सामग्री पर जाएँ

ऋग्वेदः सूक्तं २.३६

विकिस्रोतः तः
← सूक्तं २.३५ ऋग्वेदः - मण्डल २
सूक्तं २.३६
गृत्समद (आङ्गिरसः शौनहोत्रः पश्चाद्) भार्गवः शौनकः
सूक्तं २.३७ →
दे. ऋतुदेवताः - १ इन्द्रो मधुश्च, २ मरुतो माधवश्च, ३ त्वष्टा शुक्रश्च, ४ अग्निः शुचिश्च, ५ इन्द्रो नभश्च, ६ मित्रावरुणौ नभस्यश्च। जगती
सोमयागे सदोमण्डपम्


तुभ्यं हिन्वानो वसिष्ट गा अपोऽधुक्षन्सीमविभिरद्रिभिर्नरः ।
पिबेन्द्र स्वाहा प्रहुतं वषट्कृतं होत्रादा सोमं प्रथमो य ईशिषे ॥१॥
यज्ञैः सम्मिश्लाः पृषतीभिरृष्टिभिर्यामञ्छुभ्रासो अञ्जिषु प्रिया उत ।
आसद्या बर्हिर्भरतस्य सूनवः पोत्रादा सोमं पिबता दिवो नरः ॥२॥
अमेव नः सुहवा आ हि गन्तन नि बर्हिषि सदतना रणिष्टन ।
अथा मन्दस्व जुजुषाणो अन्धसस्त्वष्टर्देवेभिर्जनिभिः सुमद्गणः ॥३॥
आ वक्षि देवाँ इह विप्र यक्षि चोशन्होतर्नि षदा योनिषु त्रिषु ।
प्रति वीहि प्रस्थितं सोम्यं मधु पिबाग्नीध्रात्तव भागस्य तृप्णुहि ॥४॥
एष स्य ते तन्वो नृम्णवर्धनः सह ओजः प्रदिवि बाह्वोर्हितः ।
तुभ्यं सुतो मघवन्तुभ्यमाभृतस्त्वमस्य ब्राह्मणादा तृपत्पिब ॥५॥
जुषेथां यज्ञं बोधतं हवस्य मे सत्तो होता निविदः पूर्व्या अनु ।
अच्छा राजाना नम एत्यावृतं प्रशास्त्रादा पिबतं सोम्यं मधु ॥६॥


सायणभाष्यम्

' तुभ्यम् ' इति षडृचं चतुर्थं सूक्तं गार्त्समदं जागतम् । प्रथमाया इन्द्रो मधुश्च देवता । द्वितीयाया मरुतो माधवश्च । तृतीयायास्त्वष्टा शुक्रश्च । चतुर्थ्या अग्निः शुचिश्च । पञ्चम्या इन्द्रो नभश्च । षष्ठ्या मित्रावरुणौ नभस्यश्च । तथा चानुक्रान्तं- तुभ्यं षडृतव्यं तु जागतं तु ' इति । दशरात्रे षष्ठेऽहनि ऋतुयाजेषु ऋक्शिरस्कैः प्रैषैः प्रेषितव्यं यष्टव्यं च । तत्राद्यानां षण्णां प्रैषाणामुपरिष्टाद्देवताः षडृचोऽहोरात्रादिभिः क्रमेणावपनीयाः । तथा च सूत्रितम्-' उपरिष्टात्त्वृच ऋतुयाजानाम् ' इत्युपक्रम्य ' तुभ्यं हिन्वानो वसिष्ट गा अप इति द्वादश ' ( आश्व. श्रौ. ८.१.८) इत्यन्तेन ।।


तुभ्यं॑ हिन्वा॒नो व॑सिष्ट॒ गा अ॒पोऽधु॑क्षन्सी॒मवि॑भि॒रद्रि॑भि॒र्नरः॑ ।

पिबे॑न्द्र॒ स्वाहा॒ प्रहु॑तं॒ वष॑ट्कृतं हो॒त्रादा सोमं॑ प्रथ॒मो य ईशि॑षे ॥१

तुभ्य॑म् । हि॒न्वा॒नः । व॒सि॒ष्ट॒ । गाः । अ॒पः । अधु॑क्षन् । सी॒म् । अवि॑ऽभिः । अद्रि॑ऽभिः । नरः॑ ।

