ब्रह्मवैवर्तपुराणम्/खण्डः ४ (श्रीकृष्णजन्मखण्डः)/अध्यायः १११

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः ११० ब्रह्मवैवर्तपुराणम्/खण्डः ४ (श्रीकृष्णजन्मखण्डः)
अध्यायः १११
[[लेखकः :|]]
अध्यायः ११२ →

अथैकादशाधिकशततमोऽध्यायः

राधिकोवाच
ज्ञानात्मकश्च परमो ब्रह्मेशशेषपूजितः ।
ज्ञानं च न ददौ तुभ्यं मन्मुलं प्रेषिता सति ।। १ ।।
तेनैव च्छद्मना तुभ्यं भावार्थं बोधयामि किम् ।
वेदाः सन्तश्च भावार्थं नैव जानन्ति तस्य च ।। २ ।।
स्त्रीजातिरबला मूढा वक्तुतोऽज्ञानतत्परा ।
ततस्तद्विरहेणैव संततं हतचेतना ।। ३।।
किं वाऽहं कथयिष्यामि ज्ञानं पञ्चविधेषु च ।
भक्त्यात्मकं सर्वपरं निबोध कथयामि ते ।। ४ ।।
श्रीकृष्णस्य वरेणापि न साधो निर्भयो भव ।
गोलोके चापि पतनं संभवेच्च कुयोगिनः ।। ५ ।।
तस्मात्सर्वं परित्यज्य भजस्व परमेश्वरम् ।
पुत्रबुद्धिं परित्यज्य ब्रह्मरूपं निशामय ।। ६ ।।
यशोदे भवती सर्वे परित्यज्य च नश्वरम् ।
गत्वा वृन्दावनं रम्यं पुण्यक्षेत्रं च भारतम् ।। ७ ।।
कृत्वा त्रिकालस्नानं च निर्मले यमुनाजले ।
कृत्वाऽष्टदलपद्मं च स्निग्धेन चन्दनेन च ।। ८ ।।
ध्यानेन गर्गदत्तेन शुद्धेन मनसा सति ।
संपूज्य परमानन्दं सानन्दं व्रज तत्पदम् ।। ९ ।।
कृत्वा निकृन्तनं कर्म पिदृभिः शतकैः सह ।
वैष्णवेन सहाऽऽलापं कुरुष्व सततं सति ।। १० ।।
वरं हुतवहज्वालां भक्तो वाञ्छति पञ्जरम् ।
वरं च कण्टके वासं वरं च विष्भक्षणम् ।। ११ ।।
हरिभक्तिविहीनानां न सङ्गं नाशकारणम् ।
स्वयं नष्टो भक्तिहीनो बृद्धिणेदं करोति च ।। १२ ।।
अङ्कुरो भक्तिवृक्षस्य भक्तसङ्गेन वर्धते ।
परं हरिकथालापपीयूषासेचनेन च ।। १३ ।।
अभक्तालापदीपाग्निज्वालायाः कलयापि च ।
अङ्कुरः शुष्कतां याति पुनः सेकेन वर्धते ।। १४ ।।
तस्मादभक्तसङ्गं च सावधानः परित्यज ।
यथा दृष्ट्वा कालसर्पं नरो भीत्वा पलायते ।। १५ ।।
यशोदे च प्रयत्नेन स्वात्मनः पुत्रमीश्वरम् ।
राम नारायणनन्त मुकुन्द मधुसूदन ।। १६ ।।
कृष्ण केशव कंसारे हरे वैकुण्ठ वामन ।
इत्येकादश नामानि पठेद्वा पाठयेदिति ।। १७ ।।
जन्मकोटिसहस्राणां पातकादेव मुच्यते ।
राशब्दो विश्ववचनो मश्चापीश्वरवाचकः ।। १८ ।।
विश्वानामीश्वरो यो हि तेन रामः प्रकीर्तितः ।
रमते रमया सार्वं तेन रामं विदुर्बुधा ।। १९ ।।
रमाया रमणस्थानं रामं रामविदो विदुः ।
राश्चेति लक्ष्मीवचनो मश्चापीश्वरवाचकः ।। २० ।।
लक्ष्मीपतिं गतिं रामं प्रवदन्ति मनीषिणः ।
नाम्नां सहस्रं दिव्यानां स्मरणे यत्फलं लभेत् ।। २१ ।।
