गरुडपुराणम्/प्रेतकाण्डः (धर्मकाण्डः)/अध्यायः २

विकिस्रोतः तः
Jump to navigation Jump to search
← प्रेतकाण्डः (धर्मकाण्डः),अध्यायः १ गरुडपुराणम्
अध्यायः २
वेदव्यासः
प्रेतकाण्डः (धर्मकाण्डः),अध्यायः ३ →

श्रीगरुडमहापुराणम् २
श्रीकृष्ण उवाच ।
साधु पृष्टं त्वया भद्र मानुषाणां हिताय वै ।
शृणुष्वावहितो भूत्वा सर्वमेवौर्ध्वदैहिकम् ॥ २,२.१ ॥

सम्यग्विभेदरहितं श्रुतिस्मृतिसमुद्धृतम् ।
यन्न दृष्टं सुरैः सेन्द्रैर्योगिभिर्योगचिन्तकैः ॥ २,२.२ ॥

गुह्यद्गुह्यतरं तच्च नाख्यातं कस्यचित्क्वचित् ।
भक्तस्त्वं हि महाभाग वैनतेयं ब्रवीमि ते ॥ २,२.३ ॥

अपुत्रस्य गतिर्नास्तु स्वर्गो नैव च नैव च ।
येन केनाप्युपायेन कार्यं जन्म सुतस्य हि ॥ २,२.४ ॥

तारयेन्नरकात्पुत्त्रो यदि मोक्षो न विद्यते ।
स्कन्धः पुत्रेण कर्तव्यो ह्यग्निदाता च पौत्रकः ॥ २,२.५ ॥

तिलदर्भैश्च भूम्यां वै कुटी ऋतुमती भवेत् ।
पञ्च रत्नानि वक्त्रे तु येन जीवः प्ररोहति ॥ २,२.६ ॥

यदा पुष्पं प्रनष्टं हि क्व तदा गर्भधारणम् ।
आदराच्च ततो भूमौ येन गर्भं प्रधार्यते ॥ २,२.७ ॥

लेप्या तु गोमयैर्भूमिस्तिलान्दर्भान्विनिः क्षिपेत् ।
तस्यामेवातुरो मुक्तः सर्वं दहति किल्बिषम् ॥ २,२.८ ॥

दर्भतूली नयेत्स्वर्गमातुरस्य न संशयः ।
दर्भांस्तत्र क्षिपेद्वाथ तूलीगेन्दुकमध्यतः ॥ २,२.९ ॥

सर्वत्र वसुधापूता यत्र लेपो न विद्यते ।
यत्र लेपः स्थितस्तत्र पुनर्लेपेन शुध्यति ॥ २,२.१० ॥

यातुधानाः पिशाचाश्च राक्षसाः क्रूरकर्मिणः ।
अलेपं ह्यातुरं मुक्तं विशन्त्येते वियोनयः ॥ २,२.११ ॥

नित्यहोमस्तथा श्राद्धं पादशौचं द्विजे तथा ।
मण्डलेन विना भूम्यामातुरो मुच्यते न हि ॥ २,२.१२ ॥

ब्रह्मा विष्णुश्च रुद्रश्च श्रीर्हुताशस्तथैव च ।
मण्डले चोपतिष्ठन्ति तस्मात्कुर्वीत मण्डलम् ॥ २,२.१३ ॥

अन्यथा म्रियते वालो वृद्धस्तार्क्ष्ययुवाथवा ।
योन्यन्तरं न गच्छेत्स क्रीडते वायुना सह ॥ २,२.१४ ॥

मिश्रितं लोहितामिश्रं तदेवं जन्म जीयते ।
तस्यैव वायुभूतस्य न श्राद्धं नोदकक्रिया ॥ २,२.१५ ॥

मम स्वेदसमुद्भूतास्तिलास्तार्क्ष्य पवित्रकाः ।
असुरा दानवा दैत्या विद्रवन्ति तिलैस्तथा ॥ २,२.१६ ॥

तिलाः श्वेतास्तिला कृष्णास्तिला गोमूत्रसंन्निभाः ।
दहन्तु ते मे पापानि शरीरेण कृतानि वै ॥ २,२.१७ ॥

