शतपथब्राह्मणम्/काण्डम् १३/अध्यायः २

विकिस्रोतः तः
Jump to navigation Jump to search


ब्राह्मण १

१ अन्नहोमब्राह्मणम -- तत्रादौ अन्नहोमानामुत्पत्तिविधेः सार्थवादं सप्रयोजनमभिधानं, तत्राज्यसक्तुधानालाजानां क्रमेणावयुत्य सार्थवाद विधानं, विहितान्नहोमसाधनभूतानां मन्त्राणां साभिप्रायं दिक्प्रदर्शनं, तत्र "द्वाभ्यां स्वाहा, शताय स्वाहा” इत्यनयोराहुत्योरान्तरालिकानां "त्रिभ्यः स्वाहा” इत्यादीनाम् "एकोनशताय स्वाहा" इत्यन्तानामाहुतिमन्त्राणामुपसंहृतस्वाध्यायतया साभिप्रायं सार्थवादं दिक्प्रदर्शनं, नैकशतमतीयादिति निन्दार्थवादसहितमभिधानम् , एकशतं जुहुयादिति प्रशंसार्थवादसहितमभिधानं, तत "व्युष्ट्यै स्वाहा स्वर्गाय स्वाहा ” इति द्वे आहुती साभिप्रायिके समन्त्रके जुहुयादिति विधानं, तत्र पूर्वाहुतिरनुदित आदित्ये द्वितीयोत्तराहुतिरुदिते आदित्ये च होतव्येति सार्थवादं विधानं चेत्यादि.


ब्राह्मण २

२ अश्वमेधस्य यज्ञराजत्वं यजमानाश्वमेधयोर्यज्ञरूपत्वेनाभिन्नत्वं चोपपाद्य पशूनां यूपे नियोजनस्य प्रकृतयज्ञारम्भकत्वप्रतिपादनम्, आश्वमेधिकानामश्वतूपरगोमृगैः सह कृष्णग्रीवादिवामनान्तानां पञ्चदशानां पर्यङ्ग्यपशूनां देवतासम्बन्धस्य बन्धनस्थानस्य च सार्थवादमभिधानं, पर्यङ्ग्यपशूनां पञ्चदशत्वसंख्यायाः पञ्चदशवज्रात्मकत्वमभिधाय तद्रूपेण प्रशंसनं, मध्यमे यूपे आग्नेयावेकादशिनौ द्वौ पर्यङ्ग्याः पञ्चदश चेत्येवं सप्तदश पशून्नियुज्यालभेतेति सार्थवादमभिधानम् , इतरेषु तु यूपेषु षोडश षोडश पशून्नियुज्यालभतेति च सार्थवादमभिधानं, तानेतान्पशून्कथमाप्रीणीयादित्याशङ्क्य " समिद्धोऽअञ्जन् ” इत्यादिभिरेकादशभिर्बार्हदुक्थीभिर्ऋग्भिराप्रीणीयादिति केषाञ्चिन्मतं सकारणमुपन्यस्य तत्प्रतिषिध्य च " समिद्धोऽ अद्य मनुषो दुरोणे" इत्यादिभिरेकादशभिर्जामदग्नीभिरेवाप्रीणीयादिति साभिप्रायं स्वमतप्रदर्शनम्, एतेषामश्वादिपर्यङ्ग्यपशूनामेके पृथक्पृथक् याज्यापुरोऽनुवाक्याः कुर्वन्ति इत्येकीयं मतमुपन्यस्य तत्तथा न कुर्यादिति सकारणं प्रत्याख्याय प्राजापत्यस्याश्वादेः पृथग्याज्याऽनुवाक्ये कर्तव्ये इतरेषां सर्वेषां साधारण्यौ देवदेवत्ये द्वे एव कर्तव्ये इति सकारणं सार्थवादं स्वमतनिरूपणम्, अश्वस्य हिरण्यपरिकृतः शासः -- अश्वव्यतिरिक्तानां पर्यङ्ग्यपशूनां ताम्रपरिष्कृताः शासाः इतरेषां रोहितादीनां त्वायसाः शासाः भवन्तीति सार्थवादं प्रतिपादनम् , अश्वस्य हिरण्यस्य च क्षत्ररूपत्वेन प्रशंसनम् , पर्यङ्ग्यशासपरिष्करणसाधनस्य ताम्रस्य सदृष्टान्तमुपकरणरूपत्वेन प्रशंसनम्, इतरेषां रोहितादिपशूनां तच्छासप्रकृतिद्रव्यस्यायसश्च विड्रूपेण प्रशंसनम् , अश्व. स्यावदानानामाहवनीयस्योत्तरपार्श्वे वेतसशाखामये कटे निधानस्य सार्थवादं विधानं चेत्यादि.