तत्फलं लभते नूनं रामोच्चारणमात्रतः ।
सारूप्यमुक्तिवचनो सारेति च विदुर्बुधाः ।। २२ ।।
यो देवोऽप्ययनं तस्य स च नारायणः स्मृतः ।
नाराश्च कृतपापाश्चाप्ययनं गमनं स्मृतम् ।। २३ ।।
यतो हि गमनं तेषां सोऽयं नारायणः स्मृतः ।
सकृन्नारायणेत्युक्त्वा पुमान्कल्मशतत्रयम् ।। २४ ।।
गङ्गादिसर्वतीर्थेषु स्नातो भवति निश्चितम् ।
नारं च मोक्षणं पुण्यमयनं ज्ञानमीप्सितम् ।। २५ ।।
तयोर्ज्ञानं भवेद्यस्मात्सोऽयं नारायणः प्रभुः ।
नास्त्यन्तो यस्य वेदेषु पुराणेषु चतुर्षु च ।। २६ ।।
शास्त्रेष्वन्येषु योगेषु तेनानन्तं विदुर्बुधाः ।
मुकुमध्ययमानं च निर्वाणं मोक्षवाचकम् ।। २७ ।।*
तद्ददाति च यो देवो मुकुंदस्तेन कीर्तितः ।
मुकुं भक्तिरसप्रेमवचनं वेदसंमतम् ।। २८ ।।**
यस्तं ददाति भक्तेभ्यो मुकंदस्तेन कीर्तितः ।
सूदनं मधुदैत्यस्य यस्मात्स मधुसूदनः ।। २९ ।।
इति सन्तो वदन्तीशं वेदे भिन्नार्थमीप्सितम् ।
मधु क्लीबं च माध्वीके कृतकर्मशुभाशुभे ।। ३० ।।
भक्तानां कर्मणां चैव सूदनं मधुसूदनः ।
परिणामाशुभं कर्मं भ्रान्तानां मधुरं मधु ।। ३१ ।।
करोति सूदनं यो हि स एव मधुसूदनः ।
कृषिरुत्कृष्टवचनो णश्च सद्भक्तिवाचकः ।। ३२ ।।
अश्चापि दातृवचनः कृष्णं तेन विदुर्बुधाः ।
कृषिश्च परमानन्दे णश्च तद्दास्यकर्मणि ।। ३३ ।।
तयोर्दाता च यो देवस्तेन कृष्णः प्रकीर्तितः ।
कोटिजन्मार्जिते पापे कृषिःक्लेशे च वर्तते ।। ३४ ।।
भक्तानां णश्च निर्वाणे तेन कृष्णः प्रकीर्तितः ।
नाम्नां सहस्रं दिव्यानां त्रिरावृत्त्या चयत्फलम् ।। ३५ ।।
एकावृत्त्या तु कृष्णस्य तत्फलं लभते नरः ।
कृष्णनाम्नः परं नाम न भूतं न भविष्यति ।। ३६ ।।
सर्वेभ्यश्च परं नाम कृष्णेति वैदिका विदुः ।
कृष्ण कृष्णोति हे गोपि यस्तं स्मरति नित्यशः ।। ३७ ।।
जलं भित्त्वा यथा पद्मं नरकादुद्धरेच्च सः ।
कृष्णेति मङ्गलं नाम यस्य वाचि प्रवर्तते ।। ३८ ।।
भस्मीभवन्ति सद्यस्तु महापातककोटयः ।
अश्वमेधसहस्रेभ्यः फलं कृष्णजपस्य च ।। ३९ ।।
वरं तेभ्यः पुनर्जन्म नातो भक्तपुनर्भवः ।
सर्वेषामपि यज्ञानां लक्षाणि च व्रतानि च ।। ४० ।।
तीर्थस्नानानि सर्वाणि तपांस्यनशनानि च ।
वेदपाठसहस्राणि प्रादक्षिण्यं भुवः शतम् ।। ४१ ।।
कृष्णनामजपस्यास्य कलां नार्हन्ति षोडशीम् ।
तेषां लोभा द्भवेत्स्वर्गफलं च सुचिरं नृणाम् ।। ४२ ।।
स्वर्कादवश्यं पुंसश्च जपकर्तुर्हरेः पदम् ।
के जले सर्वदेहेऽपि शयनं यस्य चाऽऽत्मनः ।। ४३ ।।
वदन्ति वैदिकाः सर्वे तं देवं केशवं परम् ।
कंसश्च पातके विघ्ने रोगे शोके च दानवे ।। ४४ ।।