एक एव तिलो दत्तो हेमद्रोणतिलैः समः ।
तर्पणे दानहोमेषु दत्तो भवति चाक्षयः ॥ २,२.१८ ॥

दर्भा रोमसमुद्भूतास्तिलाः स्वेदेषु नान्यथा ।
देवता दानवास्तृप्ताः श्राद्धेन पितरस्तथा ॥ २,२.१९ ॥

प्रयोगविधिना ब्रह्मा विश्वं चाप्युपजीवनाम् ।
अपसव्यादितो ब्रह्मा पितरो देवदेवताः ॥ २,२.२० ॥

तेन ते पितरस्तृप्ता अपसव्ये कृते सति ।
दर्भमूले स्थितो ब्रह्मा मध्ये देवो जनार्दनः ॥ २,२.२१ ॥

दर्भाग्रे शङ्करं विद्यात्त्रयो देवाः कुशे स्मृताः ।
विप्रा मन्त्राः कुशा वह्निस्तुलसी च खगेश्वर ॥ २,२.२२ ॥

नैते निर्माल्यतां यान्ति क्रियमाणाः पुनः पुनः ।
तुलसी ब्राह्मणा गावो विष्णुरेकादशी खग ॥ २,२.२३ ॥

पञ्च प्रवहणान्ये भवाब्धौ मज्जतां नृणाम् ।
विष्णुरेकादशी गीता तुलसी विप्रधेनवः ॥ २,२.२४ ॥

असारे दुर्गसंसारे षट्पदी मुक्तिदायिनी ।
तिलाः पवित्रमतुलं दर्भाश्चापि तुलस्यथ ॥ २,२.२५ ॥$

निवारयन्ति चैतानि दुर्गतिं यान्तमातुरम् ।
हस्ताभ्यामुद्धरेद्दर्भांस्तोयेन प्रोक्षयेद्भुवि ॥ २,२.२६ ॥

मृत्युकाले क्षिपेद्दर्भान्करयोरातुरस्य च ।
दर्भैस्तु क्षिप्यते योऽसौ दर्भैस्तु परिवेष्टितः ॥ २,२.२७ ॥

विष्णुलोके स वै याति मन्त्रहीनोऽपि मानवः ।
तूलीं कृत्वा कृतौ पादौ संस्थितौ क्षितिपृष्ठतः ॥ २,२.२८ ॥

प्रायाश्चित्तं विशुद्धाग्नौ संसारेऽसारसागरे ।
गोमयेनोपलिम्पेत्तु दर्भास्तरणसंस्थिते ॥ २,२.२९ ॥

यने दत्तेन दानेन सर्वं पापं व्यपोहति ।
लवणं तद्रसं दिव्यं सर्वकामप्रदं नृणाम् ॥ २,२.३० ॥

यस्मादन्नरसाः सर्वे नोत्कटा लवणं विना ।
पितॄणां च प्रियं भव्यं तस्मात्स्वर्गप्रदं भवेत् ॥ २,२.३१ ॥

विष्णुदेहसमुद्भूतो यतोऽयं लवणो रसः ।
एतत्सलवणं दानं तेन शंसन्ति योगिनः ॥ २,२.३२ ॥

ब्राह्मणक्षत्त्रियविशां स्त्रीणां शूद्रजनस्य च ।
आतुरस्य यदा प्राणा न यान्ति वसुधातले ॥ २,२.३३ ॥

लवणं तु तदा देयं द्वारस्योद्वाटनं दिवः ।
अन्यच्च शृणु पक्षीन्द्र मृत्यो रूपं प्रपञ्चतः ॥ २,२.३४ ॥

यस्य कालेन नो यायाद्वियोगः प्राणदेहयोः ।
प्राणिनश्च स्वसमये मृत्युरत्यन्तविस्मृतिः ॥ २,२.३५ ॥

यथा वायुर्जलधरान्विकर्षति यतस्ततः ।
तद्वज्जलदवत्तार्क्ष्य कालस्यैव वशानुगाः ॥ २,२.३६ ॥

