सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/प्रपाठकः १२ख/आजिगम्(उच्चाते)

विकिस्रोतः तः
आजिगम्.
आजिगम्१.
आजिगम्२.
आजिगम्३

ऋ. ९.६१.१०

 

अथ पावमानं काण्डम् ।
(४६७.१) ॥ आजिगम् । अजिगो प्रजापतिर्वा गायत्री सोमः ॥
उच्चा। तेजाऽ३तामन्धासाऽ२ः । दिविसद्भूम्याददाइ ॥ उग्रꣳशाऽ२३॥ र्माऽ३ ॥ माऽ२हाऽ२३४औहोवा ॥ उप् । श्राऽ२३४वाः ॥
(दी० ६ । प० ७ । मा० ५ )१ (खु । ८१४)
 
(४६७।२) ॥ आभीकम् । अभिरसो गायत्री सोमः ॥
उच्चातेऽ२३४जा । तमन्धाऽ२३४साः। दिवाइसाऽ२३४द्भू॥ मियाददाइ ।। उग्रꣳशाऽ२३र्मा ॥ महायेऽ३ । श्राऽ२वाऽ२३४औहोवा ॥ वाऽ२३४५इ ॥
(दी० ४ । प० ८ । मा० ५)२ (दु । ८१५)

(४६७।३) ॥ ऋषभः पावमानम् । ऋषभो गायत्री सोमः ॥
हाहाउच्चातेजा॥ हाऽ३ । हाऽ३इ । तामाऽ२०धाऽ२३४साः । दिविसद्भूमियाऽ१दाऽ३दे ॥ उग्रꣳशाऽ२३४र्मा। ओमोऽ३ । महोवा । श्राऽ५वोऽ६हाइ ॥
( दी० ५ । प० ९ । मा० ४ )३ ( भी। ८१६)

(४६७।४) ॥ आभीकम् । अंगिरसो गायत्री सोमः ॥
ऊऽ२३४च्चातेजाऽ५ । तमौहो०धासाः॥ दिविसद्भूमियाऽ१दाऽ३दे ।। उग्रꣳशाऽ२३४र्मा । माहाऽ३उवाऽ३४३ । श्राऽ३४५वोऽ६”हाइ ॥
(दी० ४ । प० ६ । मा० ३ )४ (ति । ८१७)

(४६७।५) ॥ बाभ्रवे द्वे । द्वयोः बभ्रुर्गायत्री सोमः ॥
उच्चातेजा॥ तम । धासाऽ२३: । औमोऽ३वा । दिविसद्भू । मियादाऽ१देऽ२३ । ओमोऽ३वा ॥ उग्राꣳशाऽ१र्माऽ२३ ।। ओमोऽ३वाऽ३ । माऽ२हाऽ२३४औहोवा ॥ श्रवाऽ३ईऽ२३४५॥
(दी० ८ । प० ११ । मा० ३ ) ५ ( टि । ८१८ )

(४६७।६)
उच्चातेजा॥ तमन्धाऽ२३साः। दिविसद्धू । मियादाऽ२३दाइ ॥ ऊग्राऽ३ꣳहाइ । शार्माऽ३हाइ॥ महाऽ३होयेऽ३ । श्राऽ२वाऽ२३४औहोवा ॥ ग्वाऽ२३४भीः ॥
(दी० ६ । प० ९ । मा. ६)६ (घू। ८१९)

(४६७।७) ॥ इन्द्राण्याः साम । इन्द्राणी गायत्री सोमः ॥
उच्चातेजातमा ॥ धासाऽ२३: । ओमोऽ३वा । दिविसद्भू । मियादाऽ१देऽ२३ । ओमोऽ३वा ॥ उग्राꣳशाऽ१र्माऽ२३ । ओमोऽ३वा ।। महायेऽ३ । श्राऽ२वाऽ२३४औहोवा ॥ ऊऽ३२३४पा ॥
(दी० ९ । प० ११ । मा० २ ) ७( त्ला । ८२०)
 
