शतपथब्राह्मणम्/काण्डम् १३/अध्यायः २/ब्राह्मण ४

विकिस्रोतः तः
Jump to navigation Jump to search

१३.२.४

प्रजापतिरकामयत उभौ लोकावभिजयेयं देवलोकं च मनुष्यलोकं चेति स एतान्पशूनपश्यद्ग्राम्यांश्च तानालभत तैरिमौ लोकाववारुन्द्ध ग्राम्यैरेव पशुभिरिमं लोकमवारुन्द्धारण्यैरमुमयं वै लोको मनुष्यलोकोऽथासौ देवलोको यद्ग्राम्यान्पशूनालभत इममेव तैर्लोकं यजमानोऽवरुन्द्धे यदारण्यानमुं तैः - १३.२.४.[१]

स यद्ग्राम्यैः संस्थापयेत् समध्वानः क्रामेयुः समन्तिकं ग्रामयोर्ग्रामान्तौ स्यातां नर्क्षीकाः पुरुषव्याघ्राः परिमोषिण आव्याधिन्यस्तस्करा अरण्येष्वाजायेरन्यदारण्यैर्व्यध्वानः क्रामेयुर्विदूरं ग्रामयोर्ग्रामान्तौ स्यातामृक्षीकाः पुरुषव्याघ्राः परिमोषिण आव्याधिन्यस्तस्करा अरण्येष्वाजायेरन् - १३.२.४.[२]

तदाहुः अपशुर्वा एष यदारण्यो नैतस्य होतव्यं यज्जुहुयात्क्षिप्रं यजमानमरण्यं मृतं हरेयुररण्यभागा ह्यारण्याः पशवो यन्न जुहुयाद्यज्ञवेशसं स्यादिति पर्यग्निकृतानेवोत्सृजन्ति तन्नैव हुतं नाहुतं न यजमानमरण्यं मृतं हरन्ति न यज्ञवेशसं भवति - १३.२.४.[३]

ग्राम्यैः संस्थापयति वि पितापुत्राववस्यतः समध्वानः क्रामन्ति समन्तिकं ग्रामयोर्ग्रामान्तौ भवतो नर्क्षीकाः पुरुषव्याघ्राः परिमोषिण आव्याधिन्यस्तस्करा अरण्येष्वाजायन्ते - १३.२.४.[४]