा भवन्त्यृतूनां धृत्यै

१५.१.१० चतुः संख्या स्तुतिः

चत्वारः षडृचा भवन्ति चतुर्विंशतिरर्धमासाः संवत्सरः संवत्सर एव प्रतितिष्ठति

१५.१.११ चतुः संख्या स्तुतिः

सवानुत्तमः षडृचो भवत्युभयस्य परोक्षप्रत्यक्षस्यावरुध्यै

१५.१.१२ चतुः संख्या स्तुतिः

तृच उत्तमो भवति येनैव प्राणेन प्रयन्ति तं अभ्युद्यन्ति

१५.१.१३ बहिष्पवमान स्तोम विधानं

अष्टाचत्वारिंश एव स्तोमो भवति प्रतिष्ठायै प्रजात्यै

१५.२.१ नवमाहः प्रथमाज्यस्तोत्रं

ऽऽअगन्म महा नमसा यविष्ठम्ऽऽ इत्याग्नेयं आज्यं भवति

१५.२.२ नवमाहः सङ्गतिः

गच्छन्तीव वा एते ये नवमं अहर्गच्छन्ति

१५.२.३ सङ्गति प्रदर्शनं

ऽऽयो दीदाय समिद्धस्वे दुरोणऽऽ इति दीदायेव ह्येष यो नवभिरहर्भिस्तुष्टुवानःऽऽस्वाहुतम्ऽऽ इति स्वाहुतो ह्येष यो नवभिरहर्भिराहुतोऽऽविश्वतः प्रत्यञ्चम्ऽऽ इति विश्वतो ह्येष प्रत्यङ्

१५.२.४ लिङ्गं प्रदर्श्य स्तौति

ऽऽत्वं वरुण उत मित्रो अग्नऽऽ इति वारुण्येषा भवति यद्वै यज्ञस्य दुरिष्टं तद्वरुणो गृह्णति तदेव तदवयजति

१५.२.५ द्वितीयाज्य स्तोत्रं

ऽऽमित्रं हुवे पूतदक्षम्ऽऽ इति राथन्तरं मैत्रावरुणम्

१५.२.६ राथन्तर प्रयोग कारणं

उग्रगाधं इव वा एतद्यच्छन्दोमास्तद्यथात उग्रगाधे व्यतिषज्य गाहन्त एवं एवैतद्रूपे व्यतिषजति छन्दोमानां असंव्याथाय

१५.२.७ तृतीयाज्य स्तोत्रं

ऽऽमहां इन्द्रो य ओजसा-ऽऽ इत्यैन्द्रं अष्टमेन वै देवा अह्नेन्द्रं अवाजयन्नवमेन पाप्मानं अघ्नन्नहरेवैतेन महयन्ति

१५.२.८ चतुर्थाज्य स्तोत्रं

ऽऽता हुवे ययोरिदम्ऽऽ इति राथन्तरं ऐन्द्राग्नम्

१५.२.९ दोषोपपादनं

उग्रगाधं इव वा एतद्यच्छन्दोमास्तद्यथात उग्रगाधे व्यतिषज्य गाहन्त एवं एवैतद्रूपे व्यतिषजति छन्दोमानां असंव्याथाय स्तोमः

१५.३.१ माध्यन्दिनपवमान प्रथमतृचः

ऽऽपवमानस्य जिघ्नतो हरेश्चन्द्रा असृक्षतऽऽ इति हरिवत्यो गायत्र्यो भवन्ति छन्दोमानां अयातयामतायै

१५.३.२ ऋचः स्तुतिः

ऽऽपवमानस्य जिघ्नतऽऽ इति वै बृहतो रूपंऽऽहरेश्चन्द्रा असृक्षत-ऽऽ इति जगत्या उभयोः सहरूपं उपैति साम्नश्च छन्दसश्च

१५.३.३ स्तोत्रीय विधानं

ऽऽपरीतो षिञ्चता सुतम्ऽऽ इति परिवत्यो भवन्त्यन्तो वै नवमं अहस्तस्यैताः पर्याप्त्यै

१५.३.४ स्तोत्रीय विधानं

ऽऽअसावि सोमो अरुषो वृषा हरिर्ऽऽ इति जगत्यस्सत्यस्त्रिष्टुभो रूपेण तस्मात्त्रिष्टुभां लोके क्रियन्ते

१५.३.५ गायत्र साम विधानं

गायत्रं भवति यदेव गायत्रस्य ब्राह्मणम्

१५.३.६ गायत्र साम विधानं

भरद्वाजस्यादारसृद्भवति

१५.३.७ संज्ञानिर्व्वचनं

दिवोदासं वै भरद्वाजपुरोहितं ननाजनाः पर्ययन्त स उपासीददृषे गातुं मे विन्देति तस्मा एतेन साम्ना गातुं अविन्दद्गातुविद्वा एतत्सामानेन दारे नासृन्मेति तददारसृतोऽदारसृत्त्वं विन्दते गातुं न दारे धावत्यदारसृता तुष्टुवानः

१५.३.८ सामान्तर विधानं

सुरूपं भवति यदेव सुरूपस्य ब्राह्मणम्

१५.३.९ सामान्तर विधानं

हरिश्रीनिधनं भवति

१५.३.१० सामान्तर स्तुतिः

पशवो वै हरिश्रियः पशूनां अवरुध्यै श्रियं च हरश्चोपैति तुष्टुवानः

१५.३.११ सामान्तर विधानं

सैन्धुक्षितं भवति यदेव सैन्धुक्षितस्य ब्राह्मणम्

१५.३.१२ सामान्तर विधानं

गतनिधनं वाभ्रवं भवति गत्यै

१५.३.१३ स्वर्ग साधनता

वभ्रुर्वा एतेन कौम्भ्योऽञ्जसा स्वर्गं लोकं अपश्यत्स्वर्गस्य लोकस्यानुख्यात्यै स्वर्गाल्लोकान्न च्यवते तुष्टुवानः

१५.३.१४ सामान्तर विधानं

इडानां संक्षारो भवति

१५.३.१५ सामान्तर स्तुतिः

पशवो वा इडा पशवश्छन्दोमाः पशुष्वेव तत्पशून्दधाति

१५.३.१६ सामान्तर विधानं

ऋषभः पावमानो भवति

१५.३.१७ पशुजन्मता

पशवो वै छन्दोमाः पशुष्वेव तन्मिथुनं अप्यर्जति प्रजात्यै न ह वा अनृषभाः पशवः प्रजायन्ते

