ऋग्वेदः मण्डल २

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
ऋग्वेदः — ऋग्वेदः मण्डल २


[सम्पाद्यताम्]

गृत्समदोपरि पौराणिकाः संदर्भाः

टिप्पणी

गृत्समदः॥

सामान्यतया अस्य मण्डलस्य ऋषिः गृत्समदः (आङ्गिरसः शौनहोत्रो पश्चात्) भार्गवः शौनकः अस्ति। डा. फतहसिंहः कथयति स्म यत् गृत्समदे द्विदोषाः निहिताः सन्ति - गृत्सः एवं मदः। गृत्सः शब्दस्य मूलं गृध् - अभिकाङ्क्षायाम् अस्ति। वयं सर्वेपि भोगानां अनन्तया आकाङ्क्षया ग्रस्ताः भवामः। यदा भोगाः प्राप्ता भवन्ति, तर्हि मदः संजायते। वेदः आकाङ्क्षायाः विकल्पं प्रस्तूयति। आकाङ्क्षा स्तुत्यां परिवर्तितुं शक्यते। तदा भोगाकर्षणशक्तिरपि सुलभा भविष्यति। गणेशपुराणे गृत्समदः एवमेव करोति एवं परिणामस्वरूपेण भोगाकर्षणसम्पन्नं पुत्रं त्रिपुरं प्राप्नोति। तन्त्रशास्त्रानुसारेण, त्रिपुरस्य तात्पर्यं अन्नमय, प्राणमय एवं मनोमयकोशेभिः भवति।अयं मानुषी त्रिलोकी कथ्यते। अस्मिन् त्रिलोकी मध्ये भोगानां आकाङ्क्षा अस्ति, किन्तु भोगानां आकर्षणस्य सामर्थ्यं नास्ति। किं गृत्समदस्य सूक्तेभिः अस्य सामर्थ्यस्य उपलब्धिः भवितुं शक्यते, अयं अन्वेषणीयः।

गृत्समदस्य विषये गणेशपुराणम् एव कथायाः एकमात्रः स्रोतमस्ति। गृत्समदः वाचक्नवि एवं मुकुंदायाः पुत्रः अस्ति। तस्य जन्मस्य कथा एवंप्रकारेण अस्ति। तृषाग्रस्तः रुक्मांगदनामकः कश्चिद् युवा मुकुंदागृहिणीतः जलं याचति। मुकुंदा तस्य रूपोपरि आकर्षिता भवति एवं संगमस्य प्रस्तावं करोति। रुक्मांगदः तस्याः प्रस्तावं अस्वीकरोति येनोपरि मुकुंदा शापं दत्त्वा तं कुष्ठग्रस्तं करोति। इन्द्रः मुकुंदया सह संगमं कर्तुं इच्छति, किन्तु मुकुन्दा तत् न स्वीकरोति। तदा इन्द्रः रुक्मांगदस्य रूपं धृत्वा मुकुंदया सह संगमं करोति। तेन संगमेन मुकुंदस्य जन्म भवति। ।

वाचक्नवि शब्दस्य अर्थं विज्ञानमयकोशस्य वाक्तः कर्तुं शक्यन्ते। मुकुंदा शब्दस्य तात्पर्यं ब्रह्मवैवर्त्तपुराणस्य(४.१११.२८) मुकुन्दशब्दस्य निरुक्त्यानुसारेण कर्तुं शक्यन्ते। निरुक्त्यानुसारेण - भक्तेभ्यः मुकुं भक्तिरसप्रेमवचनस्य दाता। अतएव, वाचक्नवि - भार्या मुकुन्दा शुष्कनिर्वाणस्य अभिलाषिणी नास्ति। सा भक्तिरस, प्रेमस्य अभिलाषिणी अस्ति। तस्याः आकांक्षा रुक्मांगदेन सह संगमस्य अस्ति। हिरण्यस्य संज्ञा रुक्मं अस्ति। यथा रुक्म उत्तप्तो भाय्यात् । एवमेव स तेजसा यशसा । अस्मिँश्च लोकेऽमुष्मिँश्च भाति ( तै.ब्रा. ३.११.७)। जीवः सूर्यस्य, रुक्मस्य रूपमस्ति। सूर्यस्य परितः य़- आभामण्डलमस्ति, तत् जीवस्य व्याधितः रक्षां, अगदं करोति। अनेन प्रकारेण रुक्मांगदशब्दस्य अर्थं सिद्धं भवति। मुकुंदा हेतु मात्र सूर्यस्य अस्तित्वं पर्याप्तं नास्ति, सूर्यस्य परितः मण्डलमपि आवश्यकमस्ति। रुक्मांगदस्य कुष्ठव्याधिः आभामण्डलस्य लोपनं अस्ति (डा. फतहसिंह)।