ब्राह्मण ३

३ अश्वमेधे मध्यमेऽहनि अश्वस्य पुच्छमालभ्य बहिष्पवमानाय सर्पणं कर्तव्यमिति सार्थवादं विधानं, तत्र प्रस्तोतृप्रतिहर्तृभ्यां सहोद्गातोद्गायेदित्येकीयं मतं निरूप्य सकारणं तनिषिध्य चोद्गातारमपरुध्योद्गीथायाश्वमेव वृणीते इति सार्थवादं स्वमतनिरूपणं, तत्राप्यश्वस्य वडवादर्शनेन यद्धिङ्करणं तस्य सार्थवादं सामरूपत्वप्रतिपादनम्, उद्गातृभ्यः शतपरिमाणा सुवर्णरूपा स्तोत्रदक्षिणा देयेति स्तावकार्थवादातिदेशसहितं विधानं चेति.


ब्राह्मण ४

४ आश्वमेधिकानां ग्राम्याणामारण्यानां च पशूनां मनुष्यदेवोभयलोकजयहेतुत्वस्य सेतिहासमभिधानं, तत्र ग्राम्यैरश्वादिमिः पशुभिरमुमश्वमेधयज्ञं संस्थापयेदिति प्रशंसकार्थवादसहितं विधानम् , आरण्यान्पशूंस्तु पर्यग्निकृतानेवोत्सृजेदिति निन्दार्थवादेनाभिधानम् , अत्रोक्तेऽर्थे मीमांसापूर्विकाया विद्वत्सम्मतेः प्रदर्शनं, ग्राम्यैः संस्थापनस्य प्रकारान्तरेण प्रशंसनं चेत्यादि.

ब्राह्मण ५

५ आश्वमेधिका ग्राम्याः पशवः पञ्चदशिनश्चातुर्मास्या एकादशिनश्चेत्येते त्रिविधा भवन्ति तत्र पञ्चदशिषु पशुष्वर्धमाससम्पत्तेः प्रदर्शनं, चातुर्मास्यदेवताकेषु पशुषु संवत्सरसम्पत्तेः प्रदर्शनम् , एकादशिनेषु पशुषु स्वर्गसम्पत्तेः प्रदर्शनं, दशिषु पशुषु विराट्सम्पत्तेः प्रदर्शनम्, एकादश दशतः पशुषु त्रिष्टुप्सम्पत्तेः प्रदर्शनं, पशूनां नानारूपत्वस्य सोपपत्तिकं प्रदर्शनं चेत्यादि.


ब्राह्मण ६

६ समन्त्रकं सार्थवादं रथेऽश्वनियोजनादिकस्य विधानं, समन्त्रकं सार्थवादं विमुक्तस्याश्वस्य महिषीवावातापरिवृक्ताख्यपत्नीत्रयकर्तृकस्याज्येनाभ्यञ्जनस्य विधानं, महिष्याद्याः पत्न्योऽश्वस्य केसरपुच्छेषु सुवर्णमयान्मणीन्यथा न पतन्ति तथा महाव्याहृतिभिराबध्नन्ति इति सदृष्टान्तं सार्थवादं विधानं, रात्रिहुतशेषमतिरिक्तमाज्यसक्तुधानालाजात्मकमन्नमश्वाय प्रयच्छतीति मन्त्रतदभिप्रायसहितं विधानं, यूपमभितो होतृब्रह्मणोर्ब्रह्मोद्यवदनस्य सार्थवादं विधानं, तत्रादौ ब्रह्मणः प्रश्नकर्तृत्वं होतुश्चोत्तरप्रदातृत्वं पश्चाद्धोतुः प्रश्नकर्तृत्वं ब्रह्मण उत्तरप्रदातृत्वं चेत्येवंक्रमेण ब्रह्मोद्यसम्बन्धिप्रश्नप्रतिवचनानां निरूपणं चेत्यादि.


