शतपथब्राह्मणम्/काण्डम् २/अध्यायः ६

विकिस्रोतः तः
Jump to navigation Jump to search


ब्राह्मण १ साकमेधे शंय्वन्तः पितृयज्ञः

१ शंय्वन्तः पितृयज्ञः, तत्र-सफलं पितॄणामुत्पत्तिकथनम्, इदानीन्तनानुष्ठानस्यापि सफलत्वकथनम्, पितृभ्यः सोमवद्भ्यः षट्कपालः पुरोडाशः, पितृभ्यो बर्हिषद्भ्यो धानाः, पितृभ्योऽग्निष्वात्तेभ्यो मन्थश्चेति पितृयज्ञिययागत्रयस्य सार्थवादविधानं, तद्देवतानामन्योऽन्यासंकीर्णस्वरूपत्वकथनं च, अनुक्रमेण चोदकप्राप्ते हविर्ग्रहणादीडाप्रतिपत्त्यन्तमंगकला- पमनूद्य तत्तदङ्गेषु दक्षिणामुखत्व- प्राचीनावीतित्वसकृत्त्वादिकं वेदेश्चतुःस्रक्तित्वं दक्षिणाग्नेराहरणं स्थापनं च, उपभृत्याज्यग्रहणे द्वित्वं बर्हिःस्तरणादिष्वप्रदक्षिणपरिगमनत्वम्, परिधिनिधाने दक्षिणाग्रत्वं, जुह्वादीनामासादनाभिमर्शनप्रकारः, पितृयज्ञस्योपांशुचरणत्वं, परिवृते कर्तृत्वं च, सामिधेन्यनुवचने त्रिरावृत्तिविशिष्टाया एकस्या ऋचोऽनुवचनं, 'सीद होतः इत्येतावन्मात्रं होतृप्रवरणं, प्रधानयागानां याज्यादा- वाश्रावणवषट्कारयोः पक्षद्वयकथनं, प्रधानयागानां स्विष्टकृतश्च याज्याऽनुवाक्यानां प्रैषादिवचनप्रकारस्तथो- पस्तरणादिहोमान्तानुष्ठानप्रकारश्च, प्राशित्रेडावदानं कर्तव्यं न वेति पक्षद्वयविधानं तत्र कस्यचिन्मतेनेडाप्रत्याम्नायत्वेन मन्थस्याधानम्, इडा- प्राशित्रयोः प्राशनमवघ्राणं वेति पक्षद्वयकथनश्चेत्येतेषां धर्मविशेषाणां विधानम्, एतत्सहैव मध्ये मध्ये उक्तव्यतिरिक्तेषु चोदकप्राप्तेष्वङ्गेषु प्रकृतिवदनुष्ठेयत्वकथनञ्च, पितृ यज्ञप्रयुक्तं यजमानाध्वर्य्वोरन्यतरक- र्तकमवनेजनादिप्राच्यांगजातेनाहवनीयगार्हपत्योपस्थानादिनमस्करणा- शीर्जपान्तोदीच्याङ्गजातेन च सहितं सप्रकारकं पिण्डपितृयज्ञवत्पिण्डदानविधानम्, चोदकप्राप्तस्य सविशेष- प्रकारस्यानुयाजादिशंय्वन्तोदीच्याङ्गकलापस्य कथन्ं, तत्रापि स्रुग्व्यूहनादिकं प्रकृतिवदेव कर्तव्यमिति कथनम्, हविःशेषस्याप्स्वग्नौ वा प्रक्षेप इति विकल्पेन तत्प्रतिपत्तिविधानं चेत्यादि.

