शब्दकल्पद्रुमः/गुण्डकः

विकिस्रोतः तः
Jump to navigation Jump to search
पृष्ठ २/३३८

गुण्डकः, पुं, (गुण्ड + संज्ञायां कन् । गुडि + ण्वुल्

वा ।) मलिनः । धूली । कलोक्तिः । स्नेहपात्रम् ।
इति मेदिनी । के । ८३ ॥

गुण्डकन्दः, पुं, (गुण्ड इत्याख्यया प्रसिद्धः कन्दः ।

गुण्डानां कन्द इति केचित् ।) कशेरु । इति
राजनिर्घण्टः ॥

गुण्डारोचनिका, स्त्री, (गुण्डाऽपि रोचना हरिद्रा

इव । तत इवार्थे कन् टाप् कापि अत इत्वञ्च ।)
वृक्षविशेषः । कमलागुँडि इति भाषा । तत्-
पर्य्यायः । काम्पिल्लकः २ रक्ताङ्गा ३ । इति
रत्नामाला ॥

गुण्डाला, स्त्री, (गुण्डाल + टाप् । यद्वा गुण्डां

चूर्णं आलाति आदत्ते इति । आ + ला + कः ।
स्त्रियां टाप् ।) क्षुद्रक्षुपविशेषः । तत्पर्य्यायः ।
जलोद्भूता २ गुच्छवध्रा ३ जलाशया ४ । अस्या
गुणाः । कटुत्वम् । तिक्तत्वम् । उष्णत्वम् ।
शोथव्रणनाशित्वञ्च । इति राजनिर्घण्टः ॥

गुण्डासिनी, स्त्री, (गुण्ड इत्याख्यया आस्ते वर्त्तते

इति । आस् + णिनिः । गुण्डा सती आस्ते
इत्येके ।) तृणभेदः । तत्पर्य्यायः । गुण्डाला २
गुडाला ३ गुच्छमूलिका ४ चिपिटा ५ तृण-
पत्री ६ यवासां ७ पृथुला ८ विष्टरा ९ । अस्या
गुणाः । कटुत्वम् । पित्तदाहश्रमश्वयथुवणदोष-
नाशित्वम् । तिक्तत्वम् । उष्णत्वञ्च । इति राज-
निर्घण्टः ॥

गुण्डिकः, पुं, स्त्री, (गुण्डोऽस्त्यस्येति । “अत

इनिठनौ ।” ५ । २ । ११५ । इति ठन् ।)
गुण्डकः । तण्डुलादिचूर्णम् । गुँडा इति भाषा ।
यदुक्तं अनन्तव्रतकथायाम् ।
“गुण्डिकैः सितपीतैश्च मण्डयन्ती गृहाङ्गनम् ॥”

गुण्डिचा, स्त्री, (गुण्डिभिर्गुण्डिकैः सितपीतादि-

रङ्गैः प्रस्तरेष्टकादिचूर्णैर्वा चीयते उपचीयते
इति । चि + घञर्थे कः ततष्टाप् । गुण्डिचाइत्या-
ख्यया प्रसिद्धा वा । यद्वा गुण्ड्यते अवगुण्ठ्यते
ब्रह्मतेजोभिरस्या दर्शक इति शेषः । गुडि वेष्टने
इति धातोर्निपातनात् चकारागमे साधुः । इयं
व्युत्पत्तिस्तु गुण्डिचाविवरणदर्शनैरेवबोध्यव्या ।)
श्रीपुरुषोत्तमदेवस्य रथारोहणानन्तरवासार्थ-
मण्डपविशेषः । यथा, --
“मण्डपे वासयेद्देवान् गुण्डिचाख्ये मनोहरे ।
चारुचन्द्रातपे चारुमाल्यचामरभूषिते ॥
रत्नस्तम्भमये स्वर्णवेदिकोपस्तृतान्तरे ।
याचीरवलयावीते सुधालेपसमुज्ज्वले ॥
साधुसोपानघटिते चतुर्द्द्वारोपशोभिते ।
त्रैलोक्याडम्बरयुते महावेद्यां महाक्रतोः ॥
प्रादुर्भावो महेशस्य यात्राभूद्दारुवर्ष्मणः ॥ * ॥
तस्यां श्रीजगन्नाथदेवस्य दर्शनफलं यथा, --
“बिन्दुतीर्थतटे तस्मिन् सप्ताहानि जनार्द्दनः ।
तिष्ठेत् पुरा स्वयं राज्ञे वरमेतत् समादिशत् ॥
तत्तीर्थतीरे राजेन्द्र ! स्थास्वामि प्रतिवासरम् ।
सर्व्वतीर्थानि तस्मिंश्च स्थास्यन्ति मयि तिष्ठति ॥
तत्र स्नात्वा विधानेन तीर्थे तीर्थोपपावने ।
सप्ताहं ये प्रपश्यन्ति गुण्डिचामण्डपे स्थितम् ॥
माञ्च रामं सुभद्राञ्च मम सायुज्यमाप्नुयुः ॥” * ॥
तस्या नामकरणं यथा, उत्कलखण्डम् ।
“अत ऊर्द्धं प्रवक्ष्यामि महावेदीमहोत्सवम् ।
अज्ञानतिमिरान्धोऽपि येन भास्वत्पदं भजेत् ॥
सर्व्वपापरजःशान्त्या पूज्यत्वात् सर्व्वदैवतैः ।
गुण्डिचाख्यापि सा यात्रा ब्रह्मतेजोऽवगुण्ठ-
नात् ॥”

गुण्डितः, त्रि, (गुडि वेष्टने + कर्म्मणि क्तः ।) धूलि-

गुण्डकेनैव म्रक्षितः । तत्पर्य्यायः । रूषितः २ ।
इत्यमरः । ३ । १ । ८९ ॥ चूर्णीकृतश्च ॥

गुत्थः, पुं, (गुत्स + पृषोदरादित्वात साधुः ।)

गवेधुका । इति रत्नमाला ॥

गुत्थकं, क्ली, (गुत्थ + संज्ञायां कन् । यद्वा गुच्छ

इव गुच्छेन वा कायतीति । कै + कः । पृषोदरात्
साधुः ।) ग्रन्थिपर्णम् । इति रत्नमाला ॥

गुत्सः, पुं, (गुध्यते तृणपत्रपुष्पादिभिः परिवेष्ट्यते-

ऽसौ इति । गुध् परिवेष्टने + “उन्दिगुधि-
कुषिभ्यश्च ।” उणां । ३ । ६८ । इति कर्म्मणि सः
किच्च ।) स्तवकः । स्तम्बः । (हारादौ तु गुध्यते
परिवेष्ट्यते कण्ठवक्षःस्थलादिकमनेन ।) द्वात्रिं-
शद्यंष्टिकहारः । ग्रन्थिपर्णवृक्षः । इति मेदिनी ।
से । २ ॥

गुत्सकः, पुं, (गुत्स + स्वार्थे कन् ।) स्तवकः ।

इति शब्दरत्नावली ॥ ग्रन्थपरिच्छेदः । इति
त्रिकाण्डशेषः ॥

गुत्सकपुष्पः, पुं, (गुत्सकानि स्तवकीभूतानि

पुष्पाणि यस्य यत्र वा ।) सप्तच्छदवृक्षः । इति
जटाधरः ॥

गुत्सार्द्धः, पुं, (गुत्सं गुच्छं प्राप्य आश्रित्य वा

ऋध्नोतीति । ऋघ् + अच् । गुत्सं आर्द्धयति
वर्द्धयति इति । ऋध् + णिच् अच् वा । यद्वा
गुत्सस्य अर्द्धः असमांशकः ।) गुच्छार्द्धः । चतु-
र्व्विंशतियष्टिकहारः । इत्यमरटीकायां भरतः ॥

गुद, ङ खेलने । इति कविकल्पद्रुमः ॥ (भ्वां-आत्मं-

अकं-सेट् ।) ङ, गोदते । इति दुर्गादासः ॥

गुदं, क्ली, (गोदते खेलति चलतीत्यर्थः अपान-

संज्ञकवायुः अनेन । गुद् + “इगुपधेति ।” ३ । १ ।
१३५ । इति कः ।) मलत्यागद्वारम् । तत्-
पर्य्यायः । अपानम् २ पायुः ३ । इत्यमरः । २ ।
६ । ७३ ॥ गुह्यम् ४ गुदवर्त्म ५ । इति जटाधरः ॥
(यथा, मनौ । ८ । २८२ ।
“अवनिष्ठीवतो दर्पाद्द्वावोष्टौ छेदयेन्नृपः ।
अवमूत्रयतो मेढ्रमवशब्दयतो गुदम् ॥”)

गुदकीलः, पुं, (गुदस्य अपानस्य मलद्बारस्येत्यर्थः

यद्वा गुदे कील इव ।) अर्शोरोगः । इति
राजनिर्घण्टः ॥ (यथा, सुश्रुते सूत्रस्थाने ४६
अध्याये ।
“आनाहमेदो गुदकीलहिक्का-
श्वासापहः शोणितपित्तकृच्च ॥”)

गुदकीलकः, पुं, (गुदकील + स्वार्थे कन् ।) गुद-

कीलः । इति हलायुधः ॥

गुदग्रहः, पुं, (गुदस्य ग्रह इव गुदमाश्रित्य ग्रह-

वत् प्रवर्त्तते इत्यर्थः । यद्वा गुदं मलद्वारमधि-
कृत्य आभ्यन्तरिकस्थानं गृह्णाति धारयतीति
ग्रह + अच् ।) उदावर्त्तरोगः । इति हेम-
चन्द्रः । ३ । १३३ ॥

गुदभ्रंशः, पुं, (गुदस्य भ्रंशोऽस्मात् । गुदं भगं

भ्रश्यतेऽस्मादिति वा ।) मलद्वारनिर्गमरोगः ।
तस्य लक्षणम् ।
“प्रवाहनातिसाराभ्यां निर्गच्छति गुदं वहिः ।
रूक्षदुर्ब्बलदेहस्य गुदभ्रंशं तमादिशेत् ॥”
इति माधवकरः ॥
तच्चिकित्सा यथा, --
“गुदभ्रंशे गुदं स्विन्नं स्नेहेनाक्तं प्रवेशयेत् ।
प्रविष्टं रोधयेद्यत्नाद्गव्यसच्छिद्रचर्म्मणा ॥
पद्मिन्याः कोमलं पत्रं यः खादेच्छर्करान्वितम् ।
एतन्निश्चित्य निर्द्दिष्टं न तस्य गुदनिर्गमः ॥
मूषकाणां वसाभिर्व्वा गुदभ्रंशे प्रलेपनम् ।
सुस्विन्नमूषिकामांसेनाथवा स्वेदयेद्गुदम् ॥
वृक्षाम्लानलचाङ्गेरीविल्वपाठायवाग्रजम् ।
तक्रेण शीलयेत् पायुं भ्रंशार्त्तोऽनलदीपनम् ॥
मूषकान् दशमूलानि गृह्णीयादुभयं समम् ।
तयोः क्वाथेन कल्केन पचेत्तैलं यथोदितम् ॥
अभ्यङ्गात्तस्य तैलस्य गुदभ्रंशो विनश्यति ।
विनश्यति तथा तेन गुदमूलं भगन्दरः ॥”
इति मूषकतैलम् । इति भावप्रकाशः ॥
(यदा गुह्यं निरस्येत तदा कुर्य्यात् क्रियामिमाम् ।
सहचर्य्याबलानाञ्च रसो ग्राह्यो घृतं पयः ॥
पक्त्रा घृतेन लेपः स्यात् तस्य चेदं प्रशस्यते ।
अरणीपल्लवक्वाथो वाप्यं लोष्ट्रं सचन्दनम् ॥
प्रोत्तप्य वह्निसदृशं सहसा नरस्य
निर्व्वाप्य काञ्जिकमथो विदधीत तद्वत् ।
सौख्यञ्च साम्यगुदसेचनकं प्रशस्तं
संवेश्यमध्यगुदतो दृढबन्धनं स्यात् ॥”
इति गुदभ्रंशः ॥
इति हारीते चिकित्सितस्थाने तृतोयेऽध्याये ॥ * ॥
अथास्य चिकित्सा ।
“गुदनिःसरणे शूले पानमम्लस्य सर्पिषः ।
प्रशस्यते निरामाणा मथवाप्यनुवासनम् ॥
चाङ्गेरी कोलदध्यम्लनागरक्षारसंयुतम् ।
घृतमुत्क्वथितं पेयं गुदभ्रंशरुजापहम् ॥”
इति चाङ्गेरीघृतम् ॥ * ॥
“सत्तव्यपिप्पलीमूलं सव्योषविडदाडिमम् ।
पेयमम्लं घृतं युक्त्या सधान्याजाजिचित्रकम् ॥
दशमूलोपसिद्धं वा सविल्वमनुवासनम् ।
शताह्वा शटी विल्वैर्व्वा वचया चित्रकेण वा ॥
स्तब्धभ्रष्टगुदे पूर्ब्बं स्नेहस्वेदौ प्रयोजयेत् ॥”
इति चरके चिकित्सास्थाने दशमेऽध्याये ॥)

गुदाङ्करः, पुं, (गुदे अङ्कुरः प्ररोह इव गुदमधि-

कृत्य प्ररोहवदुत्पद्यते वलिरित्यर्थः ।) अर्शो-
रोगः । इति हेमचन्द्रः ॥ ३ । १३२ ।
(“गुदाङ्कुरा बह्वनिलाः ।” इति वाभटे निदान-
स्थाने सप्तमेऽध्याये ॥)
पृष्ठ २/३३९

गुद्र, इ क कुन्द्रे । इति कविकल्पद्रुमः ॥ (चुरां-परं-

सकं-सेट्-इदित् ।) पञ्चमस्वरी । दन्त्यवर्ग
तृतीयोपधः । कुन्द्रो मिथ्योक्तिः । इ क, गुन्द्र-
यति नीचः मिथ्या वदतीत्यर्थः । गुन्द्र इत्यने-
नैवेष्टसिद्धे इदनुवन्धो वेदेषूच्चारणभेदार्थः । इति
दुर्गादासः ॥

गुध, ग रुषि । इति कविकल्पद्रुमः ॥ (क्य्रां-परं-

अकं-सेट् ।) ग, गुध्नाति । जुगोध । इति दुर्गा-
दासः ॥

गुध, ङ क्रीडे । इति कविकल्पद्रुमः ॥ (भ्वां-आत्मं-

अकं-सेट् ।) ङ, गोधते । इति दुर्गादासः ॥

गुध, य वेष्टे । इति कविकल्पद्रुमः ॥ (दिवां-परं-

सकं-सेट् ।) य, गुध्यति । जुगोध । इति दुर्गा-
दासः ॥

गुधेरः, त्रि, (गुध्यति सर्व्वतो वेष्टयति वेष्टनेन रक्ष-

तीत्यर्थः इति । गुधय वेष्टने “मूलेरादयः ।”
उणां । १ । ६१ । इति एरक् ।) रक्षकः ।
इति सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥

गुन्दलः, पुं, (गुमिति मधुरमस्फुटशब्दं कारयन्

दल्यते मर्द्द्यतेऽसौ । दल् + णिच् + कर्म्मणि
अच् ।) मर्द्दलशब्दः । इति हेमचन्द्रः । ६ । ४४ ॥

गुन्द्रः, पुं, (गुद्रि + अच् ।) शरतृणम् । इत्यमरः ।

२ । ४ । १६२ ॥ वृक्षविशेषः । गोदपठेर इति
देशान्तरीयभाषा । तत्पर्य्यायः । पटरकः २
अच्छः ३ शृङ्गवेराह्वमूलकः ४ । अस्य गुणाः ।
कषायत्वम् । मधुरत्वम् । हिमत्वम् । पित्तरक्त-
मूत्रकृच्छ्रनाशित्वम् । स्तन्यश्रुक्ररजोमूत्रशोधन-
त्वञ्च । इति भावप्रकाशः ॥
(“गुन्द्रान् दग्ध्वा कृतं भस्म हरितालं मनःशिला ।
उपदंशविसर्पाणामेतच्छान्तिकरं परम् ॥”
इति सुश्रुते चिकित्सितस्थाने १९ अध्याये ॥)

गुन्द्रमूला, स्त्री, (गुन्द्रस्य मूलमिव मूलमस्य ।)

एरकातृणम् । इति भावप्रकाशः ॥

गुन्द्रा, स्त्री, (गुन्द्र + टाप् ।) भद्रमुस्तकः । प्रियङ्गु-

वृक्षः । इत्यमरः । २ । ४ । १६० ॥ गवेधुका ।
इति रत्नमाला ॥ एरका । इति भावप्रकाशः ॥
(“वेल्लन्तरारणिकवूकवृषाश्मभेद-
गोकण्ठकेत्कटसहाचरवाणकाशाः ।
वृक्षादनीनलकुशद्वयगुण्ठगुन्द्रा
भल्लूकमोरटकुरण्टकरम्भपार्थाः ॥”
इति वाभटे सूत्रस्थाने १५ अध्याये ॥
पित्तसंशमनीयवर्गान्तगतौषधिविशेषः । यथा ।
“चन्दनकुचन्दनह्रीवेरोशीरमञ्जिष्ठा पयस्या-
विदारीशतावरीगुन्द्राशैवालकह्लारकुमुदोत्पल-
कदलीकन्दलीदूर्व्वामूर्व्वाप्रभृतीनि काकोल्यादि-
र्न्यग्रोधादिस्तृणपञ्चमूलमिति समासेन पित्त-
संशमनो वर्गः ॥” इति सुश्रुते सूत्रस्थाने
३९ अध्याये ॥)
(गङ्गा । यथा काशीखण्डे । २९ । ५४ ।
“ग्रहपीडाहरा गुन्द्रा गरघ्नी गानवत्सला ॥”)

गुन्द्रालः, पुं, (गुन्द्रं नीडनिर्म्माणार्थं तृणादिकं

आलाति आदत्ते इति । आ + ला + कः ।)
जीवञ्जीवपक्षी । इतिं हेमचन्द्रः । ४ । ४०६ ॥
गुन्दालोऽपि पाठः ॥

गुन्फ, श ग्रन्थे । इति कविकल्पद्रुमः ॥ (तुदां

परं-सकं -सेट् ।) पञ्चमस्वरी । श, गुम्फति मालां
मालिकः । जुगुम्फ । इति दुर्गादासः ॥

गुप, ऊ रक्षे । इति कविकल्पद्रुमः । (भ्वां-परं-

सकं-वेट् ।) आयन्तत्वादुभयपदमिति वोपदेवः ।
गोपायति गोपायते । अरे तु आयस्याप्राप्ति-
पक्षे परस्मैपदमेव । अगोपीत् । जुगोप गोरूप-
धरामिवोर्व्वीमिति रघुः ॥ ऊ, गोपिष्यति
गीप्स्यति । इति दुर्गादासः ॥

गुप, क भासि । इति कविकल्पद्रुमः ॥ (चुरां-परं-

अकं-सेट् ।) क, गोपयति । भासि दीप्तौ । इति
दुर्गादासः ॥

गुप, ङ गोपनकुत्सयोः । इति कविकल्पद्रुमः ॥

(भ्वां आत्मं-सकं-सेट् ।) गोपनमपह्नवः । ङ,
कङ्कणझनत्कारञ्च किं गोपसे । अत्र त्यादयो न
स्युरिति रमानाथः । कुत्सा । निन्दा । सा जुगुप्सां
प्रचक्रेऽसून् । इति भट्टिः । इति दुर्गा-दासः ॥

गुप, य इर् व्याकुलत्वे । इति कविकल्पद्रुमः ॥

(दिवां-परं-अकं सकञ्च-सेट् ।) व्याकुलत्वं
व्याकुलीभावस्तत्करणञ्च । य, धीरो न गुप्यति
महत्यपि कार्य्यजाते । इति हलायुधः । गुप्यति
गा वृष्टिः । आकुलीकरोतीत्यर्थः । इति चतु-
र्भुजः । इर्, अगुपत् अगोपीत् । अस्मात्
पुषादित्वात् नित्यं ङ इत्यन्ये । इति दुर्गादासः ॥

गुपिलः, पुं, (गोपायति प्रजाजनानिति । गुप् रक्षणे

+ “गुपादिभ्यः कित् ।” उणां । १ । ५६ । इति
इलच् किच्च ।) राजा । इत्युणादिकोषः ॥

गुप्तं, त्रि, (गुप्यते स्म । गुप् + कर्म्मणि क्तः ।)

कृतरक्षणम् । तत्पर्य्यायः । त्रातम् २ त्राणम् ३
रक्षितम् ४ अवितम् ५ गोपायितम् ६ । (यथा,
महाभारते । १ । १ । १८८ ।
“यदाश्रौषं व्यूहमभेद्यमन्यै-
र्भारद्वाजेनात्तशस्त्रेण गुप्तम् ॥”)
कृतगोपनम् । तत्पर्य्यायः । गूढम् २ । इत्यमरः ।
३ । १ । १०६ । (यथाह वशिष्ठः ।
“आहारनिर्हारविहारयोगाः
सुसंवृता धर्म्मविदा तु कार्य्याः ।
वाग्गुप्तिकार्य्याणि तपस्तथैव
धनायुषी गुप्ततमे तु कार्य्ये ॥”
“हेम्नो भस्मकमभ्रकं द्विगुणितं लौहास्त्रयः पारदा-
श्चत्वारो नियतन्तु वङ्गयुगलञ्चैकीकृतं मर्द्दयेत् ।
मुक्ता विद्रुमयो रसेन समता गोक्षुरवासेक्षुणा
सर्व्वं वन्यकरीषकेण सुदृढं गुप्तं पचेत् सप्तधा ॥”
इति वैद्यकरसेन्द्रसारसंग्रहे रसायनाधिकारे ॥)
सङ्गतम् । इति शब्दरत्नावली ॥ वैश्यशूद्राणां
पद्धतिविशेषे पुं । यथा, इत्युद्वाहतत्त्वम् ॥
“गुप्तदासात्मकं नाम प्रशस्तं वैश्यशूद्रयोः ।”

गुप्तगतिः, पुं, (गुप्ता संवृता अन्यैरलक्षिता गति-

र्गमनं चेष्टादिर्वा यस्य ।) चरः । इति शब्द-
रत्नावली ॥

गुप्तचरः, पुं, (गुप्तः योगेनात्मसंवृतः सन् स्वयंविष्णु-

रपि सर्व्वैश्वर्य्यमाच्छाद्य नररूपेण चरतीत्यर्थः ।)
वलदेवः । इति त्रिकाण्डशेषः ॥ (कर्म्मधारय-
समासे तु राज्ञां गूढचरः । गुप्तश्चरो यस्य
इति विग्रहे राजानमेव बोधयति ॥)

गुप्तस्नेहः, पुं, (गुप्तः गूढभावेन स्थितः स्नेहः

तैलादिरसो यत्र ।) अङ्कोठवृक्षः । इति राज-
निर्घण्टः ॥

गुप्ता, स्त्री, (गुप्त + टाप् ।) कपिकच्छुः । इति

राजनिर्घण्टः ॥ परकीयान्तर्गतनायिकाभेदः ।
तस्या लक्षणम् । मैथुनगोपनम् । सा च त्रिधा ।
वृत्तसुरतगोपना १ वर्त्तिष्यमाणसुरतगोपना २
वृत्तवर्त्तिष्यमाणसुरतगोपना ३ । इति रसमञ्जरी ॥

गुप्तिः, स्त्री, (गुप् + अधिकरणभावकरणादिषु

यथायथं क्तिन् ।) अवकरस्थानम् । कारा-
गारम् । (यथा, माधे । ११ । ६० ।
“चिरमतिरसलौल्याद्बन्धनं लम्भितानां
पुनरयसुदयाय प्राप्य धाम स्वमेव ।
दलितदलकपाटः षट्पदानां सरोजे
सरभस इव गुप्तिस्फोटमर्कः करोति ॥”)
रक्षणम् । इति मेदिनी । ते । १६ ॥ (यथा,
मनुः । १ । ९४ ।
“तं हि स्वयम्भुः स्वादास्यात्तपस्तप्त्वादितोऽसृजत् ।
हव्यकव्यादिवाह्याय सर्व्वस्यास्य च गुप्तये ॥”)
भूगर्त्तः । यमः । इति हेमचन्द्रः ॥ गर्त्तार्थं क्षिते-
रुत्खननम् । नौकाच्छिद्रम् । इत्यमरटीकायां
भरतः । गोपनम् । इति तट्टीकासारसुन्दरी ॥
(यथा, साहित्यदर्पणे । ३ । १५५ ।
“भयगौरवलज्जादेर्हर्षाद्याकारगुप्तिरवहित्था ॥”
सम्बरणम् । यथा, कुमारे । ६ । ३८ ।
“बृहन्मणिशिलासालं गुप्तावपि मनोहरम् ॥”
ग्रहणीयमन्त्रसंस्कारविशेषः । यथा, तन्त्रसार-
धृतगौतमीये ।
“यजनं जीवनं पश्चात् ताडनं बोधनं तथा ।
तथाभिषेको विमलीकरणाप्यायने पुनः ।
तर्पणं दीपनं गुप्तिर्दशैता मन्त्रसंस्क्रियाः ॥”)

गुफ, प श ग्रन्थे । इति कविकल्पद्रुमः ॥ (तुदां-

परं-सकं-सेट् ।) पञ्चमस्वरी । प श, गुम्फति
मालां मालिकः । जुगोफ । इति दुर्गादासः ॥

गुफितः, त्रि, (गुफ् + कर्म्मणि क्तः ।) गुम्फितः ।

ग्रथितः । इत्यमरटीका ॥

गुम्फः, पुं, (गुम्फ + घञ् ।) ग्रन्थनम् । (यथा,

रावणकृतशिवताण्डवे । १३ ।
“निगुम्फनिर्भरक्षरन्मधूष्ठिकामनोहरम् ॥”
तथाच आर्य्यासप्तशत्याम् । ६०६ ।
“सततमरुणितमुखे सखि ! निगिरन्ती गिरां
गुम्फम् ॥”)
बाहोरलङ्कारः । इति मेदिनी । फे । २ ।
श्मश्रु । इति शब्दरत्नावली ॥ गोँप इति भाषा ॥

गुम्फितः, त्रि, (गुम्फ + कर्म्मणि क्तः ।) ग्रन्थितः ।

इत्यमरटीकायां रायमुकुटः ॥ (यदुक्तम् ।
“प्रयत्नगुम्फितामाला यतस्तेन निराकृता ॥”)
पृष्ठ २/३४०

गुर, ई य ङ वधे । गत्याम् । इति कविकल्पद्रुमः ॥

(दिवां-आत्मं-सकं-सेट् ॥)