डा. फतहसिंहः यथार्थानुमानं करोति स्म यत् गृत्समदस्य स्थितिः हैहयसमं भवति। हैहय शब्दः हय शब्दस्य द्विआवृत्तिभिः निर्मितं अस्ति - हय-हय। डा. फतहसिंहानुसारेण मनुष्यस्य चेतना द्वित्रिलोकीभिः निर्मितं अस्ति - मानुषी त्रिलोकी एवं दैवी त्रिलोकी। यदा ता द्वयोपि हयाः भवन्ति, तदा हैहय शब्दः सिद्धं भवति। कार्तवीर्यार्जुनस्य वंशमपि हैहयवंशमासीत्। अस्मिन् वंशे के दोषाः सन्ति, अयं अन्वेषणीयः।

गृत्सः, पुं, (गृध्यति लिप्सत्यनेनेति । गृध् अभि:काङ्क्षायाम् + “गृधिपण्योर्दकौ च ।” उणां । :३ । ६९ । इति सः स च कित् दकारान्तादेशश्च ।) :कन्दर्पः । इत्युणादिकोषः ॥ (त्रि, स्तुत्यः । :यथा, ऋग्वेदे । ७ । ८७ । ५ ।

“गृत्सो राजा वरुणश्चक्र एतं दिविप्रेङ्खम् हिरण्ययं शुभे कम्।” :“गृत्सः स्तुत्यः ।” इति भाष्यम् ॥) - शब्दकल्पद्रुमः
प्राणो वै गृत्सोऽपानो मदः स यत्प्राणो गृत्सोऽपानो मदस्तस्माद्गृत्समदस्तस्माद्गृत्समद इत्याचक्षत एतमेव सन्तम्, इति ।- ऐतरेय आरण्यकम् २.२.१


शौनकोपरि पौराणिकाः संदर्भाः

टिप्पणी

शौनकः॥

ऋग्वेदस्य द्वितीयमण्डलस्य ऋषेः उल्लेखने गृत्समदः भार्गवः शौनकः एकल संज्ञा अस्ति। किन्तु पुराणेषु शौनकः गृत्समदस्य पौत्रः एवं शुनकस्य पुत्रः अस्ति। शौनकः युधिष्ठिरं प्रति अर्थस्य दोषान् कथयति (महाभारत वनपर्व २.१४)। युधिष्ठिरः संतुष्टं न भवति एवं कथयति - यदि अर्थं न भवेत्, तर्हि कथं सः स्वभृत्यान् पालयिष्यति। भविष्यपुराणे कथनमस्ति यत् शब्दमात्रसमूहानां स्वामी रामः अस्ति एवं अर्थमात्रसमूहानां स्वामी लक्ष्मणः अस्ति (भविष्यपुराणम् ३.४.१५.५४ )। अर्थः अर्थात् व्यावहारिके जीवने प्रयोगम्। शौनकः अस्य निषेधं करोति। कर्मकाण्डे चातुर्मासयागे अन्तिम कृत्यं शुनासीर यागं भवति। ब्राह्मणेषु कथनमस्ति यत् एकान्तिक साधनायाः नामधेयं श्री अथवा शुनमस्ति, तस्य व्यवहारे प्रयोगं संवत्सरस्य रसं अथवा सीरं(शतपथब्राह्मणम् २.६.३.२ - या वै देवानां श्रीरासीत्साकमेधैरीजानानां विजिग्यानानां तच्छुनमथ यः संवत्सरस्य प्रजितस्य रस आसीत्तत्सीरं )। अपि च, अयं अन्वेषणीयं अस्ति यत् ऋग्वेदे शौनकः शुनः अवस्थायामेव संकुचितः अस्ति अथवा तस्य प्रसारः श्री स्थित्याः परे अपि भवति। पुराणेषु यदा ऋषयः मुक्त्यर्थं अव्यभिचारिण्याः भक्त्याः रहस्यं ज्ञातुमिच्छन्ति, ते शौनकं प्रति आगच्छन्ति एवं शौनकः तान् रोमहर्षणस्य पुत्रं सूतं प्रति नयति। वैदिकभाषायां रौमहर्षणिः सूतः ऋग्वेदस्य २.४२ सूक्तस्य देवता कपिञ्जलः प्रतीयते। शौनकः भक्त्याः रहस्यं केन प्रकारेण जानाति, अयं जैमिनीयब्राह्मणोपनिषदस्य १.१८.११ कथनात् स्पष्टं भवति यत्र शौनकः वायोः, अग्नेः, इन्द्रादीनां सूक्तानां तुलना सामवेदस्य हिंकार, प्रस्ताव, आद्यादीनां सह करोति।


