शतपथब्राह्मणम्/काण्डम् २/अध्यायः ६/ब्राह्मण ३

विकिस्रोतः तः
Jump to navigation Jump to search


२.६.३ शुनासीरीयपर्व

अक्षय्यं ह वै सुकृतं चातुर्मास्ययाजिनो भवति । संवत्सरं हि जयति तेनास्याक्षय्यं भवति तं वै त्रेधा विभज्य यजति त्रेधा विभज्य प्रजयति सर्वं वै संवत्सरः सर्वं वा अक्षय्यमेतेनो हास्याक्षय्यं सुकृतम्भवत्यृतुरु हैवैतद्भूत्वा देवानप्येत्यक्षय्यमु वै देवानामेतेनो हैवास्याक्षय्यं सुकृतं भवत्येतन्नु तद्यस्माच्चातुर्मास्यैर्यजते - २.६.३.[१]

अथ यस्माच्छुनासीर्येण यजेत । या वै देवानां श्रीरासीत्साकमेधैरीजानानां विजिग्यानानां तच्छुनमथ यः संवत्सरस्य प्रजितस्य रस आसीत्तत्सीरं सा या चैव देवानां श्रीरासीत्साकमेधैरीजानानां विजिग्यानानां य उ च संवत्सरस्य प्रजितस्य रस आसीत्तमेवैतदुभयं परिगृह्यात्मन् कुरुते तस्माच्छुनासीर्येण यजते - २.६.३.[२]

तस्यावृत् । नोपकिरन्त्युत्तरवेदिं न गृह्णन्ति पृषदाज्यं न मन्थन्त्यग्निं पञ्च प्रयाजा भवन्ति त्रयोऽनुयाजा एकं समिष्टयजुः - २.६.३.[३]

अथैतान्येव पञ्च हवींषि भवन्ति । एतैर्वै हविर्भिः प्रजापतिः प्रजा असृजतैतैरुभयतो वरुणपाशात्प्रजाः प्रामुञ्चदेतैर्वै देवा वृत्रमघ्नन्नेतैर्वेव व्यजयन्त येयमेषां विजितिस्तां तथो एवैष एतैर्या चैव देवानां श्रीरासीत्साकमेधैरीजानानां विजिग्यानानां य उ च संवत्सरस्य प्रजितस्य रस आसीत्तमेवैतदुभयं परिगृह्यात्मन् कुरुते तस्माद्वा एतानि पञ्च हवींषि भवन्ति - २.६.३.[४]

अथ शुनासीर्यो द्वादशकपालः पुरोडाशो भवति । स बन्धुः शुनासीर्यस्य यम्पूर्वमवोचाम - २.६.३.[५]

अथ वायव्यं पयो भवति । पयो ह वै प्रजा जाता अभिसंजानते विजिग्यानं मा प्रजाः श्रियै यशसेऽन्नाद्यायाभिसंजानान्ता इति तस्मात्पयो भवति - २.६.३.[६]

तद्यद्वायव्यं भवति । अयं वै वायुर्योऽयं पवत एष वा इदं सर्वम्प्रप्याययति यदिदं किं च वर्षति वृष्टादोषधयो जायन्त ओषधीर्जग्ध्वापः पीत्वा तत एतदद्भ्योऽधि पयः सम्भवत्येष हि वा एतज्जनयति तस्माद्वायव्यम्भवति - २.६.३.[७]

अथ सौर्य एककपालः पुरोडाशो भवति एष वै सूर्यो य एष तपत्येष वा इदं सर्वमभिगोपायति साधुना त्वदसाधुना त्वदेष इदं सर्वं विदधाति साधौ त्वदसाधौ त्वदेष मा विजिग्यानं प्रीतः साधुना त्वदभिगोपायत्साधौ त्वद्विदधदिति तस्मात्सौर्य एककपालः पुरोडाशो भवति - २.६.३.[८]

तस्याश्वः श्वेतो दक्षिणा । तदेतस्य रूपं क्रियते य एष तपति यद्यश्वं श्वेतं न विन्देदपि गौरेव श्वेतः स्यात्तदेतस्य रूपं क्रियते य एष तपति - २.६.३.[९]

स यत्रैव साकमेधैर्यजते । तच्छुनासीर्येण यजेत यद्वै त्रिः संवत्सरस्य यजते तेनैव संवत्सरमाप्नोति तस्माद्यदैव कदा चैतेन यजेत - २.६.३.[१०]

तद्धैके । रात्रीरापिपयिषन्ति स यदि रात्रीरापिपयिषेद्यददः पुरस्तात्फाल्गुन्यै पौर्णमास्या उद्दृष्टं तच्छुनासीर्येण यजेत - २.६.३.[११]

अथ दीक्षेत तं नानीजानं पुनः फाल्गुनी पौर्णमास्यभिपर्येयात्पुनः प्रयागरूप इव ह स यदेनमनीजानं पुनः फाल्गुनी पौर्णमास्यभिपर्येयात्तस्मादेनं नानीजानं पुनः फाल्गुनी
पौर्णमास्यभिपर्येयादिति नूत्सृजमानस्य - २.६.३.[१२]

अथ पुनः प्रयुञ्जानस्य । पूर्वेद्युः फाल्गुन्यै पौर्णमास्यै शुनासीर्येण यजेताथ प्रातर्वैश्वदेवेनाथ पौर्णमासेनैतदु पुनः प्रयुञ्जानस्य - २.६.३.[१३]

अथातः । परिवर्तनस्यैव सर्वतोमुखो वा असावादित्य एष वा इदं सर्वं निर्धयति यदिदं किं च शुष्यति तेनैष सर्वतोमुखस्तेनान्नादः - २.६.३.[१४]

सर्वतोमुखोऽयमग्निः । यतो ह्येव कुतश्चाग्नावभ्यादधति तत एव प्रदहति तेनैष सर्वतोमुखस्तेनान्नादः - २.६.३.[१५]

अथायमन्यतोमुखः पुरुषः । स एतत्सर्वतोमुखो भवति यत्परिवर्तयते स एवमेवान्नादो भवति यथैतावेतद्य एवं विद्वान्परिवर्तयते तस्माद्वै परिवर्तयेत - २.६.३.[१६]

तदु होवाचासुरिः । किं नु तत्र मुखस्य यदपि सर्वाण्येव लोमानि वपेत यद्वै त्रिः संवत्सरस्य यजते तेनैव सर्वतोमुखस्तेनान्नादस्तस्मान्नाद्रियेत परिवर्तयितुमिति - २.६.३.[१७]