भविष्यपुराणम् /पर्व ३ (प्रतिसर्गपर्व)/खण्डः ४/अध्यायः १५
वसुमाहात्म्ये त्रिलोचनवैश्योत्पत्तिवर्णनम्
सूत उवाच
भृगुवर्य महाभाग शृणु त्वं जीववर्णितम् ।
पवित्रं वसुमाहात्म्यं सर्ववस्तुसुखप्रदम् । । १
बृहस्पतिरुवाच
वैवस्वतेऽन्तरे प्राप्ते चाद्ये सत्ययुगे शुभे ।
इल्वला तामसी शक्तिः प्रिया विश्रवसो मुनेः । ।
शिवमाराधयामास सती सा पार्थिवार्चनैः । । २
एतस्मिन्नन्तरे जातो दीक्षितान्वयसम्भवः ।
यक्षशर्मा महाधूर्तो यक्षिणीपूजने रतः । । ३
तस्य मित्रस्नुषा सुभ्रू रमिता तेन पापिना ।
तेन दोषेण विप्रोऽसौ कुष्ठभूतस्तदाभवत् । । ४
कुष्ठभूतं द्विजं त्यक्त्वा यक्षिणी मन्त्रवत्सला ।
शिवलोकं ययौ देवी कैलासं गुह्यकालयम् । । ५
क्षुधातुरो यक्षशर्मा शिवरात्रे महोत्तमे ।
दर्शितं पूजनं तेन योषिद्भ्यश्चोपदेशतः । । ६
प्रभाते समनुप्राप्ते पारणां कृतवान्द्विजः ।
मरणं प्राप्तवान्कुष्ठी तत्रैव शिवमन्दिरे । । ७
तेन पुण्यप्रभावेन राजासीत्करणाटके ।
राजराज इति ख्यातो मण्डलीको नृपोऽभवत् । । ८
शिवार्चनं मङ्गलदं गेहे गेहे दिने दिने ।
ब्राह्मणैः कारयामास राजराजो महाबलः । । ९
शताब्दं भूतले राज्यं कृतं तेन महात्मना ।
राज्याधिकारं श्रेष्ठस्य सुतस्य प्रददौ नृपः । ।
ततः काशीपुरीं प्राप्य शिवं तुष्टाव पूजनैः । । 3.4.15.१०
त्रिवर्षान्ते महादेवो ज्योतिर्लिङ्गो बभूव ह ।
राजराजेश्वरो नाम प्रसिद्धोऽभूच्छिवः स्वयम् । । ११
स नृपः पावितस्तेन त्यक्त्वा प्राणांस्तदा स्वयम् ।
इल्वलागर्भमागम्य पुत्रोऽभूच्छुभलक्षणः । । १२
जातः कुत्सितवेलायां रात्रौ घोरतमोवृते ।
कुबेर इति तन्नाम प्रसिद्धमभवद्भुवि । । १३
तपसा तोषयामास स बालः परमेष्ठिनम् ।
तस्मै ब्रह्मा तदागत्य लङ्कां नाम पुरीं शुभाम् । ।
सुवर्णरचितां रम्यां कारयित्वा ददौ प्रभुः । । १४
तिस्रः कोट्यः स्मृता यक्षा लोककार्यपरायणाः ।
तेषां स्वामी स वै चासीद्यक्षराडिति विश्रुतः । । १५
किन्नरा बहुरूपाश्च तदादेशनिवासिनः ।
बलिभिः पूजयामासुः किन्नरेशस्तदा स्वयम् । । १६
गुह्यका नरभावस्था दिव्यमूल्यप्रकारिणः ।
तेषां स्वामी स वै चासीत्कुबेरो भगवान्स्वयम् । । १७
गिरिभ्यो बहुरत्नानि गृहीत्वा लोकहेतवे ।
रक्षोभिः प्रेषयामास गेहे गेहे जने जने । । १८
धर्मकार्यकरा ये तु नरा वेदपरायणाः ।
तेषां कोशाश्च तेनैव पूरिता नरधर्मिणा । । १९
ये तु लोभपरा धूर्ता नराः सञ्चयकारिणः ।
तेषां राजा स भगवान्द्रव्यदो राक्षसेश्वरः । । 3.4.15.२०
शवभूता नरा ये वै दाहिता वह्निकर्मणि ।
अग्निद्वारेण तन्मांसं भुञ्जते राक्षसाः सदा । । २१
आभिर्विभूतिभिर्युक्तं दृष्ट्वा तं रावणो बली ।
जित्वा निष्कास्य लङ्कायाः स्वयं राजा बभूव ह । । २२
कुबेरो दुःखितस्तत्र शङ्करः दुःखनाशनम् ।
शरण्यं शरणं प्राप्तस्तदा तु भगवान्हरः । ।
तेन मैत्री कृता रम्या कुबेरेण समं दधौ । । २३
अलकावती नाम पुरी रचिता विश्वकर्मणा ।
स तां मङ्गलदामाप्य कुबेरो हर्षमाप्तवान् । । २४