(४६७।८) ॥ शैशवे द्वे । द्वयोः शिशुर्गायत्री सोमः ॥
उच्चातेजातमन्धासाः॥ दिविसद्भूम्याददाइ॥ उग्रꣳशाऽ२३४र्मा ॥ महाऽ३इश्राऽ५वाऽ६५६ः ॥
(दी० ५ । प० ४ । मा० ४ )८( भी। ८२१)

(४६७।९)
उच्चातेजातमन्धाऽ६साः॥ दिविसद्भू । म्यादाऽ२३दाइ । उ । ग्रꣳशाऽ२३र्मा ।। महाऽ२ । हाऽ२इ । औऽ३होऽ३१इ।। श्रवाऽ२ः । हाऽ२इ । औऽ३होऽ३१इ ॥ इयाऽ३होइ । इयोऽ२३४५वाऽ६५६॥ ऊऽ२३४५ ।।
( दी० ५। प० १४ । मा० ८)९ (र्भै । ८२२ )

(४६७।१०) ॥दोहसामनी द्वे। द्वयोः प्रजापतिर्गायत्री सोमः ॥
उच्चाऽ३४औहोवा ॥ तेजाऽ२ । तमाऽ३४५ । धाऽ२३४साः । दिविसद्भूम्याददे ॥ ऊग्रꣳशाऽ२३र्मा ॥ महिश्रवा । औऽ३होवा । होऽ५इ ॥ डा॥
(दी० ५ । प० १० । मा० ३ )१० (मि ! ८२३)

(४६७।११) दोहीयसाम ॥
उचातेजातमन्धसोदोहाइदोहाऽ६ए। दिविसद्भूम्याददे । दोऽ३हाइ । दोऽ३हाऽ३ए॥ उग्रꣳशाऽ२३र्मा । दोऽ३हाइ । दोऽ३हाऽ३ए॥ महिश्राऽ२३वाऽ३४३ः । ओऽ२३४५इ । डा ॥
(दी० १० । प० १० । मा० ८) ११( मै । ८२४ )

(४६७।१२) ॥ इन्द्राण्याः साम । इन्द्राणी गायत्री सोमः ॥
उच्चातेजातमन्धसाः॥ दिवाइसाऽ२३४द्भू । मियाऽ२ददे। ओम् । औऽ३वा । ओऽ३वा । ओऽ३वा । ववाऽ२३होइ॥ उग्रꣳशाऽ२३र्मा । ओऽ३वा । ओऽ३वा । ववाऽ२३होइ॥ महिश्रवोऽ२ । याऽ२३४औहोवा ॥ ययुरेऽ२३४५॥
( दी० ६ । प० १४ । मा० ६ )१२( घू । ८२५)

(४६७।३) ॥ आमहीयवम् । अमहीयुर्गायत्री सोमः ॥
उच्चाताऽऽइजातमन्धसाः॥ दिवाइसाऽ१द्भू ऽ२ । मियाऽ२३ददाइ ।। उग्रꣳशर्मा ॥ महाऽ२३इश्रवाउ । वाऽ३॥ स्तौषेऽ२३४५ ॥
(दी० ३ । प० ७ । मा० ६ )१३ (ठू। ८२६ )


[सम्पाद्यताम्]

टिप्पणी

उच्चा ते जातमन्धस इति गायत्री भवति। उद्वद्वा एतदहर्यत् तृतीयं तदेव तदभिवदति। अन्धस्वती भवत्यहर्वा अन्धोऽह्न आरम्भः। - तांब्रा १२.३.१

४६७.१

आजिगं भवत्याजिजित्यायै। आजिर्वा एष प्रततो यत् द्वादशाहस्तस्यैतदुज्जित्यै - तांब्रा १५.९.६

अथाजीकम् उज्जित्यै। देवासुरा यज्ञ आजिम् आयन्। ते देवा अकामयन्तोद् इमम् आजिं जयेमेति। त एतत् सामापश्यन्। तेनास्तुवत। ततो वै ते तम् आजिम् उदजयन्। आजिम् इवैते यन्ति य एतद् अहर् आगच्छन्ति। तद् यद् अत्राजीकं भवत्य् उज्जित्या एव। उज्जयति य एवं वेद। तद् वा आजीकम् इति कवत् प्राजापत्यं सामाह्नो रूपेण समृद्धम्। यत्र वा अहारूपेण समर्धयन्ति सं तत्रर्ध्यत। सम् अस्मा ऋध्यते य एवं वेद॥ - जैब्रा ३.२८३