अथ ह शौनकं च कापेयमभिप्रतारिणं च काक्षसेनिं परिविष्यमाणौ ब्रह्मचारी बिभिक्षे तस्मा उ ह न ददतुः ॥ ५ ॥ स होवाच महात्मनश्चतुरो देव एकः कः स जगार भुवनस्य गोपास्तं कापेय नाभिपश्यन्ति मर्त्या अभिप्रतारिन्बहुधा वसन्तं यस्मै वा एतदन्नं दत्तमिति ॥ ६ ॥ तदु ह शौनकः कापेयः प्रतिमन्वानः प्रत्येयायात्मा देवानां जनिता प्रजानाँ हिरण्यदँष्ट्रो बभसोऽनसूरिर्महान्तमस्य महिमानमाहुरनद्यमानो यदनन्नमत्तीति वै वयं ब्रह्मचारिन्नेदमुपास्महे दत्तास्मै भिक्षामिति ॥ छान्दोग्योप. ४.३.७


अषाढो ह सावयसो ऽतिरात्रेणेजे। तद् उ हातिधन्वश् शौनकः प्रसुप्त आस। स होद्वंशीयम् अतिरात्रे ऽच्छावाकसाम चक्रे। तं होवाच मैवं कुरुत पलिप्तेळ स्वरः परस्ताद् अप्रतिष्ठितः पारिचर्यस्य रूपम् इति। स होवाच तां वै वयं कृत्स्नाम् इळाम् उपेत्य स्वरेणैव संतत्य रात्रिं प्रवत्स्यामहा इति। नेति हेतर उवाच। इन्द्रो वाव तेन साम्नासुरान् अन्वभ्यवैत्। ते बलं स्वरं विदित्वा प्रत्याद्रवन्। तं प्राकुर्वत। स प्रकृत एतम् अर्धेळं न्यहन्। त्राणाय वा एष यद् अर्धेळम् इति॥जै.ब्रा. १.१९०


अथ ह ब्रह्मदत्तश्चैकितानेयः कुरुं जगामाभिप्रतारिणं काक्षसेनिं स हास्मै मधुपर्कं ययाच १ अथ हास्य वै प्रपद्य पुरोहितोऽन्ते निषसाद शौनकः तं हानामन्त्र्य मधुपर्कम्पपौ २ तं होवाच किं विद्वान्नो दाल्भ्यानामन्त्र्य मधुपर्कम्पिबसीति सामवैर्यम्प्रपद्येति होवाच ३ तं ह तत्रैव पप्रच्छ यद्वायौ तद्वेत्था३ इति हिङ्कारो वा अस्य स इति ४ यदग्नौ तद्वेत्था३ इति प्रस्तावो वा अस्य स इति ५ यदिन्द्रे तद्वेत्था३ इति आदिर्वा अस्य स इति ६ यत्सोमबृहस्पत्योस्तद्वेत्था३ इति उद्गीथो वा अस्य स इति ७ यदश्विनोस्तद्वेत्था३ इति प्रतिहारो वा अस्य स इति ८ यद्विश्वेषु देवेषु तद्वेत्था३ इति उपद्रवो वा अस्य स इति ९ यत्प्रजापतौ तद्वेत्था३ इति निधनं वा अस्य तदिति होवाच आर्षेयं वा अस्य तद्बन्धुता वा अस्य सेति १० स होवाच नमस्तेऽस्तु भगवो विद्वानपा मधुपर्कमिति जै.उ.ब्रा. १.१८.११


पञ्चाहुतीस्तु जुहुयात् प्रलयाग्निनिभेषु च । प्राणाहुतिमुद्रामाह शौनकः । “तर्जनीमध्यमाङ्गुष्ठैर्लग्ना प्राणाहुतिर्भवेत् । मध्यमानामिकाङ्गुष्ठैरपाने जुहुयात्ततः । कनिष्ठानामिकाङ्गुष्ठैर्व्याने च जुहुयाद्धविः । तर्जनीन्तु अहिष्कृत्वा उदाने जुहुयात्ततः । समाने सर्व्वहस्तेन समुदायाहुतिर्भंवेत्” । स्मृत्यर्थसारे । - वाचस्पत्यम्


"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_मण्डल_२&oldid=139825" इत्यस्माद् पुनः प्राप्तिः