सात्त्विका राजसाश्चैव तामसा ये च केचन ।
भावाः कालात्मकाः सर्वे प्रवर्तन्ते हि जन्तुषु ॥ २,२.३७ ॥

आदित्यश्चन्द्रमाः शम्भुरापो वायुः शतक्रतुः ।
अग्निः खं पृथिवी मित्र ओषध्यो वसवस्तथा ॥ २,२.३८ ॥

सरितः सागराश्चैव भावाभावौ च सर्पहन् ।
सर्वे कालेन सृज्यन्ते संक्षिप्यन्ते यथा पुनः ॥ २,२.३९ ॥

कालेन संह्रियन्ते च नृनं मृत्यावुपस्थिते ।
दैवयोगात्त्दा व्याधिः कश्चिदुत्पद्यते खग ॥ २,२.४० ॥

वैकल्यमिन्द्रियाणां च बलौ जोरंहसां भवेत् ।
युगपद्वश्चिककोटिशूकदंशो भवेद्यदि ॥ २,२.४१ ॥

तदानुमीयते तेन पीडा मृत्युभवा खग ।
ततः क्षणेन चैतन्ये विकले जडतां गते ॥ २,२.४२ ॥

प्रिचाल्यन्ते ततः प्राणा याम्यैर्निकटवर्तिभिः ।
बीभत्सं तु तदा रूपं प्राणैः कण्ठगतैर्भवेत् ॥ २,२.४३ ॥

फेमुद्गिरते सोऽथ मुखं लालाकुलं भवेत् ।
अङ्गुष्ठमात्रपुरुषो हाहा कुर्वंस्ततस्तनोः ॥ २,२.४४ ॥

तदैव नीयते द्वतैर्याम्यैर्वोक्षन्स्वकं गृहम् ।
भूय एव हिते तात मृत्युकालदशामिमाम् ॥ २,२.४५ ॥

अष्मा प्रकुपितः काये तीव्रवायुसमीरितः ।
भिनत्ति मर्मस्थानानि दीप्यमानो निरिन्धनः ॥ २,२.४६ ॥

उदानो नाम पवनस्ततश्चोर्ध्वं प्रवर्तते ।
भक्तानामबुभुक्षाणामधोगतिनिरोधकृत् ॥ २,२.४७ ॥

यैर्नानृतानि चोक्तानि प्रीतिभेदः कृतो न च ।
आस्तिकः श्रद्दधानश्च स सुखं मृत्युमृच्छति ॥ २,२.४८ ॥

यो न कामान्न संरंभान्न द्वेषाद्धर्ममुत्सृजेत् ।
यथोक्तकारी सौम्यश्च स सुखं मृत्युमृच्छति ॥ २,२.४९ ॥

मोहज्ञानप्रदातारः प्राप्नुवन्ति महत्तमः ।
कूटसाक्षी मृषावादी ये च विश्वासघातकाः ॥ २,२.५० ॥

ते मोहं मृत्युमृच्छन्ति तथा ये वेदनिन्दकाः ।
विभीषकाः पूतिगन्धा यष्टिमुद्गरपाणयः ॥ २,२.५१ ॥

आगच्छन्ति दुरात्मानो यमस्य पुरुषास्तदा ।
प्राप्ते त्वीदृक्पथे घोरे जायते तस्य वेपथुः ॥ २,२.५२ ॥

क्रन्दत्यविरतं सोऽपि पितृमातृसुतानपि ।
सास्य वागस्फुटा यत्नेनैकवर्णा विभासते ॥ २,२.५३ ॥

दृष्टिर्वै भ्राम्यते त्रासाच्छ्वासाच्छुष्यति चाननम् ।
स ततो वेदनाविष्टस्तच्छरीरं विमुञ्चति ॥ २,२.५४ ॥

अस्पृश्यं कुत्सनीयं च तत्क्षणादेव जायते ।
उक्तं मृत्योः स्वरूपं तु प्रसङ्गादन्यदप्यथ ॥ २,२.५५ ॥

वैचित्र्यस्योत्तरं प्रश्रे द्वितीयस्य वदामि ते ।
कर्मणां प्राक्तनानां तु तदसत्त्वेनं भदेतः ॥ २,२.५६ ॥