इति श्रुत्वा तदनुजो रावणो लोकरावणः ।
कैलासं गिरिमागम्य नलकूबरभोगिनीम् । । २५
दृष्ट्वा पुलस्त्यतनयः पस्पर्श मधुराननाम् ।
तदा पतिव्रता देवी सुप्रभा प्राह तं रुषा । । २६
स्नुषेव तव पापात्मन्वर्तेऽहं लोकरावण ।
कुष्ठो भवेत्तव तनौ तेन दोषेण दारुणः । । २७
त्वया हृतं विमानं यज्ज्येष्ठबन्धोश्च पुष्पकम् ।
निष्फलत्वमवाप्नोतु यथा चौरैर्हृतं धनम् । । २८
इति शापान्वितो वीरस्तथाभूतः सुदुःखितः ।
शिवमाराधयामास कैलासे पार्थिवार्चनैः । । २९
द्वादशाब्दमतो जातं पूजनं तस्य कुर्वतः ।
स रुद्रो न प्रसन्नोऽभूत्तदा दुःखी स रावणः । । 3.4.15.३०
जुहाव वह्नौ क्रमतः शिरांसि पुरुषादनः ।
स्थूलदेहं च सकलं स रुद्राय तदार्पयत् । । ३१
भस्मभूतस्तदा रक्षो न मृतो ब्रह्मणो वरात् ।
पावकादुद्भवं चान्यं देहं प्राप्य मनोहरम् । । ३२
शिवाय वायुरूपाय ददौ स्वाङ्गं पुनर्बली ।
पिशाचैर्वायुरूपैश्च भक्षितः स च रावणः । । ३३
न ममार वराद्घोरो वायोर्जातं कलेवरम् ।
गृहीत्वा स च रुद्राय नभोभूताय चार्पयत् । । ३४
तदा मातृगणैर्घोरैर्भक्षितोऽभूत्स रावणः ।
ब्रह्मणो वरदानेन न पञ्चत्वमवाप्तवान् । । ३५
नभसश्चोद्भवं देहं शून्यभूतं स रावणः ।
पुनः प्राप्य शिवायैव सोऽहं भूताय चार्पयत् । । ३६
तदा प्रसन्नो भगवान्रुद्रोऽहङ्कारदेवता ।
कुबेरस्य यथा मित्रं रावणस्य तथाभवत् । । ३७
एकैकेनैव शिरसा कोटिकोटिशिरोऽभवत् ।
वज्रभूतोऽभवद्देहो देवदेवप्रसादतः । ।
एवं स रावणो घोरो बभूव वरदर्पितः । । ३८
देवदैत्यमनुष्याणां पन्नगानां च योषितः ।
नवोढा रमिताश्चासन्ब्रह्माण्डे तेन रक्षसा । । ३९
पतिव्रतामतो रम्यो वेदधर्मः सनातनः ।
भग्नीभूतोऽभवत्सर्वः सर्वलोकेषु रक्षसा । । 3.4.15.४०
क्षुत्तृड्भ्यां वर्जितो नित्यं शङ्करेणैव तर्पितः ।
अन्ये सुरा विना यज्ञैः क्षुधिताः सम्बभूविरे । । ४१
ब्रह्माणं च पुरस्कृत्य क्षीराब्धौ प्राप्य दुःखिताः ।
एकीभूय सुरास्सर्वे तुष्टुवुः परमेश्वरम् । । ४२
तदा प्रसन्नो भगवान्सगुणो निर्गुणो हरिः ।
उवाच सकलान्देवान्भक्तिनम्रान्यतेन्द्रियान् । । ४३
कल्पाख्ये श्वेतवाराहे नेदृशः कोऽपि दानवः ।
बभूव च यथैवासौ रावणो लोकरावणः । । ४४
पुरा मार्कण्डकल्पे च निशुम्भः शुम्भ एव हि ।
यथा जातौ तथा घोरौ कुम्भकर्णश्च रावणः । । ४५
रावणा बहवश्चासन्हीदृशो नैव रावणः ।
अहं ब्रह्मा तथा रुद्रो यतो जातास्सनातनाः । ।
सा तु वै प्रकृतिर्माया कोटिविश्वविधायिनी । । ४६
देवसङ्कटघोरेषु समर्थो देवराट् स्वयन् ।
शक्रविघ्ने समुद्भूते समर्थो भगवान्हरः । । ४७
रुद्राणां सङ्कटे घोरे समर्थोऽहं सदा भुवि ।
मयि सङ्कटसम्प्रास्ते समर्थो भगवान्हरः । ।४८
ब्रह्मणः परमे दुःखे समर्था प्रकृतिः परा ।
मधुकैटभौ पुरा जातौ दानवौ लोकविश्रुतौ । ।४ ९
ताभ्यां दुखमयो ब्रह्मा तुष्टाव जगदम्बिकाम् ।
तदा तस्या बलेनाहं जघान मधुकैटभौ । । 3.4.15.५०
अतो मदाज्ञया सर्वे विष्णुमायां सनातनीम् ।
शरण्यां शरणं प्राप्य कुर्वतां जगतो हितम् । । ५१
