सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः १०/महासामराजम्
असावि सोमो अरुषो वृषा हरी राजेव दस्मो अभि गा अचिक्रदत् ।
पुनानो वारमत्येष्यव्ययं श्येनो न योनिं घृतवन्तमासदत् ।।१३१६ ।। ऋ. ९.८२.१
पर्जन्यः पिता महिषस्य पर्णिनो नाभा पृथिव्या गिरिषु क्षयं दधे ।
स्वसार आपो अभि गा उदासरन्त्सं ग्रावभिर्वसते वीते अध्वरे ।। १३१७ ।।
कविर्वेधस्या पर्येषि माहिनमत्यो न मृष्टो अभि वाजमर्षसि ।
अपसेधन्दुरिता सोम नो मृड घृता वसानः परि यासि निर्णिजं ।। १३१८ ।।
टिप्पणी
तासु सामराजम्। श्रीर् वै राज्यम्। अश्नुते श्रियं गच्छति राज्यं य एवं वेद। तद् व् एवाचक्षते संवद् इति। प्रवता वै देवा स्वर्गं लोकम् आयन्न् उद्वतोदपतन्। संवता समाश्नुवत। तद् यद् एतानि सामानि भवन्ति प्रवतैव स्वर्गं लोकं प्रयन्त्य्, उद्वतोत्पतन्ति। संवता समश्नुवते। तान्य् उ वाङ्निधनानि भवन्ति। वाचश् छन्दोमैस् समिच्छन्ति। आप्तेव वा एतर्हि वाग् भवति। छन्दोमेषु तद् यद् एतानि वाङ्गनिधनानि भवन्ति, ताम् एवैतद् वाचं प्रत्यक्षम् उपयन्ति॥जैब्रा ३.२६०