गुर, ङ ई शि उद्यमे । इति कविकल्पद्रुमः ॥ (तुदां-

आत्मं-अकं-सेट् ।) ह्रस्वी । ङ शि, गुरते
अगुरिष्ट । ई, गूर्णः । इति दुर्गादासः ॥

गुरणं, क्ली, (गुर् + भावे ल्युट् ।) उद्यमः ।

इत्यमरः । ३ । २ । ११ ॥ अस्य रूपान्तरे गूरणं
गोरणं इति भरतः ॥

गुरुः, पुं, (गृणाति उपदिशति वेदादिशास्त्राणि

इन्द्रादिदेवेभ्यः इति । यद्वा गीर्य्यते स्तूयते देव-
गन्धर्व्वमनुष्यादिभिः । गॄ + “कृग्रोरुच्च ।” उणां ।
१ । २४ । इति उत् ।) बृहस्पतिः । (यथा,
देवीभागवते । १ । ११ । ४४ ।
“इत्याश्वास्य गुरुं शक्रो दूतं वक्तुं विचक्षणः ॥”)
निषेकादिकृत् । इत्यमरः । ३ । ३ । १६१ ॥
(यथा, मनुः । २ । १४२ ।
“निषेकादीनि कर्म्माणि यः करोति यथाविधि ।
सम्भावयति चान्नेन स विप्रो गुरुरुच्यते ॥”)
निषेको गर्भाधानं आदिना सीमन्तोन्नयनादे-
र्मन्त्रविद्यादानादेश्चग्रहणम् । तत्कर्त्तापित्रादि-
र्गुरुः स्यात् । इति भरतः ॥ मन्त्रदाता । तस्य
वर्ज्जनीयत्वं यथा, कालिकापुराणे ५४ अध्याये ।
“अभिशप्तमपुत्त्रञ्च सन्नद्धं कितवन्तथा ।
क्रियाहीनमकल्पाङ्गं वामनं गुरुनिन्दकम् ॥
सदा मत्सरसंयुक्तं गुरुं मन्त्रेषु वर्ज्जयेत् ।
गुरुर्म्मन्त्रस्य मूलं स्यान्मूलशुद्धौ सदा शुभम् ॥”
अपि च । क्रियासारसमुच्चये ।
“श्वित्री चैव गलत्कुष्ठी नेत्ररोगी च वामनः ।
कुनखी श्यावदन्तश्च स्त्रीजितश्चाधिकाङ्गकः ॥
हीनाङ्गः कपटी रोगी बह्वाशी बहुजल्पकः ।
एतैर्दोषैर्व्विहीनो यः स गुरुः शिष्य सम्मतः ॥”
इति तन्त्रसारः ॥ * ॥
गुरुवर्गो यथा, --
“उपाध्यायः पिता ज्येष्ठभ्राता चैव महीपतिः ।
मातुलः श्वशुरस्त्राता मातामहपितामहौ ॥
बन्धुर्ज्येष्ठः पितृव्यश्च पुंस्येते गुरवः स्मृताः ।
मातामही मातुलानी तथा मातुश्च सोदराः ॥
श्वश्रूः पितामही ज्येष्ठा धात्री च गुरवः स्त्रीषु ।
इत्युक्तो गुरुवर्गोऽयं मातृतः पितृतो द्बिजाः ॥
अनुवर्त्तनमेतेषां मनोवाक्कायकर्म्मभिः ।
गुरुं दृष्ट्वा समुत्तिष्ठेदभिवाद्य कृताञ्जलिः ॥
नैतैरुर्पविशेत् सार्द्धं विवदेन्नात्मकारणात् ।
जीवितार्थमपि द्वेषाद्गुरुभिन्नव भाषणम् ॥
उदितोऽपि गुणैरन्यैर्गुरुद्वेषी पतत्यधः ।
गुरूणाञ्चैव सर्व्वेषां पूज्याः पञ्च विशेषतः ॥
तेयामाद्यास्त्रयः श्रेष्ठास्तेषां माता सुपूजिता ।
यो भापयति या सृते येन विद्योपदिश्यते ॥
ज्येष्टभ्राता च भर्त्ता च पञ्चैते गुरवः स्मृताः ।
आत्मनः सर्व्वयत्नेन प्राणत्यागेन वा पुनः ॥
पूजनीया विशेषेण पक्षैते भूतिमिच्छता ।
यावत् पिता च माता च द्वावेतौ निर्व्विकारिणौ ॥
तावत सर्व्वं परित्यज्य पुत्त्रः स्यात्तत्परायणः ।
पिता माता च संप्रीतौ स्यातां पुत्त्रगुणैर्यदि ॥
स पुत्त्रः सकलं धर्म्मं प्राप्नुयात्तेन कर्म्मणा ।
नास्ति पितृसमो देवो नास्ति मातृसमो गुरुः ॥
तयोः प्रत्युपकारोऽपि न कथञ्चन विद्यते ।
तयोर्न्नित्यं प्रियं कुर्य्यात् कर्म्मणा मनसा गिरा ॥
न ताभ्यामननुज्ञातो धर्म्ममन्यं समाश्रयेत् ।
वर्ज्जयित्वा मुक्तिफलं नित्यं नैमित्तिकं तथा ॥
धर्म्मसारः समुद्दिष्टः प्रेत्यानन्दफलप्रदः ।
सम्यगाराध्य वक्तारं विसृष्टस्तदनुज्ञया ।
शिष्यो विद्याफलं भुङ्क्ते प्रेत्य चाप्याप्स्यते दिवि ॥
यो भ्रातरं पितृसमं ज्येष्ठं मूढोऽवमन्यते ।
तेन दोषेण स प्रेत्य निरयं घोरमृच्छति ॥
पुंसा वर्त्मनिविष्टेन पूज्यो भक्त्या तु सर्व्वदा ।
अपि मातरि लोकेऽस्मिन्नुपकाराद्धि गौरवम् ॥
ये नरा भर्त्तृपिण्डार्थं स्वान् प्राणान् संत्यजन्ति हि ।
तेषामथाक्षयाँल्लोकान् प्रोवाच भगवान् मनुः ॥
मातुलांश्च पितृव्यांश्च श्वशुरानृत्विजो गुरून् ।
असावहमिति व्रूयुः प्रत्युत्थाय यवीयसः ॥”
इति कूर्म्मपुराणे उपविभागे ११ अध्यायः ॥ * ॥
तस्य परीक्षा यथा ।
“सदाचारः कुशलधीः सर्व्वशास्त्रार्थपारगः ।
नित्यनैमित्तिकानाञ्च कार्य्याणां कारकः शुचिः ॥
अपर्व्वमैथुनपरः पितृदेवार्च्चने रतः ।
गुरुभक्तो जितक्रोधो विप्राणां हितकृत् सदा ॥
दयावान् शीलसम्पन्नः सत्कुलीनो महामतिः ।
परदारेषु विमुखो दृढसङ्कल्पको द्विजः ॥
अन्यैश्च वैदिकगुणैर्युक्तः कार्य्यो गुरुर्नृपैः ।
एतैरेव गुणैर्युक्तः पुरोधाः स्यान्महीभुजाम् ॥”
इति युक्तिकल्पतरुः ॥ * ॥
शिष्यकृतपापं गुरुं स्पृशति यथा ।
“मन्त्रिपापञ्च राजानं पतिं जायाकृतं तथा ।
तथा शिष्यकृतं पापं प्रायो गुरुमपि स्पृशेत् ॥
प्राय इति गुरुणा शिष्यः सम्यग्बोधितोऽपि
तद्वाक्यमनादृत्य पापञ्चेदाचरति तदा तत् पापं
गुरौ न व्याप्नोतीत्यर्थः ॥
वर्णाश्रमाणां सर्व्वेषामाचारः सद्गतिप्रदः ।
गुरुस्त्रिवारमाचारं बोधयेत् कुलनायिके ! ॥
न गृह्णाति हि शिष्यश्चेत्तदा पापं गुरोर्न हि ।
इति कुलार्णववचनात् । इति शिवार्च्चनचन्द्रिका ॥
मन्त्रदगुरोर्लक्षणं यथा ।
“गकारः सिद्धिदः प्रोक्तो रेफः पापस्य हारकः ।
उकारो विष्णुरव्यक्तस्त्रितयात्मा गुरुः परः ॥
शान्तो दान्तः कुलीनश्च विनीतः शुद्धवेशवान् ।
शुद्धाचारः सुप्रतिष्ठः शुचिर्दक्षः सुबुद्धिमान् ॥
आश्रमी ध्याननिष्ठश्च मन्त्रतन्त्रविशारदः ।
निग्रहानुग्रहे शक्तो गुरुरित्यभिधीयते ॥
उद्धर्त्तुं चैव संहर्त्तुं समर्थो ब्राह्मणोत्तमः ।
तषस्वी सत्यवादी च गृहस्थो गुरुरुच्यते ॥” * ॥
देशभेदेन तस्य विशेषो यथा ।
“मध्यदेशकुरुक्षेत्रनाटकोङ्कणसम्भवाः ।
द्र्यन्तर्व्वेदिप्रतिष्ठाना आवन्त्याश्च गुरूत्तमाः ॥
गौडाः शाल्लोद्भवाः सौरा मगधाः केरलास्तथा ।
कोशलाश्च दशार्णाश्च गुरषः सप्त मध्यमाः ॥
कर्णाटनर्म्मदारेवाकच्छातीरोद्भवास्तथा ।
कालिङ्गाश्च कलम्बाश्च काम्बोजाश्चाधमा मताः ॥
वैष्णवे वैष्णवो ग्राह्यः शैवे शैवश्च शाक्तिके ।
शैवः शाक्तोऽपि सर्व्वत्र दीक्षास्वामी न संशयः ॥”
इति तन्त्रसारः ॥ * ॥
“गुरुरग्निर्द्विजातीनां वर्णानां ब्राह्मणो गुरुः ।
पतिरेको गुरुः स्त्रीणां सर्व्वत्राभ्यागतो गुरुः ॥”
इति चाणक्यम् ॥
कपिकच्छः । इति राजनिर्घण्टः ॥ द्विमात्रः ।
दीर्घः । इति शब्दरत्नवली ॥ (गृणाति उपदि-
शति वेदान् । गॄ + “कृग्रोरुच्च ।” उणां । १ । २४ ।
इति उत् । वेदाध्यापयिताचार्य्यः । यथा,
मनुः । ३ । १ ।
“षट्त्रिंशदाब्दिकं चर्य्यं गुरौ त्रैवेदिकं व्रतम् ।
तदर्द्धिकं पादिकं वा ग्रहणान्तिकमेव वा ॥”
गृणाति उपदिशति किञ्चिदपि यः । उपाध्याय-
इत्यर्थः । यथा, मनुः । २ । १४९ ।
“अल्पं वा बहु वा यस्य श्रुतस्योपकरोति यः ।
तमपीह गुरुं विद्याच्छ्रुतोपक्रियया तया ॥”
गीर्य्यते स्तूयतेऽसौ ज्ञानतपोवृद्धत्वात् । ज्ञान-
प्रभावान्वितत्वात् तपोबलप्राधान्याद् वा पूज्य-
तमोमहात्मा । यथा, मनुः । २ । १३० ।
“मातुलांश्च पितृव्यांश्च श्वशुरानृत्विजो गुरून् ।”
“भूयिष्ठाः खलु गुरव इत्युपक्रम्य ज्ञानवृद्धतपो-
वृद्धयोरपि हारीतेन गुरुत्वकीर्त्तनात् तयोश्च
कनिष्ठयोरपि सम्भवात् तद्विषयोऽयं गुरुशब्दः ।”
इति टीकाकृत् कुल्लूकभट्टः । गृणाति उपनीय-
सन्ध्योपासनाचारादीनि कर्म्माणि उपदिशति ।
उपनेता सन्ध्योपासनाद्युपदेष्टा च । यथा,
मनुः । २ । ६९ ।
“उपनीय गुरुःशिष्यं शिक्षयेच्छौचमादितः ।
आचारमग्निकार्य्यञ्च सन्ध्योपासनमेव च ॥”
पिता । यथा, रामायणे । २ । ७९ । २ ।
“गतो दशरथः स्वर्गं यो नो गुरुतरोगुरुः ।”
राजचक्रवर्त्ती सम्राट् । यथा, रघुः २ । ६८ ।
“गुरुर्नृपाणां गुरवे निवेद्य ।”
गिरति अज्ञानमन्तर्यामिरूपेणाविद्यां नाश-
यतीत्यर्थः । गीर्य्यते स्तूयते जीवनिकरैरिति वा ।
गृगॄ वा उत् । विष्णुः । यथा, महाभारते ।
१३ । १४९ । ६५ ।
“आदिदेवो महादेवो देवेशो देवभृद्गुरुः ॥”
शिवः । तत्रैव । १७ । १३० ।
“सहस्रमूर्द्धा देवेन्द्रः सर्व्वदेवमयो गुरुः ।”
ब्रह्मा । माननीयः । एकेनैव श्लोकेनेतयोरुदा-
हरणं यथा, काशीखण्डे । ६६ । ७१ ।
“विभ्रत् सहजकाठिन्यं जातो गौरीगुरुर्गुरुः ।
शम्भुं प्रपूज्य सुतया स्रजा विश्वगुरोरपि ॥”
विश्वगुरोर्ब्रह्मणोऽपिगुरुर्माननीयः पूज्यो वा इति
तट्टीका ।
उपदेष्टृ अर्थे यथा सुश्रुतसूत्रस्थाने तृतीयाध्याये
“अथ वत्स ! तदेतदध्येयं यथा तथोपधारय
पृष्ठ २/३४१
मया प्रोच्यमानम् । अथ शुचये कृतोत्तरासङ्गाया-
व्याकुलायोपस्थितायाध्ययनकाले शिष्याय यथा-
शक्ति गुरुरुपदिशेत् पदं पादं श्लोकं वा ते च
पद-पाद-श्लोका भूयः क्रमेणानुसन्धेया एव-
मेकैकशो घटयेदात्मनाचानुपठेत् ।” तत्रैव चतुर्थे
“शास्त्रं गुरुमुखोद्गीर्णमादायोपास्य चासकृत् ।
यः कर्म्म कुरुते वैद्यः स वैद्योऽन्ये तु तस्कराः ॥”)

गुरुः, त्रि, (गीर्य्यते स्तूयते महत्त्वात् । गॄ + कृग्रो-

रुच्च” उणां । १ । २४ । इति उत्) महान् । (यथा,
ऋग्वेदे । ४ । ५ । ६ । “इदं मे अग्ने ! कियते पावका-
मिनते गुरुं भारं न मन्म ।”) दुर्जरः । अलघुः ।
इति मेदिनी ॥ रे । २५ ॥ (यथा, पञ्चतन्त्रे । २ । १९९
“प्राप्तो बन्धनमप्ययं गुरुमृगस्तावत् त्वया मे
हृतः ।” पराक्रान्तः । यथा, पञ्चतन्त्रे । ३ । २८ ।
“सोत्साहशक्तिसम्पन्नो हन्याच्छत्रुं लघुर्गुरुम् ।”
भारायमाणः । यथा, रघुः । १२ । १०२ ।
“अथ मदगुरुपक्षैर्लोकपालद्विपानाम् ।”
अथ मदेन गजगण्डसञ्चारसंक्रान्तेन गुरुपक्षैः
भारायमाणपक्षैः अलिबृन्दैः ।” इति टीका-
कृन्मल्लिनाथः । अतिशयः । यथा, मेघटूते । १ । १ ।
“कश्चित् कान्ताविरहगुरुणा स्वाधिकारप्रमत्तः
शापेनास्तं गमितमहिमा वर्षभोग्येन भर्त्तुः ॥”)

गुरुक्रमः, पुं, (गुरुरेव क्रमः पारम्पर्य्यं यत्र ।)

इतिह । पारम्पर्य्योपदेशः । इति हलायुधः ॥

गुरुघ्नः, पुं, (गुरून् पराक्रान्तानपि यज्ञघ्नान्

राक्षसादीन् हन्ति निराकरोतीत्यर्थः । हन् +
टक् ।) गौरसर्षपः । इति राजनिर्घण्टः ।
गुरुहन्तरि त्रि ॥

गुरुण्टकः, पुं, (गुरुं दुर्जरवस्त्वादिकं रुण्टति

चोरयति हरतीति यावत् । गुरुं गुरुतां दुर्ज्जरतां
रुण्टतीत्येके रुटैस्तेये + ण्वुल् ततः पृषोदरात्
रुलोपे साधुः ।) तिलमयूरः । इति त्रिकाण्ड-
शेषः ॥

गुरुतल्पगः, पुं, (गुरोः पितुराचार्य्योपाध्याया-

देर्वा तल्पं शय्यां पत्नीमितियावत्ः गच्छति इति
गम् + डः ।) विमातृगन्ता । यथा, --
“गरुतल्पगः सुरापश्च रुक्मस्तेय्यथ विप्रहा ।
महापातकिनस्त्वेते संसर्गी चैव पञ्चमः ॥
इति प्रायश्चित्तविवेकः ॥
(यथा, मनुः । ९ । २३५ ।
“ब्रह्महा च सुरापश्च स्तेयी च गुरुतल्पगः ।
एते सर्व्वे पृथग्ज्ञेया महापातकिनो नराः ॥”
एतस्य नरकभोगावसाने पुनर्गृहीतमनुष्यदेहस्य
फलं यथा, तत्रैव । ११ । ४९ ।
“ब्रह्महा क्षयरोगित्वं दौश्चर्म्म्यं गरुतल्पगः ।”)

गुरुतालः, पुं, (गुरुः अपेक्षाकृतदीर्घकालव्यापी-

तालः ।) तालविशेषः । यथा, --
“एक एव गरुर्यत्र गुरुतालः स कथ्यते ।
अपरं नियमं विना ॥” इति सङ्गीत दामोदरः

गुरुत्वं, क्ली, (गुरोर्भावः । “त्वतलौ” इति

त्वप्रत्ययस्ततः त्वान्तं क्लीवमिति क्लीवत्वम् । ।
महत्त्वमा गुरुता । (यथा, भाषापरिच्छेदे । ३१)
“स्पर्शादयोऽष्टौ वेगश्च गुरुत्वञ्च द्रवत्वकम् ।”)
अलघुता । यथा, --
“अतीन्द्रियं गुरुत्वं स्यात् पृथिव्यादिद्वये तु तत् ।
अनित्ये तदनित्यं स्यात् नित्ये नित्यमुदाहृतम् ॥
तदेवासमवायि स्यात् पतनाख्ये तु कर्म्मणि ।”
इति भाषापरिच्छेदः ॥
(आधिक्यम् । यथा, रघुः । २ । १८ ।
“गृष्टिर्गुरुत्वाद्वपुषो नरेन्द्रः ।” वपुषो गुरु-
त्वात् आधिक्यात् इति मल्लिनाथस्तट्टीकायाम् ।
पूज्यत्वम् । यथा, तत्रैव । १० । ६४ ।
“मेने परार्द्ध्यमात्मानं गुरुत्वेन जगद्गुरोः ।”)

गुरुदैवतः, पुं, (गुरुर्बृहस्पतिर्दैवतमस्येति ।) पुष्य-

नक्षत्रम् । इति हेमचन्द्रः । २ । २५ ॥

गुरुपत्रं, क्ली, (गुरुपाके दुर्ज्जरं पत्त्रं पत्राकार-

फलकमस्य ।) वङ्गम् । इति हेमचन्द्रः ॥
४ । १०८ ॥

गुरुपत्रा, स्त्री, (गुरु सेवने दुर्ज्जरं पत्त्रं पर्ण-

मस्याः ।) तिन्तिडीवृक्षः । इति शब्दरत्ना-
वली ॥

गरुमर्द्दलः, पुं, (गरुः मर्द्दल इति नित्यकर्म्म-

धारयः ।) डिण्डिमवाद्यम् । इति शब्दरत्ना-
वली ॥

गुरुरत्नं, क्ली, (गुरु गौरवान्वितं मूल्यवदित्यर्थः

गुरत्वाद्गुरु वा रत्नम् गुराः प्रियं रत्नमित्येके ।)
पुष्परागमणिः । इति राजनिर्घण्टः ॥ (पर-
मित्यत्र नवग्रहदोषशान्त्यै गुरौ मुक्तैवेत्युक्ता)
यथा, अस्मिन्नेव शब्दकल्पद्रुमे नवरत्नशब्दे ।
“नवग्रहदोषशान्त्यै धार्य्याणि नवरत्नानि ।
वदूर्य्यं धारयेत् सूर्य्ये नीलञ्च मृगलाञ्छने ॥
आवनेयेऽपि माणिक्यं पद्मरागं शशाङ्कजे ।
गुरौ मुक्ता भृगौ वज्रं शनौ नीलं विदुर्बुधाः ॥”
इति ॥
मणेस्त्वस्यप्रयीगोऽत्रैव रत्नशब्दे दृश्यते यथा, --
“वज्रमुक्ताश्ममणयः सपद्मरागाः समरकताः
प्रोक्ताः ।
अपिचेन्द्रनीलवरवैदूर्य्याश्च पुष्परागाश्च ॥”)

गुरुवर्च्चोघ्नः, पुं, (गुरुवर्च्चः वातपित्तादिप्रकोप-

जनिताग्निमान्द्यकोष्ठरोधनादिदोषस्तं हन्ति इति
हन् + टक् ।) लिम्पाकः । इति शब्दचन्द्रिका ॥
पातिलेवु । इति भाषा ॥

गुरुहा, [न्] पुं, (गुरुं हन्ति इति । हन् + क्विप् ।)

गुरुघ्नः । तत्पर्य्यायः । नरकीलकः २ । इति
हेमचन्द्रः । ३ । ५२२ ॥ गुरुहन्तरि त्रि ।

गुर्ज्जरः, पुं, (गुर् शत्रुकृतताडनं बधोद्यमादिकं

वा उज्जरयति यो देशः । कलिङ्गाः साह-
सिका इतिवद्देशस्थजने लक्षणेति ज्ञेयम् ।)
गुज्जराटदेशः । इति शब्दरत्नावली ॥

गुर्ज्जरी, स्त्री, (जॄ + णिच् + अच् । गुरिति शत्रु-

कृतताडनादिकं तज्जीर्य्यत्यत्र इति अधिकरणे
अप् । गुर्ज्जरः देशः तस्य प्रियेति ङीष् । यद्वा
गुर्ज्जरदेशःप्रियोऽस्या इति अण् ङीप् च ।
गुर्ज्जरदेशवासिनी अतो गुर्ज्जरीतिकेचित् ।)
रागिणीविशेषः । इति हलायुधः ॥ इयन्तु भैरव-
रागस्य रागिणीति बोध्यम् । यथा, सङ्गीतदर्पणे
रागविवेकाध्याये । १६ ।
“भैरवी गुर्ज्जरी रामकिरी गुणकिरी तथा ।
वाङ्गाली सैन्धवी चैव भैरवस्य वराङ्गनाः ॥”
अस्या गानवेलानिर्णयो यथा, तत्रैव । २० ।
“वेलावली च मल्लारी वल्लारी सोमगुर्ज्जरी ।”
इयं हि ग्रीष्मऋतौ स्वस्वामिना भैरवरागेण सह
गीयते । यथा, तत्रैव । २७ ।
“भैरवः ससहायस्तु ऋतौ ग्रीष्मे प्रगीयते ।”
इति सोमेश्वरमतम् । हनूमन्मते तु । इयमेव
मेघरागस्य स्त्री । यथा, तत्रैव । ३७ ।
“मल्लारी देशकारी च भूपाली गुर्ज्जरी तथा ।
टङ्का च पञ्चमी भार्य्या मेघरागस्य योषितः ॥”
इयं पुना रागार्णवमते पञ्चमरागाश्रया रागिणी-
त्यवधेयम् । यथा, तत्रैव । ४० ।
“ललिता गुर्ज्जरी देशी वराडी रामकृत्तथा ।
मता रागार्णवे रागाः पञ्चैते पञ्चमाश्रयाः ॥”)

गुर्द्द क निकेतने । कूर्द्दे । इति कविकल्पद्रुमः ॥

(चुरां-परं-अकं-सेट् ।) दीर्घणो वक्ष्यमाणत्वा-
दस्य न दीर्घः । क गुर्दयति । निकेतनं निवासः ।
इति दुर्गादासः ॥

गुर्द्द ङ कूर्द्दे । इति कविकल्पद्रुमः ॥ (भ्वां-आत्मं-

अकं-सेट् ।) दीर्घिणो वक्ष्यमाणत्वादस्यापि न
दीर्घः । ङ गुर्दते । कूर्द्दः क्रीडा । इति दुर्गादासः ॥

गुर्व्व ई उद्यमे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-

सकं-सेट् ईरित् । अकमित्येके । खड्गादेरुत्तो-
लनार्थकस्य गुर्व्वधातोः सकर्म्मकत्वमकर्म्मकत्वम्
वैतत् प्रज्ञावद्भिरेव चिन्तनीयम् ।) ह्रस्वी । गूः
गुरौ गुरः । ई गूर्णः । गुर्व्वति पत्तिः खड्गम् ।
इति दुर्गादासः ॥

गुर्व्विणी, स्त्री, (गर्व्वति कुक्षौ सन्तानमपत्यमित्यर्थः

प्राप्नोति धारयतीति यावत् । गर्व्वगतौ “गर्व्वे-
रत उच्च ।” उणां । २ । ५४ । इति उत् इनन्
च गौरादित्वात् ङीष् । गर्व्वयति मुञ्चतीत्येके ।
यद्वा गुरुर्गुरुभारयुक्तो गर्भोऽस्त्यस्याः अपत्य-
धारणात्तथात्वम् । गुरु + “व्रीह्यादिभ्यश्च ।” ५ ।
२ । ११६ । इति इनिः ।) गर्भिणी । इत्यमरः ।
२ । ६ । २२ ॥ (यथा, मार्कण्डेये । २७ । २० ।
“बन्धकीपद्मशरभशूलिकागुर्व्विणीस्तनात् ।
प्रज्ञा नृपेण चादेया तथा गोपालयोषितः ॥”
यथाऽस्याः पथ्यापथ्यनियमः ।
यद्यत् कामयते सा च तत्तद्दद्याद्भिषग्वरः ।
वर्ज्जयेद्द्विदलान्नानि विदाहीनि गुरूणि च ॥
अम्लानि सोष्णक्षीराणि गुर्व्विणीनां विवर्ज्जयेत् ।
मृत्तिका भक्षणीया न न च शूरण्कन्दकाः ॥
रसोनश्च पलाण्डुश्च सन्त्यज्यो गुर्व्विणीस्त्रिया ।
शूरणानि प्रदेयानि गौल्यानि सरसानि च ॥
पथ्ये हितानि त्तैतानि गुर्व्विणीनां सदा भिषक् ।
व्यायामं मैथुनं रोषं शौर्य्यञ्चंक्रमणन्तथा ॥
वर्ज्जयेद्गुर्व्विणीनाञ्च जायन्ते मुखसम्पदः ॥”
इति हारीते तृतीयस्थानेऽष्टचत्वारिंशेऽध्याये ॥)
पृष्ठ २/३४२

गुर्व्वी, स्त्री, (गुरुर्भारयुक्तो गर्भोऽस्याः । गुरु +

ङीष् ।) गर्भवती । इति हेमचन्द्रः । ३ । २०३ ॥
(“नहि बन्ध्या विजानाति गुर्व्वीप्रसववेदनाम् ॥”
इति हितोपदेशः ॥)
गुरुपत्नी । (गुरोः पत्नीति गुरु + ङीष् ।)
गौरवयुक्ता । (गुरु + वोतोगुणवचनात् ।”
४ । १ । ४४ । इति विभाषायां ङीष् ।) यथा ।
अनन्यगुर्व्व्यास्तवकेन केवलः पुराणमूर्त्तेर्महिमा-
वगम्यते । इति माघः ॥ (गुरुभारविशिष्टा ।
यथा, महाभारते । ३ । २२ । ३७ ।
“ततः शाल्वं गदां गुर्व्वीमाविध्यन्तं महाहवे ।
द्विधाचकार सहसा प्रजज्वाल च तेजसा ॥”
गायत्त्री । यथा, --
देवीभागवते । १२ । ६ । ४२ ।
“गुहावासा गुणवती गुरुपापप्रणाशिनी ।
गुर्व्वी गुणवती गुह्या गोप्तव्या गुणरूपिणी ॥”)

गुलः, पुं, (गुड + डलयोरैक्याड्डकारस्य लत्वम् ।)

ऐक्षवः । गुडः । इति मेदिनी । ले । १३ ॥

गुलञ्चकन्दः, पुं, (गुलञ्चस्य लताविशेषस्य कन्द

इव कन्दोऽस्य गुलं गुडवद्रसं अञ्चति अञ्च +
अण् । ततः शकन्ध्वादित्वादलोपे गुलञ्चः तादृशः
कन्दः । इति केचित् ।) कन्दविशेषः । कुली
इति भाषा । तत्पर्य्यायः । गुच्छाह्वकन्दः २
वलाह्वकन्दः ३ निघण्टिका ४ । अस्य गुणाः ।
मधुरत्वम् । सुशीतलत्वम् । वृष्यप्रदत्वम् । तर्प-
णत्वम् । दाहनाशित्घञ्च । इति राजनिर्घण्टः ॥