४६७.३

उडङ्गवानाँ योऽग्रे गच्छेत् तं गृहीत्वा तदहस्त्रिवृतं कारयेन्मणिमग्निं प्रतिष्ठाप्यावृता हुत्वा मणिं निधायोच्चा ते जातमन्धस इति तृतीयेनाभिजुहुयात् सहस्रकृत्वः शतावरं तं मणिं कण्ठेन शिरसा वा धारयञ्च्छतानुचरो भवति शतानुचरो भवति ॥सामविधानब्रा. २.८.६

४६७.४

ताम्ररजतजातरूपायसीं मुद्रां कारयित्वोच्चा ते जातमन्धस इति चतुर्थेनाभिजुहुयात् सहस्रकृत्वः शतावरं तां मुद्रां दक्षिणेन पाणिना धारयेन्नैनं कृतानि हिꣳसन्ति तान्येव प्रतिगच्छन्ति तान्येव प्रतिगच्छन्ति ॥सामविधानब्रा ३.५.८

आभीकं भवत्यभिक्रान्त्यै। आङ्गिरसस्तपस्तेपानाः शुचमशोचंस्त एतत् सामापश्यंस्तानभीकेऽभ्यवर्षत् तेन शुचमशमयन्त यदभीकेऽभ्यवर्षत् तस्मादाभीकं यामेव पूर्वैरहर्भिः शुचं शोचन्ति तामेतेनान्न शमयित्वोत्तिष्ठन्ति - तांब्रा १५.९.८

अथाभीकम्। देवा वा अकामयन्ताभीकं नश् शिवम् आप उपस्पृशेयुर् इति। त एतत् सामापश्यन्। तेनास्तुवत। ततो वै तान् अभीकं शिवम् आप उपास्पृशन्। तद् आभीकस्याभीकत्वम्। अभीकं ह वा एनं शिवम् आप उपस्पृशन्ति य एवं वेद। ऋषयो वै तपस् तेपाना अशोचन्। ते ऽकामयन्ताभीकं नश् शिवम् आप उपस्पृशेयुर् इति। त एतत् सामापश्यन्। तेनास्तुवत। ततो वै तान् अभीके ऽभ्यवर्षत्। तद् व् एवाभीकस्याभीकत्वम्। तद् आपो वै शान्तिः। शुशुचाना इवैते तेपाना इव भवन्ति य एतद् अहर् आगच्छन्ति। तद् यद् अत्राभीकं भवति शुच एवापहत्यै। तद् वा आभीकम् इति कवत् प्राजापत्यं सामाह्नो रूपेण समृद्धम्। यत्र वा अहारूपेण समर्धयन्ति सं तत्रर्ध्यते। सम् अस्मा ऋध्यते य एवं वेद॥ - जैब्रा ३.२८४


४६७.९-१०

यदिन्द्रो अनयदुच्चा ते जातमन्धस इति नवमदशमे एतेषामेकमनेकं वा सर्वाणि वा प्रयुञ्जानः सुभगो भवति ॥सामविधानब्रा २.६.२

उच्चा ते जातम् अन्धसेति माध्यंदिनस्य पवमानस्यान्धस्वतीर् गायत्र्यो भवन्ति प्राजापत्याः. प्राजापत्ये ऽहंस् तत् तत्सलक्ष्म क्रियते। तासु गायत्रम् उक्तब्राह्मणम्। अथामहीयवं प्राजापत्यं साम प्राजापत्ये ऽहन् क्रियते। अहर् एव तद्रूपेण समृद्धयन्ति। तेनैभ्यस् समृद्धेन स्वायां जनतायाम् अर्धुकं भवति। अथ दोहादोहीयं दुग्ध्या एव, एतस्याह्नो दोहाय। - जैब्रा २.१३

४६७.१३

आमहीयवम् (ऊहगानम्)

आमहीयवं भवति कॢप्तिश्चान्नाद्यं च कॢप्तिं चैवैतेनान्नाद्यं चाभ्युत्तिष्ठन्ति - तांब्रा. १५.९.५