इति श्रुत्वा तु ते देवास्तुष्टुवुः प्रकृतिं पराम् ।
प्रसन्ना च तदा देवी ब्रह्मज्योतिर्मयी शिवा । । ५२
द्विधाभूता महीं प्राप्ता सीतारामौ परापरौ ।
त्रिलिङ्गजननी सीता तया तदपरं द्विधा । ।
कृतं तौ च द्विधा जातौ शब्दार्थौ रामलक्ष्मणौ । । ५३
शब्दमात्रसमूहानां स्वामी रामस्सनातनः ।
अर्थमात्रसमूहानामीशः क्लीबस्स लक्ष्मणः । । ५४
यस्य वज्रमयं वीर्यं ब्रह्मचर्यं दृढं तथा ।
स क्लीबश्च ततोऽन्ये वै क्लीबभूता हि वानराः । । ५५
परा तु प्रकृतिस्सीता तयोर्मङ्गःलदायिनी ।
भूमिमध्यात्समुद्भूता ह्ययोनिर्योनिकारिणी । । ५६
सहस्रं रामरामेति जपितं येन धीमता ।
सीतानाम्ना च तस्यैव फलं ज्ञेयं च तत्समम् । । ५७
योनिभूतौ च तौ देवौ राधेयस्य गृहं गतौ ।
इदं दृश्यं यदा नासीत्तामसी प्रकृतिस्तदा । ।
अक्षराशेषभूता च स्वयं जाता त्रिधेच्छया । । ५८
पूर्वं शेषस्स वै रामो मध्ये क्लीबस्य लक्ष्मणः ।
अपरौ पूर्वतो जातौ पुंक्लीबौ च परेश्वरौ । ।
परो भागस्तु सा देवी योगनिद्रा सनातनी । । ५९
अन्यकल्पेषु हे देवाः क्षीरशायी हरिः स्वयम् ।
रामो ज्ञेयस्तथा शेषो रुद्ररूपस्स लक्ष्मणः । । 3.4.15.६०
सीता भगवती लक्ष्मीर्जाता जनकनन्दिनी ।
सुदर्शनश्च भरतो हरेः शङ्खस्ततोऽनुजः । । ६१
कल्पाख्ये श्वेतवाराहे रामो जातः परात्परः ।
प्रद्युम्नो भरतो ज्ञेयोऽनिरुद्धः शत्रुहा प्रभुः । ।
तैश्च सर्वे विदलिता राक्षसा रावणादयः । । ६२
कीर्तिं स्वकीयां लोकेषु संस्थाप्य पावनीं प्रभुः ।
पुष्पकं च कुबेराय विमानं च तदा ददौ । ।
रुद्रसङ्ख्या सहस्राब्दं राज्यं कृत्वा परं ययौ । । ६३
सूत उवाच
इति श्रुत्वा कुबेरस्तु प्रथमो वसुदेवता ।
स्वमुखात्स्वांशमुत्पाद्य वैश्ययोनौ बभूव ह । । ६४
धरदत्तस्य वैश्यस्य पुत्रो भूत्वा महीतले ।
त्रिलोचनस्स वै नाम मथुरायां बभूव ह । । ६५
सर्वद्रव्यव्ययं कृत्वा नानातीर्थेषु हर्षितः ।
पुरीं काशीं समागम्य रामानन्दं च वैष्णवम् । ।
नत्वा तद्वश्यमभजच्छिष्यो भूत्वा त्रिलोचनः । । ६६
स्वगेहं पुनरागत्य स वैश्यश्चाज्ञया गुरोः ।
रामभक्तिपरश्चासीत्साधुसेवापरायणः । । ६७
तदा तु भगवान्रामो दासभूतश्च तद्गृहे ।
स्थितस्त्रयोदशे मासि सर्ववाच्छितदायकः । । ६८
मणिरत्नहिरण्यानि वासांसि विविधानि च ।
नाना व्यञ्जनयोग्यानि ब्राह्मणेभ्यः स्वयं ददौ । । ६९
वैष्णवेभ्यो यतिभ्यश्च मनोवाच्छितदायकः ।
ततस्त्रिलोचनं प्राह भगवान्रावणार्तिहा । । 3.4.15.७०
अहं रामो न वै दासस्तव भक्तिविमोहितः ।
निवासं कृतवान्गेहे तव प्रियहिते रतः । । ७१
अद्यप्रभृति भो वैश्य वसामि हृदये तव ।
इत्युक्त्वान्तर्हितो देवः स वैश्यो हर्षमागतः । । ७२
त्यक्त्वा कलत्रं पुत्रं च प्राप्य वैराग्यमुत्कटम् ।
उषित्वा सरयूतीरे रामध्यानपरोभवत् । । ७३
इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखण्डापरपर्याये कलियुगीयेतिहाससमुच्चये वसुमाहात्म्ये त्रिलोचनवैश्योत्पत्तिवर्णनं नाम पञ्चदशोऽध्यायः । १५