१५.३.१८ अन्यत् साम विधानं

पृष्ठं भवति

१५.३.१९ तस्य स्तुतिः

पृष्ठं वा एतदह्नां यन्नवमं पृष्ठ एव तत्पृष्ठेन स्तुवते प्रतिष्ठायै

१५.३.२० अन्यत् साम विधानं

कौल्मलबर्हिषं भवति

१५.३.२१ तस्य स्तुतिः

कुल्मलबर्हिर्वा एतेन स्वर्गं लोकं अपश्यत्प्रजातिं भूमानं अगच्छत्प्रजायते बहुर्भवति कौल्मलबर्हिषेण तुष्टुवानः

१५.३.२२ अन्यत् साम विधानं

अर्कपुष्पं भवति

१५.३.२३ तस्य स्तुतिः

अन्नं वै देवा अर्क इति वदन्ति रसं अस्य पुष्पां इति सरसं एवान्नाद्यं अवरुन्धेऽर्कपुष्पेण तुष्टुवानः

१५.३.२४ अन्यत् साम विधानं

दैर्घ्यश्रवसं भवति

१५.३.२५ ऋचिगेयं साम

दीर्घश्रवा वै राजन्य ऋषिर्ज्योगपरुद्धोऽशनायंश्चरन्स एतद्दैर्घश्रवसं अपश्यत्तेन सर्वाभ्यो दिग्भ्योऽन्नाद्यं अवारुन्ध सर्वाभ्यो दिग्भ्योऽन्नाद्यं अवरुन्धे दैर्घश्रवसेन तुष्टुवानः

१५.३.२६ तस्य स्तुतिः

वैयश्वं भवति यदेव वैयश्वस्य ब्राह्मणम्

१५.३.२७ ब्राह्मणातिदेशः

अभीशवं यदाभीशवस्य

१५.३.२८ सामद्वय विधानं

देवस्थानं भवति प्रतिष्ठायै संस्कृति भवति संंस्कृत्यै

१५.३.२९ उभयं संयुज्य स्तौति

अहर्वा एतदव्लीयत तद्देवा देवस्थाने तिष्ठन्तः संकृतिना समस्कुर्वंस्तत्संकृतेः संकृतित्वं देवस्थानेन वै देवाः स्वर्गे लोके प्रत्यतिष्ठन्स्वर्गे लोके प्रतितिष्टां एत्येतत्

१५.३.३० ज्येष्ठ हेतुता

वरुणाय देवता राज्याय नातिष्ठन्त स एतद्देवस्थानं अपश्यत्ततो वै तास्तस्मै राज्यायातिष्ठन्त तिष्ठन्तेऽस्मै समानाः श्रेष्ठ्याय

१५.३.३१ तद्वेदन फलं

क्षत्रस्येवास्य प्रकाशो भवति प्रतितिष्ठति य एवं वेद

१५.३.३२ सामद्वय विधानं

भर्गो भर्गेण तुष्टुवानो भवति यशो यशसा

१५.३.३३ ब्राह्मणातिदेशः

वासिष्ठं भवति यदेव वासिष्ठस्य ब्राह्मणम्

१५.३.३४ अन्यत् साम विधानं

दीर्घतमसोऽर्को भवत्यन्नं वा अर्कोऽन्नाद्यस्यावरुध्यै

१५.३.३५ अन्यत् साम विधानं

सामराजं भवति साम्राज्यं आधिपत्यं गच्छति सामराज्ञा तुष्टुवानः

१५.३.३६ एतदपि स्वर्ग साधनं

तदु संवदित्याहुः संवता वै देवाः स्वर्गं लोकं प्रायन्नुद्वतोदायन्

१५.३.३७ पवमान स्तोत्रोपसंहारः

निधनान्ताः पवमाना भवन्त्यह्नो धृत्यै स्तोमः

१५.४.१ तृतीय स्तोत्रीयतृचः

ऽऽश्रायन्त इव सूर्यम्ऽऽ इति सूर्यवत्यो भवन्ति

१५.४.२ अहः सङ्गतिः

आदित्यदेवत्यं ह्येतदहरन्तो वै सूरोऽन्त एतन्नवमं अह्नां अन्त एव तदन्तेन स्तुवते प्रतिष्ठायै

१५.४.३ अच्छावाक स्तोत्रीय तृचः

ऽऽयत इन्द्र भयावहे ततो नो अभयं कृधि । मघवञ्छग्धि तव तन्न ऊतये विद्विषो विमृधो जहि-ऽऽ इति द्विषश्चैव मृधश्च नवमेनाह्ना विहत्य दशमेनाह्नोत्तिष्ठन्ति

१५.४.४ ब्रह्मपृष्ठनिवर्त्तकं साम

श्रायन्तीयं भवति

१५.४.५ एतस्य स्तुतिः

श्रीर्वै श्रायन्तीयं श्रीर्नवमं अहः श्रियं एव तच्छ्रियां प्रतिष्ठापयति

१५.४.६ अच्छावाक निवर्त्तकं साम

समन्तं भवति

१५.४.७ फलद्वय साधनता

समन्तेन पशुकामः स्तुवीत पुरोधाकामः समन्तेन स्तुवीत

१५.४.८

आग्नेयो पृथिव्याग्नेयो ब्राह्मण ऐन्द्री द्यौरैन्द्रो राजन्योऽन्तरिक्षेण द्यावापृथिवी समन्ते अन्तरिक्षेणैवैनं समन्तं करोति विन्दते पशून्प्र पुरोधां आप्नोति य एवं विद्वान्समन्तेन स्तुवते स्तोमः

१५.५.१ आर्भवपवमान प्रथमतृचः

ऽऽत्वं सोमासि धारयुर्ऽऽ इति गायत्री भवत्यह्नो धृत्यै त्वं इति बृहतो रूपं बार्हतं ह्येतदहः