ब्राह्मण २ त्रैयम्बकेष्टिः

२ त्रैयम्बकेष्टिः, तस्यां च पूर्वं त्र्यम्बकहविषां शल्यनिर्हरणहेतुत्वाख्याप- केतिहासकथनद्वारा तद्विध्युन्नयनम्, तेषां देवतां विधाय प्रशसनं, संख्यां विधाय(जुहोतिधर्मेण)संस्कारप्रकार. कथनं च, एषां हविषामुक्ततार्थमभिघा- रणपक्षकथनम्, सकारणमुत्तरदिशि चतुष्पथे होमकरणत्वविधानम्, ससाधनस्य सर्वेभ्य समवत्तस्य हविषः समंत्रकं होमविधानम् अवदानकाले परिशेषितस्यातिरिक्तस्यैकस्य हविषो विनियोगकथनम्, चतुष्पथादेत्याव रुद्रं भेषजमिति मंत्रद्वयस्य जपविधानम्, भगप्रसिद्धिहेतुसहितं कुमारीणामप्रदक्षिणं प्रदक्षिणं च त्र्यम्बकमिति द्वाभ्यां मंत्राभ्यां त्रिस्त्रिरग्नेः परिगमनविधानम्, हुतशिष्टानां पुरोडाशानां प्रतिपत्तिविधानम्, पुनरागमनं विधाय वरुणप्रघासान्तवदत्रापि केशश्मश्रुवपनादिकमुदवसानाग्निसमारोपपुनर्मन्थनादिकं च कुर्यादिति पर्वसंस्थाकथनं चेत्यादि.

ब्राह्मण ३ शुनासीरीयपर्व

३ तत्रादौ-उपोद्घातत्वेन सकलचातुर्मास्यानामक्षय्यसुकृतफलसाधनत्वम्, शुनासीरीयपर्वणः श्र्यादिफलसाधनत्वं चेति निरूपणं, प्रयोगक्रमकथनं, तत्र-उत्तरवेद्युपकिरण-पृषदाज्यग्रहणाग्निमन्थनवर्जनमन्यत्सर्वं प्रकृतिवदेवेति प्रयाजानुयाजसमिष्टयजुषां पञ्चत्रिद्वित्वाद्युपलक्षणेन प्रतिपादनम्, वैश्वदेविकस्याग्नेयादिपौष्णान्तस्य हविष्पञ्चकस्यात्रापि विधानम् ततः शुनासीर्यवायव्यसौर्याणां षष्ठसप्तमाष्टमानां हविषां सार्थवादं विधानम्, तत्र सौर्यस्यैककपालस्य स्वतंत्रो दक्षिणाविधिः, शुनासीर्यस्य यागस्य कालविधिः--तत्रापि सोमेन यक्ष्यमाणस्य पक्षान्तरकथनं चातुर्मास्य पुनः प्रयुञ्जानस्य पक्षान्तरकथनं च, चातुर्मास्याङ्गभूतवपनमीमांसा, अग्न्यादित्ययोः सर्वतोमुख- त्वेऽन्नादत्वप्रतिपादनपुरःसरं पुरुषस्य स्वभावतस्तद्वैपरीत्यकथनम्, प्रकारान्तरेण पुनः सर्वतोमुखत्वमुक्त्वा परिवर्तनं न विधेयमिति पक्षान्तरकथनं चेत्यादि,


ब्राह्मण ४ सर्वशेषः

४ तत्र-सर्वेषां पर्वणां 'वृत्रवधहेतुत्वं विजयहेतुत्वं च समानमिति प्रतिपादनम्, वैश्वदेवेन जितस्यार्थस्याख्यायिकया दर्शनं, वरुणप्रघासेषु वरुणस्य प्रामुख्यं तैर्विजितत्वं चेति निरूपणं,वैश्वदेवादिपर्वसु प्रतिपादितार्थस्य यजमाने क्रमेण सम्पादनं, वरुणप्रघासेन जेतव्यफलविधानम्, इन्द्रप्रधानकेन साकमेधेन जेतव्य- फलविधानम्, वैश्वदेवादिपर्वणामग्न्यादिदेवतासायुज्यरूपफलवत्त्वप्रतिपादनम्, म्रियमाणस्य चातुर्मास्ययाजिनो मार्गनिदशनद्वारा ब्रह्मलोकप्राप्तिपर्यन्तं फलं भवतीति निरूपणं चेत्यादि