सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ९/सैन्धुक्षितम्

विकिस्रोतः तः
सैन्धुक्षितम्.
सैन्धुक्षितम्.

पवमानस्य जिघ्नतो हरेश्चन्द्रा असृक्षत ।
जीरा अजिरशोचिषः ।। १३१० ।। ऋ. ९.६६.२५
पवमानो रथीतमः शुभ्रेभिः शुभ्रशस्तमः ।
हरिश्चन्द्रो मरुद्गणः ।। १३११ ।।
पवमान व्यश्नुहि रश्मिभिर्वाजसातमः ।
दधत्स्तोत्रे सुवीर्यं ।। १३१२ ।।



१७ सैन्धुक्षितम् ॥ सिन्धुक्षित् । गायत्री। पवमानस्सोमः ।।
पवमानो । हाइ ॥ स्यजिघ्नाऽ२३ताः । हरेश्चन्द्राअसाऽ१र्क्षाऽ३ता ॥ जीराजोऽ२३४हाइ ॥ राशोऽ३ हाइ। चिषा। औऽ३होवा ॥श्रीः॥ पवमानो । हाइ ॥ रथीताऽ२३माः । शुभ्रेभिश्शुभ्रशाऽ१स्ताऽ३माः ॥ हरिश्चन्द्रोऽ२३४हाइ ॥ मारूऽ३द्धाइ । गणा। औऽ३होवा ॥श्रीः॥ पवमानो। हाइ ॥ वियश्नूऽ२३हाइ । रश्मिभिर्वाजसाऽ१ताऽ३माः ॥ दधत्स्तोत्रोऽ२३४हाइ ॥ सूवाऽ३हाइ । रियाम् । औऽ२३होवा । होऽ५इ ॥डा॥
...
दी. ११. उत.६, मा. १७. के. ॥१७७।।

९.६६.२५ पवमानस्य जङ्घ्नतो इति

अदारसृक् १.९.१४

सुरूपोत्तरम् १.९.१५

हरिश्रीनिधनम् १.९.१६

सैन्धुक्षितम् १.९.१७

गतनिधनबाभ्रवम् १.९.१८

इडानां संक्षारः १.९.१९

ऋषभः पवमानः १.९.२०


[सम्पाद्यताम्]

टिप्पणी

पवमानस्य जिघ्नतो हरेश्चन्द्रा असृक्षत"इति हरिवत्यो गायत्र्यो भवन्ति छन्दोमानामयातयामतायै। पवमानस्य जिघ्नत"इति वै बृहतो रूपंऽऽहरेश्चन्द्रा असृक्षत"इति जगत्या उभयोः सहरूपमुपैति साम्नश्च छन्दसश्च। ....सैन्धुक्षितं भवति यदेव सैन्धुक्षितस्य ब्राह्मणम् - तांब्रा. १५.३.११

पवमानस्य जिघ्नत इति बृहतो रूपं, हरेश् चन्द्रा इति जगत्यै। पवमानो रथीतमश् शुभ्रेभिश् शुभ्रशस्तमः। हरिश्चन्द्रो मरुद्गणः॥ इति मरुत्वतीर् भवन्ति। मरुत्वद् वै मध्यन्दिनस्य रूपम्। मध्यन्दिनस्यैव तद् रूपान् न यन्ति। पवमान व्य् अश्नुहीति वैश्वदेवं रूपम् उपगच्छन्ति। वैश्वदेवं ह्य् एतद् अहः। ता घ्नद्वतीर् भवन्ति। अन्तो नवमम् अहः। अन्तम् एवैतद् आगत्यैताभिस् सर्वं पाप्मानम् अपघ्नते। - जैब्रा. ३.२४५

अथ सैन्धुक्षितम्। सिन्धुक्षिद् वा अन्तं वाचो ऽपश्यत्। वाचं छन्दोमैस् समिच्छन्ति। आप्तेव वा एतर्हि वाग् भवति छन्दोमेषु। ताम् एवैतत् संविन्दन्ति। अथो अन्त्येन साम्नान्त्यं स्वर्गं लोकम् अश्नवामहा इति। तद् ऐळं भवति। पशवो वा इळा। पशवश् छन्दोमाः - पशूनाम् एवावरुद्ध्यै। - जैब्रा. ३.२४९