१५.५.२ तृचान्तर सङ्गतिः

ऽऽत्वं ह्यङ्ग दैव्याऽऽ इति त्वं इति बृहतो रूपं बार्हतं ह्येतदहः

१५.५.३ तृचान्तर सङ्गतिः

ऽऽपवस्व देव वीतयऽऽ इति बृहतो रूपं बार्हतं ह्येतदहः

१५.५.४ तृचान्तर सङ्गतिः

ऽऽपरित्यं हर्यतं हरिम्ऽऽ इति परिवत्यो भवन्त्यन्तो वै नवमं अहस्यैताः पर्याप्त्यै

१५.५.५ अक्षर पङ्क्ति प्रशंसा

ऽऽपवस्व सोम महे दक्षाय-ऽऽ इत्यक्षरपङ्क्तिः स्तोमानां प्रभूतिरथो एतद्ध्येवैतर्हि छन्दोऽयातयाम यदक्षरपङ्क्तिस्तेन छन्दोमा अयातयामानः क्रियन्ते ब्रह्मवादिनो वदन्ति यत्षडहे स्तोमाश्छन्दांस्याप्यन्ते किं छन्दसश्छन्दोमा इत्येतच्छन्दसो यदेता अक्षरपङ्क्तय इति ब्रूयात्

१५.५.६ तृचान्तर सङ्गतिः

ऽऽउपोषु जातं अप्तुरम्ऽऽ इति गायत्र्यस्सत्यो जगत्यो रूपेण तस्मात्जगतीनां लोके क्रियन्ते

१५.५.७ साम विधानं

गायत्रं भवति यदेव गायत्रस्य ब्रह्मणम्

१५.५.८ साम विधानं

आश्वसूक्तं भवति

१५.५.९ पदद्वय स्तुतिः

अग्निं वै पूर्वैरहर्भिराजुहोत्यथैतदादित्यदैवत्यं अहः शुक्र आहुत इत्यसौ वा आदित्यः शुक्रस्तं एवैतेनाजुहोति

१५.५.१० सामान्तर विधानं

शाम्मदं भवति

१५.५.११ स्वर्ग साधनता

शम्मद्वा एतेनाङ्गिरसोऽञ्जसा स्वर्गं लोकं अपश्यत्स्वर्गस्य लोकस्यानुख्यात्यै स्वर्गाल्लोकान्न च्यवते तुष्टुवानः

१५.५.१२ सामान्तर विधानं

दावसुनिधनं भवति

१५.५.१३ तस्य स्तुतिः

आशिषं एवास्मा एतेनाशास्ते साम हि सत्याशीः

१५.५.१४ पशुपोषहेतौ स्तुतिः

दावसुर्वा एतदाङ्गिरसः पशुकामः सामापश्यत्तेन सहस्रं पशूनसृजत्यदेतत्साम भवति पशूनां पुष्ट्यै

१५.५.१५ सामान्तर विधानं

प्रतीचीनेडं काशीतं भवति

१५.५.१६ पुत्रादि फलं

पराचीभिर्वा अन्याभिरिडाभी रेतो दधदथैतत्प्रतीचीनेडं काशीतं प्रजात्यै तस्मात्पराञ्चो गर्भाः सम्भवन्ति प्रत्यञ्चः प्रजायन्ते तस्मादुतेऽवाचीनबिलेभ्यो नावपद्यन्त एतेन ह्येव ते धृताः

१५.५.१७ सामान्तर विधानं

हाविष्कृतं भवति प्रतिष्ठायै कृतानुवाद एव सः

१५.५.१८ ब्राह्मणातिदेशः

सौपर्णं भवति यदेव सौपर्णस्य ब्राह्मणम्

१५.५.१९ सामान्तर विधानं

वैश्वमनसं भवति

१५.५.२० आख्यायिका कथनं

विश्वमनसं वा ऋषिं अध्यायं उद्व्रजितं रक्षोऽगृह्णात्तं इन्द्रोऽचायदृषिं वै रक्षोऽग्रहीदिति तं अभ्यवददृषे कस्त्वैष इति, स्थाणुरिति ब्रूहीति रक्षोऽब्रवीत्, स स्थाणुरित्यब्रवीत्तस्मै वा एतेन प्रहरेत्यस्मा इषीकां वज्रं प्रयच्छन्नब्रवीत्तेनास्य सीमानं अभिनत्सैषेन्द्रेणतेषीका पाप्मा वाव स तं अगृह्णात्तं वैश्वमनसेनापाहतापपाप्मानं हते वैश्वमनसेन तुष्टुवानः

१५.५.२१ ब्राह्मणातिदेशः

गौरीवितं भवति यदेव गौरीवितस्य ब्राह्मणम्

१५.५.२२ अन्यत्साम विधानं

निहवो भवत्यन्नाद्यस्यावरुध्यै

१५.५.२३ तत् कारणं

हीति वा अन्नं प्रदीयत ईत्याग्रिरन्नं अत्ति

१५.५.२४ आख्यायिका कथनं

ऋषयो वा इन्द्रं प्रत्यक्ष नापश्यन्स वसिष्ठोऽकामयत कथं इन्द्रं प्रत्यक्षं पश्येयं इति स एतन्निहवं अपश्यत्ततो वै स इन्द्रं प्रत्यक्षं अपश्यत्, स एनं अब्रवीद्ब्राह्मणं ते वक्ष्यामि यथा त्वत्पुरोहिता भरताः प्रजनिष्यन्तेऽथ मान्येभ्य ऋषिभ्यो मा प्रवोच इति तस्मा एतान्स्तोमभागानब्रवीत्ततो वै वसिष्ठपुरोहिता भरताः प्राजायन्त सेन्द्रं वा एतत्साम यदेतत्साम भवति सेन्द्रत्वाय

१५.५.२५ अन्यत्साम विधानं

यद्वाहिष्ठीयं भवति

१५.५.२६ तस्य प्रशंसा

ब्रह्मयशसं वा एतानि सामान्यृचा श्रोत्रीयाणि ब्रह्मायशसी भवति यद्वाहिष्ठीयेन तुष्टुवानः

१५.५.२७ स्तावक ब्राह्मणं

आसितं भवति यदेवासितस्य ब्राह्मणम्

१५.५.२८ तृच साम कथनं

साध्रं भवति सिद्ध्यै

१५.५.२९ तृच साम कथनं

आकूपारं भवति

१५.५.३० तस्य प्रशंसा

अकूपारो वा एतेन कश्यपो जेमानं महिमानं अगच्छज्जेमानं महिमानं गच्छत्याकूपारेण तुष्टुवानः