पिब॑ । इ॒न्द्र॒ । स्वाहा॑ । प्रऽहु॑तम् । वष॑ट्ऽकृतम् । हो॒त्रात् । आ । सोम॑म् । प्र॒थ॒मः । यः । ईशि॑षे ॥१

तुभ्यं । हिन्वानः । वसिष्ट। गाः। अपः। अधुक्षन्। सीं। अविऽभिः । अद्रिऽभिः । नरः।

पिब। इंद्रः। स्वाहा। प्रऽहुतं। वषट्ऽकृतं । होत्रात्।आ। सोमं। प्रथमः। यः । ईशिषे॥१॥

हे इंद्र तुभ्यं त्वदर्थं हिन्वानः प्रेर्यमाणः सोमो गा गोविकाराणि दधिपयःप्रभृतीनि श्रपणद्रव्याणि वसतीवर्याख्या अपश्च वसिष्ट । वस्ते । आच्छादयति । तैः संयुज्यत इत्यर्थः । नरो यज्ञस्य नेतारोऽध्वर्यवश्च सीमेनं सोममविभिरवेर्वालमयैर्दशापवित्रैरद्रिभिर्ग्रावभिश्चाधुक्षन्। अक्षारयन्। ग्रावभिरभिषुत्य दशापवित्रेण पुनंतीत्यर्थः । हे इंद्र यस्त्वमीशिषे । सर्वस्य जगत ईश्वरो भवसि त्वं प्रथमोऽन्येभ्यो देवेभ्यः पूर्वभावी सन् स्वाहा स्वाहाकारेण प्रहुतं प्रकर्षेणाग्नौ क्षिप्तं वषट्कृतं वषट्कारेण च त्यक्तं तं सोमं होत्राद्धोतुर्यागादा समंतात्पिब ।


य॒ज्ञैः सम्मि॑श्ला॒ः पृष॑तीभिरृ॒ष्टिभि॒र्याम॑ञ्छु॒भ्रासो॑ अ॒ञ्जिषु॑ प्रि॒या उ॒त ।

आ॒सद्या॑ ब॒र्हिर्भ॑रतस्य सूनवः पो॒त्रादा सोमं॑ पिबता दिवो नरः ॥२

य॒ज्ञैः । सम्ऽमि॑श्लाः । पृष॑तीभिः । ऋ॒ष्टिऽभिः॑ । याम॑न् । शु॒भ्रासः॑ । अ॒ञ्जिषु॑ । प्रि॒याः । उ॒त ।

आ॒ऽसद्य॑ । ब॒र्हिः । भ॒र॒त॒स्य॒ । सू॒न॒वः॒ । पो॒त्रात् । आ । सोम॑म् । पि॒ब॒त॒ । दि॒वः॒ । न॒रः॒ ॥२

यज्ञैः।संऽमिश्लाः। पृषतीभिः। ऋष्टिऽभिः। याम॑न्। शुभ्रासः। अंजिषु । प्रियाः।उत।

आऽसद्य । बर्हिः। भरतस्य । सूनवः। पोत्रात्। आ। सोमं। पिबत। दिवः। नरः ॥२॥

हे मरुतो यज्ञैर्यागैः संमिश्लाः संयुक्ताः पृषतीभिः स्ववाहनभूताभिः पृषद्वतीभिर्वडवाभिर्युक्ते यामन् यामनि गमनसाधने रथेऽवस्थिता ऋष्टिभिः स्वकीयैरायुधैः शुभ्रासः शुभ्राः शोभमानाः । उतशब्दश्चार्थे। अंजिष्वाभरणेषु प्रियाश्च हे भरतस्य सूनवः सर्वस्य जगतो भर्तू रुद्रस्य पुत्रा दिवो नरो दिवोंऽतरिक्षस्य नेतारः एवंभूता हे मरुतः ते यूयं बर्हिरास्तीर्णे बर्हिष्यासद्योपविश्य पोत्रात् पोतुर्यागात् सोममापिबत ॥


तृतीयसवनेऽमेव न इत्येषा नेष्टुः प्रस्थितयाज्या च । तथा च सूत्रितं । अमेव नः सुहवा आ हि गंतनें33द्राविष्णू पिबतं मध्वो अस्य । आ.श्रौ. ५.५.। इति ॥

