शतपथब्राह्मणम्/काण्डम् १३/अध्यायः २/ब्राह्मण ७

विकिस्रोतः तः
Jump to navigation Jump to search

१३.२.७

नियुक्तेषु पशुषु प्रोक्षणीरध्वर्युरादत्तेऽश्वं प्रोक्षिष्यन्नन्वारब्धे यजमान आध्वरिकं यजुरनुद्रुत्याश्वमेधिकं यजुः प्रतिपद्यते - १३.२.७.[१]

वायुष्ट्वा पचतैरवत्विति वायुरेवैनं पचत्यसितग्रीवश्छागैरित्यग्निर्वा असितग्रीवोऽग्निरेवैनं छागैः पचति - १३.२.७.[२]

न्यग्रोधश्चमसैरिति यत्र वै देवा यज्ञेनायजन्त त एतांश्चमसान्न्यौब्जंस्ते न्यञ्चो न्यग्रोधा रोहन्ति - १३.२.७.[३]

शल्मलिर्वृद्ध्येति शल्मलौ वृद्धिं दधाति तस्माच्छल्मलिर्वनस्पतीनां वर्षिष्ठं वर्धते - १३.२.७.[४]

एष स्य राथ्यो वृषेति अश्वेनैव रथं सम्पादयति तस्मादश्वो नान्यद्रथाद्वहति - १३.२.७.[५]

पड्भिश्चतुर्भिरेदगन्निति तस्मादश्वस्त्रिभिस्तिष्ठंस्तिष्ठत्यथ युक्तः सर्वैः पद्भिः सममायुते - १३.२.७.[६]

ब्रह्माऽकृष्णश्च नोऽवत्विति चन्द्रमा वै ब्रह्माऽकृष्णश्चन्द्रमस एवैनम्परिददाति नमोऽग्नय इत्यग्नय एव नमस्करोति - १३.२.७.[७]

संशितो रश्मिना रथ इति रश्मिनैव रथं सम्पादयति तस्माद्रथः पर्युतो दर्शनीयतमो भवति - १३.२.७.[८]

संशितो रश्मिना हय इति रश्मिनैवाश्वं सम्पादयति तस्मादश्वो रश्मिना प्रतिहृतो
भूयिष्ठं रोचते - १३.२.७.[९]

संशितो अप्स्वप्सुजा इति अप्सुयोनिर्वा अश्वः स्वयैवैनं योन्या समर्धयति ब्रह्मा
सोमपुरोगव इति सोमपुरोगवमेवैनं स्वर्गं लोकं गमयति - १३.२.७.[१०]

स्वयं वाजिंस्तन्वं कल्पयस्वेति स्वयं रूपं कुरुष्व यादृशमिच्छसीत्येवैनं तदाह स्वयं यजस्वेति स्वाराज्यमेवास्मिन्दधाति स्वयं जुषस्वेति स्वयं लोकं रोचयस्व यावन्तमिच्छसीत्येवैनं तदाह महिमा तेऽन्येन न संनश इत्यश्वमेव महिम्ना समर्धयति - १३.२.७.[११]

न वा उ एतन्म्रियसे न रिष्यसीति प्रश्वासयत्येवैनं तद्देवां इदेषि पथिभिः सुगेभिरिति देवयानानेवैनं पथो दर्शयति यत्रासते सुकृतो यत्र ते ययुरिति सुकृद्भिरेवैनं सलोकं करोति तत्र त्वा देवः सविता दधात्विति सवितैवैनं स्वर्गे लोके दधाति प्रजापतये त्वा जुष्टं प्रोक्षामीत्युपांश्वथोपगृह्णाति - १३.२.७.[१२]

अग्निः पशुरासीत् तेनायजन्त स एतं लोकमजयद्यस्मिन्नग्निः स ते लोको भविष्यति तं जेष्यसि पिबैता अप इति यावानग्नेर्विजयो यावांल्लोको यावदैश्वर्यं तावांस्ते विजयस्तावांल्लोकस्तावदैश्वर्यं भविष्यतीत्येवैनं तदाह - १३.२.७.[१३]

वायुः पशुरासीत् तेनायजन्त स एतं लोकमजयद्यस्मिन्वायुः स ते लोको भविष्यति
तं जेष्यसि पिबैता अप इति यावान्वायोर्विजयो यावांल्लोको यावदैश्वर्यं तावांस्ते विजयस्तावांल्लोकस्तावदैश्वर्यं भविष्यतीत्येवैनं तदाह - १३.२.७.[१४]

सूर्यः पशुरासीत् तेनायजन्त स एतं लोकमजयद्यस्मिन्त्सूर्यः स ते लोको भविष्यति
तं जेष्यसि पिबैता अप इति यावान्त्सूर्यस्य विजयो यावांल्लोको यावदैश्वर्यं तावांस्ते
विजयस्तावांल्लोकस्तावदैश्वर्यं भविष्यतीत्येवैनं तदाह तर्पयित्वाश्वं पुनः संस्कृत्य प्रोक्षणीरितरान्पशून्प्रोक्षति तस्यातः - १३.२.७.[१५]