१५.५.३१ सामान्तर विधानं

विधर्म भवति धर्मस्य विधृत्यै

१५.५.३२ प्रश्नोत्तरं

ब्रह्मवादिनो वदन्ति यत्षडहे स्तोमाश्छन्दांस्याप्यन्ते किं छन्दसश्छन्दोमा इति पुरुषच्छन्दस इति ब्रूयात्पुरुषो वै पाङ्क्तः पुरुषो द्विपदा छन्दोमानां अयातयामतायै

१५.५.३३ सामान्तर विधानं

श्रुध्यं भवति

१५.५.३४ पशु साधनता

पशवो वै श्रुध्यं पशूनां अवरुध्यै

१५.५.३५ तस्य व्याख्यानं

प्रजापतिः पशूनसृजत तेऽस्मात्सृष्टा अपाक्रामंस्तानेतेन साम्ना श्रूधिया एहियेत्यन्वह्वयत्त एनं उपावर्तन्त यदेतत्साम भवति पशूनां उपावृत्यै

१५.५.३६ वेदन फलं

उपैनं पशव आवर्तन्ते य एवं वेद

१५.५.३७ पवमानस्तोत्रोपसंहारः

गायत्रीषु स्तुवन्ति प्रतिष्ठायै ब्रह्मवर्चसाय येनैव प्राणेन प्रयन्ति तं अभ्युद्यन्तीडान्ताः पवमाना भवन्ति पशवो वा इडा पशवश्छन्दोमाः पशुष्वेव तत्पशून्दधाति स्तोमः

१५.६.१ स्तोत्रीयतृचः

आग्रेयीषु पूर्वेषां अह्नां उक्थानि प्रणयन्त्यथैतस्याह्न आग्नेय्यैन्द्रयां प्रणयन्त्युभयोरेव रूपयोः प्रतितिष्ठति

१५.६.२ स्तोतुः निवर्त्तकं साम

ऐध्मवाहं भवति

१५.६.३ तस्य स्तुतिः

आग्नेय्यैन्द्रीषु स्तुवन्ति ब्रह्म चैव तत्क्षत्रं च सयुजीकरोति ब्रह्मैव क्षत्रस्य पुरस्तान्निदधाति ब्राह्मणे क्षत्रं च विशं चानुगे करोति

१५.६.४ स्तोतुः निवर्त्तकं साम

त्रैककुभं भवति

१५.६.५ तस्य स्तुतिः

ओजस्येव तद्वीर्ये प्रतितिष्ठत्योजो वीर्यं त्रैककुभम्

१५.६.६ ब्राह्मणातिदेशः

उद्वंशीयं भवति यदेवोद्वंशीयस्य ब्राह्मणम्

१५.६.७ स्तोत्रीय स्तुतिः

अष्टाचत्वारिंशं एव स्तोमो भवति प्रतिष्ठायै प्रजात्यै

१५.७.१ छन्दः प्रसक्तिः

गायत्रं वै सप्तमं अहस्त्रैष्टुभं अष्टमं जागतं नवमं अथैतदानुष्टुभं अहर्यद्दशमम्

१५.७.२ दोष सद्भावः

तदाहुर्यदानुष्टुभं स्तोम्यां प्रत्यक्षं उपेयुः परां परावतं यजमानो गच्छेन्न प्रतितिष्ठेदिति या वै चतुर्विंशतिर्गायत्र्यस्ता अष्टादशानुष्टुभोऽनुष्टुभं एव तत्स्तोम्यां परोक्षं उपयन्ति प्रतिष्ठायै प्रतितिष्ठति

१५.७.३ विस्मृति प्रबोधनं

प्रजापतिं वा एतेनाह्ना परिवेविषति तत्र व्यववद्यं यद्वै श्रेष्ठे परिविष्यमाणो वदत्यन्नाद्यस्य सोऽवग्रहस्तस्मान्न व्यववद्यं अन्नाद्यस्यानवग्राहाय

१५.७.४ विस्मृति प्रबोधनं

तदु व्यववद्यं यथा श्रेष्ठाय बलिं ह्रियमाणं पन्थानं पर्यनुवेदयति गत्यै तथा तत्

१५.७.५ विस्मृति प्रबोधनं

यावत्यनुष्टुप्तावतीं वाचं सम्पाद्य विब्रूयुस्तद्वनतिरिक्तं स्वस्यो चैव यज्ञस्यारिष्ट्यै

१५.७.६ बहिष्पवमान स्तोत्रीया

अभि वा एते देवानारोहन्तीत्याहुर्ये दशभिरहर्भिः स्तुवत इति पञ्चानां अह्नां अनुरूपैः प्रत्यवयन्ति यथाभ्यारुह्य प्रत्यवरोहेत्तथा तन्नवर्चो भवति या एवामूः प्रयच्छन्या अवदधाति ता एता उदस्यति

१५.७.७ नवर्च्च लिङ्गानुवादः

वारुण्येषा भवति यद्वै यज्ञस्य दुरिष्टं तद्वरुणो गृह्णाति तदेव तदवयजत्यादित्यैषा भवतीयं वा अदितिरस्यां एव प्रतितिष्ठति

१५.७.८ स्तोम विधानं

चतुर्विंश एव स्तोमो भवति तेजसे ब्रह्मवर्च्चसाय

१५.८.१ प्रथमाज्यस्तोत्रं

ऽऽसुषमिद्धो न आवह-ऽऽ इत्याप्रिय आज्यानि भवन्ति

१५.८.२ अप्री संज्ञा निर्वचनं

प्रजापतिः प्रजा असृजत स दुग्धो रिरिचानामन्यत स एतान्याप्रिय आज्यान्यपश्यत्तैरात्मानं आप्रीणात्दुग्ध इव वा एष रिरिचानो यो दशभिरहर्भिस्तुष्टुवानो यदेतान्याप्रिय आज्यानि भवन्त्यात्मानं एवैतैराप्रीणाति

१५.८.३ अप्री संज्ञा निर्वचनं

ऽऽयदद्य सूर उदितऽऽ इति सूरवन्मैत्रावरुणम् अन्तो वै सूरोऽन्त एतद्दशमं अह्नां अन्त एव तदन्तेन स्तुवते प्रतिष्ठायै
ऽऽउत्त्वा मदन्तु सोमाऽऽ इत्युद्वदैन्द्रं उत्थानस्य रूपम्