गुला, स्त्री, (गुलः गुडैव रसोस्त्यस्या इति अर्श

आदिभ्योऽच् ततष्टाप् ।) स्नुहीवृक्षः । इति
मेदिनी । ले । १३ ॥

गुली, स्त्री, (गुडः क्षुद्रवर्त्तुलाकृतिर्विषमयस्फोटा-

कृतिरित्यर्थः विद्यतेऽस्याः इति अर्श आदिभ्यो-
ऽच् ततो ङीष् ।) गुटिका । रोगभेदः । वसन्त
इति ख्यातः । इति मेदिनी । ले । १४ ॥

गुलुच्छः, पुं, (गुच्छ + पृषोदरात् साधुः ।) गुच्छः ।

स्तवकः । इति त्रिकाण्डशेषः ॥

गुलुञ्छः, पुं, (गुण्डति गोलाकारेण वेष्टयतीति

गुड + क्विप् गुड् तं तदाकारं उञ्छति आदत्ते
उपार्ज्जयति वा । उछि “कर्म्मण्यण् ।” ३ । २ । १ ।
इति अण् । ततो डस्यलत्वे साघुः ।) गुच्छः ।
इति हेमचन्द्रः । ४ । १९२ ॥

गुलुञ्छकः, पुं, (गुलुञ्छ + स्वार्थे कन् ।) गुच्छः ।

इति शब्दरत्नावली ॥

गुल्फः, पुं, (गल + “कलिगलिभ्यां फगस्योच्च ।”

उणां । ५ । २६ । इति फक् अकारस्योत्वं च ।)
पादग्रन्थिः । तत्पर्य्यायः । घुठिका २ । इत्य-
मरः । २ । ६ । ७२ ॥ चरणग्रन्थिः ३ घुटिकः
४ घुण्टकः ५ घुण्टः ६ । इति हेमचन्द्रः । ३ । २७९ ॥
(यथा, गोः रामायणे । ६ । २३ । १२ ।
“समावेतौ करौ पादौ गुल्फौ चावनतौ मम ॥”)

गुल्मः, पुं, (गुडति वेष्टयति गुड्यते वेष्ट्यते वा, गुड +

करणे बाहुलकात् मक् डलयोरैक्यात् डस्यलत्वे
साधुः ।) उदरजरोगविशेषः । तस्य निदानादि ।
“दुष्टा वातादयोऽत्यर्थं मिथ्याहारविहारतः ।
कुर्व्वन्ति पञ्चधा गुल्मं कोष्ठान्तर्ग्रन्थिरूपिणम् ॥ *
तस्य पञ्चविधं स्थानं पार्श्वे हृ न्नाभिवस्तयः ।
हृन्नाभ्योरन्तरे ग्रन्थिः सञ्चारी यदि वाचलः ॥
वृत्तश्चयापचयवान् स गुल्म इति कीर्त्तितः ।
स व्यस्तैर्जायते दोषैः समस्तैरपि चीच्छ्रितैः ॥
पुरुषाणां तथा स्त्रीणां ज्ञेयो रक्तेन चापरः ॥ *
तस्य पूर्व्वरूपं यथा, --
“उद्गारबाहुल्यपुरीषबन्ध-
तृप्त्यक्षमत्वान्त्रविकूजनानि ।
आटोपआध्मानमपक्तिशक्ति-
रासन्नगुल्मस्य वदन्ति लिङ्गम् ॥” * ॥
तस्य सामान्यरूपम् ।
“अरुचिः कृच्छ्रविण्मूत्रवाततान्त्रविकूजनम् ।
आनाहश्चोर्द्ध्ववातश्च सर्व्वगुल्मेषु लक्षयेत् ॥ * ॥
वातिकस्य निदानं यथा, --
“रूक्षान्नपानं विषमातिमात्रं
विचेष्टनं वेगविनिग्रहश्च ।
शोकोऽभिघातोऽतिमलक्षयश्च
निरन्नता चानिलगुल्महेतुः ॥” * ॥
वातिकस्य रूपम् । यथा, --
“यः स्थानसंस्थानरुजा विकल्पं
विड्वातसङ्गं गलवक्त्रशोषम् ।
श्यावारुणत्वं शिशिरज्वरञ्च
हृत्कुक्षिपार्श्वां सशिरोरुजञ्च ॥
करोति जीर्णेऽभ्यधिकं प्रकोपं
भुक्ते मृदुत्वं समुपैति यश्च ।
वातात् स गुल्मो न च तत्र रूक्षं
कषायतिक्तं कटु चोपशेते ॥” * ॥
पैत्तिकस्य निदानं यथा, --
“कट्वम्लतीक्ष्णोष्णविदाहिरूक्ष-
क्रोधातिमद्यार्कहुताशसेवा ।
आमाभिघातो रुधिरञ्च दुष्टं
पैत्तस्य गुल्मस्य निमित्तमुक्तम् ॥” * ॥
पैत्तिकस्य रूपं यथा, --
“ज्वरः पिपासा वदनाङ्गरागः
शूलं महज्जीर्य्यति भोजने च ।
स्वेदो विदाहो व्रणवच्च गुल्मः
स्पर्शासहः पैत्तिकगुल्मरूपम् ॥” * ॥
श्लैष्मिकस्य निदानम् ।
“शीतं गुरु स्निग्धमचेष्टनञ्च
संपूरणं प्रस्वपनं दिवा च ।
गुल्मस्य हेतुः कफसम्भवस्य
सर्व्वस्तु दुष्टो निचयात्मकस्य ॥” * ॥
श्लैष्मिकस्य रूपम् ।
“स्तैमित्यशीतज्वरगात्रसाद-
हृल्लासकासारुचिगौरवाणि ।
शैत्यं रुगल्पा कठिनोन्नतत्वं
गुल्मस्य रूपाणि कफात्मकस्य ॥” * ॥
द्वन्द्वजस्य रूपं यथा, --
“निमित्तलिङ्गान्युपलभ्य गुल्मे
द्विदोषजे दोषबलाबलञ्च ।
व्यामिश्रलिङ्गानपरांश्च गुल्मां-
स्त्रीनादिशेदौषधकल्पनार्थम् ॥” * ॥
त्रिदोषजस्य रूपं यथा, --
“महारुजं दाहपरीतमश्मवद्
घनोन्नतं शीघ्रविदाहिदारुणम् ।
मनःशरीराग्निबलापहारिणं
त्रिदोषजं गुल्ममसाध्यमादिशेत् ॥” * ॥
अथ स्त्रीणां रक्तजगुल्मनिदानं यथा, --
“नवप्रसूताहितंभोजना या
या चामगर्भं विसृजेदृतौ वा ।
वायुर्हि तस्याः परिगृह्य रक्तं
करोति गुल्मं सरुजं सदाहम् ॥” * ॥
स्त्रीणां रक्तजगुल्भलक्षणं यथा, --
“पैत्तस्य लिङ्गेन समानलिङ्गं
विशेषणञ्चाप्यपरं निबोध ।
यः स्पन्दते पिण्डित एव नाङ्गै-
श्चिरात् सशूलः समगर्भलिङ्गः ॥
सरौधिरः स्त्रीभव एव गुल्मो
मासे व्यतीते दशमे चिकित्स्यः ।
स्त्रीणामार्त्तवजो गुल्मो न पुंसामुपजायते ।
अन्यस्त्वसृग्भवो गुल्मः स्त्रीणां पुंसाञ्च जायते ॥
अथासाध्यलक्षणं यथा, --
सञ्चितः क्रमशो गुल्मो महावास्तुपरिग्रहः ।
कृतमूलः शिरानद्धो यदा कूर्म्म इवोन्नतः ॥
दौर्व्वल्यारुचिहृल्लासकासच्छर्द्यरतिज्वरैः ।
तृष्णातन्द्राप्रतिश्यायैर्युज्यते न स सिध्यति ॥
गृहीत्वा सज्वरं श्वासच्छर्द्यतीसारपीडितम् ।
हृन्नाभिहस्तपादेषु शोथः कर्षति गुल्मिनम् ॥
श्वासः शूलं पिपासान्नविद्वेषो ग्रन्थिमूढता ।
जायते दुर्ब्बलत्वञ्च गुल्मिनो मरणाय वै ॥”
इति माधवकरः ॥ * ॥
तच्चिकित्सा यथा, --
“वातारितैलेन पयोयुतेन
पथ्यासमेतेन विरेचनं हि ।
संस्वेदनं स्निग्धमतिप्रशस्तं
प्रभञ्जनक्रोधकृते तु गुल्मे ॥
स्वर्ज्जिकाकुष्ठसहितः क्षारः केतकसम्भवः ।
पीतस्तैलेन शमयेद्गुल्मं पवनसम्भवम् ॥
तित्तिरांश्च मयूरांश्च कुक्कुटान् क्रौञ्चवर्त्तकान् ।
सर्पिः शालिं प्रसन्नाञ्च वातगुल्मे प्रयोजयेत् ॥ * ॥
पित्तगुल्मे त्रिवृच्चूर्णं पातव्यं त्रिफलाम्बुना ।
विरेकाय सितायुक्तं कम्पिल्लं वा समाक्षिकम् ॥”
त्रिफलाम्बुना त्रिफलाक्वाथेन । कम्पिल्लं कम्बिला
इति लोके ।
“अभयां द्राक्षया खादेत् पित्तगुल्मी गुडेन वा । *
योगैश्च वातगुल्मोक्तैः श्लेष्मगुल्ममुपाचरेत् ॥
अपरैश्च वलासघ्नैर्युक्तियुक्तैः शमं नयेत् ॥” * ॥
हिङ्गुग्रन्थिकधान्यजीरकवचाचव्याग्निपाठाशटी-
वृक्षाम्लं लवणत्रयं त्रिकटुकं क्षारद्बयं दाडिमम् ।
पथ्यापौष्करवेतसाम्लहवुषाजाज्यस्तदेभिः कृतं
चूर्णं भावितमेतदार्द्रकरसैः स्याद्बीजपूरद्रवैः ॥
गुल्माध्मानगुदाङ्कुरान् ग्रहणिकोदावर्त्तसंज्ञौ गद्
पृष्ठ २/३४३
प्रत्याध्मानगरोदराश्मरियुतांस्तूनीद्बयारोच-
कान् ।
ऊरुस्तम्भमतिभ्रमञ्च मनसा बाधिर्य्यमष्ठीलिकां
प्रत्यष्ठीलिकया सहापहरते प्राक्पीतमुष्णा-
म्बुना ॥
हृत्कुक्षिवंक्षणकटीजठरान्तरेषु
वस्तिस्तनांशफलकेषु च पार्श्वयोश्च ।
शूलानि नाशयति वातवलासजानि
हिङ्ग्वाद्यमाद्यमिदमाश्विनसंहितोक्तम् ॥”
हिङ्ग्वादिचूर्णम् ॥ * ॥
“धीमानुपचरेद्गुल्मं प्रत्येकञ्च त्रिदोषजम् ।
सन्निपातोत्थिते गुल्मे त्रिदोषघ्नो विधिर्हितः ॥
शरपुङ्खस्य लवणं पथ्याचूर्णं समं द्वयम् ।
शाणप्रमाणमश्नीयाच्चूर्णं गुल्मगदापहम् ॥
स्वर्ज्जिका शाणमाना स्यात्तावदेव गुडं भवेत् ।
उभयोर्व्वटिकां खादेद्गुल्मामयविनाशिनीम् ॥ *
पलाशवज्रीशिखरिचिञ्चार्कतिलनालजाः ।
यवजः स्वर्ज्जिका चेति क्षारा अष्टौ प्रकीर्त्तिताः ॥
गुल्मशूलहराः क्षारा अजीर्णस्य च पाचनाः ।”
क्षारावृकम् ॥ * ॥
“सामुद्रं सैन्धवं काचं यवक्षारः सुवर्च्चलम् ।
टङ्कणं स्वर्ज्जिकाक्षारं तुल्यं चूर्णं प्रकल्पयेत् ॥
वज्रीक्षीरैरविक्षीरैरातपे भावयेत् त्र्यहम् ।
वेष्टयेदर्कपत्रेण रुद्ध्वा भाण्डपुटे पचेत् ॥
तत्क्षारं चूर्णयेत् पश्चात् त्र्युषणं त्रिफलां
तथा ।
यवानी जीरको वह्निश्चूर्णमेषाञ्च कारयेत् ॥
सर्व्वचूर्णसमं क्षारं सर्व्वमेकत्र कारयेत् ।
तच्चूर्णं टङ्कयुगलं सलिलेन प्रयोजयेत् ॥
गुल्मे शूले तथाजीर्णे शोथे सर्व्वोदरेषु च ।
मन्दे वह्नावुदावर्त्ते प्लीह्नि चापि परं हितम् ॥
वातेऽधिके जलैः कोष्णैर्हितं पित्तेऽधिके घृतैः ।
गोमूत्रेण कफाधिक्ये काञ्जिकेन त्रिदोषजे ॥
वज्रक्षार इति ख्यातः प्रोक्तः पूर्ब्बं स्वयम्भुवा ।
सेवितो हरतेऽजीर्णं तथाजीर्णभवान् गदान् ॥”
वज्रक्षारः ॥ * ॥
“सुवर्च्चिका टङ्कमिता शाणमानार्द्रिकापि च ।
उभे भुञ्जीत युगपद्गुल्मामयनिवृत्तये ॥”
सुवार्च्चका सोरा इति लोके ।
“शुक्तिकाचूर्णगुटिकां टङ्कमात्रां सुवेष्टयेत् ।
गुडेन शाणमानेन ताङ्गिलेत् गुल्मरोगवान् ॥
गुल्मी कुमारिकामांसं कर्षार्द्धं गोघृतान्वितम् ।
गिलेत् घोषाभयासिन्धुसूक्ष्मचूर्णावधूलितम् ॥
कुमारिका घिउकुँयारी इति लोके ॥ * ॥
“वल्लूरं मूलकं मत्स्यं शुष्कशाकानि वैदलम् ।
न खादेदालुकं गुल्मी मधुराणि फलानि च ॥
वैदलानां निषेधेऽपि माषकुलत्थयोर्न्नात्रनिषेधः ।
इति सुश्रुतटीका । इति गुल्माधिकारः ॥ इति
भावप्रकाशः ॥
अथ गुल्मचिकित्सा ।
आत्रेय उवाच ।
“श्वयथूत्थोपचारैश्च दोषैः संकुप्यतेऽनिलः ।
मन्दाग्निना हि जठरे जायते गुल्मरुङ् नृणाम् ॥
उदरं गर्ज्जते यस्य विषमाग्निश्च दृश्यते ।
तोदो वपुषि शूलञ्च वातगुल्मं विनिर्द्दिशेत् ॥
शोषोऽरतिः सपीतत्वं मन्दज्वरनिपीडितम् ।
तमोभ्रमपिपासार्त्तं गुल्मं तत् पित्तसम्भवम् ॥
शोफो जाड्यञ्च हृल्लासं तन्द्रालस्यं सशीतकम् ।
मन्दाग्निर्विड्विबन्धश्च गुल्मं तत् श्लेष्मसम्भवम् ॥
मोहो विभ्रमता जाड्यमरतिक्षुत्पिपासकम् ।
आलस्यं निद्रया चैवं गुल्मं तत् कफपैत्तिकम् ॥
निद्रालस्यञ्च दाहश्च शोथात् शूलञ्च सज्वरम् ।
वैवश्यमरतिर्जाड्यं विड्बन्धो विकलाङ्गता ॥
तथातीसारमूर्च्छा च तृषाहृल्लासवेपथु ।
श्वासोऽरुचिरजीर्णत्वं गुल्मं तत्सान्निपातिकम् ॥
साध्यं केवलदोषोत्थं द्वन्द्वं कष्टेन सिध्यति ।
असाध्यं सन्निपातोत्थं वक्ष्यामस्तत्प्रतिक्रियाम् ॥
यकृत्चिकित्सितञ्चैव कथितञ्चोपचारणम् ।
तद्बत्प्लीहा समाख्यातो न चात्र कथितं पुनः ॥
चिकित्सोदरगुल्मस्य वक्ष्यते शृणु साम्प्रतम् ।
स्नेहनं रुक्षणञ्चैव पाचनं शोधनानि च ॥
संशमनं विरेकञ्च वस्ति-स्नेह-निरूहणम् ।
क्षये पानञ्च चूर्णानि गुल्मोपचरणक्रिया ॥
शुण्ठीमूर्व्वा पञ्चमूलं लघुरास्ना च दारु च ।
क्वाथोऽस्य चावशेषः स्यात् तत्समं क्षीरमेव च ॥
दधितत्सममेवन्तु पाचयेत्तत्समाग्निना ।
घृतं यावत् प्रपश्येच्च सिद्धमुत्तार्य्यते ततः ॥
तत्कृतं पानकेऽभ्यङ्गे भोजने च प्रदापयेत् ।
स्नेहं सप्तदिनं यावत् तस्माच्च रूक्षणं हितम् ॥
दिनत्रयञ्च कर्त्तव्यं कथयाम्यत्र कोविद ! ।
शुण्ठी सौवर्च्चलं जीरे द्वे वा हिङ्गुसमन्वितम् ॥
काञ्जिकं पानमेतेषां रूक्षणं गुल्मशान्तये ।
गुल्मचिकित्सिते क्षारपाकोऽत्र प्रतियुज्यते ॥
क्षारं पलाशार्ज्जुनशूरणस्य
क्षारं तथा वै सहयावशूकम् ।
सौवर्च्चलं सिन्धुभवोद्भिदञ्च
सामुद्रजं वापि विमिश्रयेच्च ॥
तोयं परिस्राव्य विधानतोऽपि
युक्तं तथैतानि सदौषधानि ।
पथ्याग्निशुण्ठी रजनीसुराह्वं
कुष्ठं विशाला च यवानिका च ॥
तथाजमोदा सहजीरके द्वे
षड्ग्रन्थिका हिङ्गुयुतञ्च चूर्णम् ।
क्षारोदकौ पानविमिश्रपानं
निहन्ति सर्व्वाण्यपि कोष्ठजानि ॥
गुल्मानि सर्व्वाणि विसूचिकानां
मन्दाग्निशूलानि भगन्दराणाम् ।
प्लीहोदरानाहमथो विबन्धं
विनाशनो रोगचयं नराणाम् ॥”
इति विरुक्षणम् ॥ * ॥
अथ विरेचनानि वक्ष्यामः ॥ * ॥
“नागरं क्रिमिजित् पथ्या त्रिवृता त्रिगुणायुतम् ।
चूर्णं गुंडान्वितं देयं वातगुल्मविरेचनम् ॥
दन्ती च भागमेकञ्च द्वौ भागौ च हरीतकी ।
त्रिवृतायास्त्रिभागः स्यात् शुण्ठ्याश्चत्वार एव च ॥
प्रक्षिप्य सर्व्वमेकत्र सर्व्वतुल्यगुडेन तु ।
वटकं भक्षयेत् प्रातस्तस्योपरिजलं पिवेत् ॥
कथितश्च विरेकश्च वातगुल्मोपशान्तये ।”
इति वातगुल्मविरेचनम् ॥ * ॥
“पिबेदेरण्डतैलञ्च सर्कराक्षीरसंयुतम् ।
पित्तगुल्मविरेकाय श्रेष्ठमेतत् सुखावहम् ॥
आरग्बधं प्रबालानि तथैवारग्बधानि च ।
विभाव्यैरण्डतैलेन तत्पत्रैश्चैव वेष्टयेत् ॥
कर्द्दमेन प्रलिप्याथ अङ्गारेषु निधापयेत् ।
सुस्विन्नभर्ज्जितां ताञ्च भक्षयेत् शर्करान्विताम् ॥
विरेकं पैत्तिके गुल्मे हितं शुद्धविरेचनम् ।”
इति पित्तगुल्मविरेचनम् ॥ * ॥
“त्रिफला सुरसा शुण्ठी चूर्णं कृत्वा विभावयेत् ।
स्नुहीक्षीरेण वारैकं गुडेन सह मिश्रितम् ॥
विरेकः श्लेष्मगुल्मे च सर्व्वोदरविनाशनम् ।
शुण्ठी सौवर्च्चलं पथ्या विडङ्गञ्च पुनर्नवा ॥
चूर्णोऽपामार्गवीजानां स्नुहीक्षीरेण भावितः ।
गुडेन संयुतं खादेत् पश्चात् सोष्णं जलं पिबेत् ॥
विरेकः सर्व्वगुल्मेषु प्रशस्तो हितकारकः ॥
इति विरेचनम् ।
शुक्तिक्षारनिशाविशालकदली स्यात् शूरणं कोकिला
पालाशं दहनार्ज्जुनं शठिजयाऽपामार्गकुष्मा-
ण्डकम् ।
दग्ध्वाक्षारविपाचितं परिशृतं हिङ्गुत्रिकट्वन्वितं
गुल्मानाहविबन्धशूलहरणं सर्व्वोदराणां हितम् ॥
इति क्षारपानम् ॥ * ॥
“अजमोदा शठी दन्ती विडङ्गं शुण्ठितुम्बुरु ।
त्रिफला चित्रकञ्चैव शुण्ठी कर्कटशृङ्गिका ॥
त्रिवृता च सुराह्वा च पुष्करं वृद्धदारकम् ।
तथाम्लवेतसञ्चैव तिन्तिडीकञ्च चिञ्चिलिः ॥
समन्तु मातुलुङ्गेन विभाव्यमेकतः कृतम् ।
त्रिभागहिङ्गुसंयुक्तं घृतेन चूर्णितं हितम् ॥
निहन्ति वातगुल्मञ्च सशूलमुदरन्तथा ।”
इत्यजमोजादि ॥ * ॥
हिङ्गुफलत्रिकजीरकयुग्मं
चित्रकभागिककुष्ठविडङ्गम् ।
तुम्बुरुपुष्कर-विश्वसुराह्वं
क्षारयुतं लवणानि च पञ्च ॥
वातिकगुल्मविनाशनहेतुः
शूलरुजश्च नरस्य निहन्ति ॥”
इति वातगुल्मचिकित्सा ॥ * ॥
“विदारी क्षीरशुक्ला च पथ्या विश्वौषधं मधु ।
लेहः पित्तात्मके गुल्मे हितः शोफनिवारणः ॥
व्यष्टिकं निम्बपत्राणि तथा धात्रीफलं सिता ।
चूर्णं मध्वावलीढञ्च पित्तगुल्मनिवारणम् ॥”
इति पित्तगुल्मचिकित्सा ॥ * ॥
“त्रिकटुत्रिफलाचित्रवटकट्फलसंयुतम् ।
चूर्णं मद्येन वा पीतं फलक्वाथेन वा पीतम् ॥
श्लेष्मगुल्मविनाशाय हितञ्चैतत् सुखावहम् ।
लोध्रञ्च कट्फलं विश्वा कुष्ठं चित्रकमेव च ॥
नागरं हिङ्गुसंयुक्तं चूर्णं मूत्रेण संयुतम् ।
पृष्ठ २/३४४
श्लेष्मगुल्मविनाशाय शूलोदरविनाशनम् ॥
उग्रगन्धा च मरिचं क्षारचूर्णसमन्वितम् ।
पिवेन्मूत्रेण संयुक्तं श्लेष्मगुल्मविनाशनम् ॥”
इति श्लेष्मगुल्मचिकित्सा ॥ * ॥
“शुण्ठी सौवर्च्चलं भार्गी वत्सकं यावशूकजम् ।
जीरे द्बे चाटरूषञ्च यवानी हिङ्गुसैन्धवम् ॥
आरग्वधेन संयुक्तं चूर्णं सघृतमेव च ।
वातश्लेष्मोद्भवे गुल्मे सुखमाशुप्रपद्यते ।
उग्रगन्धा फलत्रिकं देवदारुपुनर्नवा ॥
त्रिवृत्सौवर्च्चलोपेतं क्षारोदकसमन्वितम् ।
पीतं वातकफे गुल्मे शुभकारि परं मतम् ॥”
इति वातश्लेष्मगुल्मचिकित्सा ॥ * ॥
इति हारीते चिकित्सितस्थाने चतुर्थेऽध्याये ॥
“रूक्षकृष्णारुणशिरा तन्तुजालगवाक्षितः ।
गुल्मोऽष्टधा पृथक् दोषैः संसृष्टैर्निश्चयं गतः ॥
आर्त्तवस्य च दोषेण नारीणां जायतेऽष्टमः ।
ज्वरच्छर्द्द्यतिसाराद्यैर्वमनाद्यैश्च कर्म्मभिः ॥
कर्शितो वातलान्यत्ति शीतं वाम्वुबुभुक्षितः ।
यः पिवत्यनुचान्नानि लङ्घनं प्लवनादिकम् ॥
सेवते देहसंक्षोभिच्छर्द्दिं वा समुदीरयेत् ।
अनुदीर्णानुदीर्णान् वा वातादीन्न विमुञ्चति ॥
स्नेहस्वेदावनभ्यस्य शोधनं वा निषेवते ।
शुद्धो वाशु विदाहीनि भजते स्यन्दनानि वा ॥
वातोल्वणास्तस्यमलाः पृथक् क्रुद्धाद्विशोऽथवा ।
सर्व्वे वा रक्तयुक्ता वा महास्रोतोऽनुशायिनः ॥
ऊर्द्ध्वाधोमार्गमावृत्य कुर्व्वते शूलपूर्ब्बकम् ।
स्पर्शोपलभ्यं गुल्माख्यमुत्प्लुतं ग्रन्थिरूपिणम् ॥
कर्शनात् कफविट्पित्तैर्मार्गस्यावरणेन वा ।
वायुः कृताशयः कोष्ठे रौक्ष्यात् काठिन्यमागतः ।
स्वतन्त्रः स्वाश्रये दुष्टः परतन्त्रः पराश्रये ॥
पिण्डितत्वादमूर्त्तोऽपि मूर्त्तत्वमिवसंश्रितः ।
गुल्म इत्युच्यते वस्तिनाभिहृत्पार्श्व-संश्रयः ॥
वातान्मन्याशिरःशूलं ज्वरप्लीहान्त्रकूजनम् ।
व्यथा सूच्येव विट्सङ्गः कृच्छ्रादुच्छ्वसनं मुहुः ॥
स्तम्भो गात्रे मुखे शोषः कार्श्यं विषमवह्निता ।
रुक्षकृष्णत्वगादित्वं चलत्वादनिलस्य च ॥
अनिरूपित-संस्थान-स्थानवृद्धिक्षयव्यथः ।
पिपीलिकाव्याप्त इव गुल्मः स्फुरति तुद्यते ॥
पित्ताद्दाहोऽम्लको मूर्च्छा विड्भेदस्वेदतृड्-
ज्वराः ।
हारिद्रत्वं त्वगाद्येषु गुल्मश्च स्पर्शनासहः ॥
दूयते दीप्यते सोष्मा स्वस्थानं दहतीव च ।
कफात् स्तैमित्यमरुचिः सदनं शिशिरज्वरः ॥
पीनसालस्य-हृल्लास-कासशुक्लत्वगादिताः ।
गुल्मोऽवगाढः कठिनो गुरुः सुप्तः स्थिरोऽल्प-
रुक् ॥
स्वदोषस्थानधामानः स्वे स्वे काले च रुक्कराः ।
प्रायस्त्रयस्तु द्वन्द्वोत्था गुल्माः संसृष्टलक्षणाः ॥
सर्व्वजस्तीव्ररुग्दाहः शीघ्रपाकी धनोन्नतः ।
सोऽसाध्यो रक्तगुल्मस्तु स्त्रिया एव प्रजायते ॥
ऋतौ वा नवसूता वा यदि वा योनिरोगिणी ।
सेवते वातलानि स्त्री क्रुद्धस्तस्याः समीरणः ॥
निरुणद्ध्यार्त्तवं योन्यां प्रतिमासमवस्थितम् ।
कुक्षिं करोति तद्गर्भ-लिङ्गमाविष्करोति च ॥
हृल्लास-दौहृदस्तन्य-दर्शनं क्षामतादिकम् ।
क्रमेण वायुसंसर्गात् पित्तयोनितया च तत् ॥
शोणितं कुरुते तस्या वातपित्तोत्थगुल्मजान् ।
रुक्स्तम्भदाहातिसारतृड्ज्वरादीनुपद्रवान् ॥
गर्भाशये च सुतरां शूलंदुष्टासृगाश्रये ।
जन्याश्च स्रावदौर्गन्ध्यतोदस्यन्दनवेदनाः ॥
न चाङ्गैर्गर्भवद् गुल्मः स्फुरत्यपि तु शूलवान् ।
पिण्डीभूतः स एवास्याः कदाचित् स्पन्दते चिरात् ॥
न चास्या बर्द्धते कुक्षिर्गुल्म एव तु बर्द्धते ।
स दोषसंश्रयो गुल्मः सर्व्वो भवति तेन सः ॥”
इति वाभटे निदानस्थाने पञ्चमेऽध्याये ॥
“रूक्षान्नपानैरतिसेवनैर्वा
शोकेन मिथ्या प्रतिकर्म्मणा वा ।
विचेष्टितैर्वा विषमातिमात्रैः
कोष्ठे प्रकोपं समुपैति वायुः ॥
कफञ्च पित्तञ्च स दूषयित्वा
प्रोद्धूय मार्गान् विनिबध्य ताभ्याम् ।
हृत्प्लीहपार्श्वोदरवस्तिशूलं
करोत्यधो याति न बद्धमार्गः ॥
पक्वाशये पित्तकफाशये वा
स्थितः स्वतन्त्रः परसंश्रयो वा ।
स्पर्शोपलभ्यः परिपिण्डितत्वात्
गुल्मो यथा दोषमुपैति नाम ॥
वस्तौ हि नाभ्यां हृदिपार्श्वयोर्वा
स्थानानि गुल्मस्य भवन्ति पञ्च ।
पञ्चात्मकस्य प्रभवन्तु तस्य
वक्ष्यामि लिङ्गानि चिकित्सितञ्च ॥
क्रियाक्रममतः सिद्धं गुल्मिनां गुल्मनाशनम् ।
प्रवक्ष्याम्यत ऊर्द्ध्वञ्च योगान् गुल्मनिवर्हणान् ॥
रूक्षव्यायामजं गुल्मं वातिकं तीब्रवेदनम् ।
बद्धविट्-मारुतं स्नेहैरादितः समुपाचरेत् ॥
भोजनाभ्यञ्जनैः पानैर्निरूहैः सानुवासनैः ।
स्निग्धस्य भिषजा स्वेदः कर्त्तव्यो गुल्मशान्तये ॥
स्रोतसां मार्द्धवं कृत्वा जित्वा मारुतमुल्वणम् ।
भित्त्वा विवन्धं स्निग्धस्य स्वेदो गुल्ममपोहति ॥
स्नेहपानं मतं गुल्मे विशेषेणोर्द्ध्वनाभिजे ॥
हबुषाद्यं घृतम् ।
हबुषा व्योष पृथ्वीका चव्यचित्रकसैन्घवः ।
साजाजीपिप्पलीमूलैर्दीप्यकैर्विपचेद्घृतम् ॥
मातुलुङ्गदधिक्षीर-कोलमूलकदाडिमैः ।
रसैस्तद्वातगुल्मघ्नं शूलानाहविमोक्षणम् ॥
योन्यर्शोग्रहणीदोषश्वासकासारुचिज्वरान् ।
वस्तिहृत्पार्श्वशूलञ्च घृतमेतद्व्यपोहति ॥”
इति हबुषाद्यं घृतम् ॥ * ॥
“तैलं प्रसन्ना गोमूत्रमारनालं यवाग्रजः ।
गुल्मजठरमानाहं पीतमेकत्र साधयेत् ॥”
इति तैलपञ्चकम् ॥ * ॥
“यथोक्तैः कोपनैर्दोषाः कुपिताः कोष्ठमागताः ।
जनयन्ति नृणां गुल्मं स पञ्चविध उच्यते ॥
पञ्च गुल्माश्रया नॄणां पार्श्वहृन्नाभिवस्तयः ।
कुपितानिलमूलत्वाद्गूढमूलोदयादपि ॥
गुल्मवद्वा विशालत्वाद् गुल्म इत्यभिधीयते ।
स यस्मादात्मनिचयं गच्छत्यप्स्विव बुद्बुदः ॥
अन्तः सरति यस्माच्च न पाकमुपयात्यतः ।
सदनं मन्दता वह्ने राटोपोऽन्त्रविकूजनम् ॥
विण्मूत्रानिलसङ्गश्च सौहित्यासहता तथा ।
द्वेषोऽन्ने वायुरूर्द्ध्वञ्च पूर्ब्बरूपेषु गुल्मिनाम् ॥
हृत्कुक्षिशूलं मुखकण्ठशोषो
वायोर्निरोधो विषमाग्निता च ।
ते ते विकाराः पवनात्मकाश्च
भवन्ति गुल्मेऽनिलसम्भवे तु ॥
स्वेदज्वराहारविदाहदाहा-
स्तृष्णाङ्गरागः कटुवक्त्रता च ।
पित्तस्य लिङ्गान्यखिलानि यानि
पित्तात्मके तानि भवन्ति गुल्मे ॥
स्तैमित्यमन्नेऽरुचिरङ्गसाद
श्छर्द्दिः प्रसेको मधुरास्यता च ।
कफस्य लिङ्गानि च यानि तानि
भवन्ति गुल्मे कफसम्भवे तु ॥
सर्व्वात्मकः सर्व्वविकारयुक्तः
सोऽसाध्य उक्तः क्षतजश्च वक्ष्ये ।
“न स्पन्दते नोदरमेति वृद्धिं
भवन्ति लिङ्गानि च गर्भिणीनाम् ॥
तं गर्भकालातिगमे चिकित्स्य
मसृग्भवं गुल्ममुशन्ति तज्ज्ञाः ॥”
चिकित्सा यथा ॥
“वातगुल्मार्द्दितं स्निग्धं युक्तं स्नेहविरेचनैः ।
उपाचरेत् यथाकालं निरूहैः सानुवासनैः ॥
पित्तगुल्मार्द्दितं स्निग्धं काकोल्यादिघृतेन तु ।
विरिक्तं मधुरैर्योगैर्निरूहैः समुपाचरेत् ॥
श्लेष्मगुल्मार्द्दितं स्निग्धं पिप्पल्यादिघृतेन तु ।
तीक्ष्णैर्विरिक्तं तद्रूपैर्निरूहैः समुपाचरेत् ॥
सन्निपातोत्थिते गुल्मे त्रिदोषघ्नो विधिर्हितः ।
पित्तवद्रक्तगुल्मिन्या नार्य्याः कार्य्यः क्रियाविथिः ॥
विशेषमपरञ्चास्याः शृणु रक्तविभेदनम् ।
पलाश-भस्मतोयेन सिद्धं सर्पिः प्रयोजयेत् ॥
दद्यादुत्तरवस्तिञ्च पिप्पल्यादिघृतेन तु ।
उष्णैर्वा भेदयेद्भिन्ने विधिरासृग्दरोहितः ॥
आनूपौदकमज्जानो वसातैलं घृतं दधि ।
विपक्वमेकतः शस्तं वातगुल्मेऽनुवासनम् ॥
जाङ्गलैकशफानंन्तु वसा सर्पिश्च पैत्तिके ।
तैलं जाङ्गलमाज्जान एवं गुल्मे कफोत्थिते ॥
धात्रीफलानां स्वरसे षडङ्गं विपचेद्घृतम् ।
शर्करा सैन्धवोपेतं तद्धितं वातगुल्मिने ॥
चित्रकव्योषसिन्धूत्थ पृथ्वीका चव्यदाडिमौ ।
दीप्यकग्रन्थिकाजाजी हवुषा धान्यकैः समैः ॥
दध्यारनालवदर-मूलकस्वरसैर्घृतम् ।
तत् पिबेद्वातगुल्माग्निदौर्ब्बल्याटोपशूलनुत् ॥
विडदाडिमसिन्धूत्थ-हुतभुग्व्योषजीरकैः ।
हिङ्गुसौवर्च्चलक्षार-रुग्वृक्षाम्लाम्लवेतसैः ॥
बीजपूररसोपेतं सर्पिर्दधिचतुर्गणम् ।
साधितं दाधिकं नाम गुल्महृत् प्लीहशूलजित् ॥
पृष्ठ २/३४५
रसोनस्वरसे सर्पिः पञ्चमूलरसान्वितम् ।
सुरारनालदध्यम्ल-मूलकस्वरसैः सह ॥
व्योष-दाडिमवृक्षाम्लयवानीचव्यसैन्धवैः ।
हिङ्ग्वम्लवेतसाजाजीदीप्यकैश्च समांशिकैः ॥
सिद्धङ्गुल्मग्रहण्यर्शःश्वासोन्मादक्षयज्वरान् ।
कासापस्मारमन्दाग्नि-प्लीहशूलानिलान् जयेत् ॥
तृणमूलकषाये तु जीवनीयैः पचेद्घृतम् ।
न्यग्रोधादिगणे वापि गणे वाप्युत्पलादिके ॥
रक्तपित्तोत्थितं घ्नन्ति घृतान्येतान्यसंशयम् ।
आरग्वधादौ विपचेद्दीपनीययुतं घृतम् ॥
क्षारवर्गे पचेच्चान्यत् पचेन्मूत्रगणेऽपरम् ।
घ्नन्ति गुल्मं कफोद्भूतं घृतान्येतान्यसंशयम् ॥
यथा दोषोच्छ्रयञ्चापि चिकित्सेत् सान्निपाति-
कम् ।
चूर्णं हिङ्ग्वादिकं वापि घृतं वा प्लीहनाशनम् ॥
पिबेद्गुल्मापहं काले सर्पिस्तैल्वकमेव वा ।
तिलेक्षुरकपालाशसार्षपं यवनालजम् ॥
भस्म मूलकजञ्चापि गोजाविखरहस्तिनाम् ।
मूत्रेण महिषीणाञ्च पालिकैश्चावचूर्णितैः ॥
कुष्ठ-सैन्धवयष्ट्याह्व-नागरक्रिमिघातिभिः ।
साजमोदैश्च दशभिः सामुद्राच्च पलैर्युतम् ॥
अयःपात्रेऽग्निनाल्पेन पक्त्वा लेह्यमथोद्धरेत् ।
तस्य मात्रां पिबेद्दध्ना सुरया सर्पिषापि वा ॥
धान्याम्लेनोष्णतोयेन कौलत्थेन रसेन वा ।
गुल्मं वातविकारांश्च क्षारोऽयं हन्त्यसंशयम् ॥”
“पीतं सुखाम्बुना वापि स्वर्ज्जिका कुष्ठसैन्धवम् ।
वृश्चीकमुरुवूकञ्च वर्षाभूबृहतीद्बयम् ।
चित्रकञ्च जलद्रोणे पक्त्रा पादावशेषितम् ॥
मागधी चित्रकक्षौद्रलिप्ते कुम्भे निधापयेत् ।
मधुनः प्रस्थमावाप्य पथ्याचूर्णार्द्धसंयुतम् ॥
तुषोषितं दशाहन्तु जीर्णभक्तः पिबन्नरः ।
अरिष्टोऽयं जयेद्गुल्ममविपाकमरोचकम् ॥
सशूले सोन्नतस्यन्दे दाहपाकरुगन्विते ।
गुल्मे रक्तं जलौकोभिः शिरामोक्षेण वा हरेत् ॥
सुखोष्णा जाङ्गलरसाः सुस्निग्धा व्यक्तसैन्धवाः ।
कटुत्रिकसमायुक्ता हिताः पाने च गुल्मिनाम् ॥
पेया वातहरैः सिद्धाः कौलत्थाः संस्कृता रसाः ।
खलाः सपञ्चमूलाश्च गुल्मिनां भोजने हिताः ॥
बद्धवर्च्चोऽनिलानान्तु सार्द्रकं क्षीरमिष्यते ।
कुम्भीपिण्डेष्टकास्वेदान् कारयेत् कुशलो भिषक् ॥
गुल्मिनः सर्व्व एबोक्ता दुर्व्विरेच्यतमा भृशम् ।
अतश्चैतांस्तु सुस्विन्नान् स्रंसनेनोपपादयेत् ॥
विलेपनाभ्यञ्जनानि तथा सन्दहनानि च ।
उपनाहाश्च कर्त्तव्याः सुखोष्णाः साल्वणादयः ।
उदरोक्तानि सर्पींषि चूर्णवर्त्तिक्रियास्तथा ॥
लवणानि च योज्यानि यान्युक्तान्युदरामये ।
वातवर्च्चोनिरोधे तु सामुद्रार्द्रकसर्षपैः ॥
कृत्वा पायौ विधातव्या वर्त्तयो मरिचोत्तराः ।
दंन्ती चित्रकमूलेषु तथा वातहरेषु च ॥
कुर्य्यादरिष्टान् सर्व्वांश्च सूत्रस्थाने यथेरितान् ।
खादेद्वाप्यङ्कुरान् भृष्टान् पूतिकनृपवृक्षजान् ॥
ऊर्द्ध्ववातमनुष्यञ्च गुल्मिनं न निरूहयेत् ।
पिबेत्त्रिवृन्नागरं वा सगुडां वा हरीतकीम् ॥
गुग्गुलुं त्रिवृतां दन्तीं द्रवन्तीं सैन्धवं वचाम् ।
मूत्रमद्य-पयोद्राक्षा-रसैर्वीक्ष्य बलाबलम् ॥
एवं पीलूनि पिष्टानि पिबेत् सलवणानि तु ।
पिप्पलीपिप्पलीमूलचव्यचित्रकसैन्धवैः ॥
युक्ता हन्ति सुरागुल्मं शीघ्रं काले प्रयोजिता ।
बद्धविण्मारुतो गुल्मी भुञ्जीत पयसा यवान् ॥
कुल्माषान् वा बहुस्ने हान् भक्षयेल्लवणोत्तरान् ॥”
इत्युत्तरतन्त्रे द्वाचत्वारिंशत्तमेऽध्याये सुश्रुतेनो-
क्तम् ॥) सेनासंख्याविशेषः । (यथा, महाभारते ।
१ । २ । १९-२० ।
“एको रथो गजश्चैको नराः पञ्च पदातयः ।
त्रयश्च तुरगास्तज्ज्ञैः पत्तिरित्यभिधीयते ॥
पत्तिन्तु त्रिगुणामेतामाहुः सेनामुखं बुधाः ।
त्रीणिसेनामुखान्येको गुल्म इत्यभिधीयते ॥”)
अस्यार्थविवृतिर्यथा, --
अत्र गजा नव, रथा नव, अश्वाः सप्तविंशतिः
पदातयः पञ्चचत्वारिंशत्, समुदायेन नवतिः ॥
प्लीहा । अप्रकाण्डवृक्षः । तत्पर्य्यायः । स्तम्बः २ ।
इत्यमरः । २ । ४ । ९ ॥ “अविद्यमानप्रकाण्ड-
स्तनुप्रकाण्डो वा बहुपत्रवान् मल्लीझिण्टीनल-
कमलवंशवीरणादिः मूलादारभ्य पूर्ब्बभागः
प्रकाण्डः ।” इति भरतः ॥ (यथा, मनुः । १ । ४८ ।
“गुच्छगुल्मन्तु विविधं तथैव तृणजातयः ।”
“यत्र लतासमूहा भवन्ति न च प्रकाण्डानि ते
गुच्छा मल्लिकादयः, गुल्मा एकमूलाः सङ्घात-
जाताः ।” इति टीकाकृत् कुल्लूकभट्टः ॥) घट्ट-
भेदः । सैन्यरक्षणम् । इति मेदिनी । मे । ११ ॥
(रक्षितृपुरुषसमूहः । यथा, मनुः । ७ । ११४ ।
“द्वयोस्त्रयाणां पञ्चानां मध्ये गुल्ममधिष्ठितम् ।”
गुल्मं रक्षितृपुरुषसमूहमित्यस्य टीकायां कुल्लूक-
भट्टः ॥ सैन्यैकदेशः । यथा, तत्रैव । ७ । १९० ।
“गुल्मांश्च स्थापयेदाप्तान् कृतसंज्ञान् समन्ततः ।”
गुल्मान् सैन्यैकदेशानिति टीकाकृत् कुल्लूकभट्टः ॥)