अ॒मेव॑ नः सुहवा॒ आ हि गन्त॑न॒ नि ब॒र्हिषि॑ सदतना॒ रणि॑ष्टन ।

अथा॑ मन्दस्व जुजुषा॒णो अन्ध॑स॒स्त्वष्ट॑र्दे॒वेभि॒र्जनि॑भिः सु॒मद्ग॑णः ॥३

अ॒माऽइ॑व । नः॒ । सु॒ऽह॒वाः॒ । आ । हि । गन्त॑न । नि । ब॒र्हिषि॑ । स॒द॒त॒न॒ । रणि॑ष्टन ।

अथ॑ । म॒न्द॒स्व॒ । जु॒जु॒षा॒णः । अन्ध॑सः । त्वष्टः॑ । दे॒वेभिः॑ । जनि॑ऽभिः । सु॒मत्ऽग॑णः ॥३

अमाऽइव। नः। सुऽहवाः । आ । हि। गंतन। नि। बर्हिषि । सदतन। रणिष्टन।।

अथ। मंदस्व। जुजुषाणः । अंधसः। त्वष्टः। देवेभिः । जनिऽभिः। सुमत्ऽगणः ॥३॥

इवशब्दोऽवधारणे । हे सुहवाः शोभनाह्वानास्त्वष्टृप्रभृतयो नोऽस्मान् अमेव सहैवागंतन । आगच्छत ॥ गमेश्छांदसः शपो लुक् । तप्तनप्तनथनाश्चेति तनबादेशः । हिशब्दः पूरणः ॥ आगत्य च बर्हिषि वेद्यामास्तीर्णे निषदतन । निषण्णा भवत ॥ सदेश्छांदसः सीदादेशाभावः ॥ उपविश्य च रणिष्टन। रमध्वं ॥ रण शब्दार्थः । अत्र क्रीडायां वर्तते धातूनामनेकार्थत्वात् । अस्माच्छांदसो लुङ् । पूर्ववत्तनबादेशः ॥ अथानंतरं हे त्वष्टः देवेभिरन्यैर्देवैर्जनिभिर्देवपत्नीभिश्च सुमद्गणः शोभनगणस्त्वमंधसः सोमलक्षणस्यान्नस्य ॥ द्वितीयार्थे षष्ठी ॥ सोमलक्षणमन्नं जुजुषाणः सेवमानो मंदस्व । तृप्तो भव ॥


आ व॑क्षि दे॒वाँ इ॒ह वि॑प्र॒ यक्षि॑ चो॒शन्हो॑त॒र्नि ष॑दा॒ योनि॑षु त्रि॒षु ।

प्रति॑ वीहि॒ प्रस्थि॑तं सो॒म्यं मधु॒ पिबाग्नी॑ध्रा॒त्तव॑ भा॒गस्य॑ तृप्णुहि ॥४

आ । व॒क्षि॒ । दे॒वान् । इ॒ह । वि॒प्र॒ । यक्षि॑ । च॒ । उ॒शन् । हो॒तः॒ । नि । स॒द॒ । योनि॑षु । त्रि॒षु ।

प्रति॑ । वी॒हि॒ । प्रऽस्थि॑तम् । सो॒म्यम् । मधु॑ । पिब॑ । आग्नी॑ध्रात् । तव॑ । भा॒गस्य॑ । तृ॒प्णु॒हि॒ ॥४

आ। वक्षि। देवान्। इह। विप्र। यक्षि। च । उशन्। होतः। नि। सद। योनिषु। त्रिषु ।

प्रति। वीहि। प्रऽस्थितं। सोम्यं। मधु।पिब। आग्नीध्रात्। तव।भागस्य। तृप्णुहि ॥४॥

हे विप्र मेधाविन्नग्ने देवान् यष्टव्यानिंद्रादीनावक्षि । आवह । यक्षि च । तान्यज च । हे होतर्देवानामाह्वातस्त्वं चोशन्नस्मदीयं कामयमानः सन् त्रिषु योनिषु स्थानेषु गार्हपत्यादिलक्षणेषु निषद । उपविश । उपविश्य च प्रस्थितं होमार्थमुत्तरवेदिं प्रत्यानीतं सोम्यं सोममयं मधु प्रतिवीहि । प्रतिकामयस्व । कामयित्वा चाग्नीध्रादग्नीध्रयागात्सोमं पिब । पीत्वा च तव भागस्य त्वदीयेन भागेन तृप्णुहि । तृप्तो भव ॥