१५.८.४ चतुर्थाज्य स्तोत्रं

ऽऽइन्द्राग्नी आगतं सुतम्ऽऽ इति येनैव रूपेण प्रयन्ति तदभ्युद्यन्ति स्तोमः

१५.९.१ दशमाहः स्तोत्रीयतृचः

ऽऽउच्चा ते जातं अन्धसऽऽ इत्युद्वत्यो गायत्र्यो भवन्त्युत्थानस्य रूपम्

१५.९.२ दशमाहः स्तोत्रीय तृचः

ऽऽपुनानस्सोम धारय-ऽऽ इति पन्थानं एव तत्पर्यवयन्ति

१५.९.३ अन्य तृचः

ऽऽआ जागृविर्विप्र ऋतं मतीनाम्ऽऽ इति यदाप्ते प्रवतीः कुर्युरतिपद्येरन्यदावत्यो भवन्त्यनतिपादाय

१५.९.४ प्रथमे गायत्र साम

गायत्रं भवति यदेव गायत्रस्य ब्राह्मणम्

१५.९.५ प्रथमे गायत्र साम

आमहीयवं भवति क्लृप्तिश्चान्नाद्यं च क्लृप्तिञ्चैवैतेनान्नाद्यं चाभ्युत्तिष्ठन्ति

१५.९.६ प्रथमे गायत्र साम

आजिगं भवत्याजिजित्यायै

१५.९.७ तद्व्याख्यानं

आजिर्वा एष प्रततो यत्द्वादशाहस्तस्यैतदुज्जित्यै

१५.९.८ प्रथमे गायत्र साम

आभीकं भवत्यभिक्रान्त्यै

१५.९.९ शोकोपशमनं

आङ्गिरसस्तपस्तेपानाः शुचं अशोचंस्त एतत्सामापश्यंस्तानभीकेऽभ्यवर्षत्तेन शुचं अशमयन्त यदभीकेऽभ्यवर्षत्तस्मादाभीकं यां एव पूर्वैरहर्भिः शुचं शोचन्ति तां एतेनान्न शमयित्वोत्तिष्ठन्ति

१५.९.१० तृचान्तर विधानं

उत्सेधो भवति

१५.९.११ तस्य स्तुतिः

उत्सेधेन वै देवाः पशूनुदसेधन्निषेधेन पर्यगृह्णन्

१५.९.१२ सामान्तर गानं

अन्तरोत्सेधनिषेधौ यज्ञायज्ञीयम्

१५.९.१३ कारण स्तुतिः

पशवोऽन्नाद्यं यज्ञायज्ञीयं पशूनेव तदन्नाद्यं उत्सेधनिषेधाभ्यां परिगृह्णाति

१५.९.१४ स्वर्ग साधनता

माध्यन्दिने वै पवमाने देवा यज्ञायज्ञीयेन यज्ञं संस्थाप्य स्वर्गं लोकं आरोहंस्तद्य एवं वेद माध्यन्दिन एवैतत्पवमाने यज्ञायज्ञीयेन यज्ञं संस्थाप्य स्वर्गं लोकं आरोहति

१५.९.१५ परोक्ष सिद्धिः

अथो परोक्षं अनुष्टुभं सम्पद्यतेऽहरेषा वै प्रत्यक्षं अनुष्टुप्यद्यज्ञायज्ञीयं तद्यत्तृतीयसवने कुर्युः प्रत्यक्षं अनुष्टुभं ऋच्छेयुस्तस्मान्माध्यन्दिने कुर्वन्ति तेन परोक्षं अनुष्टुभं उपयन्ति

१५.९.१६ गेयसाम प्रदर्शनं

गौरीवितं भवति

१५.९.१७ माध्यन्दिन कारणं

एतद्वै यज्ञस्य श्वस्तनं यद्गौरीवितं एतदायतनो यजमानो यन्मध्यन्दिनो यद्गौरीवितं मध्यन्दिने भवति श्वस्तनं एव तद्यजमान आत्मन्धत्ते स्तोमः

१५.१०.१ प्रथमपृष्ठ स्तोत्रीयतृचः

ऽऽकया नश्चित्र आभुवद्ऽऽ इति कवत्यस्तेन प्राजापत्याः को हि प्रजापतिः प्रजापतेराप्त्यै

१५.१०.२ द्वितीय पृष्ठ स्तोत्रीय तृचः

ऽऽमा चिदन्यद्विशंसत-ऽऽ इत्युत्थानं एव तदाशिषो ह्येतर्हि

१५.१०.३ तृतीय पृष्ठ स्तोत्रीय तृचः

ऽऽउदु त्ये मधुमत्तमाऽऽ इत्युद्वत्य उदयनीयेऽहन्येतदाशिषो ह्येवैतर्हि

१५.१०.४ चतुर्थ पृष्ठ स्तोत्रीय तृचः

ऽऽतरोभिर्वो विदद्वसुम्ऽऽ इति स्तोमो वै तरो यज्ञो विदद्वसुः स्तोमेन वै यज्ञो युज्यते यत्तरोभिर्वो विदद्वसुं इत्याह यज्ञं एव तद्युनक्ति

१५.१०.५ प्रथमस्तोत्र निवर्त्तकं

वामदेव्यस्यर्क्षु रथन्तरं पृष्ठं भवति गायत्री वै रथन्तरस्य योनिः स्वायां एव तद्योनौ रथन्तरं प्रतिष्ठापयति

१५.१०.६ समुदाय प्रशंसा

तेजो वै गायत्री छन्दसा तेजो रथन्तरं साम्ना तेजश्चतुर्विंशस्तोमानां तेज एव तत्सम्यक्संदधात्यपि ह पुत्रस्य पुत्रस्तेजस्वी भवति

१५.१०.७ अनुवाद स्तुतिः

अष्टाक्षरेण प्रथमाया ऋचः प्रस्तौत्यष्टाशफांस्तत्पशूनवरुन्धे

१५.१०.८ अनुवाद स्तुतिः

द्व्यक्षरेणोत्तरयोरृचोः प्रस्तौति द्विपाद्यजमानो यजमानं एव यज्ञे पशुषु प्रतिष्ठापयति

१५.१०.९ ऋद्धि साधनता

गायत्रं वै रथन्तरं गायत्रच्छन्दो यद्गायत्रीषु रथन्तरं भवति तेन स्वायां जनतायां ऋध्नोतीमे वै लोका गायत्री यद्गायत्रीषु रथन्तरं भवतीमानेव तल्लोकान्समाप्योत्तिष्ठन्ति