गुल्मकेतुः, पुं, (गुल्मानां केतुर्ध्वज इव । गुल्मः

केतुर्यस्येति वा । अत्र तु केतुर्लिङ्गं ज्ञापन-
मित्यर्थः ।) अम्लवेतसः । इति राजनिर्घण्टः ॥

गुल्ममूलं, क्ली, (गुल्मवन्मूलमस्य ।) आर्द्रकम् ।

इति राजनिर्घण्टः ॥

गुल्मवल्ली, स्त्री, (गुल्माढ्या वल्ली यस्याः ।) सोम-

लता । इति राजनिर्घण्टः ॥ (सोमलताशब्दे-
ऽस्या गुणादयो ज्ञातव्याः ॥)

गुल्मशूलः, पुं, (गुल्मात्मकं गुल्ममूलकं वा शूल-

मत्र ।) रोगविशेषः । तस्यौषधं यथा, --
“नारी पुष्पदिने पीत्वा गोक्षीरेणोपवासतः ।
श्वेतार्कस्य तु वै मूलं तस्यास्तद्गुल्मशूलनुत् ॥”
इति गारुडे १९३ अध्यायः ॥

गुल्मिनी, स्त्री, (गुल्मोऽस्त्यस्या इति । “अत इनि-

ठनौ ।” ५ । २ । ११५ । इति इनिः । ततः
ङीप् ।) विस्तृता लता । तत्पर्य्यायः । वीरुत् २
उलुपः ३ । इत्यमरः । २ । ४ । ९ ॥ वीरुधा ४
अवरुत् ५ । इति शब्दरत्नावली ॥

गुल्मी, स्त्री, (गुल्माकारो विद्यतेऽस्या इति । “अर्श

आदिभ्योऽच् ।” ५ । २ । १२७ । इत्यच् ततो
ङीष् ।) आमलकी । एला । वनी । वस्त्रवेश्म ।
इति मेदिनीशब्दरत्नावल्यौ हेमचन्द्रश्च ॥ गृध्र-
नखीवृक्षः । इति शब्दचन्द्रिका ॥ गुडकाँओली
इति भाषा ॥ (गुल्मः गुल्मनामको रोगोऽस्त्यस्य
इति । गुल्म + इंनिः ।) गुल्मरोगयुक्ते त्रि ॥
(यथा, अत्रैव धृतपनसशब्दगुणव्याख्याने भाव-
प्रकाशः ।
“विशेषात् पनसं वर्ज्ज्यं गुल्मिभिर्मन्दवह्निभिः ॥)

गुल्यः, पुं, (गुडमिव माधुर्य्यमर्हतीति । गुड +

यत् । ततो डस्य लत्वम् ।) मधुरः । स्वादुः ।
इति हेमचन्द्रः । ६ । २४ ॥

गुवाकः, पुं, (गुवति मलवत् क्वाथमुत्सृजतीति ।

गु + “पिणाकादयश्च ।” उणां । ४ । १५ । इति
आकः तुदादित्वाद्गुणाभावः । निपातनात्
दीर्घोऽपि दृश्यते ।) वृक्षविशेषः । गुया सुपारि
इति च भाषा ॥ तत्पर्य्याय्नः । घोण्टा २ पूगः ३
क्रमुकः ४ खपुरः ५ । इत्यमरः । २ । ५ । १३९ ॥
गूवाकः ६ । इति तट्टीका ॥ पूगवृक्षः ७
दीर्घपादपः ८ वल्कतरुः ९ दृढवल्क १०
चिक्कणः ११ । इति राजनिर्घण्टः ॥ पूगी १२ ।
इति भावप्रकाशः ॥ सुरञ्जनः १३ गोपदलः १४
राजतालः १५ छटाफलः १६ । इति त्रिकाण्ड-
शेषः ॥ * ॥ अस्य फलस्य पर्य्यायः । क्रमुकफलम् १
पूगम् २ चिक्कणी ३ चिक्का ४ चिक्कणम् ५
श्लक्ष्णकम् ६ उद्वेगम् ७ पूगफलम् ८ । इति राज-
निर्घण्टः ॥ पूगीफलम् ९ । इति भावप्रकाशः ॥ * ॥
अस्य मस्तिष्कस्य गुणाः । स्वादुत्वम् । तिक्तत्वम् ।
कषायत्वम् । बलप्राणशुक्रवृद्धिभेदमदकारित्वम् ।
मूत्ररोगनाशित्वञ्च । इति राजवल्लभः ॥ * ॥
अस्य निर्यासस्य गुणाः । हिमत्वम् । मोहनत्वम् ।
गुरुत्वम् । विपाके उष्णत्वम् । क्षारत्वम् । साम्ल-
त्वम् । वातघ्नत्वम् । पित्तलत्वञ्च ॥ * ॥ अस्य फल-
गुणाः सम्मोहकारित्वम् । कषायत्वम् । स्वादु-
त्वम् । रेचनत्वम् । त्रिदोषशमनत्वम् । रुच्यत्वम् ।
वक्त्रक्लेदमलापहत्वञ्च । इति राजनिघण्टः ॥
गुरुत्वम् । रूक्षत्वम् । कफपित्तक्नारित्वम् । दीप-
नत्वञ्च ॥ * ॥ आर्द्रस्य तस्य गुणाः । गुरुत्वम् ।
अभिष्यन्दित्वम् । अग्निदृष्टिहरत्वञ्च ॥ * ॥
स्विन्नस्य तस्य गुणः । दोषत्रयच्छेदित्वम् । दृढ-
मध्यं तदुत्तमम् । इति भावप्रकाशः ॥ * ॥ आम-
पूगस्य गुणाः । कषायत्वम् । मुखमलरक्तामश्लेष्म-
पित्तादराघ्माननाशित्वम् । कण्ठशुद्धिकारित्वम् ।
सारकत्वञ्च ॥ * ॥ शुष्कस्य तस्य गुणाः । कण्ठा-
मयघ्नत्वम् । रुचिकरत्वम् । पाचनत्वम् । रेचन-
त्वञ्च ॥ * ॥ तत् ताम्बूलेनोनमयुतञ्च चेत् झटिति
पाण्डुवातशोथकारित्वञ्च । इति राजनिर्घण्टः ॥ * ॥
तत्पीगगुणाः । तस्यादिपीगं विषतुल्यम् ।
द्वितीयपीगं भेदकं दुर्जरञ्च । तृतीयपीगं पानोप-
युक्तं सुधातुल्यं रसायनञ्च । इति राजवल्लभः ॥
(ताम्बूलेन विना केवलं गुवाकभक्षणाच्चाण्डा-
पृष्ठ २/३४६
लत्वावाप्तिस्तन्मोचनार्थं गङ्गादर्शनरूपप्राय-
श्चित्तमप्युक्तम् । यथा, --
“ताम्बूलं न मुखे दत्त्वा गुवाकं भक्षयेद् यदि ।
तावच्चाण्डालतां याति यावद् गङ्गानदर्शनम् ॥)

गुह, ऊ ञ संवृतौ । इति कविकल्पद्रुमः ॥ (भ्वां-

उभं-सकं-वेट् ।) ह्रस्वी । ऊ, अगूहीत् अघु-
क्षत् । ञ, गूहति गूहते । गुहो णोरूरिति
दीर्घः । इति दुर्गादासः ॥

गुहः, पुं, (गूहति रक्षति पालयतीत्यर्थः देव-

सेनाम् । गुह + “इगुपधज्ञाप्रीकिरः कः ।”
३ । १ । १३५ । इति कः । नामनिरुक्तौ तु गुहा
आवासत्वेनास्त्यस्येति अच् । एतयोर्व्युत्पत्ति-
द्वययोरेव क्रमान्वयेनोदाहरणे द्रष्टव्ये । यथा,
महाभारते । ३ । २२८ अध्याये ।
“रुद्रसूनुं ततः प्राहुर्गुहं गुणवताम्बरम् ।”
इत्युपक्रम्य ।
“अथैनमभ्ययुः सर्वा देवसेनासहस्रशः ।
अस्माकं त्वं पतिरिति ब्रुवाणाः सर्व्वतो दिशः ॥”
इत्यन्तेन महात्मा कार्त्तिकेयः सैनापत्यार्थं देवैः
प्रार्थितः । ततो नामनिरुक्तिः । यथा, महा-
भारते । १३ । ८५ । ८०--८३ ।
“दिव्यं शरवणं प्राप्य ववृधेऽद्भुतदर्शनः ।
ददृशुः कृत्तिकास्तन्तु बालार्कसदृशद्युतिम् ॥
स्कन्नत्वात् स्कन्दताञ्चापि गुहावासाद्गुहोऽभवत् ॥”)
कार्त्तिकेयः । इत्यमरः । १ । १ । ४२ ॥ घोटकः ।
इति शब्दरत्नावली ॥ श्रीरामसखः । स तु
शृङ्गवेरपुरवासी निषादाधिपतिः । (यथा, रामा-
यणे । २ । ५० । ३३ ।
“तत्र राजा गुहो नाम रामस्यात्मसमः सखा ।
निषादजात्यो बलवान् स्थपतिश्चेति विश्रुतः ॥”
गूहते संवृणोति स्वरूपादीनि मायया इति ।
गुह + कः ।) विष्णुः । (यथा, महाभारते । १३ ।
१४९ । ५४ ।
“करणं कारणं कर्त्ता विकर्त्ता गहनो गुहः ॥”
महादेवः । यथा, महाभारते । १३ । १७ । ६० ।
“व्यालरूपो गुहावासी गुहो माली तरङ्गवित् ॥”)
कायस्थानां पद्धतिविशेषः ॥ (यथा, कायस्थ-
कुलदीपिकायाम् ।
“अयं गुहकुलोद्भवो दशरथाभिधानो महान्
कुलाम्बुजमधुव्रतो विविधपुण्यपुञ्जान्वितः ॥”)

गुहषष्ठी, स्त्री, (गुहस्य कार्त्तिकेयस्य प्रिया या

षष्ठी तस्य जन्मतिथित्वात्तथात्वम् ।) मार्ग-
शीर्षमासीयशुक्लषष्ठी । यथा, भविष्ये ।
“येयं मार्गशिरे मासि षष्ठी भरतसत्तम् ! ।
पुण्या पापहरा धन्या शिवा शान्ता गुहप्रिया ॥”
शुष्केयं गुहषष्ठी । इति तिथ्यादितत्त्वम् ॥

गुहा, स्त्री (गुह् + कः टाप् च ।) सिंहपुच्छी-

लता । गर्त्तः । पर्व्वतादेर्गह्वरम् । इति मेदिनी ।
हे । ४ । (यथा, रामायणे । १ । १ । ७० ।
“किष्किन्ध्यां रामसुग्रीवौ जग्मतुस्तौ गुहां
तदा ॥”)
शेषस्य पर्य्यायः । विलम् २ शिलासन्धिः ३ देव-
खातम् ४ गह्वरम् ५ । शालपर्णीवृक्षः ६ । इति
राजनिर्घण्टः ॥ (हृदयम् । यथा, शतपथ-
ब्राह्मणे । ११ । २ । ६ । ५ ।
“तस्मादिदं गुहाहृदयम् ॥” गूढा ज्ञातृज्ञान-
ज्ञेयपदार्थाः अस्यां गूहतेऽस्यामात्मा इति वा ।
गुह + भिदादित्वादधिकरणे अङ् टाप् च ।
बुद्धिः । यथा, श्वेताश्वतरोपनिषदि ।
“अणोरणीयान् महतो महीयान्
आत्मा गुहायां निहितोऽस्य जन्तोः ॥”)