भवेद्भोगस्य वैचित्र्यं भ्राम्यतां प्राणिनामिह ।
देवत्वमसुरत्वं च यक्षत्वादिसुखप्रदम् ॥ २,२.५७ ॥

मानुषत्वं पशुत्वं च पक्षित्वाद्यतिदुः खदम् ।
कर्मणां तारतम्येन भवतीह खगेश्वर ॥ २,२.५८ ॥

अत्र ते कीर्तयिष्यामि विपाकं कर्मणामहम् ।
वैचित्र्यस्य स्पुटत्वाययैर्जोवः संसरत्ययम् ॥ २,२.५९ ॥

महापातकजान्घोरान्नरकान्प्राप्य दारुणान् ।
कर्मक्षयात्प्रजायन्ते महापातकिनः क्षितौ ॥ २,२.६० ॥

जायन्ते लक्षणैर्यैस्तुतानि मे शृणु सत्तम ।
मृगाश्वसूकरोष्ट्राणां ब्रह्महा योनिमृच्छति ॥ २,२.६१ ॥

कृमिकीटपतङ्गत्वं स्वर्णहारी समाप्नुयात् ।
तृणगुल्मतात्वं च क्रमशो गुरुतल्पगः ॥ २,२.६२ ॥

ब्रह्महा क्षयरोगी स्यात्सुरापः श्यावदन्तकः ।
हेमहारी तु कुनखी दुश्चर्मा गुरुतल्पगः ॥ २,२.६३ ॥

यो येन संवसत्येषां स तल्लिङ्गोऽभिजायते ।
संवत्सरेण पतति पतितेन सहाचरन् ॥ २,२.६४ ॥

संलापस्पर्शनिः श्वाससहयानाशनासनात् ।
याजनाध्यापनाद्यौनात्पापं संक्रमते नृणाम् ॥ २,२.६५ ॥

गत्वा दारान्परेषाञ्च ब्रह्मस्वमपहृत्य च ।
अरण्ये निर्जने देशे जायते ब्रह्मराक्षसः ॥ २,२.६६ ॥

हीनजातौ प्रजायेत रत्नानामपहारकः ।
पत्रं च शाखिनो हृत्वा गन्धांश्छुच्छुन्दरी पुमान् ॥ २,२.६७ ॥

मूषको धान्यहारी स्याद्यानमुष्ट्रः फलं कपिः ।
निर्मन्त्रभोजनात्काको गृध्रो हृत्वा ह्युपस्करम् ॥ २,२.६८ ॥

मधुदंशः फलं गृध्रो गां गोधाग्निं बकस्तथा ।
स्याच्छ्वेतकुष्ठी स्त्रीवस्त्र ह्यरुची रसहारकः ॥ २,२.६९ ॥

कांस्यहारी तु हंसः स्यात्परस्वस्य च हारकः ।
अपस्मारी गुरोर्हन्ता क्रूरकृद्वामनो भवेत् ॥ २,२.७० ॥

धर्मपत्नीं त्यजञ्छब्दवेधी प्राणी भवेत्क्षितौ ।
देवविप्रस्वापहारी पाण्डुरः परमांसभुक् ॥ २,२.७१ ॥

भक्ष्याभक्ष्यो गण्डमाली महारोगी प्रजायते ।
न्यासापहारी काणः स्यास्त्रीजीवः खञ्जको भवेत् ॥ २,२.७२ ॥

कौमारदारत्यागी च दुर्भगोऽथै कमिष्टभुक् ।
वातगुल्मी विप्रयोषिद्गामी वा जम्बुको भवेत् ॥ २,२.७३ ॥

शय्याहर्ता क्षपणकः पतङ्गो वस्त्रहारकः ।
मात्सर्यादपि जात्यन्धो कपाली दीपहारकः ॥ २,२.७४ ॥

कौशिको मित्रहन्ता च क्षयी पित्रादिनिन्दकः ।
स्खलद्वागनृतवादी कूटसाक्षी जलोदरी ॥ २,२.७५ ॥