१५.१०.१० मैत्रावरुण पृष्ठं

मैधातिथं भवति

१५.१०.११पशु प्राप्तिः

एतेन वै मेधातिथिः काण्वो विभिन्दुकाद्व्यूध्नीर्गा उदसृजत पशूनां अवरुध्यै मैधातिथं क्रियते

१५.१०.१२ पृष्ठ निवर्त्तकं

अभीवर्तो ब्रह्मसाम भवत्येकाक्षरनिधनः प्रतिष्ठायै

१५.१०.१३ प्रतिष्ठा कारणं

एकाक्षरा वै वाग्वाच्येव प्रतिष्ठायोत्तिष्ठन्ति

१५.१०.१४ पृष्ठ निवर्त्तकं

कालेयं अच्छावाकसाम भवति

१५.१०.१५ संहत्य स्तुतिः

समानलोके वै कालेयं च रथन्तरं चेयं वै रथन्तरं पशवः कालेयं अस्यां चैव पशुषु च प्रतिष्ठायोत्तिष्ठन्ति स्तोमः

१५.११.१ स्तोत्रीय प्रथमतृचः

ऽऽस्वादिष्ठया मदिष्ठया-ऽऽ इति गायत्री भवति मदवद्वै रसवत्तृतीयसवनं मदं एव तद्रसं दधाति

१५.११.२ स्तोत्रीय प्रथमतृचः

गायत्रं भवति यदेव गायत्रस्य ब्राह्मणम्

१५.११.३ गायत्रं साम

संहितं भवति द्य्वक्षरणिधनं प्रतिष्ठायै प्रतिष्ठायैवोत्तिष्ठन्ति

१५.११.४ सामान्तर विधानं

सफं भवति

१५.११.५ सामान्तर विधानं

सफेन वै देवा इमान्लोकान्समाप्नुवन्त्समाप्नुवंस्तत्सफस्य सफत्वं इमानेवैतेन लोकान्समाप्योत्तिष्ठन्ति

१५.११.६ स्तावक ब्राह्मणं

रोहितकूलीयं भवति यदेव रोहितकूलीयस्य ब्राह्मणम्

१५.११.७ सामद्वय विधानं

श्यावाश्वान्धीगवे भवतः समीच्यौ विराजौ दधात्यन्नाद्याय

१५.११.८ तृच विधानं

पिपीलिकामध्यासु स्तुवन्ति

१५.११.९ गान प्रशंसा

इन्द्रो वृत्रं हत्वा नास्तृषीति मन्यमानः परां परावतं अगच्छत्स एतां अनुष्टुभं व्यौहत्तां मध्ये व्यवासर्पदिन्द्रगृहे वा एषोऽभये यजते अभय उत्तिष्ठति य एवं विद्वानेतासु स्तुवते

१५.११.१० सामान्तरविधानं

यज्ञायज्ञीयनिधनं सौहविषं भवति यज्ञायज्ञीयादेव तत्तृतीयसवेने न यन्ति

१५.११.११ सामान्तरविधानं

वाजजिद्भवति

१५.११.१२ सामान्तरविधानं

सर्वस्याप्त्यै सर्वस्य जित्यै सर्वं वा एते वाजं जयन्ति ये दशमं अहरागच्छन्त्यन्नं वै वाजोऽन्नाद्यस्यावरुध्यै

१५.११.१३ निर्व्वचनाभिप्रायस्तुतिः

दशाक्षरं निधनं उपयन्ति दशरात्रस्य धृत्यै दशाक्षरा विराड्वैराजं अन्नं अन्नाद्यस्यावरुध्यै

१५.११.१४ परिमाण विधानं

सूर्यवतीषु स्तुवन्त्यन्तो वै सूरोऽन्त एतद्दशमं अह्नां अन्त एव तदन्तेन स्तुवते प्रतिष्ठायै

१५.११.१५ लिङ्गद्वय विधानं

उपवत्यो भवन्ति प्रतिष्ठायै परिवत्यो भवन्ति सर्वस्य पर्याप्त्यै

१५.११.१६ पवमानस्तोमः

चतुर्विंश एव स्तोमो भवति तेजसे ब्रह्मवर्चसाय

१५.१२.१ अन्तिम स्तोत्रीयं

विराट्सु वामदेव्यं अग्निष्टोमसाम भवति शान्त्यै क्ळृप्त्यै

१५.१२.२ सामस्तोम स्तुतिः

सद्वै वामदेव्यं साम्नां सद्विराट्छन्दसां सत्त्रयस्त्रिंशः स्तोमानां सतां अन्तान्संधायोत्तिष्ठन्त्यपि ह पुत्रस्य सत्त्वं अश्नुते

१५.१२.३ पूर्वपक्ष सिद्धान्तौ

ब्रह्मवादिनो वदन्ति यतस्सत्त्रादुदस्थाता३ स्थिता३दिति यद्यत इति ब्रूयुरप्रतिष्ठाना अप्रजसो भविष्यन्तीत्येनान्ब्रूयाद्यत्स्थितादिति ब्रूयुः स्थायुकैषां श्रीर्भविष्यति न वसीयांसो भविष्यन्तीत्येनान्ब्रूयात्पूर्णादेव पूर्णं अभ्युदस्थामेति ब्रूयुः

१५.१२.४ पूर्वपक्ष सिद्धान्तौ

एते वै पूर्णात्पूर्णं अभ्युत्तिष्ठन्ति ये वामदेव्येन स्तुत्वोत्तिष्ठन्ति

१५.१२.५ वामदेवस्य पूर्णत्वं

अन्तरिक्षं वै वामदेव्यं अन्तरिक्षेणेदं सर्वं पूर्णम्

१५.१२.६ समृद्धि हेतुता

एष वै समृद्धः स्तोमो यत्त्रयस्त्रिंशस्त्रयस्त्रिंशदक्षरासु समृद्धावेव प्रतितिष्ठन्ति

१५.१२.७ ऋचः स्तुतिः

सर्वेषां वा एताश्छन्दसां रूपं यात्त्रिपदास्तेन गायत्र्यो यदेकादशाक्षराणि पदानि तेन त्रिष्टुभो यत्द्वादशाक्षरं पदं तेन जगत्यो यत्त्रयस्त्रिंशदक्षरास्तेन विराजस्तेनैव चानुष्टुभो न ह्येकस्मादक्षराद्विराधयन्ति