ब्राह्मण ७

७ नियुक्तेषु पशुष्वन्वारब्धे च यजमानेऽश्वं प्रोक्षिष्यन्नध्वर्युः प्रोक्षणीरादायाध्वरिक यजुः पठित्वाऽऽश्वमेधिक यजुर्जातं पठतीत्यभिधानं, तदेतद्विहितं यजुर्जातमभिधाय तस्य साभिप्रायं व्याख्यानम्, अश्वस्य मुखे प्रोक्षणीनां धारणे विनियुक्तान्याश्वमेधिकानि यजूंष्यभिधाय तेषामभिप्रायप्रदर्शनं, प्रोक्षणीः पुनः संस्कृत्येतरान्पशून्प्रोक्षतीति विधानं, विहितस्यास्य ब्राह्मणमग्रे वक्ष्यत इत्यभिधानं चेत्यादि.


ब्राह्मण ८

८ वासोऽधिवासं हिरण्यं चेत्येतत्त्रयमश्वायोपस्तीर्य तस्मिन्नेनमश्वं संज्ञपयन्तीति सार्थवादं सविशेषं विधानं, संज्ञप्यमानेऽश्वे "प्राणाय स्वाहा" इत्याद्यास्तिस्रः परिपशव्या आहुतीर्जुहुयादिति सार्थवादं विधानं, पत्नीनामुदानकरणसाधनभूतं मन्त्रमभिधाय तस्याभिप्रायकथनं, सर्वाः पत्न्योऽश्वं त्रिभिर्मन्त्रैस्त्रिस्त्रिरर्थान्नवकृत्वः परियन्ति पर्ययणकाले धवित्रैरेनमुपवाजयन्ति चेति सार्थवादं साभिप्रायं विधान, ततो महिष्या अश्वसमीप उपसंवेशनस्य समन्त्रकं सार्थवादं विधानं, मन्त्रतदभिप्रायसहितमश्वमहिष्योरधिवासेनाच्छादनकरणविधानं, महिष्या अश्वशिश्नस्य स्वोपस्थे करणसाधनभूतं मन्त्रमभिधाय तस्याभिप्रायकथनं चेति.


ब्राह्मण ९

९ अश्वमेधयाजिनः सकाशाच्छ्रियोऽपक्रमणस्य पुनस्तत्प्रतिसमाधानस्य चोपायनिरूपणोपक्रमकथनं, तत्राभिमेथिनीषु ऋक्षु या गूढाभिप्रायिका ऋचस्ताः पादशोऽनूद्य तासां व्याख्यानद्वारा गूढार्थप्रदर्शनम्, अश्वसमीपसुप्तां महिषीमुत्थाप्य ऋत्विजो यजमानश्चान्ततः सुरभिमतीमृचमन्वाहुरिति सार्थवादमभिधानं, तत्सहैव सुरभिमत्या ऋचः प्रतीकप्रदर्शनं चेति.


ब्राह्मण १०

१० असिपथानां लौह्यादिभिः सूचीभिः परिकल्पनस्य सार्थवादं सोपपत्तिकमभिधानं, तत्र ताम्रमय्यो रजतमय्यो हिरण्यमय्यश्चेति त्रिविधाः सूच्यो भव
न्तीति सार्थवादमभिधानं चेति.


ब्राह्मण ११

११ महिम्नोर्ग्रहयोरुत्पत्तिविधेः सेतिहासं सार्थवादमभिधानं, "वपामभिजुहोति" इति महिम्नोर्ग्रहयोर्होमावसरस्य सार्थवादं प्रदर्शनं, पुरस्तात्स्वाहाकृतय उपरिष्टात्स्वाहाकृतयश्च ये केचन देवास्तानेताभ्यां महिमग्रहाभ्यां प्रीणातीति मन्त्रलिङ्गाभ्यां महिमग्रहहोमयोः प्रयोजनप्रदर्शनं, राज्ञा वपापरियजनस्य च प्रयोजनप्रदर्शनं चेति.