ए॒ष स्य ते॑ त॒न्वो॑ नृम्ण॒वर्ध॑न॒ः सह॒ ओजः॑ प्र॒दिवि॑ बा॒ह्वोर्हि॒तः ।

तुभ्यं॑ सु॒तो म॑घव॒न्तुभ्य॒माभृ॑त॒स्त्वम॑स्य॒ ब्राह्म॑णा॒दा तृ॒पत्पि॑ब ॥५

ए॒षः । स्यः । ते॒ । त॒न्वः॑ । नृ॒म्ण॒ऽवर्ध॑नः । सहः॑ । ओजः॑ । प्र॒ऽदिवि॑ । बा॒ह्वोः । हि॒तः ।

तुभ्य॑म् । सु॒तः । म॒घ॒ऽव॒न् । तुभ्य॑म् । आऽभृ॑तः । त्वम् । अ॒स्य॒ । ब्राह्म॑णात् । आ । तृ॒पत् । पि॒ब॒ ॥५

एषः । स्यः । ते। तन्वः । नृम्णऽवर्धनः । सहः। ओजः । प्रऽदिवि। बाह्वोः । हितः।

तुभ्यं । सुतः।मघवन् । तुभ्यं। आऽभृतः। त्वं । अस्य। ब्राह्मणात्।आ। तृपत्।पिब ॥५॥

हे इंद्र स्यः स एष सोमस्ते तव तन्वः शरीरस्य नृम्णवर्धनः । बलस्य वर्धकः । तुभ्यं सुत इत्युत्तरत्र संबन्धः । येन सोमेन प्रदिवि पुराणे त्वयि बाह्वोर्हस्तयोः सहः परेषामभिभवनलक्षणं सामर्थ्यमोजस्तत्कारणभूतं बलं च हितः । निहितं भवति ॥ लिंगव्यत्ययः ॥ हे मघवन् धनवन्निंद्र तुभ्यं त्वदर्थं तादृशः सोमः सुतोऽध्वर्युभिरभिषुतः । तुभ्यं होतुमाभृतः । उत्तरवेद्यां प्रत्याहृतश्च । अस्येमं सोमं ब्राह्मणात् ब्राह्मणाच्छंसिनो यागात्तृपत् तृप्यंस्त्वमापिब । आभिमुख्येन पिब ॥ क्रियाग्रहणं कर्तव्यमिति कर्मणः संप्रदानत्वादस्येति चतुर्थ्यर्थे षष्ठी ॥


जु॒षेथां॑ य॒ज्ञं बोध॑तं॒ हव॑स्य मे स॒त्तो होता॑ नि॒विदः॑ पू॒र्व्या अनु॑ ।

अच्छा॒ राजा॑ना॒ नम॑ एत्या॒वृतं॑ प्रशा॒स्त्रादा पि॑बतं सो॒म्यं मधु॑ ॥६

जु॒षेथा॑म् । य॒ज्ञम् । बोध॑तम् । हव॑स्य । मे॒ । स॒त्तः । होता॑ । नि॒ऽविदः॑ । पू॒र्व्याः । अनु॑ ।

अच्छ॑ । राजा॑ना । नमः॑ । ए॒ति॒ । आ॒ऽवृत॑म् । प्र॒ऽशा॒स्त्रात् । आ । पि॒ब॒त॒म् । सो॒म्यम् । मधु॑ ॥६

जुषेथां। यज्ञं। बोधतं । हव॑स्य । मे। सत्तः । होता। निऽविदः। पूर्व्याः । अनु ।

अच्छ। राजाना। नमः। एति। आऽवृतं । प्रऽशास्त्रात्। आ। पिबतं। सोम्यं मधु ॥६॥

हे मित्रावरुणौ मदीयमिमं यज्ञं जुषेथां । सेवेथां । मे मम हवस्य हवमाह्वानम् ॥ पूर्ववत्कर्मणि षष्ठी ॥ बोधतं । अवगच्छतं । तथा सत्तो निषण्णोऽस्मदीयो होता पूर्व्याश्चिरंतनीर्निविदः ॥ वाङ्नामैतत् ॥ शस्त्रलक्षणा वाचोऽनु शंसतीति शेषः । उद्गातृभिः कृतस्य स्तोत्रस्यानुगुण्येनाज्यादीनि शस्त्राणि शंसतीत्यर्थः । अपि च नमः सोमलक्षणमन्नमावृतमृत्विग्भिर्वेष्टितं राजाना राजमानौ युवामच्छाभिमुख्येनैति । गच्छति प्राप्नोति । तादृशं सोम्यं सोममयं मधु मादकं हविः प्रशास्त्रात् प्रशास्तुर्यागादापिबतं । आभिमुख्येन पिबतं ॥ ॥२५॥