१५.१२.८ ऋचः स्तुतिः

त्रयस्त्रिंश एव स्तोमो भवति प्रतिष्ठायै देवतासु वा एष प्रतिष्ठितः

  1. अक्रान्त्समुद्रः प्रथमे विधर्मं जनयन्प्रजा भुवनस्य गोपाः ।
    वृषा पवित्रे अधि सानो अव्ये बृहत्सोमो वावृधे स्वानो अद्रिः ।। १२५३ ।। ऋ. ९.९७.४०
    मत्सि वायुमिष्टये राधसे च मत्सि मित्रावरुणा पूयमानः ।
    मत्सि शर्धो मारुतं मत्सि देवान्मत्सि द्यावापृथिवी देव सोम ।। १२५४ ।।
    महत्तत्सोमो महिषश्चकारापां यद्गर्भोऽवृणीत देवान् ।
    अदधादिन्द्रे पवमान ओजोऽजनयत्सूर्ये ज्योतिरिन्दुः ।। १२५५ ।।
  2. अगन्म महा नमसा यविष्ठं यो दीदाय समिद्धः स्वे दुरोणे ।
    चित्रभानुं रोदसी अन्तरुर्वी स्वाहुतं विश्वतः प्रत्यञ्चं ।। १३०४ ।। ऋ. ७.१२.१
    स मह्ना विश्वा दुरितानि साह्वानग्नि ष्टवे दम आ जातवेदाः ।
    स नो रक्षिषद्दुरितादवद्यादस्मान्गृणत उत नो मघोनः ।। १३०५ ।।
    त्वं वरुण उत मित्रो अग्ने त्वां वर्धन्ति मतिभिर्वसिष्ठाः ।
    त्वे वसु सुषणनानि सन्तु यूयं पात स्वस्तिभिः सदा नः ।। १३०६ ।।
  3. मित्रं हुवे पूतदक्षं वरुणं च रिशादसं ।
    धियं घृताचीं साधन्ता ।। ८४७ ।। ऋ. १.२.७
    ऋतेन मित्रावरुणावृतावृधावृतस्पृशा ।
    क्रतुं बृहन्तमाशाथे ।। ८४८ ।।
    कवी नो मित्रावरुणा तुविजाता उरुक्षया ।
    दक्षं दधाते अपसं ।। ८४९ ।।
  4. महां इन्द्रो य ओजसा पर्जन्यो वृष्टिमां इव ।
    स्तोमैर्वत्सस्य वावृधे ।। १३०७ ।। ऋ. ८.६.१
    कण्वा इन्द्रं यदक्रत स्तोमैर्यज्ञस्य साधनं ।
    जामि ब्रुवत आयुधा ।। १३०८ ।।
    प्रजामृतस्य पिप्रतः प्र यद्भरन्त वह्नयः ।
    विप्रा ऋतस्य वाहसा ।। १३०९ ।।
  5. ता हुवे ययोरिदं पप्ने विश्वं पुरा कृतं ।
    इन्द्राग्नी न मर्धतः ।। ८५३ ।। ऋ. ६.६०.४
    उग्रा विघनिना मृध इन्द्राग्नी हवामहे ।
    ता नो मृडात ईदृशे ।। ८५४ ।।
    हथो वृत्राण्यार्या हथो दासानि सत्पती ।
    हथो विश्वा अप द्विषः ।। ८५५ ।।
  6. पवमानस्य जिघ्नतो हरेश्चन्द्रा असृक्षत ।
    जीरा अजिरशोचिषः ।। १३१० ।। ऋ. ९.६६.२५
    पवमानो रथीतमः शुभ्रेभिः शुभ्रशस्तमः ।
    हरिश्चन्द्रो मरुद्गणः ।। १३११ ।।
    पवमान्व्यश्नुहि रश्मिभिर्वाजसातमः ।
    दधत्स्तोत्रे सुवीर्यं ।। १३१२ ।।
  7. परीतो षिञ्चता सुतं सोमो य उत्तमं हविः ।
    दधन्वां यो नर्यो अप्स्वा३न्तरा सुषाव सोममद्रिभिः ।। १३१३ ।। ऋ. ९.१०७.१
    नूनं पुनानोऽविभिः परि स्रवादब्धः सुरभिन्तरः ।
    सुते चित्वाप्सु मदामो अन्धसा श्रीणन्तो गोभिरुत्तरं ।। १३१४ ।।
  8. असावि सोमो अरुषो वृषा हरी राजेव दस्मो अभि गा अचिक्रदत् ।
    पुनानो वारमत्येष्यव्ययं श्येनो न योनिं घृतवन्तमासदत् ।।१३१६ ।।
    पर्जन्यः पिता महिषस्य पर्णिनो नाभा पृथिव्या गिरिषु क्षयं दधे ।
    स्वसार आपो अभि गा उदासरन्त्सं ग्रावभिर्वसते वीते अध्वरे ।। १३१७ ।।
    कविर्वेधस्या पर्येषि माहिनमत्यो न मृष्टो अभि वाजमर्षसि ।
    अपसेधन्दुरिता सोम नो मृड घृता वसानः परि यासि निर्णिजं ।। १३१८ ।।
  9. श्रायन्त इव सूर्यं विश्वेदिन्द्रस्य भक्षत ।
    वसूनि जातो जनिमान्योजसा प्रति भागं न दीधिमः ।। १३१९ ।।
    अलर्षिरातिं वसुदामुप स्तुहि भद्रा इन्द्रस्य रातयः ।
    यो अस्य कामं विधतो न रोषति मनो दानाय चोदयन् ।।१३२० ।।
  10. यत इन्द्र भयामहे ततो नो अभयं कृधि ।
    मघवन्छग्धि तव तन्न ऊतये वि द्विषो वि मृधो जहि ।। १३२१ ।।
    त्वं हि राधस्पते राधसो महः क्षयस्यासि विधर्त्ता ।
    तं त्वा वयं मघवन्निन्द्र गिर्वणः सुतावन्तो हवामहे ।। १३२२ ।।
  11. त्वं सोमासि धारयुर्मन्द्र ओजिष्ठो अध्वरे ।
    पवस्व मंहयद्रयिः ।। १३२३ ।।
    त्वं सुतो मदिन्तमो दधन्वान्मत्सरिन्तमः ।
    इन्दुः सत्राजिदस्तृतः ।। १३२४ ।।
