शतपथब्राह्मणम्/काण्डम् १३/अध्यायः २/ब्राह्मण २

विकिस्रोतः तः
Jump to navigation Jump to search



राजा वा एष यज्ञानां यदश्वमेधः। यजमानो वा अश्वमेधः। यजमानो यज्ञः। यदश्वे पशून्नियुनक्ति यज्ञ एव तद्यज्ञमारभते। - १३.२.२.[१]

अश्वं तूपरं गोमृगमिति तान्मध्यमे यूप आलभते सेनामुखमेवास्यैतेन संश्यति तस्माद्राज्ञः सेनामुखं भीष्मं भावुकम् - १३.२.२.[२]

कृष्णग्रीवमाग्नेयं रराटे पुरस्तात् पूर्वाग्निमेव तं कुरुते तस्माद्राज्ञः पूर्वाग्निर्भावुकः - १३.२.२.[३]

सारस्वतीं मेषीमधस्ताद्धन्वोः स्त्रीरेव तदनुगाः कुरुते तस्मात्स्त्रियः पुंसोऽनुवर्त्मानो भावुकाः - १३.२.२.[४]

आश्विनावधोरामौ बाह्वोः बाह्वोरेव बलं धत्ते तस्माद्राजा बाहुबली भावुकः - १३.२.२.[५]

सौमापौष्णं श्यामं नाभ्याम् प्रतिष्ठामेव तां कुरुत इयं वै पूषाऽस्यामेवप्रतितिष्ठति - १३.२.२.[६]

सौर्ययामौ श्वेतं च कृष्णं च पार्श्वयोः कवचे एव ते कुरुते तस्माद्राजा संनद्धो वीर्यं करोति - १३.२.२.[७]

त्वाष्ट्रौ लोमशसक्थौ सक्थ्योः ऊर्वोरेव बलं धत्ते तस्माद्राजोरुबली भावुकः - १३.२.२.[८]

वायव्यं श्वेतं पुच्छे उत्सेधमेव तं कुरुते तस्मादुत्सेधं प्रजा भयेऽभिसंश्रयन्तीन्द्राय स्वपस्याय वेहतं यज्ञस्य सेन्द्रतायै वैष्णवो वामनो यज्ञो वै विष्णुर्यज्ञ एवान्ततः प्रतितिष्ठति - १३.२.२.[९]

ते वा एते पञ्चदश पर्यङ्ग्याः पशवो भवन्ति पञ्चदशो वै वज्रो वीर्यं वज्रो वज्रेणैवैतद्वीर्येण यजमानः पुरस्तात्पाप्मानमपहते - १३.२.२.[१०]

पञ्चदश पञ्चदशो एवेतरेषु पञ्चदशो वै वज्रो वीर्यं वज्रो वज्रेणवैतद्वीर्येण यजमानोऽभितः पाप्मानमपहते - १३.२.२.[११]

तदाहुः अपाहैवैतैः पाप्मानं हता इत्यकृत्स्नं च त्वै प्रजापतिं संस्करोति न चेदं सर्वमवरुन्द्धे - १३.२.२.[१२]

सप्तदशैव पशून्मध्यमे यूप आलभेत सप्तदशो वै प्रजापतिम्प्रजापतिरश्वमेधोऽश्वमेधस्यैवाप्त्यै षोडश षोडशेतरेषु षोडशकलं वा इदं सर्वं तदिदं सर्वमवरुन्द्धे - १३.२.२.[१३]

तान्कथमाप्रीणीयादित्याहुः समिद्धो अञ्जन्कृदरं मतीनामिति बार्हदुक्थीभिराप्रीणीयाद्बृहदुक्थो ह वै वामदेव्योऽश्वो वा सामुद्रिरश्वस्याप्रीर्ददर्श ता एतास्ताभिरेवैनमेतदाप्रीणीम इति वदन्तो न तथा कुर्याज्जामदग्नीभिरेवाप्रीणीयात्प्रजापतिर्वै जमदग्निः सोऽश्वमेधः स्वयैवैनं देवतया समर्धयति तस्माज्जामदग्नीभिरेवाप्रीणीयात् - १३.२.२.[१४]

तद्धैके एतेषां पर्यङ्ग्याणां नाना याज्यापुरोऽनुवाक्याः कुर्वन्ति विन्दाम एतेषामवित्त्येतरेषां न कुर्म इति न तथा कुर्यात्क्षत्रं वा अश्वो विडितरे पशवः प्रतिप्रतिनीं ह ते प्रत्युद्यामिनीं क्षत्राय विशं कुर्वन्त्यथो आयुषा यजमानं व्यर्धयन्ति ये तथा कुर्वन्ति तस्मात्प्राजापत्य एवाश्वो देवदेवत्या इतरे क्षत्रायैव तद्विशं कृतानुकरामनुवर्त्मानं करोत्यथो आयुषैव यजमानं समर्धयति - १३.२.२.[१५]

हिरण्मयोऽश्वस्य शासो भवति लोहमयाः पर्यङ्ग्याणामायसा इतरेषां ज्योतिर्वै हिरण्यं राष्ट्रमश्वमेधो ज्योतिरेव तद्राष्ट्रे दधात्यथो हिरण्यज्योतिषैव यजमानः स्वर्गं लोकमेत्यथो अनूकाशमेव तं कुरुते स्वर्गस्य लोकस्य समष्ट्यै - १३.२.२.[१६]

अथो क्षत्रं वा अश्वः क्षत्रस्यैतद्रूपं यद्धिरण्यं क्षत्रमेव तत्क्षत्रेण समर्धयति - १३.२.२.[१७]

अथ यल्लोहमयाः पर्यङ्ग्याणाम् यथा वै राज्ञो राजानो राजकृतः सूतग्रामण्य एवं वा एतेऽश्वस्य यत्पर्यङ्ग्या एवमु वा एतद्धिरण्यस्य यल्लोहं स्वेनैवैनांस्तद्रूपेण समर्धयति - १३.२.२.[१८]

अथ यदायसा इतरेषाम् विड्वा इतरे पशवो विश एतद्रूपं यदयो विशमेव तद्विशा समर्धयति वैतस इटसून उत्तरतोऽश्वस्यावद्यन्त्यानुष्टुभो वा अश्वऽआनुष्टुभैषा दिक्स्वायामेवैनं तद्दिशि दधात्यथ यद्वैतस इटसूनेऽप्सुयोनिर्वा अश्वोऽप्सुजा वेतसः स्वयैवैनं योन्या समर्धयति - १३.२.२.[१९]