गुहाशयः, पुं, (गुहासु गिरिगह्वरादिषु शेते

अवतिष्ठते इति । शीङ् ल शयने + “अधिकरणे
शेतेः ।” ३ । २ । १५ । इति अच् ।) व्याघ्रः ।
इति राजनिर्घण्टः ॥ (गुहाशायित्वादेवास्य
तथात्वम् । यथा, भावप्रकाशे ।
“सिंहव्याघ्रवृका ऋक्षतरक्षुद्विपिनस्तथा ।
बभ्रुजम्वुकमार्ज्जारा इत्याद्याः स्युर्गुहाशयाः ॥”
गुहायां हृदये बुद्धौ वा शेते विराजते इत्यर्थः ।)
विष्णुः । (यथा, श्वेताश्वतरोपनिषदि । “सर्व्व-
भूतगुहाशयः ।” यथा च ।
“तावत् स भगवान् साक्षात् योगाधीशो गुहाशयः ।
अन्तर्दधे ऋषेः सद्यो यथेहानीशनिर्म्मिता ॥”
इति श्रीभागवतम् ॥
(प्राणाः । यथा, मुण्डकोपनिषदि । २ । १ । ८ ।
“सप्त इमे लोका येषु चरन्ति प्राणा
गुहाशया निहिताः सप्त सप्त ।”
गुहाशायिनि त्रि ॥)

गुहिनं, क्ली, (गूहते वृक्षादिभिराच्छन्नं भवतीति ।

गूहतेऽस्मिन्निति वा । गुह + बाहुलकात् इनन् ।)
वनम् । इति शब्दरत्नावली ॥

गुहिलं, क्ली, (गूहते पादपादिभिराच्छन्नं भव-

तीति । गुह + “गुपादिभ्यः कित् ।” उणां ।
१ । ५६ । इति इलच् । गुणनिषेधार्थं किच्च ।)
वनम् । इत्युणादिकोषः ॥

गुहेरः, पुं, (गूहते लौहादेर्मलादिकं विलोपयन्

खड्गाद्यस्त्रत्वेनापादयतीति । धातूनामनेका-
र्थत्वात्तथात्वमित्यवधेयम् । गुह + “मूलेरादयः ।”
उणां । १ । ६१ । इति निपातनादेरक्प्रत्ययः ।)
लौहकारः । इत्युणादिकोषः ॥ (गूहते रक्ष-
तीति ।) गोप्ता । इति संक्षिप्तसारे उणादि-
वृत्तिः ॥

गुह्यं, क्ली, (गुहां गोपनं अर्हति वस्त्राद्यभ्यन्तर-

स्थानं लब्धुमर्हतीति यावत् । गुहा + “तद-
र्हति ।” ५ । १ । ६३ । इति यत् । गुह + कर्म्मणि
क्यवित्येके ।) उपस्थः । स तु भगं लिङ्गञ्च ।
(भगार्थे यदुक्तम् ।
“कामार्त्तः पुरुषो ह्यत्र चुम्बयेद् गुह्यमादृतः ॥”)
रहस्ये त्रि । इत्यमरः । ३ । ३ । १५३ ॥ गोप्यम् ।
तत्पर्य्यायः । विविक्तः २ विजनः ३ छन्नः ४
निःशलाकः ५ रहः ६ उपांशु ७ गूढम् ८
उपह्वरम् ९ । इति जटाधरः ॥ (यथा, भग-
वद्गीतायाम् । ९ । २ ।
“राजविद्या राजगुह्यं पवित्रमिदमुत्तमम् ॥”
तथा च, देवीभागते । १ । ३ । ३७ ।
“पुराणगुह्यं सकलं समेतं
गुरोः प्रसादात् करुणानिधेश्च ॥”)

गुह्यः, पुं, (गुहां सरस्यादेर्गर्त्तमर्हतीति । गुहा +

“दन्तादिभ्यो यत् ।” ५ । १ । ६६ । इति यत् ।)
कमठः । दम्भः । इति मेदिनीं ॥ ये । १९ ॥
(गूहितुमर्हति योग्यो भवति उपनिषद् वेद्य-
त्वात् यद्वा गुहायां बुद्धौ हृदयाकाशे वस्तु-
मर्हति ध्यानायार्हतीति यावत् ।) विष्णुः ।
इति तस्य सहस्रनाममध्ये पठितः ॥ (यथा,
महाभारते । १३ । १४९ । ७१ ।
“गुह्यो गभीरो गहनो गुप्तश्चक्रगदाधरः ॥”
महादेवः । यथा, महाभारते । १३ । १७ । ९१ ।
“यजुः पादभुजा गुह्यः प्रकाशो जङ्गमस्तथा ॥”
गुह्यानि गूहति गुणान् प्रकटीकरोतीति । गुण-
शालिप्रभावान्वितजीवविशेषः । यथा, ऋग्वेदे ।
७ । १०३ । ८ ।
“अध्वर्य्यवो घर्म्मिणः सिष्विदाना
आविर्भवन्ति गुह्या न केचित् ॥”
उपदेवताविशेषः । यथा, महाभारते । ३ ।
३ । ४३ ।
“गुह्याः पितृगणाः सप्त ये दिव्या ये च मानुषाः ॥”
स्त्रियां टाप् । गायत्त्रीस्वरूपा देवी । यथा,
देवीभागते । १२ । ६ । ४२ ।
“गुर्व्वी गुणवती गुह्या गोप्तव्या गुणदायिनी ॥”
गोपनीये त्रि । यथा, मनुः । ११ । २६५ ।
“सगुह्योऽन्यस्त्रिवृद्वेदो यस्तं वेद स वेदवित् ॥”
“प्रणवाख्यो गुह्यो गोपनीयः ।” इति कुल्लूक-
भट्टः ॥)

गुह्यकः, पुं, (गूहति निधिं धनविशेषं रक्षतीति ।

गुह् + ण्वुल् । पृषोदरादित्वाद्यगागमे साधुः ।)
देवयोनिविशेषः । स तु कुवेरानुचरः निधि-
रक्षको माणिभद्रादियक्षभेदः । इत्यमरभरतौ ॥
(कार्य्योत्पत्त्यादिभेदेनैष तु बहुधोदाह्रियते
तथाच व्याडिनोक्तम् ।
“निधिं रक्षन्ति ये यक्षास्ते स्युर्गुह्यकसंज्ञकाः ॥”
गुह्यं कुत्सितं कायति शब्दायते प्रकाशयति
वा । कै + कः । यद्वा गुह्यं गोप्यं कं सुखं यस्य ।
“शंसिदुहिगुहिभ्योवेति” काशिकोक्तेः क्यप् वा ।
यद्वा गुह्यात् सृष्टिं चिकीर्षोः परब्रह्मणः कृष्णस्य
गुह्यदेशात् कायति आविर्भवतीति । यदुक्तं
ब्रह्मवैवर्त्ते ब्रह्मस्वण्डे । ५ । ६० ।
“आविर्ब्बभूव कृष्णस्य गुह्यदेशात्ततः परम् ।
पिङ्गलश्च पुमानेकः पिङ्गलैश्च गणैः सह ।
आविर्भूता यतो गुह्यात् तेन ते गुह्यकाः स्मृताः ॥”
यथा, महाभारते । ३ । ३ । १० ।
“तव दिव्यं रथं यान्तमनुयान्ति वरार्थिनः ।
सिद्धचारणगन्धर्व्वा यक्षगुह्यकपन्नगाः ॥”)
तस्य लोकः पिशाचलोकादूर्द्ध्वं गन्धर्व्वलोकादधः ।
येन येन कर्म्मणा एतल्लोकप्राप्तिस्तदुच्यते ।
“ततो गच्छन्ददर्शाग्रे हृष्टपुष्टजनैर्वृतम् ।
पित्तिण्डिलैः स्थूलवक्रैर्मेघगम्भीरनिस्वनैः ॥
पृष्ठ २/३४७
लोकैरध्युषितं लोकं श्यामलाङ्गैश्च लोमशैः ।
गणौ कथयतं केऽमी को लोकः पुण्यतः कृतः ॥
गणावूचतुः ।
गुह्यकानामयं लोकस्त्वेते वै गुह्यकाः स्मृताः ।
न्यायेनोपार्ज्य वित्तानि गूहयन्ति च ये भुवि ॥
स्वमार्गगा धनाढ्याश्च शूद्रप्रायाः कुटुम्बिनः ।
संविभज्य च भोक्तारः क्रोधासूयाविवर्ज्जिताः ॥
न तिथिं नैव वारञ्च संक्रान्त्यादि न पर्व्व च ।
नाधर्म्मञ्च न धर्म्मञ्च विदन्त्येते सदासुखाः ॥
एकमेव हि जानन्ति कुलपूज्यो हि यो द्विजः ।
तस्मै गाः संप्रयच्छन्ति मन्यन्ते तद्वचः स्फुटम् ॥
समृद्धिभाजो ह्यत्रापि तेन पुण्येन गुह्यकाः ।
भुञ्जते स्वर्गसौख्यानि देवत्वमकुतोभयाः ॥”
इति काशीखण्डे शिवशर्म्मणो वैकुण्ठलोकगमने
विष्णुगणसंवादः ॥ (पक्वान्नविशेषः । तस्य
पाकप्रकारो यथा, शब्दार्थचिन्तामणिधृतपाक-
शास्त्र ।
“समितां सर्पिषा भृष्टां सिताद्राक्षादिसम्भृताम् ।
एला लवङ्गकर्पूरमरीचपरिवासिताम् ॥
क्षिप्त्वान्यसमितालम्बपुटे वेष्ट्य घृते पचेत् ।
ततः खण्डे न्यसेत् पक्वे गुह्यकोऽयमुदाहृतः ॥”
अस्य गुणास्तत्रैव । यथा, --
“गुह्यको बृंहणो हृद्यो वृष्यः पित्तानिलापहः ।
मधुरोऽतिगुरुः पाके किञ्चित् सन्धानकृत् सरः ॥”)

गुह्यकेश्वरः, पुं, (गुह्यकानामीश्वरः प्रभुरधिपति-

रित्यर्थः ।) कुवेरः । इत्यमरः । १ । १ । ७१ ॥
(यथा, ब्रह्मवैवर्त्ते ब्रह्मखण्डे । ५ । ६१ ।
“यः पुमान् स कुवेरश्च धनेशो गुह्यकेश्वरः ॥”)

गुह्यगुरुः, पुं, (गुह्यः गोप्यः हृदयाभ्यन्तर्वर्त्ती

अन्तर्यामिस्वरूपो गुरुः ।) शिवः । इति
त्रिकाण्डशेषः ॥

गुह्यदीपकः, पुं, (गुह्येन गुह्यस्थज्योतिषा दीप-

यति प्रकाशयतीति । स्वयं गुह्यः सन् दीपय-
तीत्येके । दीप् + ण्वुल् ।) खद्योतः । इति शब्द-
चन्द्रिका ॥

गुह्यनिष्यन्दः, पुं, (गुह्यात् गुह्यदेशात् उपस्थ-

छिद्रादित्यर्थः निष्यन्द्यते निर्गम्यते इति ।)
मूत्रम् । इति राजनिर्घण्टः ॥

गुह्यपुष्पः, पुं, (गुह्यानि अदृश्यानि पुष्पाणि अस्य

इति ।) अश्वत्थवृक्षः । इति राजनिर्घण्टः ॥

गुह्यबीजः, पुं, (गुह्यमदृश्यं बीजमस्य ।) भू-

तृणम् । इति राजनिर्घण्टः ॥

गुह्यभाषितं, क्ली, (गुह्यं रहस्यं भाषितम् ।)

मन्त्रः । इति जटाधरः ॥ गुप्तवाक्यञ्च ॥

गू, ओ शि विट्सृजौ । इति कविकल्पद्रुमः ॥ (तुदां-

परं-सकं-अनिट् ।) ओ, गूनः । शि, गुवति
अगुवीत् । विट्सृजिर्हदनम् । इति दुर्गादासः ॥

गूः, पुं, गुः । विष्ठा । गूधातोः कर्म्मणि क्विप्प्रत्य-

येन निष्पन्नः ॥ (गच्छत्यपानेन देहात् । गम् +
कूः । मलोप इत्येके ॥)

गूढं, क्ली, (गुह + भावे क्तः ।) रहः । गुह्यम् ।

इति मदिनी । ढे । १ ॥

गूढः, त्रि, (गुह + कर्म्मणि क्तः ।) संवृतः । गुप्तः ।

इत्यमरमेदिनीकरौ ॥ (यथा, पञ्चदश्याम् । ३ । ३८ ।
“शक्तिरस्त्यैश्वरी काचित् सर्व्ववस्तुनियामिका ।
आनन्दमयमारभ्य गूढा सर्व्वेषु वस्तुषु ॥”)

गूढजः, पुं, (गूढात् गुप्तभावादित्यर्थः गूढे गुप्तस्थाने

वा जायते इति । गूढः सन् जायते इत्येके ।
गूढ + जन् + डः ।) गूढोत्पन्नपुत्त्रः । इति मिता-
क्षरा ॥ (यथा, याज्ञवल्क्यः । २ । १३२ ।
“गृहे प्रच्छन्न उत्पन्नो गूढजस्तु सुतो मतः ।
कानीनः कन्यकाजातो मातामहसुतो मतः ॥”)

गूढनीडः, पुं, (गूढः गोपनस्थलस्थः गूढे गुप्तस्थाने

वा नीडः कुलायोऽस्य ।) खञ्जनपक्षी । इति
शब्दमाला ॥

गूढपत्त्रः, पुं, (गूढः समाच्छन्नः पत्त्रेण योऽसौ ।

गूढं पत्त्रमस्येति केचित् ।) करीरवृक्षः ।
अङ्कोठवृक्षः । इति राजनिर्घण्टः ॥

गूढपथः, पुं, (गूढः पन्था गतिर्यस्य समासनिष्पन्न-

त्वादच् ।) अन्तःकरणम् । इति हेमचन्द्रः । ६ । ५ ॥
गुप्तपथश्च ॥

गूढपात्, [द्] पुं, (गूढं पादयति । पद गतौ +

णिजन्तात् क्विप् । यद्वा गूढाः पादा अस्य पृषो-
दरादित्वादलोपे साधुः ।) सर्पः । इत्य-
मरः । १ । ८ । ७ ॥

गूढपादः, पुं, (गूढाः संवृताः पादा अस्य ।) सर्पः ।

इति शब्दरत्नावली ॥
(“पादानामपि विज्ञेये द्वे शते द्वे च विंशती ।”
इत्यागमः ।
आच्छादितपादे त्रि । यथा, महाभारते ।
“सन्तोषामृततृप्तस्य विश्वैश्वर्य्यं करस्थितम् ।
उपानद्गूढपादस्य सर्व्वा चर्मावृतेव भूः ॥”)

गूढपुरुषः, पुं (गूढः गुप्तः पुरुषः छद्मवेशी राज-

प्रेरितो जनः इत्यर्थः ।) चरः । इत्यमरः । २ । ८ । १३ ॥

गूढपुष्पकः, पुं, (गूढः समावृत इव पुष्पैर्योऽसौ

इवार्थे कन् । गूढानि संवृतानि पुष्पाण्यस्य
इत्येके ।) वकुलवृक्षः । इति राजनिर्घण्टः ॥

गूढफलः, पुं, (गूढः संवृतप्रायः फलेनासौ । गूढं

यथा स्यात् तथा फलतीत्येके ।) वदरः । इति
राजनिर्घण्टः ॥

गूढमार्गः, पुं, (गूढः प्रच्छन्नः मार्गः ।) भुवो-

ऽन्तरमार्गः । सुडङ्ग इति भाषा ॥ तत्पर्य्यायः ।
सुरङ्गा २ सन्धिला ३ । इति हेमचन्द्रः । ४ । ५१ ॥

गूढमैथुनः, पुं, (गूढं अन्यैरदृश्यं मैथुनं यस्य ।)

काकः । इति त्रिकाण्डशेषः ॥

गूढवर्च्चाः, [स्] पुं, (गूढं वर्च्चोऽस्य ।) भेकः ।

इति त्रिकाण्डशेषः ॥

गूढवल्लिका, स्त्री, (गूढा वल्लिका वल्ली यस्य ।)

अङ्कोटवृक्षः । इति राजनिर्घण्टः ॥

गूढसाक्षी, [न्] त्रि, (गूढः प्रच्छन्नः सन् यः

अर्थिना प्रत्यर्थिवाक्यं श्रावितः तादृशः साक्षी ।)
योऽर्थिना गूढतया प्रत्यर्थिवचनं श्रावितः सः ।
फरियादी गोपने राखिया आसामीर कथा
याहाके शुनाइयाछे सेइ साक्षी इति भाषा ॥
तथा च नारदः ।
“अर्थिना स्वार्थसिद्ध्यर्थं प्रत्यर्थिवचनं स्फुटम् ।
यः श्राव्यते तदा गूढो गूढसाक्षी स उच्यते ॥”
इति व्यवहारतत्त्वम् ॥

गूढाङ्गः पुं, (गूढानि अङ्गानि यस्य इच्छा-

मात्रेणैवाङ्गानि अन्तःप्रवेशयति इति तात्-
पर्य्यार्थः ।) कच्छपः । इति राजनिर्घण्टः ॥

गूढाङ्घ्रिः, पुं, (गूढः संवृतः शल्केनावृतोऽङ्घ्रि-

श्चरणोऽस्य ।) सर्पः । इति राजनिर्घण्टः ॥

गूढोत्पन्नः, पुं, (गूढं अन्यैरविज्ञातं यथा स्यात्

तथा उत्पन्नो जातः ।) द्वादशविधपुत्त्रमध्ये
पुत्त्रविशेषः । यथा, मनुः । ९ । १७० ।
“उत्पद्यते गृहे यस्य न च ज्ञायेत कस्य सः ।
स गृहे गूढ उत्पन्नस्तस्य स्याद्यस्य तल्पजः ॥”
अस्यार्थः । “यस्य गृहेऽवस्थितायां भार्य्यायां पुत्त्र
उत्पद्यते सजातीयोऽयं भवतीति ज्ञानेऽपि
कस्मात् पुरुषविशेषाज्जातोऽसाविति न ज्ञायते
स गृहे अप्रकाशमुत्पन्नस्तस्य पुत्त्रः स्यात् यदी-
यायां भार्य्यायां जातः ।” इति कुल्लूकभट्टः ॥
(अयं हि बन्धुदायहारी । यथाह मनुः । ९ । १५९ ।
“औरसः क्षेत्रजश्चैव दत्तः कृत्रिम एव च ।
गूढोत्पन्नोऽपविद्धश्च दायादा बान्धवाश्च षट् ॥”)

गूथं, क्ली पुं, (गवते शब्दायते गुवति पुरीषमुत्-

सृजतीति वा । गुङ शब्द गुशि विष्ठोत्सर्गे वा
+ “तिथपृष्ठ गूथ यूथ प्रीथाः ।” उणां । २ । १२ ।
इति थक् दीर्घश्च ।) विष्ठा । इत्यमरः । २ ।
६ । ६८ ॥ गु इति भाषा । (शरीरादिमलेऽपि
कर्णगूथादिशब्ददर्शनात् ॥)

गूथलक्तः, पुं, (गूथे विष्ठायां रक्तः अनुरक्त आसक्त

इत्यर्थः । ततो रस्य लत्वम् ।) पक्षिविशेषः ।
गुये शालिक् इति भाषा । तत्पर्य्यायः । शर-
मल्लः २ क्षुद्रचूडः ३ साल्लिकः ४ । इति शब्द-
चन्द्रिका ॥

गूनः, त्रि, (गूयते पुरीषमुत्सृज्यते स्म इति ।

गु शि विष्ठोत्सर्गे + क्तः । “दुग्वोदीर्घश्चेति ।”
नत्वं दीर्घश्च ।) कृतपुरीषोत्सर्गः । तत्पर्य्यायः ।
हन्नः २ । इत्यमरः । ३ । १ । ९६ ॥

गूर, ङ क उद्यमे । इति कविकल्पद्रुमः ॥ (चुरां-

आत्मं-सकं सेट् ।) दीर्घी । ङ कं, भग्नेषु नो
गूरयते महोरगः । इति दुर्गादासः ॥ (तथा
च कविरहस्ये । ५१ ।
“भग्नेषु नोद्गूरयतेऽस्त्रमाहवे-
ऽयुक्तेऽपि यो नोद्गुरते स्वधर्म्मवित् ॥”)

गूर, ई य ङ वधे । गत्याम् । इति कविकल्पद्रुमः ।

(दिवां-आत्मं-सकं-सेट् ।) दीर्घी । तथा च ।
“दीपिपूरिजनिगरिधूरयः
काशिवाशिपदिशूरितूरयः ।
घूरिजूरिखिदिविद्यतिः क्लिशि-
श्चूरिशुध्यतिमनो दिवादिषु ॥
इति रथोद्धतायां चण्डेश्वरः ।” इति दुर्गादासः ॥

गूरणं, क्ली, (गूर क ङ उद्यमे + भावे ल्युट् ।)

उद्यमः । इत्यमरटीकायां रायमुकुटः । ३ । २ । ११ ॥
पृष्ठ २/३४८

गूर्द्द, क निकेतने । कूर्द्दे । इति कविकल्पद्रुमः ॥

(चुरां-परं-अकं-सेट् ।) क, गूर्द्दयति । इति
दुर्गादासः ॥

गूर्द्द, ङ कूर्द्दे । इति कविकल्पद्रुमः ॥ (भ्वां-आत्मं-

अकं-सेट् ।) ङ, गूर्द्दते । इति दुर्गादासः ॥

गूवाकः, पुं, (गुवति पुरीषमुत्सृजत्यनेन यद्वा

गुवति बहुलभक्षणेन मुखविवरात् पुरीषवटुत्-
सृजतीति । गुशि विष्ठोत्सर्गे + “पिनाका-
दयश्च ।” उणां । ४ । १५ । इति आकः । कुटा-
दित्वाद्गुणाभावः । निपातनात् दीर्घत्वम् ।)
गुवाकः । इति शब्दरत्नावली ॥

गूषणा, स्त्री, (भूषयतीति । निपातनात् भकारस्य

गत्वम् ।) मयूरचन्द्रकः । मयूरपिच्छचक्रम् ।
इति शब्दचन्द्रिका ॥

गृ, सेके । इति कविकल्पद्रुमः ॥ (भ्वां-परं-सकं-

सेट् ।) गरति तरुं मेघः । इति दुर्गादासः ॥

गृज, ध्वनौ । इति कविकल्पद्रुमः ॥ (भ्वां-परं-अकं-

सेट् ।) सप्तमस्वरी गर्ज्जति । इति दुर्गादासः ॥
(यथा, पूर्ब्बचातकाष्टके । ४ ।
“गर्ज्जसि मेघ ! न यच्छसि तोयं
चातकपक्षी व्याकुलितोऽहम् ।
दैवादिह यदि दक्षिणवातः
क्व त्वं क्वाहं क्व च जलपातः ॥”)

गृज, इ ध्वनौ । इति कविकल्पद्रुमः ॥ (भ्वां-परं-

अकं-सेट् ।) सप्तमस्वरी । इ, गृञ्ज्यते । इति
दुर्गादासः ॥ (ध्वनिरिह कथनमिति मत्वा
केचित् सकर्म्मकमपि वदन्ति ॥)

गृञ्जनं, क्ली, (गृञ्ज्यते अभक्ष्यत्वेन कथ्यते प्राण-

नाशकत्वादिति । गृजि ध्वनौ + कर्म्मणि ल्युट् ।)
विषदिग्धपशोर्म्मांसम् । इति मेदिनी । ने । ५८ ॥
(गृञ्ज्यते रोगनाशकतया भक्ष्यत्वेन कथ्यते
इति ।) मूलविशेषः । सलगम इति ख्यातः ।
तत्पर्य्यायः । शिखिमूलम् २ यवनेष्टम् ३ वर्त्तु-
लम् ४ ग्रन्थिमूलम् ५ शिखाकन्दम् ६ कन्दम् ७
डिण्डीरमोदकम् ८ । अस्य गुणाः । कटुत्वम् ।
उष्णत्वम् । कफवातरोगगुल्मनाशित्वम् । रुच्य-
त्वम् । दीपनत्वम् । हृद्यत्वम् । दुर्गन्धत्वञ्च ।
इति राजनिर्घण्टः ॥

गृञ्जनः, पुं, (गृञ्ज्यते अभक्ष्यत्वेन कथ्यते इति ।

गृजि + ल्युट् ।) रसोनकः । रसुन् इति भाषा ।
इति मेदिनी । ने । ५८ ॥ रक्तलशुनः । इति
राजनिर्घण्टः ॥ (अस्य अभक्षणीयत्वमुक्तं यथा,
मनौ । ५ । १९--२० ।
“छत्राकं विड्वराहञ्च लशुनं ग्रामकुक्कुटम् ।
पलाण्डुं गृञ्जनञ्चैव मत्या जग्ध्वा पतेद्द्विजः ॥
अमत्यैतानि षड्जग्ध्वा कृच्छ्रं सान्तपनञ्चरेत् ।
यतिचान्द्रायणं वापि शेषेषूपवसेदहः ॥”)

गृण्डीवः, पुं, पृथुशृगालः । वड शेयाल इति भाषा ।

तत्पर्य्यायः । लोपाकः २ । इति हेमचन्द्रः ।
४ । ३५७ ॥ (गृण्डिवोऽपि पाठः ॥)

गृत्सः, पुं, (गृध्यति लिप्सत्यनेनेति । गृध् अभि-

काङ्क्षायाम् + “गृधिपण्योर्दकौ च ।” उणां ।
३ । ६९ । इति सः स च कित् दकारान्तादेशश्च ।)
कन्दर्पः । इत्युणादिकोषः ॥ (त्रि, स्तुत्यः ।
यथा, ऋग्वेदे । ७ । ८७ । ५ ।
“गृत्सो राजा वरुणश्चक्र एतं दिविप्रेङ्खम् ।”
“गृत्सः स्तुत्यः ।” इति भाष्यम् ॥)

गृध, इर् य उ लिप्से । इति कविकल्पद्रुमः ॥ (दिवां-

परं-सकं-सेट्-क्त्वावेट् ।) इर्, अगृधत् अगर्धीत् ।
अस्मात् पुषादित्वात् नित्यं ङ इत्यन्ये । य, गृध्यति
धनं लुब्धः । उ, गर्द्धित्वा गृद्ध्वा । इति दुर्गादासः ॥

गृधुः, पुं, (गृध्यत्यनेनास्माद्वा इति । गृध्य इर

लिप्सायाम् + “पॄभिदिव्यधिगृधिधृषिहृषिभ्यः ।”
उणां । १ । २३ । इति कुः ।) कामदेवः ।
इत्युणादिकोषः । (गृध्यति अभिलषतीति
विग्रहे वाच्यलिङ्गत्वात् ।) अभिलाषुकः । इति
संक्षिप्तसारे उणादिवृत्तिः ॥

गृधूः, पुं, (गृध् + बाहुलकात् कूः ।) बुद्धिः । अपा-

नम् । कुत्सितम् । इति संक्षिप्तसारे उणादि-
वृत्तिः ॥

गृध्नुः, त्रि, (गृध्यति कामयते लिप्सति वा धनमिति

शेषः । गृध् + त्रसिगृधिधृषिक्षिपेः क्नुः ।” ३ ।
२ । १४० ॥ इति क्नुः ।) लुब्धः । इत्यमरः ।
३ । १ । २१ ॥ (यथा, भागवते । ३ । १४ । २० ।
“न वयं प्रभवस्तां त्वामनुकर्त्तुं गृहेश्वरि ! ।
अप्यायुषा वा कार्त् स्नेन ये चान्ये गुणगृध्नवः ॥”
क्वचित् गृध्नोऽपि पाठः ॥)