    त्वं सुष्वाणो अद्रिभिरभ्यर्ष कनिक्रदत् ।
    द्युमन्तं शुष्मा भर ।। १३२५ ।।
  12. त्वं ह्या३ङ्ग दैव्या पवमान जनिमानि द्युमत्तमः ।
    अमृतत्वाय घोषयन् ।।९३८ ।।
    येना नवग्वो दध्यङ्ङपोर्णुते येन विप्रास आपिरे ।
    देवानां सुम्ने अमृतस्य चारुणो येन श्रवांस्याशत ।। ९३९ ।।
  13. पवस्व देववीतय इन्दो धाराभिरोजसा ।
    आ कलशं मधुमान्त्सोम नः सदः ।। १३२६ ।।
    तव द्रप्सा उदप्रुत इन्द्रं मदाय वावृधुः ।
    त्वां देवासो अमृताय कं पपुः ।। १३२७ ।।
    आ नः सुतास इन्दवः पुनाना धावता रयिं ।
    वृष्टिद्यावो रीत्यापः स्वर्विदः ।। १३२८ ।।
  14. परि त्यं हर्यतं हरिं बभ्रुं पुनन्ति वारेण ।
    यो देवान्विश्वां इत्परि मदेन सह गच्छति ।। १३२९ ।।
    द्विर्यं पञ्च स्वयशसं सखायो अद्रिसंहतं ।
    प्रियमिन्द्रस्य काम्यं प्रस्नापयन्त ऊर्मयः ।। १३३० ।।
    इन्द्राय सोम पातवे वृत्रघ्ने परि षिच्यसे ।
    नरे च दक्षिणावते वीराय सदनासदे ।। १३३१ ।।
  15. पवस्व सोम महे दक्षायाश्वो न निक्तो वाजी धनाय ।। १३३२ ।।
    प्र ते सोतारो रसं मदाय पुनन्ति सोमं महे द्युम्नाय ।। १३३३ ।।
    शिशुं जज्ञानं हरिं मृजन्ति पवित्रे सोमं देवेभ्य इन्दुं ।। १३३४ ।।
  16. उपो षु जातमप्तुरं गोभिर्भङ्गं परिष्कृतं ।
    इन्दुं देवा अयासिषुः ।। १३३५ ।।
    तमिद्वर्धन्तु नो गिरो वत्सं संशिश्वरीरिव ।
    य इन्द्रस्य हृदंसनिः ।। १३३६ ।।
    अर्षा नः सोम शं गवे धुक्षस्व पिप्युषीमिषं ।
    वर्धा समुद्रमुक्थ्यं ।। १३३७ ।।
  17. सुषमिद्धो न आ वह देवां अग्ने हविष्मते ।
    होतः पावक यक्षि च ॥ १३४७ ॥ ऋ. १.१३.१
    मधुमन्तं तनूनपाद्यज्ञं देवेषु नः कवे ।
    अद्या कृणुय्हूतये ॥ १३४८ ॥
    नराशंसमिह प्रियमस्मिन्यज्ञ उप ह्वये ।
    मधुजिह्वं हविष्कृतं ॥ १३४९ ॥
    अग्ने सुखतमे रथे देवां ईडित आ वह ।
    असि होता मनुर्हितः ॥ १३५० ॥
  18. यदद्य सूर उदितेऽनागा मित्रो अर्यमा ।
    सुवाति सविता भगः ॥ १३५१ ॥
    सुप्रावीरस्तु स क्षयः प्र नु यामन्त्सुदानवः ।
    ये नो अंहोऽतिपिप्रति ॥ १३५२ ॥
    उत स्वराजो अदितिरदब्धस्य व्रतस्य ये ।
    महो राजान ईशते ॥ १३५३ ॥
  19. उ त्वा मन्दन्तु सोमाः कृणुष्व राधो अद्रिवः ।
    अव ब्रह्मद्विषो जहि ॥ १३५४ ॥ ऋ. ८.६४.१
    पदा पणीनराधसो नि बाधस्व महां असि ।
    न हि त्वा कश्च न प्रति ॥ १३५५ ॥
    त्वमीशिषे सुतानामिन्द्र त्वमसुतानां ।
    त्वं राजा जनानां ॥ १३५६ ॥
  20. इन्द्राग्नी आ गतं सुतं गीर्भिर्नभो वरेण्यं ।
    अस्य पातं धियेषिता ॥ ६६९ ॥
    इन्द्राग्नी जरितुः सचा यज्ञो जिगाति चेतनः ।
    अया पातमिमं सुतं ॥ ६७० ॥
    इन्द्रमग्निं कविच्छदा यज्ञस्य जूत्या वृणे ।
    ता सोमस्येह तृम्पतां ॥ ६७१ ॥
  21. उच्चा ते जातमन्धसो दिवि सद्भूम्या ददे ।
    उग्रं शर्म महि श्रवः ॥ ६७२ ॥
    स न इन्द्राय यज्यवे वरुणाय मरुद्भ्यः ।
    वरिवोवित्परि स्रव ॥ ६७३ ॥
    एना विश्वान्यर्य आ द्युम्नानि मानुषाणां ।
    सिषासन्तो वनामहे ॥ ६७४ ॥
  22. पुनानः सोम धारयापो वसानो अर्षसि ।
    आ रत्नधा योनिमृतस्य सीदस्युत्सो देवो हिरण्ययः ॥ ६७५ ॥
    दुहान ऊधर्दिव्यं मधु प्रियं प्रत्नं सधस्थमासदत् ।
    आपृच्छ्यं धरुणं वाज्यर्षसि नृभिर्धौतो विचक्षणः ॥ ६७६ ॥
  23. आ जागृविर्विप्र ऋतां मतीनां सोमः पुनानो असदच्चमूषु ।
    सपन्ति यं मिथुनासो निकामा अध्वर्यवो रथिरासः सुहस्ताः ॥ १३५७ ॥
    स पुनान उप सूरे दधान ओबे अप्रा रोदसी वि ष आवः ।
    प्रिया चिद्यस्य प्रियसास ऊती सतो धनं कारिणे न प्र यंसत् ॥१३५८ ॥
    स वर्धिता वर्धनः पूयमानः सोमो मीढ्वां अभि नो ज्योतिषावीत् ।
    यत्र नः पूर्वे पितरः पदज्ञाः स्वर्विदो अभि गा अद्रिमिष्णन् ॥१३५९ ॥