टिप्पणी

ऋतुशब्दोपरि पौराणिकसंदर्भाः

ऋतुशब्दोपरि टिप्पणी

अस्मिन् सूक्ते षड्भ्यः ऋतुभ्यः केवलं प्रथमानां त्रीणामेव उल्लेखमस्ति। एकस्मिन् ऋतौ द्वौ मासौ भवतः। कथनमस्ति यत् एकः मासः कारणं अस्ति, द्वितीयः कार्यं। एवंरूपेण मधुमासेन येषां बीजानां रोपणं माधवमासे भवति, तदनुसारेण क्रिया भवति। ये मासाः क्रियारूपाः सन्ति, तेषु षट्पदीरूपाणां बीजानां अन्वेषणं कर्तुं शक्यन्ते। कथनमस्ति - विष्णुरेकादशी गीता तुलसी विप्र धेनवः॥ असारे दुर्गसंसारे षट्पदी मुक्तिदायिनी। - गरुड २.२.२२-२४। माधवमासे तुलस्याः महत्त्वं पद्मपुराणे ५.९८ कथितमस्ति। कथनमस्ति यत् ये सूर्यस्य रश्मयः सन्ति, ते सूर्यस्य पदाः सन्ति, तेभ्यः सर्वे प्राणिनः पादं लभन्ते। व्यवहारे, या घटना अस्मान् स्थायीरूपेण छादयति, रूपान्तरितं करोति, तत् तस्याः पदमस्ति - साधुजनस्य कोपि उपदेशः पदं भवितुं शक्यते। षट्पदानां सकृदालंभनं संभवं नास्ति। एकैकानां पदानां अवगमनं संभवं अस्ति।

प्रवर्ग्य-उपसदइष्टीनां मध्ये अग्निचयनकृत्यसम्पादनं भवति। प्रथमा चितिः वसन्तः भवति, तदोपरि ग्रीष्मादि। सर्वोपरि पञ्चमी चितिः हेमन्तः भवति। प्रथमायां चित्यां उख्याग्नेः स्थापना भवति। या विकसितरूपे उषा अस्ति, तस्याः अविकसितरूपं उखा भवति। उषा ऋतूनां पत्नी भवति। उख्याग्नेः स्थापनात्पूर्वं तस्याः शोधनाय आरुणकेतुकाग्निचयनं भवति।

२.३६.१

वषट्कारोपरि वैदिकसंदर्भाः

षट्पदी उपरि टिप्पणी

होता उपरि टिप्पणी

वसन्तर्तोः कार्यं स्थूलद्रव्येषु प्राणानां प्रतिष्ठा अस्ति। सोमयागे सुत्यादिवसे होता ऋत्विक् प्रातरनुवाकसंज्ञकस्य कृत्यस्य कर्ता भवति। अस्मिन् कृत्ये रात्रेः चतुर्थप्रहरे, यस्मिन् काले कोपि पक्षीरपि कलरवं न करोति, तस्मिन् काले वाचं शृणोति। अस्याः वाचः उद्गमं अत्यन्तसूक्ष्मस्तरेषु अस्ति। होतुः किं कार्यमस्ति। स्थूलद्रव्यानां या अत्यन्तसूक्ष्मा वाक् अस्ति, तस्याः देवेभ्यः साकं सम्बन्धनम्। संगीतशास्त्रे स्थूलस्तराणां तालसंज्ञका या वाक् अस्ति, तस्याः जननं अवनद्धवाद्येभिः क्रियन्ते, अयं श्रीमती विमला मुसलगाँवकरस्याः (भारतीय संगीत शास्त्र का दर्शनपरक अनुशीलन(सङ्गीत रिसर्च अकादमी, कलकत्ता, १९९५) मतमस्ति।

