सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ११/त्रैककुभम्

विकिस्रोतः तः
त्रैककुभम्.
त्रैककुभम्.

य एक इद्विदयते वसु मर्त्ताय दाशुषे ।
ईशानो अप्रतिष्कुत इन्द्रो अङ्ग ।। १३४१ ।। ऋ. १.८४.७
यश्चिद्धि त्वा बहुभ्य आ सुतावां आविवासति ।
उग्रं तत्पत्यते शव इन्द्रो अङ्ग ।। १३४२ ।।
कदा मर्त्तमराधसं पदा क्षुम्पमिव स्फुरत् ।
कदा नः शुश्रवद्गिर इन्द्रो अङ्ग ।। १३४३ ।।

[सम्पाद्यताम्]

टिप्पणी

त्रैककुभं भवति। ओजस्येव तद्वीर्ये प्रतितिष्ठत्योजो वीर्यं त्रैककुभम् - पञ्च.ब्रा. १५.६.४

त्रैककुभम् अन्नाद्यकामः कुर्वीत।....स ऐक्षतैषां चेद् वै त्रयाणां लोकानां तिस्रः ककुभो ऽन्नाद्यम् अवारुन्धते नेमास् तिस्रः ककुभो ऽन्नाद्यम् ऽवहरेयेति। स एतत् सामापश्यत्। तेनास्तुत। तेनैषां त्रयाणां लोकानां तिस्रः ककुभो ऽन्नाद्यम् ऽवारुन्धत। तेनेमास् तिस्रः ककुभो ऽवाहरत। तद् यद् एतेषां त्रयाणां लोकानां तिस्रः ककुभो ऽन्नाद्यम् अवारुन्धत तत् त्रैककुभस्य त्रैककुभत्वम्। तद् एतद् अन्नाद्यस्यावरुद्धिस् साम। - जैब्रा. १.१८५

अथ त्रैककुभम् उक्तब्राह्मणं त्रीन्द्रियं साम। ऐन्द्री ऋच ऐन्द्रं सामेन्द्रं इति निधनं भवति। त्रीणि पुरुष इन्द्रियाण्य् - आत्मा प्रजा पशवः। तान्य् एवैतेनात्मन् परिगृह्णीते। - जैब्रा ३.२७७

आग्नावैष्णवीष्टिः - त्रैककुदं भवति। यत्र वा इन्द्रो वृत्रमहन् - तस्य यदक्ष्यासीत्। तं गिरिं त्रिककुदमकरोत्। तद् यत्त्रैककुदं भवति - चक्षुष्येवैतच्चक्षुर्दधाति। तस्मात्त्रैककुदं भवति। यदि त्रैककुदं न विन्देद् अप्यत्रैककुदमेव स्यात्। समानी ह्येवाञ्जनस्य बन्धुता ॥ - श.ब्रा. ३.१.३.१२