मशकः सोऽथ चछिन्नोष्ठो विवाहे विघ्नकृद्भवेत् ।
स्याद्वाथ वृषलः सोऽयं चत्वरे वै विण्मूत्रकृत् ॥ २,२.७६ ॥

मूत्रकृच्छ्री दूषकस्तु कन्यायाः क्लीबतामियात् ।
द्वीपी स्याद्वेदविक्रेता वराहोऽयाज्ययाजकः ॥ २,२.७७ ॥

यतस्ततोऽश्रन्मार्जारो खद्योतो वहदाहकः ।
कृमिः पर्युषितादः स्यान्मत्सरी भ्रमरो भवेत् ॥ २,२.७८ ॥

अग्न्युत्सादी तु कुष्ठी स्याददत्ताऽदानतो वृषः ।
सर्पो गोहारकोऽन्नस्य हारकः स्यादजीर्णवान् ॥ २,२.७९ ॥

जलहारी तु मत्स्यः स्यात्क्षीरहारी बलाकिका ।
अन्नं पर्युषितं विप्रे प्रददत्कुब्जतां व्रजेत् ॥ २,२.८० ॥

फलानि हरते यस्तु सन्ततिर्म्रियते खग ।
अदत्त्वा भक्ष्यमश्राति ह्यनपत्यो भवेन्नरः ॥ २,२.८१ ॥

प्रवज्यागमनाद्राजन् भवेन्मरुपिशाचकः ।
चातको जलहर्ता स्याज्जन्मान्धः पुंस्तकं हरन् ॥ २,२.८२ ॥

प्रतिश्रुत्य द्विजेभ्योर्ऽथमददज्जम्बुको भवेत् ।
परिवादादिजातीनां लभते काच्छपीं तनुम् ॥ २,२.८३ ॥

दुर्भगः फलविक्रेता वृकश्च वृषलीपतिः ।
मार्जारोऽग्निं पदा स्पृष्ट्वा रोगवान्परमांसभुक् ॥ २,२.८४ ॥

जलप्रस्त्रवणं यस्तु भिन्द्यान्मत्स्यो भवेन्नरः ।
हरेः कथां न शृण्वन्ति ये न साधुजनस्तवम् ॥ २,२.८५ ॥

तान्नरान्कर्णमूलोऽयं व्याप्नुयान्नेतराञ्जनान् ।
परस्याननसंस्थं यो ग्रासं हरि मन्दधीः ॥ २,२.८६ ॥

देवोपकरणान्येनं गण्डमालिनमीहते ।
दम्भेनाचरते धर्मं गजचर्मा भवेत्तु सः ॥ २,२.८७ ॥

शिरोऽर्तिप्रमुखा रोगा यान्ति विश्वासघातकम् ।
लिङ्गपीडी शिवस्वं च शिवनिर्माल्यमेव च ॥ २,२.८८ ॥

स्त्रियोऽप्यनेन मार्गेण हृत्वा दोषमवाप्नुयुः ।
एतेषामेव जन्तूनां भार्यात्वमुपजायते ॥ २,२.८९ ॥

भोगान्ते नरकस्यैतत्सर्वमित्यवधारय ।
खघ प्रदर्श्यमेतत्तु मयोक्तं ते समासतः ।
द्रव्यप्रकारा हि यथा तथैव प्राणिजातयः ॥ २,२.९० ॥

एवं विचित्रैर्निजकर्मभिर्नृणां सुखस्य दुः खस्य च जन्मनामपि ।
वैचित्र्यमुक्तं शुभकर्मतः शुभं तथाशुभाच्चाशुभमीरयन्ति ॥ २,२.९१ ॥

एतत्ते सर्वंमाख्यातं यत्पृष्टोऽहमिह त्वया ॥ २,२.९२ ॥

इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीयांशे प्रतका(ख)ण्डे श्रीकृष्णगरुडसंवादे और्ध्वदेहिकविधिकर्मविपाकयोर्वर्णनं नाम द्वितीयोऽध्यायः

[सम्पाद्यताम्]

$षट्पद्योपरि अन्य संदर्भाः $ षट्पद्योपरि अन्य संदर्भाः