पुराणेषु वसन्तर्तुः गुह्यतमा अस्ति। व्रजक्षेत्रे सर्वदैव वसन्तर्तोः वासं भवति। ब्राह्मणग्रन्थेषु उल्लेखमस्ति यत् सूर्यस्य उदयः वसन्तर्तोः प्रतीकमस्ति। अनुमानं अस्ति यत् कृष्णस्य बाललीलावर्णने कालियनागदमनस्य पूर्वं या लीला अस्ति, उदाहरणार्थं - शकटासुरवधः, पूतनावधः, गर्दभासुर एवं प्रलम्बासुरवधादि, तत्सर्वं वसन्तर्तुना सह सम्बद्धमस्ति।

२.३६.२

माधवोपरि टिप्पणी

पोताशब्दोपरि वैदिकसंदर्भाः

वसन्तोपरि संक्षिप्तटिप्पणी

प्रथमायां ऋचि होताऋत्विजस्य उल्लेखमस्ति, द्वितीयायां पोतुः। होता ऋत्विक् आज्यशस्त्रस्य शंसनं करोति, पोता? प्रउगशस्त्रस्य। आत्मा आज्यं भवति, प्राणः प्रउगम्। पोताऋत्विजस्य कार्यं पापानां अपचितिकरणं अस्ति। द्र. प्रउग उपरि संदर्भाः


२.३६.३

त्वष्टा

त्वष्टा उपरि टिप्पणी

नेष्टा उपरि टिप्पणी

अय प्रतीयते यत् पृष्ठ्यषडहसंज्ञकसोमयागे यः वैरूपसंज्ञकः तृतीयमहः अस्ति, तदत्र उपलक्षितं भवति। त्वष्टुः कार्यं या ऊर्जा विरूपा अस्ति, तां रूपप्रदानमस्ति। पुराणेषु त्वष्ट्रा सूर्यस्य रूपस्य तक्षणस्य कथा प्रसिद्धमस्ति। स्थूलस्तरे काम-क्रोधादीनां उर्जा विरूपा भवति।

शतपथब्राह्मण ८.१.१.८ अनुसारेण वसन्तर्तुः प्राणेन सम्बद्धा अस्ति, ग्रीष्मः मनसा, वर्षा चक्षुषा।

२.३६.४

आग्नीध्रोपरि टिप्पणी

Dr. Fatah Singh

अस्यां ऋचि देवानां वक्षणस्य - यक्षणस्य उल्लेखमस्ति। डा. फतहसिंहः कथयति स्म यत् वक्षणशब्दस्य सम्यक् व्याख्या आंग्लभाषायाः वैक्सिंग - वेनिंग शब्दाभ्यां भवितुं शक्यते। आग्नीध्रऋत्विजस्य प्रकृतिरपि वक्षण-यक्षणप्रकारस्य अस्ति। पुराणेषु सार्वत्रिकरूपेण (भविष्यपुराणम् ४.२५, पद्मपुराणम् १.२९ आदि) कथनमस्ति यत् कस्यापि अग्नेः जननं भवति यः विष्णोः वृक्षःस्थले स्थितस्य सौभाग्यस्य द्रवणं करोति। तत् सौभाग्यं पृथिव्यामुपरि सौभाग्याष्टकद्रव्यरूपेण प्रसरति। तेषां संग्रहणं अपेक्षितमस्ति।

शतपथब्राह्मणस्य ११.२.७.[३२] अयं कथनं महत्त्वपूर्णमस्ति - वसन्त आग्नीध्रस्तस्माद्वसन्ते दावाश्चरन्ति तद्ध्यग्निरूपं ग्रीष्मोऽध्वर्युस्तप्त इव वै ग्रीष्मस्तप्तमिवाध्वर्युर्निष्क्रामति वर्षा उद्गाता तस्माद्यदा बलवद्वर्षति साम्न इवोपब्दिः क्रियते....। अस्य कथनस्य संगतिः वर्तमान संदर्भेण सह अन्वेषणीयमस्ति।

वर्तमानसंदर्भे आग्नीध्रस्य उल्लेखं ग्रीष्मस्य शुचिसंज्ञके मासे अस्ति। वायुपुराणे २.२.१३ आग्नीध्रस्य पाठान्तरं ग्रीष्मः उपलब्धं भवति।