गृध्नुता, स्त्री, (गृध्नोर्भावः इति तल् ।) लुब्धता ।

तत्पर्य्यायः । रागः २ सङ्गः ३ । इति त्रिकाण्ड-
शेषः ॥

गृध्रः, पुं, (गृध्यति अभिकाङ्क्षति मांसानीति ।

“सुसूधाञ् गृधिभ्यः क्रन् ।” उणां । २ । २४ ।
इति क्रन् ।) पक्षिविशेषः । गृधिनी शकुनी
इति च भाषा । तत्पर्य्यायः । दाक्षाय्यः २ वज्र-
तुण्डः ३ दूरदर्शनः ४ । इति राजनिर्घण्टः ॥
(यथा, महाभारते । ६ । ३ । ३१ ।
“गृध्रः संपतते शीर्षं जनयन् भयमुत्तमम् ॥”
इह लोके लोभवशात् यस्तु देवब्राह्मणस्वं हरति
स पापात्मा परत्र गृध्रोच्छिष्टेनोपजीवति । यथाह
मनुः । ११ । २६ ।
“देवस्वं ब्राह्मणस्वं वा लोभेनोपहिनस्ति यः ।
स पापात्मा परे लोके गृध्रोच्छिष्टेन जीवति ॥”)

गृध्रनखी, स्त्री, (गृध्रस्य नख इवाकारोऽस्त्यस्याः

इति । “अर्श आदिभ्योऽच् ।” ५ । २ । १२७ ।
इत्यच् । ततो ङीष् ।) कुलिकवृक्षः । इति रत्न-
माला ॥ कालियाकडा इति भाषा । (यथा,
सुश्रुते सूत्रस्थाने । ३८ अध्याये ।
“करमर्द्दत्रिकण्टकसैरीयकशतावरीगृध्रनख्य इति
कण्टकसंज्ञः ॥”) कोलिवृक्षः । इति त्रिकाण्ड-
शेषः ॥

गृध्रपत्रा, स्त्री, (गृध्रस्य पत्रमिव पक्षवदित्यर्थः

पत्रमस्याः । गृध्र इव धूम्रवर्णं पत्रमस्या इत्येके ।)
धूम्रपत्रावृक्षः । इति राजनिर्घण्टः ॥

गृध्रराजः, पुं, (गृध्रः राजा इवेत्युपमितसमासः ।

गृध्रानां राजेति वा । “राजाहःसखिभ्यष्टच् ।”
५ । ४ । ९१ । इति टच् ।) जटायुपक्षी ।
यथा, --
“भूयः कनकपुङ्खाग्रै रक्षो वाणैरजिह्मगैः ।
निर्बिभेद सुतीक्ष्णाग्रैर्गृध्रराजं शिलाशितैः ॥”
इति रामायणम् ॥

गृध्रसी, स्त्री, (गृध्यति मांसमभिकाङ्क्षति सततं इति

गृध् + क्रन् । गृध्रो मांसलोलुपो मनुष्यः तं स्यति
पीडयति नाशयति वा । सो + कः ङीष् ।)
वातरोगविशेषः । तल्लक्षणं यथा, --
“स्फिक्पूर्ब्बोरुकटीपृष्ठजानुजङ्घापदं क्रमात् ।
गृध्रसी स्तम्भरुक् तोदैर्गृह्णाति स्पन्दते मुहुः ॥
वाताद्वातकफाभ्यां सा विज्ञेया द्विविधा पुनः ।
वातजायां भवेत्तोदो देहस्यातीववक्रता ॥
जानुजङ्घोरुसन्धीनां स्फुरणं स्तम्भता भृशम् ।
वातश्लेष्मोद्भवायान्तु गौरवं वह्निमार्द्दवम् ॥
तन्द्रा मुखप्रसेकश्च भक्तद्वेषस्तथैव च ॥”
गृध्रसीवातात् केवलात् स्फिगादिपर्य्यन्तं स्तम्भरुक्
तोदैर्गृह्णाति । क्रमात् वृद्धिक्रमात् । तेन यथा
यथा वर्द्धते तथा तथा स्फिगादीन्याक्रामति
नात्र ग्रहणे निर्द्देशक्रमनियमः । तथा मुहुः
स्पन्दते स्फिगादिषु शिराकम्पं करोतीत्यर्थः ॥ * ॥
अथ तस्याश्चिकित्सा ।
“गृध्रस्यान्तु नरं सम्यक् रेकेण वमनेन वा ।
ज्ञात्वा निरामं दीप्ताग्निं वस्तिभिः समुपाचरेत् ॥
नादौ वस्तिविधिं कुर्य्याद्यावदूर्द्ध्वं न शुध्यति ।
स्नेहो निरर्थकः स स्याद्भस्मन्येव हुतो यथा ॥ * ॥
तैलमेरण्डजं प्रातर्गोमूत्रेण पिबेन्नरः ।
मासमेकं प्रयोगोऽयं गृध्रस्यान्तु ग्रहापहः ॥ १ ॥
तैलं घृतं सार्द्रकमातुलुङ्ग-
रसं सचुक्रं सगुडं पिबेद्वा ।
कट्यूरुपृष्ठत्रिकशूलगुल्म-
गृध्रस्युदावर्त्तहरः प्रयोगः ॥ २ ॥
निष्कुष्यैरण्डबीजानि पिष्ट्वा क्षीरे विपाचयेत् ।
तत्पायसं कटीशूले गृध्रस्यां परमौषधम् ॥ ३ ॥
एरण्डमूलं विल्वञ्च बृहंती कण्टकारिका ।
कषायो रुचकोपेतः पीतो वृषणवस्तिजम् ॥
गृध्रसीजं हरेच्छूलं चिरकालानुबन्धि च ॥”
रुचकं सौवर्च्चलम् ॥ ४ ॥
“गोमूत्रैरण्डतैलाभ्यां कृष्णाचूर्णं पिबेन्नरः ।
दीर्घकालोत्थितां हन्ति गृध्रसीं कफवातजाम् ॥ ५ ॥
सिंहास्यदन्तीकृतमालकानां
पिबेत् कषायं रुवु-तैलमिश्रम् ।
यो गृध्रसीनष्टगतिः प्रसुप्तः
स शीघ्रगः स्याद्धि किमत्र चित्रम् ॥ ६ ॥
बृहन्निम्बतरोः सारो वारिणा परिपेषितः ।
स पीतो नाशयेत् क्षिप्रमसाध्यामपि गृध्रसीम् ॥ ७ ॥
शेफालिकादलैः क्वाथो मृद्वग्निपरिपाचितः ।
दुर्व्वारंगृध्रसीरोगं पीतमात्रः प्रणाशयेत् ॥”
शेफालिकानिर्गुण्डी ॥ ८ ॥
“रास्नायास्तु पलञ्चैकं पञ्च कर्षाणि गुग्गुलोः ।
सर्पिषा वटिकां कृत्वा भक्षयेद् गृध्रसीहरीम् ॥”
पृष्ठ २/३४९
इति रास्नागुग्गुलुः ॥ ९ ॥
“रास्नामृतारग्वधदेवदारु-
त्रिकण्टकैरण्डपुनर्न्नवानाम् ।
क्वाथं पिबेन्नागरचूर्णमिश्रं
जङ्घोरुपृष्ठत्रिकपार्श्वशूली ॥”
इति रास्नासप्तकक्वाथः ॥ १० ॥
“पथ्याविभीतामलकीफलानां
शतं क्रमेण द्विगुणाभिवृद्धम् ।
प्रस्थेन युक्तञ्च पलङ्कषाणां
द्रोणे जले संस्थितमेकरात्रम् ॥
अर्द्धावशेषं क्वथितं कषायं
भाण्डे पचेत्तत् पुनरेव लौहे ।
अमूनि वह्नेरवतार्य्य दद्यात्
द्रव्याणि संचूर्ण्य पलार्द्धकानि ॥
विडङ्गदन्तीत्रिफलागुडूची-
कृष्णात्रिवृन्नागरकोषणानि ।
यथेष्टचेष्टस्य नरस्य शीघ्रं
हिमाम्बुपानानि च भोजनानि ॥
निषेव्यमाणो विनिहन्ति रोगान्
स गृध्रसीं नूतनखञ्जताञ्च ।
प्लीहानमुग्रं जठराणि गुल्मं
पाण्डुत्वकण्डूवमिवातरक्तम् ॥
पथ्यादिको गुग्गुलुरेष नाम्ना
ख्यातः क्षितावप्रमितप्रभावः ।
बलेन नागेन समं मनुष्यं
जवेन कुर्य्यात्तुरगेण तुल्यम् ॥
आयुःप्रकर्षं विदधाति चक्षु-
र्ब्बलं तथा पुष्टिकरो विषघ्नः ।
क्षतस्य सन्धानकरो विशेषा-
द्रोगेषु शस्तः सकलेषु तज्ज्ञैः ॥”
इति पथ्यादिगुग्गुलुः ॥ ११ ॥
इति भावप्रकाशः ॥
(तथा च ।
“रक्तवातसमुद्भूतान् दोषान् शृणु महामते ! ।
कट्यूरुजानुमध्ये तु जायते बहुवेदना ।
गृध्रसीति विजानीयात् तेन नोक्तञ्च लक्षणम् ॥”
“शतावरी बले द्वे च पिप्पली पुष्कराह्वयम् ।
चूर्णमेरण्डतैलेन गृध्रसीमपकर्षति ॥
अजमोदादिकं चूर्णमामवाते प्रकीर्त्तितम् ।
तदत्र योजनीयञ्च गृध्रसीनां निवारणम् ॥”
इति हारीते चिकित्सितस्थाने त्रयोविंशेऽध्याये ॥
“पार्ष्णिं प्रत्यङ्गुलीनां या कण्डरा मारुतार्द्दिता ।
सक्थ्युत्क्षेपं निगृह्णाति गृध्रसीं तां प्रचक्षते ॥”
इति वाभटे निदानस्थाने पञ्चदशेऽध्याये ॥
“पार्ष्णी प्रत्यङ्गुलीनान्तु कण्डरा यानिलार्द्दिता ।
सक्थ्नोः क्षेपं निगृह्णीयाद् गृध्रसीति हि सा
स्मृता ॥”
इति सुश्रुते निदानस्थाने प्रथमेऽध्याये ॥
चिकित्सास्या यथा, --
“गृध्रसीविश्वाचीक्रोष्टुकशिरःखञ्जपङ्गुलवातकण्टक-
पाददाहपादहर्षावबाहुकवाधिर्य्यधमनीगतवात-
रोगेषु यथोक्तं यथोद्देशञ्च शिराव्यधं कुर्य्या-
दन्यत्रावबाहुकाद्वातव्याधिचिकित्सितञ्चावे-
क्षेत ॥” इति च सुश्रुते चिकित्सितस्थाने ५ मे
अध्याये ॥)

गृध्राणी, स्त्री, (गृध्र इव धूम्रवर्णेन अनिति प्राणि-

तीति । अन् + पचाद्यच् । गौरादित्वात् ङीष् ।
संज्ञायां णत्वम् ।) धूम्रपत्रावृक्षः । इति राज-
निर्घण्टः ॥

गृष्टिः, स्त्री, (गृह्णाति सकृद्गर्भमिति । ग्रह ञ उपा-

दाने + कर्त्तरि क्तिच् पृषोदरादित्वात् साधुः ।)
एकवारप्रसूता गौः । तत्पर्य्यायः । सकृत्प्रसू-
तिका २ । इति हेमचन्द्रः ॥ (यथा, महा-
भारते । १३ । ९३ । ३३ ।
“प्रष्टौहीनां पीवराणाञ्च तावदग्य्रा गृष्ट्यो धेनवः
सुव्रताश्च ॥”
यथा च ।
“एभ्य एव स्थिरादीनि जले पक्त्वैकविंशतिम् ।
रसे तस्मिन् पचेत् सर्पिर्गृष्टिक्षीरं चतुर्गुणम् ॥
वीराद्विमाषकाकोली स्वयं गुप्तर्षभर्द्धिभिः ॥
मेदया च समैः कल्कैस्तत् स्यात् कल्याणकं महत् ।
बृंहणीयं विशेषेण सन्निपातहरं परम् ॥”
इति वैद्यकचक्रपाणिसंग्रहे उन्मादाधिकारे ॥
सकृत्प्रसूतस्त्रीमात्रम् । इति शब्दार्थचिन्ता-
मणिः ॥) वराहक्रान्ता । इत्यमरः । २ । ४ । १३५ ॥
वदरवृक्षः । इति मेदिनी । टे । १२ ॥ काश्मरी ।
इति राजनिर्घण्टः ॥

गृह, त् क ङ ग्रहे । इति कविकल्पद्रुमः ॥ (अदन्त-

चुरां-आत्मं-सकं-सेट् ।) सप्तमस्वरी । क ङ,
गृहयते । ग्रहो ग्रहणम् । इति दुर्गादासः ॥

गृहं, क्ली, (गृह्णाति धान्यादिकं जीवनार्थं यस्मि-

न्निति । ग्रह + “गेहे कः ।” ३ । १ । १४४ । इति
कः ।) इष्टकादिरचितवासस्थानम् । घर इति
भाषा ॥ (यथा, मनुः । २ । ३४ ।
“चतुर्थे मासि कर्त्तव्यं शिशोर्निष्क्रमणं गृहात् ॥”
अर्द्ध्वर्च्चादित्वादेवायं शब्दो विभाषया पुंसि च
वर्त्तते । तत्र बहुवचनान्त एव । यथा, --
“गृहाः पुंसि च भूम्न्येव ।” इत्यमरः ॥ अत-
एव मनौ । ४ । २५० ।
“शय्यां गृहान् कुशान् गन्धानपः पुष्पं मणीन्
दधि ॥”)
तत्पर्य्यायः । गेहम् २ उदवसितम् ३ वेश्म ४
सद्म ५ निकेतनम् ६ निशान्तम् ७ वस्त्यम् ८
सदनम् ९ भवनम् १० अगारम् ११ मन्दिरम् १२
गृहाः १३ निकाय्यः १४ निलयः १५ आलयः १६
वासः १७ कुटः १८ शाला १९ सभा २० । इत्य-
मरः । २ । २ । ४-५ ॥ पस्त्यम् २१ सादनम् २२
आगारम् २३ कुटिः २४ कुटी २५ गेहः २६
निकेतः २७ साला २८ मन्दिरा २९ ओकः ३० ।
इति भरतः ॥ निवासः ३१ संवासः ३२
आवासः ३३ अधिवासः ३४ निवसतिः ३५
वसतिः ३६ केतनम् ३७ । इति शब्दरत्नावली ॥
गयः ३८ कृदरः ३९ गर्त्तः ४० हर्म्म्यम् ४१
अस्तम् ४२ दुरोणे ४३ नीलम् ४४ दुर्य्याः ४५
स्वसराणि ४६ अमा ४७ दमे ४८ कृत्तिः ४९
योनिः ५० शरणम् ५१ वरूथम् ५२ छर्द्दिः ५३
छदिः ५४ छाया ५५ शर्म्म ५६ अज्म् ५७ ।
इति वेदनिघण्टौ ३ अध्यायः ॥ * ॥
अथ गृहारम्भकालः ।
“वैशाखश्रावणाषाढमार्गफाल्गुनकार्त्तिकाः ।
सुप्रशस्ता गृहारम्भे पत्नीपुत्त्रसमृद्धिदाः ॥
शुक्लपक्षे भवेत् सौख्यं कृष्णपक्षे भवेद्भयम् ।
आदित्यभौमवर्जन्तु सर्व्वे वाराः शुभावहाः ॥
पूर्णिमाद्यष्टमीं यावत् पूर्ब्बास्यं वर्जयेद् गृहम् ।
उत्तरास्यं न कुर्व्वीत नवम्यादिचतुर्द्दशीम् ॥
अमावस्याष्टमीं यावत् पश्चिमास्यं विवर्जयेत् ।
नवम्यादि तथा याम्यां यावच्छुक्लचतुर्द्दशीम् ॥
वज्रव्याघातशून्ये च व्यतीपातातिगण्डयोः ।
विष्कुम्भगण्डयोश्चैव गृहारम्भं न कारयेत् ॥
आदित्यद्वयरोहिणी मृगशिरो ज्येष्ठा धनिष्ठो-
त्तरा
रेवत्याथ मघानुराधहरिभिः शुद्धैः स्वभावा-
दिभिः ।
सौम्यानां दिवसेऽथ गण्डरहिते योगे विरिक्ते
तिथौ
विष्टित्यक्तदिने वदन्ति मुनयो वेश्मादिकार्य्यं
शुभम् ॥
त्रिभिस्त्रिभिर्वेश्मनि कृत्तिकाद्यै-
रुच्छेषपुत्त्राप्तिधनानि शोकाः ।
शत्रोर्भयं राजभयञ्च मृत्युः
सुखं प्रवासश्च नव प्रभेदाः ॥
नाशं दिशन्ति मकरालिकुलीरलग्ने
मेषे घटे धनुषि कार्म्मसुदीर्घसूत्रम् ।
कन्याझसे मिथुनके ध्रुवमर्थलाभो
ज्योतिर्व्विदः कलससिंहवृषेषु वृद्धिम् ॥”
इति युक्तिकल्पतरुः ॥ * ॥
तत्र प्रवेशकालः ।
“ज्येष्ठापुनर्व्वसूवर्जं गृहारम्भोदितञ्च यत् ।
तत् सर्व्वं चिन्तयेद्वेश्मप्रवेशे दैवचिन्तकः ॥
हस्तापुष्यपुनर्व्वसूशतभिषाज्येष्ठास्वथो रोहिणी-
रेवत्युत्तरविष्णुवातशशभृन्मूलाधनिष्ठासु च ।
कन्याकुम्भवृषालिसिंहमिथुनस्वर्क्षोदयेऽर्के शुभे-
शुक्रेज्येन्दुजशीतरश्मिदिवसे वेश्मप्रवेशः शुभः ॥
कृत्वाग्रतो द्विजवरानथ पूर्णकुम्भं
दध्यक्षताम्रदलपुष्पफलोपशोभम् ।
दत्त्वा हिरण्यवसनञ्च तथा द्विजेभ्यो
माङ्गल्यशान्तिनिलयं निलयं विशेत्तु ॥”
इति समयप्रदीपः ॥ * ॥
(गृहकरणे समयशुद्धिरुक्ता विश्वकर्म्मप्रकाशे
द्वितीयाध्याये यथा, --
“चैत्रे व्याधिमवाप्नोति यो नवं कारयेद्गृहम् ।
वैशाखे धनरत्नानि ज्यैष्ठे मृत्युं तथैव च ॥
आषाढे भृत्यरत्नानि पशुवर्य्यमवाप्नुयात् ।
श्रावणे मित्रलाभन्तु हानिं भाद्रपदे तथा ॥
युद्धञ्चैवाश्विने मासि कार्त्तिके धनधान्यकम् ।
धनवृद्धिं मार्गशीर्ये पौषे तस्करतो भयम् ॥
पृष्ठ २/३५०
माधे चाग्निभयं विद्याल्लक्ष्मीवृद्धिञ्च फाल्गुने ॥”
गृहसंस्थापने मेषादिराशिगतशुभाशुभं यथा
तत्रैव, द्वितीयाध्याये ।
“गृहसंस्थापनं सूर्य्ये मेषस्थे शुभदं भवेत् ।
वृषस्थे धनवृद्धिः स्यान्मिथुने मरणं भवेत् ॥
कर्कटे शुभदं प्रोक्तं सिंहे भृत्यविवर्द्धनम् ।
कन्या रोगं तुला सौख्यं वृश्चिके धनधान्यकम् ॥
कार्म्मुके च महाहानिर्मकरे स्याद्धनागमः ।
कुम्भे तु रत्नलाभः स्यात् मीने स्वप्नभयावहम् ॥
चापमीननृयुक्कन्यामासा दोषवहाः स्मृताः ।
ज्यैष्ठोर्ज्जमाघसिंहाख्याः सौरमाने तु शोभनाः ॥
मासे तपस्ये तपसि माधवे नभसि त्विषे ।
ऊर्ज्जे च गृहनिर्म्माणं पुत्त्रपौत्त्रधनप्रदम् ॥
निषिद्धेष्वपि कालेषु स्वानुकृले शुभे दिने ।
तृणदारुगृहारम्भे मासदोषो न विद्यते ॥
पाषाणेष्टादिगेहानि निन्द्यमासे न कारयेत् ।
निन्द्यमासेऽपि चन्द्रस्य मासेन शुभदं गृहम् ॥
गोचराष्टकवर्गाभ्यां वामवेधं विचिन्तयेत् ।
दशा चान्तर्दशादीनां विचारश्चात्र कर्म्मणि ॥
गुरुशुक्रबले विप्रान् सूर्य्यभूमिजयोस्तथा ।
राशिसौम्यबले सौर-वर्णानुक्रमपूर्ब्बशः ॥
गृहारम्भं प्रकुर्व्वीत वर्णनाथबले सति ।
सर्व्वेषामपि वर्णानां सूर्य्यचन्द्रबलं स्मृतम् ॥”
गृहयोग्यभूमिपरीक्षा यथा तत्रैव, १ मे अध्याये ।
“अथातः संप्रवक्ष्यामि लोकानां हितकाम्यया ।
श्वेता रक्ता तथा पीता कृष्णा वर्णानुपूर्ब्बशः ॥
सुगन्धा ब्राह्मणी भूमी रक्तगन्धा तु क्षत्त्रिणी ।
मधुगन्धा भवेद्वैश्या मद्यगन्धा च शूद्रिणी ॥
मधुरा ब्राह्मणी भूमिः कषाया क्षत्त्रिया मता ।
अम्ला वैश्या भवेद्भूमिस्तिक्ता शूद्रा प्रकीर्त्तिता ॥”
अथ भूमिभेदे फलानि यथा तत्रैव ।
“सुवर्णगन्धा सुरसा धनधान्यसुखावहा ।
व्यत्यये व्यत्ययफला ह्यतः कार्य्यं परीक्षणम् ॥
चतुरस्रा महाधन्या द्विपाभा धनदायिनी ।
सिंहाभा सद्गुणान् पुत्त्रान् वृषाभा पशुवृद्धिदा ॥
वृत्ता सद्वृत्तदा भूमिर्भद्रपीठनिभा तथा ।
त्रिशूलरूपा वीराणामुत्पत्तिधनसौख्यदा ॥
लिङ्गाभा लिङ्गिनां श्रेष्ठा प्रासादध्वजसन्निभा ।
पदोन्नतिं प्रकुरुते कुम्भाभा धनवर्द्धिनी ॥
त्रिकोणशकटाकारा सूर्पव्यजनसन्निभा ।
क्रमेण सुखसौख्यार्थधर्म्महानिकरी स्मृता ॥
मुरजा वंशहा सर्पमण्डूकाभा भयावहा ।
नैःस्वा खरानुकारा च मृत्युदाऽजगरान्विता ॥
चिपिटा पौरुषैर्हीना मुरजाभा तथैव च ।
काकोलूकनिभास्तद्वत् दुःखशोकभयप्रदा ॥
सर्पाभा पुत्त्रपौत्त्रघ्नी वंशाभा वंशहानिदा ।
शूकरोष्ट्राजसदृशी धनुःपरशुरूपिणी ।
कुचित्तान् मलिनान् मूर्खान् ब्रह्मघ्नान् जनयेत्
सुतान् ॥
कृकलासशवाकारां मृतपुत्त्रधनार्त्तिदाम् ।
दुर्गभ्यां पापिनीं दुष्टप्रजां भूमिं परित्यजेत् ॥
मनोरमा सुतप्रदा दृढा धनप्रदा मता ।
सुतार्थदा तथाप्युदक् सुरेशदिक्प्लवा मही ॥”
अन्यद्विवरणन्तु तत्रैव विस्तरशो द्रष्टव्यम् ॥ * ॥
गृहकर्म्मणि वर्ज्यकाष्ठान्याह यथा, ज्योतिषतत्त्वे ।
“क्षीरिवृक्षोद्भवं दारु गृहेषु न निवेशयेत् ।
कृताधिवासं विहगैरनिलानलपीडितम् ॥
गजैर्विभग्नञ्च तथा विद्युन्निर्घातपीडितम् ।
चैत्यदेवालयोत्पन्नं वज्रभग्नं श्मशानजम् ॥
देवाद्यधिष्ठितं दारुनीपनिम्बविभीतकान् ।
कण्टकिनोऽसारतरून् वर्जयेद् गृहकर्म्मणि ॥
वटाश्वत्थौ च निर्गुण्डीं कोविदारांस्तथैव च ।
प्लक्षकं शाल्मलीञ्चैव पलाशञ्च विवर्जयेत् ॥” * ॥
गृह्यते निर्द्दिश्यतेऽनेन इति ।) नाम । (गृह्यते
स्वीक्रियते धर्म्माचरणायासौ इति ।) कलत्रम् ।
इति शब्दरत्नावली ॥ तथा च स्मृतिः ।
“न गृहं गृहमित्याहुर्गृहिणी गृहमुच्यते ।
तया हि सहितः सर्व्वान् पुरुषार्थान् समश्नुते ॥”

गृहकच्छपः, पुं, (गृहस्थितः कच्छप इव । हस्त-

पादादिरहितत्वादेवान्तर्निहितकरचरणकच्छप-
वत् प्रतीयमानत्वादस्य तथात्वम् ।) पेषणशिला ।
तत्पर्य्यायः । पेषणिः २ पेषणीपट्टः ३ गृहाश्मा ४ ।
इति शब्दरत्नावली ॥

गृहकन्या, स्त्री, (गृहस्थिता कन्येव । गृहपालित-

तया कन्याया इव रोगादिषु हितकारितया
चास्यास्तथात्वम् ।) घृतकुमारी । इति राज-
निर्घण्टः ॥ (अस्याः पर्य्याया यथा, --
“कुमारी गृहकन्या च कन्या घृतकुमारिका ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

गृहकपोतकः, पुं, (गृहस्थितः गृहपालितो वा

कपोतः । ततः स्वार्थे संज्ञायां वा कन् ।) पक्षि-
विशेषः । पायरा इति भाषा ॥ तत्पर्य्यायः ।
प्रासादकुक्कुटः २ झिल्लीकण्टः ३ पारावतः ४ ।
इति त्रिकाण्डशेषः ॥ (पारावतशब्दे विवृति-
रस्य ज्ञातव्या ॥)

गृहकर्त्ता, पुं, (गृहं वासार्थं तृणादिरचितवेश्म

करोतीति । गृह + कृ + तृच् ।) धूसरोऽति-
सूक्ष्मश्चटकः । तत्पर्य्यायः । धान्यभक्षणः २
क्षमः ३ भीरुः ४ कृषिद्विष्टः ५ कणप्रियः ६ ।
इति राजनिर्घण्टः ॥ (गृहकारके, त्रि ॥)

गृहकारकः, पुं, (गृहं करोतीति । गृह + कृ +

ण्वुल् ।) वर्णसङ्करजातिविशेषः । घरामी इति
भाषा ॥ यथा, पराशरपद्धतौ ।
“प्रतिमाघटकादेव कन्यायां नापितस्य च ।
सूत्रकारस्य सम्भूतिः सोपानगृहकारकः ॥”

गृहकारी, [न्] (गृहं करोतीति । गृह + कृ +

णिनिः ।) कीटविशेषः । कुमिरपोका इति
भाषा ॥ इति केचित् ॥ (यथा, मनुः । १२ । ६६ ।
“वको भवति हृत्वाग्निं गृहकारी ह्युपस्करम् ॥”)