तेषामरिर्निहन्ता च स कंसारिः प्रकीर्तितः ।
रुद्ररूपेण संहर्ता विश्वानामपि नित्यशः ।। ४५ ।।
भक्तानां पातकानां च हरिस्तेन प्रकीर्तितः ।
मा च ब्रह्मस्वरूपा या मूलप्रकृतिरीश्वरी ।। ४६ ।।
नारायणीति विख्याता विष्णुमाया सनातनी ।
महालक्ष्मीस्वरूपा च वेदमाता सरस्वती
राधा वसुंधरा गङ्गा तासां स्वामी च माधवः ।। ४७ ।।
ब्रह्मेशशेषादिभवैश्च वन्द्यं ध्यानैर्न किंचित्सनकादिभिश्च ।
वेदैः पुराणैर्न निरूपितं च भजस्व भक्त्या नवनीतचोरम् ।। ४८ ।।
क्व चापि दुग्धं क्व दघि घृतं वा नवोद्धृतं वा क्व च तक्रमीप्सितम् ।
तेषां क्व चोरोभवतिं क्व चापि क्व बन्धनं ते भवमूलमध्ये ।। ४९ ।।
न योगिभिः सिद्धगणैर्मुनीन्द्रैर्न भक्तसंघैर्भवपद्मशेषैः ।
योगैर्न बद्धो न हि रक्षितुं क्षमैः कथं स वद्धस्तव मूलमध्यतः ।। ५० ।।
प्रम्णानु भक्त्या स्तवनेन पूजया भजस्व पुत्रं तरसा च भारते ।
हृत्पद्ममध्ये स्थितमीश्वरं परं ध्यानेन यत्नेन च संततं सति ।। ५१ ।।
वरं वृणुष्व भद्रं ते यत्ते मनसि वाञ्छितम् ।
सर्वं दास्यामि जगति देवानामपि दुर्लभम् ।। ५२ ।।
यशोदोवाच
हरौ च निश्चला भक्तिस्तद्दास्यं वाञ्छितं मम ।
तव नाम्नश्च व्युत्पत्तिः का वा तद्वक्तुमर्हसि ।। ५३ ।।
राधिकोवाच
भवेद्भक्तिर्निश्चला ते हरेर्दास्यं च दुर्लभम् ।
लभस्व मद्वरेणापि कथयामि सुनिर्णयम् ।। ५४ ।।
पुरा नन्देन दृष्टाऽहं भाण्डीरे वटमूलके ।
मया च कथितो नन्दो निषिद्धश्च प्रजेश्वरः ।। ५५ ।।
अहमेव स्वयं राधा छाया रायणकामिनी ।
रायणः श्रीहरेरंशः पार्षदप्रवरो महान् ।। ५६ ।।
राशब्दश्च महाविष्णुर्विश्वानि यस्य लोमसु ।
विश्वप्राणिषु विश्वेषु धा धात्री मातृवाचकः ।। ५७ ।।
धात्री माताऽहमेतेषां मूलप्रकृतिरीश्वरी ।
तेन राधा समाख्याता हरिणा च पुरा बुधैः ।। ५८ ।।
अहं सुदामशापेन वृषभानसुताऽधुना ।
शतवर्षं च विच्छेदो हरिणा सह सांप्रतम् ।। ५९ ।।
वृषभानश्च कृष्णस्य पार्षदप्रवरो महान् ।
पितॄणां मानसी कन्या मम माता कलावती ।। ६० ।।
अयोनिसंभवाऽहं च मम माता च भारते ।
पुनः सार्थं च युष्माभिर्यास्यामि श्रीहरेः पदम् ।। ६१ ।।
इति ते कथितं सर्वं व्रजं व्रज व्रजेश्वरि ।
व्रजेश्वरेण सहिता स्वामिना ज्ञानिना सति ।। ६२ ।।
ममाधुना च भवती ध्यानस्य व्यवधानिका ।
ध्यानभङ्गे महादोषो नराणामपि सुन्दरि ।। ६३ ।।
इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारादनाo राधायशोदासंo एकादशाधिकशततमोऽध्यायः ।। १११ ।।

[सम्पाद्यताम्]

  • ४.१११.२७ मुकुमव्ययमान्तञ्च निर्व्वाणमोक्षवाचकम्। (पाठभेदः)