२.३६.५

ब्राह्मणाच्छंसी ऋत्विजोपरि टिप्पणी

अस्यां ऋचि सह - ओजः लक्षणं पृष्ठ्यषडहसंज्ञके सोमयागे वैराजसंज्ञकस्य चतुर्थअह्नः लक्षणं भवति। ब्राह्मणाच्छंसी ऋत्विजस्य संदर्भे अपि ओजः, ओ - तः, ओंकारतः जननस्य उल्लेखं भवति। वैराजअह्नःपूर्व तृतीयाह्नः संज्ञा वैरूपमस्ति - विरूपं, विकृतरूपम्। अयं प्रतीयते यत् चतुर्थे अह्नि सह शब्देन सममित्याः नवीनं उदयमस्ति। ब्राह्मणाच्छंसी ऋत्विक् ऋषभरूपे वीर्यस्य सेकं करोति। कस्मिन्। या प्रकृति वीर्यतः रिक्ता, विरला अस्ति।

२.३६.६

मैत्रावरुणोपरि संक्षिप्त टिप्पणी एवं संदर्भाः

भागवतपुराणे कथनमस्ति - ईश्वरे तदधीनेषु बालिशेषु द्विषत्सु च । प्रेममैत्रीकृपोपेक्षा यः करोति स मध्यमः ॥११.२. ४६ । एतेभ्यः यः बालिशः-कृपा लक्षणमस्ति, तस्य सम्बन्धः ब्राह्मणाच्छंसी ऋत्विजेन सह अस्ति। यः द्विषत्सु - उपेक्षा लक्षणमस्ति, तस्य सम्बन्धः मैत्रावरुणऋत्विजेन सह अस्ति, अयं प्रतीयते। ब्राह्मणाच्छंसी ऋत्विजस्य कृपा तदैव भविष्यति, वर्षा तदैव भविष्यति यदा वर्षणहेतु मण्डूकसदृशा अभीप्सा भविष्यति। किन्तु ये अज्ञानी जनाः सन्ति, ते वृष्टिं न जानन्ति। यदि केनापि कारणेन वृष्टिः भवति, तदा तेषु जनेषु वृष्टिं प्रति द्वेषः अस्ति। अस्यां स्थित्यां मैत्रावरुणः केन प्रकारेण सहायकः भवितुं शक्यते। अगस्त्यः मैत्रावरुणस्य अवतारः अस्ति। यत्र जलस्य अनावश्यकं संचयं अस्ति, तस्य शोषणस्य विद्या अगस्त्यः जानाति। वरुणः दुरिष्टस्य क्षयं करोति।

मैत्रावरुणऋत्विजाय वशा गवाः आलभनं भवति। वशा अर्थात् कामानां या वृष्टिः अथवा वीर्यसेचनं भवति, तत् वशा गौः स्वयोन्यां न धारयति, तस्य पोषणं न करोति। गौतमबुद्ध विषये प्रसिद्धमस्ति यत् यस्यां रात्रौ स्वप्नाः अपि प्रकटिताः नाभूवन्, सा रात्रिः मोक्षस्य रात्रिः आसीत्।

प्रशास्ता शब्दस्य प्रयोगः सामान्य रूपेण मैत्रावरुणऋत्विजोः आह्वानाय भवति। प्रशास्ता अर्थात् विशिष्टरूपेण ज्ञानदाता। सामान्यरूपेण द्वेषस्य सह अच्छावाक् ऋत्विजस्य सम्बद्धता भवति, अयं अनुमानं अस्ति।


मण्डल २

सूक्तं २.१

सूक्तं २.२

सूक्तं २.३

सूक्तं २.४

सूक्तं २.५

सूक्तं २.६

सूक्तं २.७

सूक्तं २.८

सूक्तं २.९

सूक्तं २.१०

सूक्तं २.११

सूक्तं २.१२

सूक्तं २.१३

सूक्तं २.१४

सूक्तं २.१५

सूक्तं २.१६

सूक्तं २.१७

सूक्तं २.१८

सूक्तं २.१९

सूक्तं २.२०

सूक्तं २.२१

सूक्तं २.२२

सूक्तं २.२३

सूक्तं २.२४

सूक्तं २.२५

सूक्तं २.२६

सूक्तं २.२७

सूक्तं २.२८

सूक्तं २.२९

सूक्तं २.३०

सूक्तं २.३१

सूक्तं २.३२

सूक्तं २.३३

सूक्तं २.३४

सूक्तं २.३५

सूक्तं २.३६

सूक्तं २.३७

सूक्तं २.३८

सूक्तं २.३९

सूक्तं २.४०

सूक्तं २.४१

सूक्तं २.४२

सूक्तं २.४३


"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_२.३६&oldid=400225" इत्यस्माद् प्रतिप्राप्तम्