गृहगोधा, स्त्री, (गृहे गृहस्थिता गोधेव ।) ज्येष्ठी ।

जेठी टिक्टिकी इति च भाषा ॥ तत्पर्य्यायः ।
पल्ली २ मुषली ३ विशम्बरा ४ ज्येष्ठा ५ कुड्य-
मत्स्यः ६ पल्लिका ७ गृहगोधिका ८ । इति
राजनिर्घण्ठः ॥ गृहगोलिका ९ माणिक्या १०
भित्तिका ११ गृहालिका १२ । इति हेम-
चन्द्रः । ४ । ३६३ ॥

गृहगोधिका, स्त्री, (क्षुद्रा गोधा अल्पार्थे कः । कापि

अत इत्वं टाप् च । गृहस्य गोधिका गोधिरेव ।)
ज्येष्ठी । इत्यमरः । २ । ५ । १२ ॥ (यथा,
बृंहत्संहितायाम् । ८६ । ३७ ।
“शिवा श्यामा रला छुच्छुः पिङ्गला गृहगोधिका ।
शूकरी परपुष्टा च पुन्नामानश्च वामतः ॥”
यथा च सुश्रुते कल्पस्थाने तृतीयेऽध्याये ।
“मार्ज्जारश्ववानरमकरमण्डूकपाकमत्स्यगोधा-
शम्बूकप्रचलाकगृहगोधिकाचतुष्पादकीटा-
स्तथान्ये दंष्ट्रा नखविषाः ॥”)

गृहगोलिका, स्त्री, (गृहे गृहस्था वा गोधिकेव ।

निपातनात् साधुः ।) ज्येष्ठी । इति हेमचन्द्रः ।
४ । ३५३ ॥

गृहणी, स्त्री, (गृहे नीयते क्रियते इति । नी + क्विप् ।

संज्ञायां णत्वम् ।) काञ्जिकम् । इति त्रिकाण्ड-
शेषः ॥ (विवरणमस्याः काञ्जिकशब्दे ज्ञेयम् ॥)

गृहतटी, स्त्री, (गृहस्य गृहे वा गृहमाश्रित्येत्यर्थः

तटीव ।) वीथी । इति हारावली । १५२ ॥
पिँडा दाओया इति च भाषा ॥

गृहद्रुमः, पुं, (गृहमिव द्रुमः ।) मेढशृङ्गीवृक्षः ।

इति रत्नमाला ॥

गृहनाशनः, पुं, (गृहं नाशयति प्रवेशेन इति ।

नश् + णिच् + ल्यु ।) कपोतः । इति राज-
निर्घण्टः ॥ (कपोतोऽत्र वनकपोतः वनकपोतस्य
प्रवेशेनैव गृहनाशित्वात् । घुघु इति यस्य भाषा ॥)

गृहनीडः, पुं, (गृहे नीडं कुलायोऽस्य ।) चटकः ।

इति हारावली । ८९ ॥

गृहपतिः, पुं, (गृहस्य पतिः ।) गृहस्थः । (यथा,

अथर्व्ववेदे । १४ । १ । ५१ ।
“भर्गस्त हस्तमग्रहीत् सविता हस्तमग्रहीत् ।
पत्नीत्वमसि धर्म्मेणाहं गृहपतिस्तव ॥”)
सत्री । इति मेदिनी । ते । १९५ ॥ धर्म्मः । इति
शब्दरत्नावली ॥ (अग्निः । यथा, ऋग्वेदे । १ ।
१२ । ६ ।
“अग्निनाग्निः समिध्यते कविर्गृहपतिर्युवा ॥”)
स्त्री, गृहस्य पतिः “विभाषा सपूर्ब्बस्य ।” ४ । १
३४ । इति वा नान्तादेशे गृहपत्नी गृहपतिरिति
रूपद्वयम् । गृहस्वामिनी ॥)

गृहपोतकः, पुं, (गृहं पोतः शिशुरिव यस्य इति

कप् ।) वास्तुः । वाटी । इति शब्दरत्नावली ॥

गृहबलिप्रियः, पुं, (गृहबलिः प्रियोऽस्य । गृह-

बलीनां प्रिय इत्येके ।) वकपक्षी । इति शब्द-
रत्नावली ॥ (काकादयोऽपि ॥)

गृहबलिभुक्, [ज्] पुं, (गृहे दत्तं बलिं अन्नादि-

भक्ष्यद्रव्यं भुङ्क्ते इति । भुज् + क्विप् ।) चटकः ।
इति हेमचन्द्रः । ४ । ३९३ ॥ वकः । काकः ।
इति केचित् ॥

गृहभूमिः, स्त्री, (गृहयोग्या भूमिः ।) वास्तुः ।

वेश्मभूः । इति हलायुधः ॥ (अस्याः लक्षणा-
दिकं गृहशब्दे द्रष्टव्यम् ॥)
पृष्ठ २/३५१

गृहमणिः, पुं, (गृहे मणिरिव ।) प्रदीपः । इति

हेमचन्द्रः । ३ । ३५१ ॥

गृहमाचिका, स्त्री, (गृहे मचते शठति गुप्तभावेन

तिष्ठतीति । मच् + “ण्वुल् तृचौ” । ३ । १ । १३३ ।
इति ण्वुल् । ततष्टाप् । कापि अत इत्वञ्च ।)
चर्म्मचटी । इति त्रिकाण्डशेषः ॥ चामचिका
इति भाषा ॥

गृहमृगः, पुं, (गृहे मृग इव । यद्वा, गृहस्थितो

मृगः पशुः ।) कुक्कुरः । इति हेमचन्द्रः । ४ । ३४५ ॥

गृहमेधी, [न्] पुं, (गृहैर्दारैर्मेधते सङ्गच्छते

इति । गृह + मेधृ सङ्गमे + “सुप्यजाताविति ।”
३ । २ । ७८ । इति णिनिः ।) गृहस्थः ।
इति हेमचन्द्रः । ३ । ४७२ ॥ (यथा, मनुः ।
४ । ३१ ।
“वेदविद्याव्रतस्नातान् श्रोत्रियान् गृहमेधिनः ।
पूजयेद्धव्यकव्येन विपरीतांश्च वर्ज्जयेत् ॥”)

गृहमेधिनी, स्त्री (गृहं मेधते पुनाति शास्त्रोक्तदान-

दयादाक्षिण्यादिना सङ्गच्छते इत्यर्थः । गृह + मेध
+ णिनिः । ततो ङीप् ।) सात्विकी बुद्धिः । इति
महाभारतम् ॥ (गृहमेधिन् + स्त्रियां ङीप् ।)
गृहस्थपत्नीच ॥

गृहयाय्यः, पुं, (गृह ग्रहणे । गृहयते इति । गृह +

“श्रुदक्षिस्पृहिगृहिभ्य आय्यः ।” उणां । ३ ।
९६ । इति आय्यः । ततः “अयामन्तेति ।” ६ । ४ ।
५५ । इति णेरयादेशः ।) गृहस्थः । इत्युणादि-
कोषः ॥

गृहयालुः, पुं, (गृहयते गृह्णातीति । गृह + “स्पृहि-

गृहिपतिदयिनिद्रातन्त्राश्रद्धाभ्य आलुच् ।” ३ ।
२ । १५८ । इति आलुच् । “अयामन्तेति ।”
६ । ४ । ५५ । इति णेरयादेशः ।) गृहीता ।
ग्रहणशीलः । इत्यमरः । ३ । १ । २७ ॥

गृहवाटिका, स्त्री, (गृहसमीपस्था वाटिका

आरामः ।) गृहसमीपवनम् । इति हारा-
वली । १६८ ॥

गृहस्थः, पुं, (“न गृहं गृहमित्याहुर्गृहिणी गृह-

मुच्यते ।” अतएव गृहेषु दारेषु तिष्ठति अभि-
रमते इति । गृह + स्था + “सुपि स्थः ।” ३ । २ । ४ ।
इति कः ।) गृही । द्वितीयाश्रमी । तत्पर्य्यायः ।
ज्येष्ठाश्रमी २ गृहमेधी ३ स्नातकः ४ गृही ५ ।
इति हेमचन्द्रः । ३ । ४७१ ॥ गृहपतिः ६
सत्री ७ । इत्यमरः । २ । ८ । १५ ॥ गृहयाय्यः ८ ।
इति सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥ गृहा-
धिपः ९ । इति हलायुधः ॥ कुटुम्बी १० । इति
जटाधरः ॥ गृहायनिकः ११ । इति शब्दरत्ना-
वली ॥ * ॥ तस्य धर्म्मो यथा, --
“गृहस्थो ब्रह्यचारी च वानप्रस्थोऽथ भिक्षुकः ।
चत्वार आश्रमाः प्रोक्ताः सर्व्वे गार्हस्थ्यमूलकाः ॥
यः कश्चिदिह लोकेऽस्मिन्नागमः संप्रकीर्त्तितः ।
तस्यात्र गमनं श्रेयः कीर्त्तिरेषा सनातनी ॥
संस्कारैः संस्कृतः पूर्ब्बं यथावच्चरितव्रतः ।
जातौ गुणविशिष्टायां समावर्त्तेत वेदवित् ॥
स्वदारनिरतो नित्यं शिष्टाचारो जितेन्द्रियः ।
पञ्चभिञ्च महायज्ञैः श्रद्दधानो यजेदिह ॥
देवतातिथिशिष्टाशी निरतो वेदकर्म्मसु ।
इज्याप्रदानयुक्तश्च यथाशक्ति यथाविधि ॥
न पाणिपादचपलो न नेत्रचपलो मुनिः ।
न च वागङ्गचपल इति शिष्टस्य गोचरः ॥
नित्यं यज्ञोपवीती स्यात् शुक्लवासाः शुचिव्रतः ।
नियतो दमदानाभ्यां सदा शिष्टैश्च संविशेत् ॥
जितशिश्नोदरो मैत्रः शिष्टाचारसमन्वितः ।
वैणवीं धारयेद्यष्टिं सोदकञ्च कमण्डलुम् ॥
अधीत्याध्यापनं कुर्य्यात् तथा यजनयाजने ।
दानं प्रतिग्रहञ्चापि षड्गुणां वृत्तिमाचरेत् ॥
त्रीणि कर्म्माणि यानीह ब्राह्मणानान्तु जीविका ।
याजनाध्यापने चोभे शुद्धाच्चापि प्रतिग्रहः ॥
अथ शेषाणि चान्यानि त्रीणि कर्म्माणि यानि तु ।
दानमध्ययनं यज्ञो धर्म्मयुक्तानि तानि तु ॥
तेध्वप्रमादं कुर्व्वीत त्रिषु कर्म्मसु धर्म्मवित् ।
दान्तो मैत्रः क्षमायुक्तः सर्व्वभूतसमो मुनिः ॥
सर्व्वमेतद् यथाशक्ति विप्रो निर्व्वर्त्तयन् शुचिः ।
एवं युक्तो जयेत् स्वर्गं गृहस्थः संशितव्रतः ॥”
इत्थाश्वमेधिकपर्व्व ॥
“सर्व्वेषामाश्रमाणान्तु द्वैविध्यन्तु चतुर्व्विधम् ।
ब्रह्मचार्य्युपकुर्व्वाणो नैष्ठिको ब्रह्मतत्परः ॥
योऽधीत्य विधिवद्वेदान् गृहस्थाश्रममाव्रजेत् ।
उपकुर्व्वाणको ज्ञेयो नैष्ठिको मरणान्तिकः ॥
अग्नयोऽतिथिश्रुश्रूषा यज्ञो दानं सुरार्च्चनम् ।
गृहस्थस्य समासेन धर्म्मोऽयं द्विजसत्तमाः ॥
उदासीनः साधकश्च गृहस्थो द्विविधो भवेत् ।
कुटुम्बभरणे युक्तः साधकोऽसौ गृही भवेत् ॥
ऋणानि त्रीण्युपाकृत्य त्यक्त्वा भार्य्याधनादिकम् ।
एकाकी विचरेद् यस्तु उदासीनः स मौक्षिकः ॥”
इति गारुडे ४९ अध्यायः ॥
बाहुल्यन्तु तत्रैव । ५० । ५१ । अध्याययोर्द्रष्टव्यम् ॥ * ॥
गृहस्थब्राह्मणधर्म्मो यथा, --
“चतुर्थमायुषो भागमुषित्वाद्यं गुरौ द्विजः ।
द्वितीयमायुषो भागं कृतदारो गृहे वसेत् ॥
अद्रोहेणैव भूतानामल्पद्रोहेण वा पुनः ।
या वृत्तिस्तां समास्थाय विप्रो जीवेदनापदि ॥
यात्रामात्रप्रसिद्ध्यर्थं स्वैः कर्म्मभिरगर्हितैः ।
अक्लेशेन शरीरस्य कुर्व्वीत धनसञ्चयम् ॥
ऋतामृताभ्याञ्जीवेत्तु मृतेन प्रमृतेन वा ।
सत्यानृताभ्यामपि वा न श्ववृत्त्या कदाचन ॥
ऋतमुञ्छशिलं ज्ञेयममृतं स्यादयाचितम् ।
मृतन्तु याचितं भैक्षं प्रमृतं कर्षणं स्मृतम् ॥
सत्यानृतन्तु वाणिज्यं तेन चैवापि जीव्यते ।
सेवा श्ववृत्तिराख्याता तस्मात्तां परिवर्ज्जयेत् ॥”
इत्यादि मानवे ४ अध्यायः ॥

गृहस्थूणं, क्ली, (गृहस्य गृहावलम्बनार्था स्थूणा ।

अभिधानात् क्लीवत्वम् ।) गृहस्तम्भः । इत्य-
मरः । ३ । ५ । ३० ॥

गृहाः, पुं, (गृह्णन्ति ध्यानादिकं इति । ग्रह् + “गेहे

कः ।” ३ । १ । १४४ । इति कः ।) गृहम् । (यथा,
मनुः । ४ । २५० ।
“शय्यां गृहान् कुशान् गन्धानपः पुष्पं मणीन् दधि ।
धाना मत्स्यान् पयो मांसं शाकञ्चैव न निर्णुदेत् ॥”
गृह्यन्ते धर्म्माचरणाय इति । ग्रह + कः ।)
दाराः । इत्यमरः । २ । २ । ५ ॥ नित्यबहुवच-
नान्तोऽयं शब्दः ॥

गृहागतः, पुं, (गृहमागतः । आ + गम् + कर्त्तरि

क्तः ।) अतिथिः । इत्यमरः । २ । ७ । ३४ ॥
(गृहमागते, त्रि । यथा, हितोपदेशे ।
“नाहं गृहागतं हन्मि ॥”)

गृहाधिपः, पुं, (गृहस्य अधिपः ।) गृहस्थः ।

इति हलायुधः ॥

गृहाम्लं, क्ली, (गृहे पर्य्युषितान्नादिना प्रस्तुतीकृत-

मम्लम् ।) काञ्जिकम् । इति त्रिकाण्डशेषः ॥

गृहायनिकः, पुं, (गृहरूपमयनं विद्यतेऽस्य इति

ठन् ।) गृहस्थः । इति शब्दरत्नावली ॥

गृहारामः, पुं, (गृहस्य गृहे गृहसमीपस्थो वा

आरामः ।) गृहसमीपे कृत्रिमवनम् । तत्-
पर्य्यायः । निष्कुटः २ । इत्यमरः । २ । ४ । १ ॥

गृहालिका, स्त्री, (गृहे आलिरिव कायते प्रका-

शते इति । गृहालि + कै + कः । ततष्टाप् ।)
ज्येष्ठी । इति हारावली । १८४ ॥

गृहावग्रहणी, स्त्री, (गृहमवगृह्यतेऽनया इति ।

अव + ग्रह् + करणे ल्युट् । ततो ङीप् ।) देहली ।
इत्यमरः । २ । २ । १३ । हातिना दाओया
इति च भाषा ॥

गृहाशया, स्त्री, (गृहे इव छायायुक्तस्थाने आशेते

इति । आ + शी + अच् । ततः स्त्रियां टाप् ।)
ताम्बूली । इति शब्दचन्द्रिका ॥ पानेर गाछ
इति भाषा ॥

गृहाश्मा, [न्] पुं, (गृहरक्षितोऽश्मा अश्म-

निर्म्मितपेषणशिलाविशेषः ।) पेषणशिला । इति
शब्दरत्नावली । शिल इति भाषा ॥

गृहिणी, स्त्री, (गृहस्वामित्वमस्त्यस्याः । इति

इनिः ङीप् च ।) भार्य्या । इति हेमचन्द्रः ।
३ । १७६ । (यथा, रघौ । ८ । ६७ ।
“गृहिणी सचिवः सखी मिथः
प्रियशिष्या ललिते कलाविधौ ।
करुणाविमुखेन मृत्युना-
हरता त्वां वद किं न मे हृतम् ॥”
गृहं गृहकार्य्यं साध्यतयाऽस्त्यस्या इति इनिः
ङीप् च । गृहकर्म्मकुशला स्त्री । यथा, शकु-
न्तलायां चतुर्थाङ्के ।
“शुश्रूषस्व गुरून् कुरु प्रियसखीवृत्तिं सपत्नीजने
भर्त्तुर्विप्रकृतापि रोषणतया मास्म प्रतीपं गमः ।
भूयिष्ठं भव दक्षिणा परिजने भोगेष्वनुत्सेकिनी
यान्त्येवं गृहिणीपदं युवतयो वामाः कुलस्या
धयः ॥)

गृही, [न्] पुं, (गृहा दारा विद्यन्तेऽस्य इति इनिः ।)

गृहस्थः । इत्यमरः । २ । ७ । ३ ॥ भर्त्ता । इति
राजनिर्घण्टः ॥ (यथा भागवते । ३ । ३० । ९ ।
“गृहेषु कूटधर्म्मेषु दुःखतन्त्रेष्वतन्द्रितः ।
कुर्व्वन् दुःखप्रतीकारं सुखवन्मन्यते गृही ॥”)
पृष्ठ २/३५२

गृहीतं, त्रि, (ग्रह + कर्म्मणि क्तः ।) स्वीकृतम् ।

प्राप्तम् । ज्ञातम् । धृतम् । यथा, हितोपदेशे । १ । ३ ।
“अजरामरवत् प्राज्ञो विद्यामर्थञ्च चिन्तयेत् ।
गृहीत इव केषेषु मृत्युना धर्म्ममाचरेत् ॥”

गृहीतदिक्, [श्] त्रि, (गृहीता आश्रिता दिक्

हन्तुः प्रहर्त्तुर्वा भयाद्येन ।) पलायितः । तिरो-
हितः । इति हेमचन्द्रः । ३ । ४६९ ॥

गृहोलिका, स्त्री, (गृहे वलते चलतीति । गृह + वल

+ कुन् । बाहुलकात् सम्प्रसारणम् । तेन वस्य
उत्वम् ।) ज्येष्ठी । इति हेमचन्द्रः । ४ । ६८ ॥

गृह्यं, क्ली, (गृह्यते आक्रम्यते अर्श-आदिभी रोगै-

रिति । ग्रह + “पदास्वैरिवाह्यापक्षेषु च ।”
३ । १ । ११९ । इति क्यप् ।) गुदम् । (गृह्यन्ते
संगृह्यन्ते सामवेदाद्युक्तानि कर्म्मविधानान्यत्र
इति । ग्रह + क्यप् ।) कात्यायनग भिलादिकृत-
सूत्रग्रन्थभेदः । इति मेदिनी । रे । १९ ॥ तत्र तु
गोभिलादिकृतसामवेदाद्यक्तकर्म्मकाण्डनिर्णयः ॥

गृह्यः, पुं, (गृह्यते मानवेनेति । ग्रह + “पदास्वैरि-

वाह्यापक्ष्येषु च” । ३ । १ । ११९ । इति क्यप् ।
पञ्जरादिबन्धनेन परस्वीकृतत्वादस्य तथात्वम् ।)
गृहासक्तमृगादिः । इति मेदिनी । वे । १८ ॥
(अग्निः । यथा, मनौ । ३ । ८४ ।
“वैश्वदेवस्य सिद्धस्य गृह्येऽग्नौ विधिपूर्ब्बकम् ।
आभ्यः कुर्य्याद्देवताभ्यो ब्राह्मणो होममन्व-
हम् ॥”)

गृह्यः, त्रि, (गृह्यते स्वाम्यादिभिरिति । ग्रह + क्यप् ।)

अस्वैरी । अस्वतन्त्रः । पक्षः । इति विश्व-
मेदिन्यौ ॥ (यथा, भारविः । २ । ५ ।
“ननु वक्तृविशेषनिस्पृहा
गुणगृह्या वचने विपश्चितः ॥”
गृहे भव इति यत् । गृहोत्पन्नवस्तु ॥)

गृह्यकः, त्रि, (गृह्य + स्वार्थे अनुकम्पायां वा कन् ।)

अस्वतन्त्रः । पराधीनः । इत्यमरः । ३ । १ । १६ ॥

गृह्यकः, पुं, (गृह्य + स्वार्थे अनुकम्पायां वा कन् ।)

गृहासक्तपक्षिमृगादिः । तत्पर्य्यायः । छेकः २ ।
इत्यमरः । २ । ६ । ४३ ॥

गृह्या, स्त्री, (गृह्यते नृपेणेति । ग्रह् + क्यप् + टाप् ।)

शाखापुरम् । नगरनिकटस्थग्रामः । इत्यमरः ॥

गॄ, क ङ विज्ञापे । विज्ञाने । इति कविकल्पद्रुमः ॥

(चुरां-आत्मं-सकं-सेट् ।) विज्ञापो विज्ञापनम् ।
क ङ, गारयते सूक्ष्ममर्थं सुधीः । इति दुर्गा-
दासः ॥

गॄ, गि शब्दे । इति कविकल्पद्रुमः ॥ (क्य्रां-परं-

सकं-सेट् ।) शब्द इह व्यक्तवाक्यम् । गि, गॄणाति
वाक्यं लोकः । गीर्णः गीर्णिः । इति दुर्गादासः ॥

गॄ, श निगरणे । इति कविकल्पद्रुमः ॥ (तुदां-परं-

सकं-सेट् ।) निगरणं भक्षणम् । श, गिरत्यन्नं
लोकः । दैवात्ततो विगलितो गिलितो वकेन
इति तु अस्मात् कृद्धोः कभावे इति भावे
कप्रत्यये ऋदिरणाविति इरि वक्तव्याद्रेफस्य
लकारे गिल इति स्थिते लेः कृत्याख्याने इति ञौ
कर्म्मणि क्ते, सिद्धम् । इति दुर्गादासः ॥

गेण्डुः, पुं, (गच्छतीति । गम् + डः । गो गन्ता । ग

इन्दुरिवेति गेन्दुः पृषोदरादित्वात् दस्य डत्वे
साधुः ।) गेण्डुकः । इति भरतो द्विरूपकोषश्च ॥
(गेन्दुरपि च दृश्यते ॥)

गेण्डुकः, पुं, (ग इन्दुरिवेत्यतः इवे प्रतिकृताविति-

कन् । अत्र गेन्दुकोऽपि पाठः ।) कन्दुकः ।
इत्यमरः । २ । ७ । १३८ ॥ गेँडु इति गेँद ।
इति च भाषा ॥

गेण्डूकः, पुं, (गेण्डुकः ततः पृषोदरादित्वात् दीर्घः ।

अत्र गेन्दूकोपि पाठः ।) गेण्डुकः । इति जटा
धरः ॥

गेद, ऋ ङ उ गतौ । चाले । इति कविकल्प-

द्रुमः ॥ (भ्वां-आत्मं-सकं-सेट् ॥)

गेप, ङ ऋ गतिचालयोः । (भ्वां-आत्मं-सकं-सेट् ।)

ङ, गेपते । ऋ, अजिगेपत् । इति दुर्गादासः ॥

गेयं, क्ली, (गै + “अचो यत् ।” ३ । १ । ९७ । इति

यत् । “ईद्यति ।” ६ । ४ । ६५ । इति आत
ईत्वम् । ततो गुणश्च । गीतम् । इति मेदिनी ।
गे । २० ॥ (यथा, माघे । २ । ७२ ।
“वर्णैः कतिपयैरेव ग्रथितस्य स्वरैरिव ।
अनन्ता वाङ्मस्याहो गेयस्येव विचित्रता ॥”)

गेयः, त्रि, (गै + यत् । तत आत ईत्वम् ।) गातव्यः ।

गायनः । इति मेदिनी । गे । २० ॥ (यथा हरि-
वंशे हरिवंशपर्व्वणि । ५० । ४१ ।
“इमे त्वां मुनयः सप्त सहिता मुनिमण्डलैः ।
स्तुवन्ति देवदिव्याभिर्गेयाभिर्गीर्भिरञ्जसा ॥”)

गेव, ऋ ङ सेवने । इति कविकल्पद्रुमः ॥ (भ्वां-

आत्मं-सकं-सेट् ।) ऋ, अजिगेवत् । ङ, गेवते ।
इति दुर्गादासः ॥

गेष, ऋ ङ अन्वेषे । इति कविकल्पद्रुमः ॥ (भ्वां-

आत्मं-सकं-सेट् ।) ऋ, अजिगेषत् । ङ, गेषते ।
जिगेषे । अन्वेषोऽनुसन्धानम् । इति दुर्गादासः ॥

गेष्णः, पुं, (गायतीति । गै + “इष्णो गादाभ्यां

किद्वा ।” इत्युणादिकोषटीकाकारसूत्रात् इष्णः ।)
रङ्गोपजीवी । सामगानकर्त्ता । इत्युणादिकोषः ॥

गेष्णुः, पुं, (गायतीति । गै गाने + “गादाभ्या-

मिष्णुच् ।” उणां । ३ । १६ । इति इष्णुच् ।)
गायनः । नटः । इति मेदिनी । णे । ११ ॥
सामगानकर्त्ता च ॥

गेहं, क्ली, (गो गन्धर्व्वो गणेशश्च । गेन गन्धर्व्वण

गणेशेन वा ईह्यते काम्यते इति । ग + ईह +
कर्म्मणि घञ् । यद्वा, गो गन्धर्व्वो गणेशो वा
ईहः ईप्सितो यस्मिन् ।) गृहम् । इत्यमरः ।
२ । २ । ४ ॥ (यथा, हितोपदेशे ।
“तृणानि भूमिरुदकं वाक् चतुर्थी च सूनृता ।
एतान्यपि सतां गेहे नोच्छिद्यन्ते कदाचन ॥”)

गेही, [न्] त्रि, (गेहमस्त्यस्येति । गेह + इनिः ।)

गृही ॥ (स्त्रियां ङीप् । गृहिणी । यथा, आर्य्या-
सप्तसती । १९९ ।
“गेहिण्याः शृण्वन्ती गोत्रस्खलितापराधतोमानम् ॥”)

गेहेनर्द्दी, [न्] पुं, (गेहे नर्द्दति गर्ज्जतीति ।

गेह + नर्द्द + णिनिः अलुक् समासः । अस्य गृह
एव गर्ज्जनं नान्यत्र अतस्तथात्वम् ।) कापुरुषः ।
तत्पर्य्यायः । गेहेशूरः २ पिण्डीशूरः ३ ।
इति हेमचन्द्रः । ३ । १४१ ॥

गेहेशूरः, पुं, (गेहे एव शूरः । अलुक् समासः ।

अन्यत्र शूरत्वाभावादस्य तथात्वम् ।) गृहेनर्द्दी ।
इति हेमचन्द्रः । ३ । १४१ ॥

गै, गाने । इति कविकल्पद्रुमः ॥ (भ्वां-परं-सकं-

अनिट् ।) गीतं गायति गायनः । इति दुर्गा-
दासः ॥

गैरिकं, क्ली, (गिरौं भवमिति अध्यात्मादित्वात्

ढञ् ।) स्वर्णम् । रक्तवर्णधातुविशेषः । गिरि-
माटी इति भाषा ॥ तत्पर्य्यायः । रक्तधातुः २
गिरिधातुः ३ गवेधुकम् ४ धातुः ५ सुरङ्ग-
धातुः ६ गिरिमृद्भवम् ७ । इति राजनिर्घण्टः ॥
वनालक्तम् ८ गवेरुकम् ९ प्रत्यश्मा १० गिरि-
मृत् ११ । इति त्रिकाण्डशेषः ॥ लोहित-
मृत्तिका १२ गिरिजम् १३ ॥ पीतगैरिकस्य
पर्य्यायः । सुवर्णगैरिकम् १ सुवर्णम् २ स्वर्ण-
गैरिकम् ३ । इति रत्नमाला ॥ स्वर्णधातुः ४ सुर-
क्तकः ५ सन्ध्याभ्रम् ६ वभ्रुधातुः ७ शिला-
धातुः ८ । अनयोर्गुणाः । मधुरत्वम् । शीत-
त्वम् । कषायत्वम् । व्रणरोपणत्वम् । विस्फोटा-
र्शोऽग्निदाहनाशित्वम् । स्वर्णवर्णादिकं शुभम् ।
इति राजनिर्घण्टः ॥ निर्म्मलत्वम् । स्निग्धत्वम् ।
सुवर्णगैरिकं तद्वत् विशेषतश्चक्षुस्तेजस्कारित्वम् ।
इति राजवल्लभः ॥
“गैरिकं रक्तधातुश्च गैरेयं गिरिजन्तथा ।
सुवर्णगैरिकन्त्वन्यत्ततो रक्ततरं हि तत् ॥
गैरिकद्वितयं स्निग्धं मधुरन्तुवरं हिमम् ।
चक्षुष्यं दाहपित्तास्रकफहिक्काविषापहम् ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

गैरिकाक्षः, पुं, (गैरिकमिव रक्तवर्णमक्षि पुष्प-

रूपनयनं यस्य ।) जलमधूकवृक्षः । इति राज-
निर्घण्टः ॥

गैरी, स्त्री, (गिरौ भवः । गिरि + अण् । गौरादि-

त्वाद् ङीष् ।) लाङ्गलिकीवृक्षः । इति रत्नमाला ॥
(लाङ्गलिकीशब्देऽस्या गुणादयो ज्ञातव्याः ॥)
विषलाङ्गला इति भाषा ॥

गैरेयं, क्ली, (गिरौ भवमिति । गिरि + ढक् ।)

शिलाजतु । इत्यमरः । २ । ९ । १०४ ॥ (यथास्य
पर्य्यायाः ।
“शिलाजत्वद्रिजतु च शैलनिर्य्यास इत्यपि ।
गैरयमश्मजञ्चापि गिरिजं शैलधातुजम् ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥
गुणास्तु शिलाजतुशब्दे ज्ञेयाः ॥) गिरिजाते त्रि ॥

गोकण्टकः, पुं, (गोः पृथिआः कण्टक इव ।)

गोक्षुरकवृक्षः । (अस्य पर्य्याया यथा, --
“गोक्षुरः क्षुरकोऽपि स्यात् त्रिकण्टः स्वादु-
कण्टकः ।
गोकण्टको गोक्षुरको वनशृङ्गाट इत्यपि ॥
पलङ्कषा श्वदंष्ट्रा च तथा स्यादिक्षुगन्धिका ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
पृष्ठ २/३५३
स्थपुटः । गवां खुरम् । इति विश्वमेदिन्यौ ॥
गोखुरैः स्थपुटीकृतः । इति हेमचन्द्रः ॥ विक-
ण्टकवृक्षः । इति राजनिर्घण्टः ॥

गोकर्णः, पुं, (गोः कर्ण इव । तत्तुल्यपरिमाण-

वत्त्वादस्य तथात्वम् ।) परिमाणविशेषः स तु
अनामिकायुक्तविस्तृताङ्गुष्ठम् । (गोः कर्णाविव
कर्णौ यस्य ।) मृगभेदः । इत्यमरः । २ । ५ । १० ॥
(यथा च अनर्धराघवे । २ । २३ ।
“मुनिविनियोगविलूनप्ररूढमृदुशाद्बलानि
बर्हींषि ।
गोकर्णतर्णकोऽयं तर्णोत्युपकण्टकच्छेषु ॥”
अस्य मांसगुणा यथा, --
“गोकर्णमांसं मधुरं स्निग्धं मृदु कफापहम् ।
विपाके मधुरञ्चापि रक्तपित्तविनाशनम् ॥”
इति सुश्रुते सूत्रस्थाने ६४ अध्यायः ॥)
अश्वतरः । (गौश्चक्षुरेव कर्णो यस्य ।) सर्पभेदः ।
(गोरिव कर्णौ यस्य ।) गणदेवताविशेषः ।
इति मेदिनी । णे । ४६ ॥ तीर्थविशेषः । यथा,
भागवते ।
“ततोऽभिव्रज्य भगवान् केरलांस्तु त्रिगर्त्तकान् ।
गोकर्णाख्यं शिवक्षेत्रं सान्निध्यं यत्र धूर्जटेः ॥”
(पीठस्थानम् । यथा, देवीभागवते । ७ । ३० । ६० ।
“केदारपीठे सम्प्रोक्ता देवीसन्मार्गदायिनी ।
मन्दा हिमवतः पृष्ठे गोकर्णे भद्रकर्णिका ॥”)

गोकर्णी, स्त्री, (गोः कर्ण इव पत्रमस्याः । “पाक-

कर्णपर्णपुष्पफलमूलवालोत्तरपदाच्च ।” ४ । १ ।
६४ । इति ङीष् ।) मूर्व्वालता । इत्यमरः ।
२ । ४ । ८४ ॥ (विवृतिरस्या मूर्व्वाशब्दे ज्ञातव्या ॥)

गोकिराटिका, स्त्री, (गांवाचं किरति रटतीत्यर्थः ।

कॄ + “इगुपधज्ञाप्रीकिरः कः ।” ३ । १ । १३५ ।
इति कः । ततष्टाप् गोकिरा । तथा सती
अटतीति । अट् + ण्वुल् । ततष्टाप् अत इत्वञ्च ।)
सारिकापक्षी । इति हेमचन्द्रः ॥

गोकिराटी, स्त्री, (गोकिरा वाचं रटन्ती सती

अटतीति । अट गतौ + “कर्म्मण्यण् ।” ३ । २ । १ ।
इत्यण् । गौरादित्वात् ङीष् ।) सारिकापक्षी ।
इति राजनिर्घण्टः ॥

गोकिलः, पुं, (गोः पृथिव्याः कील इव । निपा-

तनात् ह्रस्वः ।) मुषलम् । हलम् । इति
हेमचन्द्रः ॥

गोकीलः, पुं, (गोः पृथिव्याः कील इव ।) मुषलम् ।

हलम् । इति हारावली ॥ २५५ ॥

गोकुलं, क्ली, (गोः कुलम् ।) गोसमूहः । तत्-

पर्य्यायः । गोधनम् २ गवांव्रजः ३ । इत्यमरः ।
२ । ९ । ५८ ॥ (यथा, रामायणे । २ । ६ । १७ ।
“गोकुलाकुलतीरायाः तमसाया विदूरतः ।
अवसत् तत्र तां रात्रिं रामः प्रकृतिभिः सह ॥”)
गोस्थानम् । यथा, तिथ्यादितत्त्वे ।
“गोकुले कन्दुशालायां तैलयन्त्रेक्षुयन्त्रयोः ।
अमीमांस्यानि शौचानि स्त्रीषु बालातुरेषु च ॥”
मथुरैकदेशे श्रीनन्दस्य वासस्थानम् । यथा, --
“कालेन व्रजता तात ! गोकुले रामकेशवौ ।
जानुभ्यां सह पाणिभ्यां रिङ्गमाणौ विजह्रतुः ॥”
इति श्रीभागवतम् ॥
(अत्र प्रदेशे महादेवो गोपीश्वर इत्याख्यया
प्रसिद्धो विराजते । यदुक्तं महालिङ्गेश्वरतन्त्रे
शिवशतनामस्तोत्रे, --
“गोकुले गीपिनीपूज्यो गोपीश्वर इतीरितः ॥”
पुं, स्वनामख्यातः पण्डितविशेषः । अयन्तु सप्त-
दशशतपरिमितशकाब्दसम्बत्सरप्रारम्भे एव
मिथिलादेशान्तर्वर्त्तिनि ‘मगरौणी’ संज्ञकग्रामे
विद्यानिधिपीताम्बरपण्डितात् जातः इति
मैथिलाः । अद्यावधि ज्ञाता अनेन विरचिता
ग्रन्थास्त्वेते । १ दीधितिविद्योतः (शिरोमणि-
टीका ।) २ न्यायसिद्धान्ततत्त्वम् । ३ पदवाक्य-
रत्नाकरः । ४ मासमीमांसा । ५ मिथ्यात्व-
निरुक्तिः । ६ रश्मिचक्रम् (चिन्तामणिटीका ।
७ रसमहार्णवः । ८ लाघवगौरवरहस्यम् ।
९ शिवशतकम् ॥)

गोकुलिकः, त्रि, (गोर्नेत्रस्य कुलं चञ्चलभावः

प्रखरदृष्टिचातुर्य्यमित्यर्थः । तदस्यास्तीति ।
“अत इनिठनौ ।” ५ । २ । ११६ । इति ठन् ।)
केकरः । (पङ्कपतिते गवि कुलिकः उपेक्षक-
त्वात् जड इव ।) पङ्कस्थगव्युपेक्षकः । इति
मेदिनी । के । १८६ ॥

गोकृतं, क्ली, (गोभिः कृतम् उच्चरितम् । कृ +

भावे क्तः । कृद्विहितो भावो द्रव्यवत् प्रका-
शते इति न्यायात् गोपुरीषमित्यर्थः ।) गोमयम् ।
इति शब्दचन्द्रिका ॥

गोक्षुरः, पुं, (क्षुरति विलिखतीति । क्षुर विले-

खने + “इगुपधज्ञेति ।” ३ । १ । १३५ । इति
कः । ततो गोः पृथिव्याः क्षुरः अस्त्रविशेष
इव । बहुकण्टकाकीर्णत्वात् तथात्वम् ।) क्षुद्र-
क्षुपविशेषः । स तु क्षुद्रबृहद्भेदेन द्विविधः ।
गोखुरि इति गोखुरु इति च भाषा ॥ तत्-
पर्य्यायः । त्रिकण्टः २ स्थलशृङ्गाटः ३ गोकण्टः ४
त्रिकण्टकः ५ त्रिपुटः ६ कण्टकफलः ७ क्षुरः ८ ।
इति रत्नमाला ॥ गोक्षुरकः ९ पलङ्कषा १०
इक्षुगन्धा ११ श्वदंष्ट्रा १२ स्वादुकण्टकः १३
गोकण्टकः १४ वनशृङ्गाटः १५ । इत्यमरः ।
२ । ४ । ९८--९९ ॥ क्षुरकः १६ भक्ष्यकण्टः १७
इक्षुगन्धिका १८ । इति भावप्रकाशः ॥ क्षुरङ्गः १९
श्वदंष्ट्रकः २० कण्टकी २१ भद्रकण्टः २२ व्याल-
दंष्ट्रः २३ षडङ्गः २४ गोखुरः २५ त्रिकटः २६
त्रिकः २७ इक्षुरः २८ । इति शब्दरत्नावली ॥
अस्य गुणाः । सुशीतलत्वम् । बलप्रदत्वम् ।
मधुरत्वम् । बृंहणत्वम् । कृच्छ्राश्मरीमेहविदाह-
नाशित्वम् । रसायनत्वम् । तत्र बृहतो गुणो-
त्तरत्वञ्च । इति राजनिर्घण्टः ॥ स्वादुत्वम् ।
वस्तिशोधनत्वम् । दीपनत्वम् । पुष्टिदत्वम् ।
श्वासकासार्शोव्रणनाशित्वञ्च । इति भाव-
प्रकाशः ॥ वायुनाशित्वम् । वृष्यत्वञ्च ॥ तच्छाक-
गुणाः । तिक्तत्वम् । वृष्यत्वम् । स्रोतोविशोधन-
त्वञ्च । इति राजवल्लभः ॥

गोक्षुरकः, पुं, (गोक्षुर + स्वार्थे कन् ।) गोक्षुरः ।

इत्यमरः । २ । ४ । ९८ ॥ (अस्य पर्य्याया यथा, --
“गोक्षुरः क्षुरकोऽपि स्यात् त्रिकण्टः स्वादु-
कण्टकः ।
गोकण्टको गोक्षुरको वनशृङ्गाट इत्यपि ।
पलङ्कषा श्वदंष्ट्रा च तथा स्यादिक्षुगन्धिका ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥
यथा, च सुश्रुते चिकित्सितस्थाने षड्विंशे-
ऽध्याये ॥
“गुप्ताफलं गोक्षुरकाच्च बीजं
तथोच्चटां गोपयसा विपाच्य ।
खजाहतं शर्करया च युक्तं
पीत्वा नरो हृष्यति सर्व्वरात्रम् ॥”)

गोखुरः, पुं, (खुरति विलिखतीति । खुरः अस्त्र-

विशेषः । गोः पृथिव्याः खुर इव ।) गोक्षुर-
वृक्षः । इति शब्दरत्नावली ॥ (गवां खुरम् ।)
गवां शफे क्ली ॥

गोखुरिः, पुं, (गवां खुरिरिव ।) गोक्षुरः । इति

शब्दचन्द्रिका ॥

गोगृष्टिः, स्त्री, (गौर्गृष्टिः गौरेव गृष्टिरित्यर्थः ।

जात्या समासे परनिपातः ।) सकृत्प्रसूता
गौः । इति केचित् ॥

गोगोयुगं, क्ली, (गोर्द्वित्वम् । गो + द्वित्वे गोयुगच् ।)

गोद्वयम् । (“पशुभ्यः स्थानद्विषट्के गोष्ठगोयुग-
षड्गवम् ।” इति मुग्धबोधसूत्रम् ॥)

गोगोष्ठं, क्ली, (गोः स्थानम् । गो + स्थाने गोष्ठच् ।)

गोस्थानम् । इति मुग्धबोधव्याकरणम् ॥

गोग्रन्थिः, पुं, (गोनिःसृतो ग्रन्थिरिव ।) करीषः ।

(गोर्ग्रन्थिर्बाहुल्यात् एकत्र ग्रन्थनं यत्र ।)
गोष्ठम् । (गोर्ग्रन्थिरिव ।) गोजिह्विकौषधिः ।
इति मेदिनी । थे । १९ ॥

गोघ्नः, पुं, (गौर्हन्यतेऽस्मै । गो + हन् + सम्प्रदाने

मूलविभूजादित्वात् कः ।) अतिथिः । इति
पाणिनिः ॥ (गां हन्ति । हन् + कः ।) गोघा-
तके त्रि । यथा, प्रायश्चित्ततत्त्वे ।
“गोघ्नवद्विहितः कंल्पश्चान्द्रायणमथापि वा ॥”

गोघृतं, क्ली, (गोः पृथिव्या घृतमिव शस्यादिपोषक-

त्वात् ।) वृष्टिः । इति त्रिकाण्डशेषः ॥ (गोर्जातं
घृतम् ।) गव्यघृतञ्च ॥

गोचरः, पुं, (गाव इन्द्रियाणि चरन्त्यस्मिन् ।

गो + चर + “गोचरसञ्चरवहव्रजव्यजापणनिग-
माश्च ।” ३ । ३ । ११९ । इति निपातनात्
साधुः ।) इन्द्रियार्थः । स तु रूपशब्दगन्धरस-
स्पर्शस्वरूपः । इत्यमरः । १ । ५ । ८ ॥ (यथा
भाषापरिच्छेदे “घ्राणस्य गोचरो गन्धः ॥” * ॥
गावश्चरन्त्यस्मिन्निति । गोचरणस्थानम् । इति
सिद्धान्तकौमुदी । यथा च भारविः । ४ । १० ।
“उपारताः पश्चिमरात्रिगोचरा-
दपारयन्तः पतितुञ्जवेन गाम् ॥”
गोषु इन्द्रियेषु चरतीति । गो + चर् + पचाद्यच् ।
इन्द्रियप्रत्यक्षीभूतविषयः । यथा, वेदान्तसारे ।
“अखण्डं सच्चिदानन्दमवाङ्मनसगोचरम् ॥”
पृष्ठ २/३५४
देशः । यथा, हेः रामायणे । २ । ८५ । ५ ।
“अब्रवीत् प्राञ्जलिर्भूत्वा गुहो गहनगोचरः ॥”
“गहनं वनं गोचरो देशो यस्य सः ।” इति
तट्टीकाकृद्रामानुजः ॥) जन्मराश्यवधिग्रहा-
क्रान्तराशीनां संज्ञा । यथा, --
“गोचरे वा विलग्ने वा ये ग्रहारिष्टसूचकाः ।
पूजयेत्तान् प्रयत्नेन पूजिताः स्युः शुभावहाः ॥”
अपि च ।
“अष्टवर्गशुभैः श्रीमान् कर्म्म कुर्य्यान्नभश्चरैः ।
गोचरस्थैस्तदप्राप्तौ तदप्राप्तौ तु वेधगैः ॥”
गोचरशुद्धिर्यथा, --
“केतूपप्लवभौममन्दगतयः षष्ठत्रिसंस्थाः शुभा-
श्चन्द्रार्कावपि ते च तौ च दशमौ चन्द्रः पुनः सप्तमः ।
जीवः सप्तनवद्विपञ्चमगतो युग्मेषु सोमात्मजः
शुक्रः षड्दशसप्तवर्जमितरे सर्व्वेऽप्युपान्ते शुभाः ॥”
इति दीपिका ॥
(अथ ग्रहाणां गोचरगतफलम् । यथा, --
बुधस्य गोचरफलम् ।
“स्थानं जन्मनि नाशयेद्दिनकरः कुर्य्याद्दितीये
भयम् ।
दुश्चिक्ये श्रियमातनोति हिवुके मानक्षयं
यच्छति ॥
दैन्यं पञ्चमगः करोति रिपुहा षष्ठेऽर्थहा सप्तमे ।
पीडामष्टमगः करोति नितरां कान्तिक्षयं
धर्म्मगः ॥
कर्म्मवृद्धिजनकस्तु कर्म्मगो
वित्तवृद्धिकृदथायसंस्थितः ।
द्रव्यनाशजनितां महापदं
यच्छति व्ययगतो दिवाकरः ॥”
चन्द्रस्य गोचरफलम् ।
“जन्मन्यर्थं दिशति हिमगुर्व्वित्तनाशं द्वितीये
दद्द्याद्द्रव्यं सहजभवने नेत्ररोगं चतुर्थे ।
कार्य्यभ्रंशं तनयगृहगो वित्तलाभञ्च षष्ठे
द्यूने द्रव्यं युवतिसहितं मृत्युसंस्थोऽथ मृत्युम् ॥
नृपभयं कुरुते नवमः शशी
दशमधामगतस्तु महत् सुखम् ।
विविधमायगतः कुरुते धनं
व्ययगतस्तु रुजं सधनक्षयम् ॥”
मङ्गलस्य गोचरफलम् ।
“प्रथमगृहगः क्षौणीसूनुः करोत्यरिजं भयं
क्षपयति धनं वित्तस्थाने तृतीयगतोऽर्थदः ।
अरिभयकरः पातालेऽसून् क्षिणोति च पञ्चमः
रिपुगृहगतो धत्ते वित्तं शुचं मदनस्थितः ॥
जनयति मरणस्थः शत्रुवाधां धराजो
दिशति च नवमस्थो कार्य्यपीडामतीव ।
शुभमपि दशमस्थो लाभगो भूरिलाभं
अयभवनगतोऽसौ व्याध्यनर्थार्थनाशान् ॥”
बधस्य गोचरफलम् ।
“बुधः प्रथमधामगो दिशति बन्धमर्थे धनं
वधं रिपुभयान्वितं सहजगश्चतुर्थेऽर्थदः ।
अनिवृं तिकरो भवेत्तनयगोऽरिगः स्थानदः
कराति मद्नस्थितो बहुविधां शरीरापदम् ॥
अष्टमे शशिसुते धनलब्धि-
र्धर्म्मगोऽतिमहतीं तनुपीडाम् ।
कर्म्मगः शुभमथायगतोऽर्थं
द्वादशे भवति वित्तविनाशः ॥”
गुरोर्गोचरफलम् ।
“भयं जन्मन्यार्य्यो जनयति धनस्थोऽर्थमतुलं
तृतीयेऽङ्गक्लेशं दिशति च चतुर्थेऽर्थविलयम् ।
शुभं पुत्त्रस्थानेऽशुभमपि च कुर्य्यादरिगृहे
गुरुर्द्यूने पूजां धननिचयनाशञ्च निधने ॥
धर्म्मगतो धनवृद्धिकरः स्यात्
प्रीतिहरो दशमेऽमरपूज्यः ।
स्थानधनानि ददाति स चाये
द्वादशगस्तनुमानसपीडाम् ॥”
शुक्रस्य गोचरफलम् ।
“जन्मन्यतिक्षयकरो भृगुजोऽर्थदोऽर्थे
दुश्चिक्यगः शुभकरो धनदश्चतुर्थे ।
स्यात् पुत्त्रदस्तनयगोऽरिगतोऽरिवृद्धिं
शोकप्रदो मदनगो निधनेऽर्थदाता ॥
जनयति विविधाम्बराणि धर्म्मे
न शुभकरो दशमस्थितस्तु शुक्रः ।
धननिचयकरस्तु लाभसंस्थो
व्यंयभवनेऽपि धनागमं करोति ॥”
शनेर्गोचरफलम् ।
“वित्तभ्रंशं सदाहं दिनकरतनयो जन्मराशिं प्रपन्न-
श्चित्तक्लेशं द्बितीये रिपुहननकृतं वित्तलाभं
तृतीये ।
पाताले शत्रुवृद्धिं सुतभवनगतः पुत्त्रभृत्यादिनाशं
षष्ठस्थानेऽर्थलाभं जनयति मदने दोषसङ्घा-
तमार्किः ॥
शरीरपीडां निधनेऽथ धर्म्मे
धनक्षयं कर्म्मणि दौर्म्मनस्यम् ।
उपान्त्यगो वित्तमनर्थमन्ते
शनिर्ददातीत्यवदत् सुवृत्तः ॥”
राहोर्गोचरफलम् ।
“जन्मान्त्या ञ्चवसुरन्ध्रनवद्बिसप्त-
राशौ स्थिते यदि भवेदसुरः कदापि ।
अर्थक्षयं रिपुभयं बहुकार्य्यहानिं
रोगप्रवासमरणाग्निभय करोति ॥”
केतोर्गोचरफलम् ।
“एकादशत्रिदशषष्ठगते नराणां
सम्मानभोगनृपमानसुखार्थदाता ।
आज्ञाकराश्च पुरुषाः प्रमदाश्च नित्यं
सौख्योदयं दिशति पुण्यचयञ्च केतुः ॥”
अन्यत्सर्व्वं ग्रहशब्दे द्रष्टव्यम् ॥)

गोचर्म्म, [न्] क्ली, (गोश्चर्म्म ।) गवां त्वक् ।

कर्म्मविशेषे तदासनविधिर्यथा, --
“मेषासनन्तु वश्यार्थमाकृष्टौ व्याघ्रचर्म्म च ।
शान्तौ मृगाजिनं शस्तं मोक्षार्थं व्याघ्रचर्म्म च ॥”
गोचर्म्मस्तम्भने देवि । सम्भवे वाजिचर्म्म च ॥”
इति समयाचारतन्त्रे २ पटलः ॥ * ॥
परिमाणविशेषः । यथा, --
“यत् किञ्चित् कुरुते पापं ज्ञानतोऽज्ञानतोऽपि वा ।
अपि गोचर्म्ममात्रेण भूमिदानेन शुध्यति ॥”
गोचर्म्मलक्षणञ्च वृहस्पतिना दर्शितम् । यथा, --
“सप्तहस्तेन दण्डेन त्रिंशद्दण्डैर्निवर्त्तनम् ।
दश तान्येव गोचर्म्म दत्त्वा स्वर्गे महीयते ॥”
इति मिताक्षरायां आचाराध्यायः ॥

गोच्छालः, पुं, (गां भूमिं छादयतीति । छद + णिच्

+ अण् । पृषोदरादित्वात् साधुः ।) कुलाहल-
वृक्षः । इति रत्नमाला ॥ कोकशिमा इति
भाषा ॥

गोजलं, क्ली, (गवि जातं जलम् ।) गोमूत्रम् । इति

राजनिर्घण्टः ॥ (यथा, गारुडे १८० अध्याये ।
“गोजलेनैव पूरेण कर्णसावो विनश्यति ॥”)

गोजा, स्त्री, (गवि पृथिव्यां जायते इति । गो + जन्

+ “जनसनखनक्रमगमो विट् ।” ३ । २ । ६७ ।
इति विट् । “विडनोरिति ।” ६ । ४ । ४१ ।
इति आत्वञ्च ।) गोलोमिकावृक्षः । इति राज-
निर्घण्टः ॥

गोजागरिकं, क्ली, (गोषु इन्द्रियेषु जागरः अप्रमा-

दोऽस्त्यस्य ठन् ।) मङ्गलम् । इति गेदिनी ।
के । २२७ ॥

गोजागरिकः, पुं, (गवि पृथिव्यां जागरिकः प्रह-

रीव । अस्त्रवत्कण्टकान्वितत्वादस्य त्रथात्वम् ।)
कण्टकारिका । इति मेदिनी । के । २२७ ॥

गोजापर्णी, स्त्री, (गोजं दुग्धं तद्वत् आपर्णयति

शुक्लवर्णो भवतीति । आ + पर्णि + अच् ।)
गौरादित्वाद् ङीष् ।) दुग्धफेनीवृक्षः । इति
राजनिर्घण्टः ॥

गोजिह्वा, स्त्री, (गोर्जिह्वेव ।) क्षुपविशेषः ।

गोजियालता इति दारियाशाक इति च भाषा ।
तत्पर्य्यायः । दार्व्विका २ । इत्यमरः । २ । ४ ।
११९ ॥ दर्व्विका ३ । इति भरतः ॥ दार्व्वि-
पत्रिका ४ । इति रत्नमाला ॥ खरपत्री ५
वातोना ६ अधोमुखा ७ अनडुज्जिह्वा ८
अधःपुष्पी ९ दर्व्वी १० गोजिह्विका ११ । इति
शब्दरत्नावली ॥ अपि च भावप्रकाशे ।
“गोजिह्वा गोजिका गोभी दार्व्विकाखरपर्णिनी ।
गोजिह्वा वातला शीता ग्राहिणी कफपित्तनुत् ॥
हृद्या प्रमेहकासास्रव्रणज्वरहरी लघुः ।
कोमला तुवरी तिक्ता स्वादुपाकरसा स्मृता ॥”
अस्या गुणाः । कटुत्वम् । तीक्ष्णत्वम् । शीत-
लत्वम् । पित्तसर्व्वदन्तिविषार्त्तिनाशित्वम् । व्रण-
संरोपणत्वञ्च । इति राजनिर्घण्टः ॥ (अस्या
व्यवहारो यत्र तद्यथा, --
“सोमवल्कोऽश्वकर्णश्च गोजिह्वा हंसपद्यपि ।
रजन्यौ गैरिकं लेपो नखदन्तविषापहः ॥”
इति वैद्यकचक्रपाणिसंग्रहें विषाधिकारे ॥)
गवेधुका । इति रत्नमाला ॥ गडगड इति
भाषा ॥

गोजिह्विका, स्त्री, (र्गोजिह्वेव गोजिह्वा स्वार्थे

कन् । अत इत्वञ्च ।) गोजिह्वा लता । इति
शब्दरत्नावली ॥